श्रीवल्लीसहस्रनामस्तोत्रम्
(स्कान्दे शङ्करसंहितातः)
ब्रह्मोवाच -
शृणु नारद मद्वत्स वल्लीनाम्नां सहस्रकम् ।
स्कन्दक्रीडाविनोदादिबोधकं परमाद्भुतम् ॥ १॥
मुनिरस्म्यहमेवास्य छन्दोऽनुष्टुप् प्रकीर्तितम् ।
वल्लीदेवी देवता स्यात् व्रां व्रीं व्रूं बीजशक्त्यपि ॥ २॥
कीलकं च तथा न्यस्य व्रां इत्याद्यैः षडङ्गकम् ।
ॐ अस्य श्री वल्लीसहस्रनाम स्तोत्र मन्त्रस्य भगवान् श्रीब्रह्मा ऋषिः ।
अनुष्टुप् छन्दः । श्रीवल्लीदेवी देवता । व्रां बीजम् । व्रीं शक्तिः ।
व्रूं कीलकम् । श्रीस्कन्दपतिव्रता भगवती श्रीवल्लीदेवी
प्रीत्यर्थं सहस्रनामजपे विनियोगः ॥
॥ अथ करन्यासः ॥
व्रां अङ्गुष्ठाभ्यां नमः ।
व्रीं तर्जनीभ्यां नमः ।
व्रूं मध्यमाभ्यां नमः ।
व्रैं अनामिकाभ्यां नमः ।
व्रौं कनिष्ठाभ्यां नमः ।
व्रः करतलकरपुष्ठाभ्यां नमः ॥
॥ इति करन्यासः ॥
॥ अथ हृदयादिषडङ्ग न्यासः ॥
व्रां हृदयाय नमः ।
व्रीं शिरसे स्वाहा ।
व्रूं शिखायै वषट् ।
व्रैं कवचाय हुम् ।
व्रौं नेत्रत्रयाय वौषट् ।
व्रः अस्त्राय फट् ॥
॥ इति हृदयादिषडङ्ग न्यासः ॥
ततः सञ्चिन्तयेद्देवीं वल्लीं स्कन्दपतिव्रताम् ॥ ३॥
श्यामां श्यामालकान्तां द्रुतकनकमणि प्रस्फुरद्दिव्यभूषां
गुञ्जामालाभिरामां शिवमुनितनयां काननेन्द्राभिमान्याम् ।
वामे हस्ते च पद्मं तदितरकरवरं लम्बितं सन्दधानां
संस्थां सेनानिदक्षे समुदमपि महावल्लिदेवीं भजेऽहम् ॥ ४॥
इत्येवं चिन्तयित्वाऽम्बां मनसाऽभ्यर्चं सादरम् ।
पठेन्नामसहस्रं तत् श्रूयतां स्तोत्रमुत्तमम् ॥ ५॥
ॐ वल्ली वल्लीश्वरी वल्लीबह्वा वल्लीनिभाकृतिः ।
वैकुण्ठाक्षिसमुद्भूता विष्णुसंवर्धिता वरा ॥ ६॥
वारिजाक्षा वारिजास्या वामा वामेतराश्रिता ।
वन्या वनभवा वन्द्या वनजा वनजासना ॥ ७॥
वनवासप्रिया वादविमुखा वीरवन्दिता ।
वामाङ्गा वामनयना वलयादिविभूषणा ॥ ८॥
वनराजसुता वीरा वीणावादविदूषिणी ।
वीणाधरा वैणिकर्षिश्रुतस्कन्दकथा वधूः ॥ ९॥
शिवङ्करी शिवमुनितनया हरिणोद्भवा ।
हरीन्द्रविनुता हानिहीना हरिणलोचना ॥ १०॥
हरिणाङ्कमुखी हारधरा हरजकामिनी ।
हरस्नुषा हराधिक्यवादिनी हानिवर्जिता ॥ ११॥
इष्टदा चेभसम्भीता चेभवक्त्रान्तकप्रिया ।
इन्द्रेश्वरी चेन्द्रनुता चेन्दिरातनयार्चिता ॥ १२॥
इन्द्रादिमोहिनी चेष्टा चेभेन्द्रमुखदेवरा ।
सर्वार्थदात्री सर्वेशी सर्वलोकाभिवन्दिता ॥ १३॥
सद्गुणा सकला साध्वी स्वाधीनपतिरव्यया ।
स्वयंवृतपतिः स्वस्था सुखदा सुखदायिनी ॥ १४॥
सुब्रह्मण्यसखी सुभ्रूः सुब्रह्मण्यमनस्विनी ।
सुब्रह्मण्याङ्कनिलया सुब्रह्मण्यविहारिणी ॥ १५॥
सुरीद्गीता सुरानन्दा सुधासारा सुधाप्रिया ।
सौधस्था सौम्यवदना स्वामिनी स्वामिकामिनी ॥ १६॥
स्वाम्यद्रिनिलया स्वाम्यहीना सामपरायणा ।
सामवेदप्रिया सारा सारस्था सारवादिनी ॥ १७॥
सरला सङ्घविमुखा सङ्गीतालापनोत्सुका ।
साररूपा सती सौम्या सोमजा सुमनोहरा ॥ १८॥
सुष्ठुप्रयुक्ता सुष्ठूक्तिः सुष्ठुवेषा सुरारिहा ।
