श्रीवैभवलक्ष्मी अर्चना अथवा महालक्ष्मीस्तवम्
श्रीपार्वति सरस्वति महालक्ष्मि नमोऽस्तु ते ।
विष्णुप्रिये महामाये महालक्ष्मि नमोऽस्तु ते ।
कमले विमले देवि महालक्ष्मि नमोऽस्तु ते ।
कारुण्यनिलये देवि महालक्ष्मि नमोऽस्तु ते ।
दारिद्र्यदुःखशमनि महालक्ष्मि नमोऽस्तु ते ।
श्रीदेवि नित्यकल्याणि महालक्ष्मि नमोऽस्तु ते ।
समुद्रतनये देवि महालक्ष्मि नमोऽस्तु ते ।
राजलक्ष्मि राज्यलक्ष्मि महालक्ष्मि नमोऽस्तु ते ।
वीरलक्ष्मि विश्वलक्ष्मि महालक्ष्मि नमोऽस्तु ते ।
मूकहन्त्रि मन्त्ररूपे महालक्ष्मि नमोऽस्तु ते । १०
महिषासुरसंहर्त्रि महालक्ष्मि नमोऽस्तु ते ।
मधुकैटभविद्रावे महालक्ष्मि नमोऽस्तु ते ।
शङ्खचक्रगदाहस्ते महालक्ष्मि नमोऽस्तु ते ।
वैकुण्ठहृदयावासे महालक्ष्मि नमोऽस्तु ते ।
पक्षीन्द्रवाहने देवि महालक्ष्मि नमोऽस्तु ते ।
धान्यरूपे धान्यलक्ष्मि महालक्ष्मि नमोऽस्तु ते ।
स्वर्णरूपे स्वर्णलक्ष्मि महालक्ष्मि नमोऽस्तु ते ।
वित्तरूपे वित्तलक्ष्मि महालक्ष्मि नमोऽस्तु ते ।
हरिप्रिये वेदरूपे महालक्ष्मि नमोऽस्तु ते ।
फलरूपे फलधात्रि महालक्ष्मि नमोऽस्तु ते । २०
निस्तुले निर्मले नित्ये महालक्ष्मि नमोऽस्तु ते ।
रत्नरूपे रत्नलक्ष्मि महालक्ष्मि नमोऽस्तु ते ।
क्षीररूपे क्षीरधात्रि महालक्ष्मि नमोऽस्तु ते ।
वेदरूपे नादरूपे महालक्ष्मि नमोऽस्तु ते ।
प्राणरूपे प्राणमूर्ते महालक्ष्मि नमोऽस्तु ते ।
प्रणवानन्दमहसे महालक्ष्मि नमोऽस्तु ते ।
ब्रह्मरूपे ब्रह्मधात्रि महालक्ष्मि नमोऽस्तु ते ।
जातवेदस्वरूपिण्यै महालक्ष्मि नमोऽस्तु ते ।
आधारशल्कनिलये महालक्ष्मि नमोऽस्तु ते ।
सुषुम्नासुषिरान्तस्थे महालक्ष्मि नमोऽस्तु ते । ३०
योगानन्दप्रदायिन्यै महालक्ष्मि नमोऽस्तु ते ।
सौन्दर्यरूपिणि देवि महालक्ष्मि नमोऽस्तु ते ।
सिद्धलक्ष्मि सिद्धरूपे महालक्ष्मि नमोऽस्तु ते ।
सर्वसन्तोषसद्रूपे महालक्ष्मि नमोऽस्तु ते ।
तुष्टिदे पुष्टिदे देवि महालक्ष्मि नमोऽस्तु ते ।
राजराजार्चितपदे महालक्ष्मि नमोऽस्तु ते ।
सर्वस्वरूपे दिव्याङ्गि महालक्ष्मि नमोऽस्तु ते ।
चारित्र्यदिव्यशुद्धाङ्गि महालक्ष्मि नमोऽस्तु ते ।
वेदगुह्ये शुभे देवि महालक्ष्मि नमोऽस्तु ते ।
धर्मार्थकामरूपिण्यै महालक्ष्मि नमोऽस्तु ते । ४०
मोक्षसाम्राज्यनिलये महालक्ष्मि नमोऽस्तु ते ।
सर्वगम्ये सर्वरूपे महालक्ष्मि नमोऽस्तु ते ।
