श्रीवज्रपञ्जरकाख्यं श्रीकालिकाकवचम्
ॐ श्रीगणेशाय नमः ।
श्रीदेव्युवाच -
अधुना देवदेवेश कवचं वज्रपञ्जरम् ।
काल्याः कृपाकटाक्षोर्मि किमीरितदृशोद्भवम् ॥ १॥
श्रीईश्वर उवाच -
शृणु देवि प्रवक्ष्यामि तवाग्रे कवचोत्तमम् ।
यस्मिन्कृते भवति श्रीकालीतनयो नरः ॥ २॥
विनामुना न सिद्धः स्याद्दक्षिणा दक्षिणानना ।
अतः कवचिना भाव्यं साधकेन्द्रेण सिद्धये ॥ ३॥
ऋषिरस्य स्मृतः शम्भुच्छन्दः प्राकृतिरुत्तमम् ।
देवता दक्षिणां ध्यात्वा कलीं प्रत्यक्षरं न्यसेत् ॥ ४॥
अम्भोदश्यामलाङ्गीमतिविकटदतीं लोलजिह्वां जटालां
मुण्डं वामे दधानां करकमलतले दक्षिणे चन्द्रहासम् ।
सृक्कि द्वन्द्वसुधाधरमुखकमलां प्रेतदो वल्लिकाञ्चीं
मार्द्वीकोन्मत्तनेत्रां शवस्पदयगतां नौमि कालीं सकालाम् ॥ ५॥ (शिवहृदयगतां ?)
क्रीं बीजं मूर्ध्नि गण्डद्वितयमनु पुनस्तद्द्वयं ह्रूं द्वयं यः
नेत्रद्वन्द्वे च लज्जायुगलमपि पुनः कर्णयोर्विन्यसेच्च ।
नासाद्वन्द्वे च रक्षेद्रदनरसनयोः कालिकादन्तपङ्क्तौ
लिङ्गे भूस्यद्गुदे च त्रितयमपि पुनर्बीजमाद्यं न्यसेच्च ॥ ६॥
बाहुद्वन्द्वे च ह्रं ह्रं चरणयुगलके शक्तिबीजद्वयं च
स्वाहा सर्वत्र देहे विषदतरमतिर्विन्यसेद्व्यापके च ।
एवं न्यासं विधाय त्रिभुवनवलयाख्यातकीर्तिः कवीन्द्रो
वज्राङ्गो जीवलोके जयति वहुधनः साधकः सिद्धमन्त्रः ॥ ७॥
क्रीं क्रीं क्रीं देवि हूं हूं (ह्रं ह्रं ?) कह कह कह हे देवी ह्रं ह्रं ह हां हा
दं दं दं दक्षिणे त्वां क क क क कलिते कालिके कालपत्नि ।
क्रीं क्रीं क्रीं योनि ह्रं ह्रं ह ह ह सहिते कालि ह्रीं ह्रीं हरेशे
स्वाहे स्वाहेशनेत्रे भ भ भ भ भवती भूतयो वो भवन्तु ॥ ८॥
भूतप्रेतपिशाचपन्नगपरप्रत्यर्थिसेनाभये
रण्ये रण्यतरक्षु भीषु च तथा चान्यासु भीषु स्फुटम् ।
स्मृत्वैवं मनुमुत्तमं गतभयो जायेत वीरोत्तमो
वीरं चापि च साधयेदनु मनुं स्वान्ते दधत्साधकः ॥ ९॥
इति श्रीवज्रपञ्जरकाख्यं श्रीकालिकाकवचं सम्पूर्णम् ।