मोहिनि मोहरूपिण्यै महालक्ष्मि नमोऽस्तु ते ।
पञ्चभूतान्तरालस्थे महालक्ष्मि नमोऽस्तु ते ।
नारायणप्रियतमे महालक्ष्मि नमोऽस्तु ते ।
कारणि कार्यरूपिण्यै महालक्ष्मि नमोऽस्तु ते ।
अनन्ततल्पशयने महालक्ष्मि नमोऽस्तु ते ।
लोकैकजननि वन्द्ये महालक्ष्मि नमोऽस्तु ते ।
शम्भुरूपे शम्भुमुद्रे महालक्ष्मि नमोऽस्तु ते ।
ब्रह्मरूपे ब्रह्ममुद्रे महालक्ष्मि नमोऽस्तु ते । ५०
विष्णुरूपे विष्णुमाये महालक्ष्मि नमोऽस्तु ते ।
आज्ञाचक्राब्जनिलये महालक्ष्मि नमोऽस्तु ते ।
फकार रेफ शक्त्याभे महालक्ष्मि नमोऽस्तु ते ।
हृदयाम्बुजदीपाङ्गि महालक्ष्मि नमोऽस्तु ते ।
विष्णुग्रन्थि विशालाङ्गि महालक्ष्मि नमोऽस्तु ते ।
आधारमूलनिलये महालक्ष्मि नमोऽस्तु ते ।
ब्रह्मग्रन्थि प्रकाशाङ्गि महालक्ष्मि नमोऽस्तु ते ।
कुण्डलीशयनानन्दि महालक्ष्मि नमोऽस्तु ते ।
जीवात्मारूपिणि मातः महालक्ष्मि नमोऽस्तु ते ।
स्थूलसूक्ष्मप्रकाशस्थे महालक्ष्मि नमोऽस्तु ते । ६०
ब्रह्माण्डभाण्डजननि महालक्ष्मि नमोऽस्तु ते ।
अश्वत्थवृक्षसन्तुष्टे महालक्ष्मि नमोऽस्तु ते ।
कारुण्यपूर्णे श्रीदेवि महालक्ष्मि नमोऽस्तु ते ।
मूर्तित्रयस्वरोपिण्यै महालक्ष्मि नमोऽस्तु ते ।
भानुमण्डलमध्यस्ते महालक्ष्मि नमोऽस्तु ते ।
सूर्यप्रकाशरूपिण्यै महालक्ष्मि नमोऽस्तु ते ।
चन्द्रमण्डलमध्यस्ते महालक्ष्मि नमोऽस्तु ते ।
वह्निमण्डलमध्यस्ते महालक्ष्मि नमोऽस्तु ते ।
पीताम्बरधरे देवि महालक्ष्मि नमोऽस्तु ते ।
दिव्याभरणशोभाँगे महालक्ष्मि नमोऽस्तु ते । ७०
ब्रह्मणाऽऽराधिते देवि महालक्ष्मि नमोऽस्तु ते ।
नारसिंहिकृपासिन्धो महालक्ष्मि नमोऽस्तु ते ।
वरदे मङ्गलमान्ये महालक्ष्मि नमोऽस्तु ते ।
पद्माटविनिलयने महालक्ष्मि नमोऽस्तु ते ।
व्यासादि दिव्याङ्गसम्पूज्ये महालक्ष्मि नमोऽस्तु ते ।
जयलक्ष्मि सिद्धलक्ष्मि महालक्ष्मि नमोऽस्तु ते ।
राजमुद्रे विष्णुमुद्रे महालक्ष्मि नमोऽस्तु ते ।
सर्वार्थसाधकि नित्ये महालक्ष्मि नमोऽस्तु ते ।
हनुमद्शक्तिसन्तुष्टे महालक्ष्मि नमोऽस्तु ते ।
महति गीतनादस्थे महालक्ष्मि नमोऽस्तु ते । ८०
रतिरूपे रम्यरूपे महालक्ष्मि नमोऽस्तु ते ।
कामाङ्गि काम्यजननि महालक्ष्मि नमोऽस्तु ते ।
सुधापूर्णे सुधारूपे महालक्ष्मि नमोऽस्तु ते ।
इन्द्रवन्द्ये देवलक्ष्मि महालक्ष्मि नमोऽस्तु ते ।
अष्टैश्वर्यस्वरूपिण्यै महालक्ष्मि नमोऽस्तु ते ।
धर्मराजस्वरूपिण्यै महालक्ष्मि नमोऽस्तु ते ।
रक्षोवरपुरिलक्ष्मि महालक्ष्मि नमोऽस्तु ते ।
रत्नाकरप्रभारम्ये महालक्ष्मि नमोऽस्तु ते ।
मरुत्पुरमहानन्दे महालक्ष्मि नमोऽस्तु ते ।
कुबेरलक्ष्मि मातङ्गि महालक्ष्मि नमोऽस्तु ते । ९०
ईशानलक्ष्मि सर्वेशि महालक्ष्मि नमोऽस्तु ते ।
ब्रह्मपीठे महापीठे महालक्ष्मि नमोऽस्तु ते ।
मायापीठस्थिते देवि महालक्ष्मि नमोऽस्तु ते ।
श्रीचक्रवासिनि कन्ये महालक्ष्मि नमोऽस्तु ते ।
अष्टभैरवसम्पूज्ये महालक्ष्मि नमोऽस्तु ते ।
असिथाङ्गपुरीनाथे महालक्ष्मि नमोऽस्तु ते ।
सिद्धलक्ष्मि महाविद्ये महालक्ष्मि नमोऽस्तु ते ।
बुद्धीन्द्रियादिनिलये महालक्ष्मि नमोऽस्तु ते ।
रोगदारिद्र्यशमनि महालक्ष्मि नमोऽस्तु ते ।
मृत्युसन्तापनाशिन्यै महालक्ष्मि नमोऽस्तु ते । १००
पतिप्रिये पतिव्रते महालक्ष्मि नमोऽस्तु ते ।
चतुर्भुजे कोमलाङ्गि महालक्ष्मि नमोऽस्तु ते ।
भक्ष्यरूपे भुक्तिधात्रि महालक्ष्मि नमोऽस्तु ते ।
सदाऽऽनन्दमये देवि महालक्ष्मि नमोऽस्तु ते ।
भक्तिप्रिये भक्तिगम्ये महालक्ष्मि नमोऽस्तु ते ।
स्तोत्रप्रिये रमे रामे महालक्ष्मि नमोऽस्तु ते ।
रामनामप्रिये देवि महालक्ष्मि नमोऽस्तु ते ।
गङ्गाप्रिये शुद्धरूपे महालक्ष्मि नमोऽस्तु ते ।
विश्वभर्त्रि विश्वमूर्ते महालक्ष्मि नमोऽस्तु ते ।
कृष्णप्रिये कृष्णरूपे महालक्ष्मि नमोऽस्तु ते । ११०
गीतारूपे रागमूर्ते महालक्ष्मि नमोऽस्तु ते ।
सावित्रि भूतसावित्रि महालक्ष्मि नमोऽस्तु ते ।
गायत्रि ब्रह्मगायत्रि महालक्ष्मि नमोऽस्तु ते ।
ब्राह्मि सरस्वति देवि महालक्ष्मि नमोऽस्तु ते ।
शुकपालिनि शुद्धाङ्गि महालक्ष्मि नमोऽस्तु ते ।
वीणाधरस्तोत्रगम्ये महालक्ष्मि नमोऽस्तु ते ।
आज्ञाकारि प्राज्ञवन्द्ये महालक्ष्मि नमोऽस्तु ते ।
वेदाङ्गवनसाराङ्गि महालक्ष्मि नमोऽस्तु ते ।
नादान्तरासभूयिष्ठे महालक्ष्मि नमोऽस्तु ते ।
दिव्यशक्ति महाशक्ति महालक्ष्मि नमोऽस्तु ते । १२०
नृत्तप्रिये नृत्तलक्ष्मि महालक्ष्मि नमोऽस्तु ते ।
चतुष्षष्ठिकलारूपे महालक्ष्मि नमोऽस्तु ते ।
सर्वमङ्गलसम्पूर्णे महालक्ष्मि नमोऽस्तु ते ।
दिव्यगन्धाङ्गरागाङ्गि महालक्ष्मि नमोऽस्तु ते ।
मुक्तिदे मुक्तिदेहस्थे महालक्ष्मि नमोऽस्तु ते ।
यज्ञसारार्थशुद्धाङ्गि महालक्ष्मि नमोऽस्तु ते । १२६
इति वैभवलक्ष्मी अर्चना समाप्ता ।
Proofread by PSA Easwaran