सौदामिनीनिभा सुरपुरन्ध्र्युद्गीतवैभवा ॥ १९॥
सम्पत्करी सदातुष्टा साधुकृत्या सनातना ।
प्रियङ्गुपालिनी प्रीता प्रियङ्गु मुदितान्तरा ॥ २०॥
प्रियङ्गुदीपसम्प्रीता प्रियङ्गुकलिकाधरा ।
प्रियङ्गुवनमध्यस्था प्रियङ्गुगुडभक्षिणी ॥ २१॥
प्रियङ्गुवनसन्दृष्टगुहा प्रच्छन्नगामिनी ।
प्रेयसी प्रेय आश्लिष्टा प्रयसीज्ञातसत्कृतिः ॥ २२॥
प्रेयस्युक्तगुहोदन्ता प्रेयस्या वनगामिनी ।
प्रेयोविमोहिनी प्रेयःकृतपुष्पेषुविग्रहा ॥ २३॥
पीताम्बर प्रियसुता पीताम्बरधरा प्रिया ।
पुष्पिणी पुष्पसुषमा पुष्पिता पुष्पगन्धिनी ॥ २४॥
पुलिन्दिनी पुलिन्देष्टा पुलिन्दाधिपवर्धिता ।
पुलिन्दविद्याकुशला पुलिन्दजनसंवृता ॥ २५॥
पुलिन्दजाता वनिता पुलिन्दकुलदेवता ।
पुरुहूतनुता पुण्या पुण्यलभ्याऽपुरातना ॥ २६॥
पूज्या पूर्णकलाऽपूर्वा पौर्णमीयजनप्रिया ।
बाला बाललता बाहुयुगला बाहुपङ्कजा ॥ २७॥
बला बलवती बिल्वप्रिया बिल्वदलार्चिता ।
बाहुलेयप्रिया बिम्ब फलोष्ठा बिरुदोन्नता ॥ २८॥
बिलोत्तारित वीरेन्द्रा बलाढ्या बालदोषहा ।
लवलीकुञ्जसम्भूता लवलीगिरिसंस्थिता ॥ २९॥
लावण्यविग्रहा लीला सुन्दरी ललिता लता ।
लतोद्भवा लतानन्दा लताकारा लतातनुः ॥ ३०॥
लताक्रीडा लतोत्साहा लताडोलाविहारिणी ।
लालिता लालितगुहा ललना ललनाप्रिया ॥ ३१॥
लुब्धपुत्री लुब्धवंश्या लुब्धवेषा लतानिभा ।
लाकिनी लोकसम्पूज्या लोकत्रयविनोदिनी ॥ ३२॥
लोभहीना लाभकर्त्री लाक्षारक्तपदाम्बुजा ।
लम्बवामेतरकरा लब्धाम्भोजकरेतरा ॥ ३३ ।
मृगी मृगसुता मृग्या मृगयासक्तमानसा ।
मृगाक्षी मार्गितगुहा मार्गक्रीडितवल्लभा ॥ ३४॥
सरलद्रुकृतावासा सरलायितषण्मुखा ।
सरोविहाररसिका सरस्तीरेभभीमरा ॥ ३५॥
सरसीरुहसङ्काशा समाना समनागता ॥
शबरी शबरीराध्या शबरेन्द्रविवर्धिता ॥ ३६॥
शम्बारारातिसहजा शाम्बरी शाम्बरीमया ।
शक्तिः शक्तिकरी शक्तितनयेष्टा शरासना ॥ ३७॥
शरोद्भवप्रिया शिञ्जन्मणिभूषा शिवस्नुषा ।
सनिर्बन्धसखीपृष्टरहः केलिनतानना ॥ ३८ ।
दन्तक्षतोहितस्कन्दलीला चैव स्मरानुजा ।
स्मराराध्या स्मरारातिस्नुषा स्मरसतीडिता ॥ ३९॥
सुदती सुमतिः स्वर्णा स्वर्णाभा स्वर्णदीप्रिया ।
विनायकानुजसखी चानायकपितामहा ॥ ४०॥
प्रियमातामहाद्रीशा पितृस्वस्रेयकामिनी ।
प्रियमातुलमैनाका सपत्नीजननीधरा ॥ ४१॥
सपत्नीन्द्रसुता देवराजसोदरसम्भवा ।
विवधानेकभृद्भक्त सङ्घसंस्तुतवैभवा ॥ ४२॥
विश्वेश्वरी विश्ववन्द्या विरिञ्चिमुखसन्नुता ।
वातप्रमीभवा वायुविनुता वायुसारथिः ॥ ४३॥
वाजिवाहा वज्रभूषा वज्राद्यायुधमण्डिता ।
विनता विनतापूज्या विनतानन्दनेडिता ॥ ४४॥
वीरासनगता वीतिहोत्राभा वीरसेविता ।
विशेषशोभा वैश्येष्टा वैवस्वतभयङ्करी ॥ ४५॥
कामेशी कामिनी काम्या कमला कमलाप्रिया ।
कमलाक्षाक्षिसम्भूता कुमौदा कुमुदोद्भवा ॥ ४६॥
कुरङ्गनेत्रा कुमुदवल्ली कुङ्कुमशोभिता ।
गुञ्जाहारधरा गुञ्जामणिभूषा कुमारगा ॥ ४७॥
कुमारपत्नी कौमारीरूपिणी कुक्कुटध्वजा ।
कुक्कुटारावमुदिता कुक्कुटध्वजमेदुरा ॥ ४८॥
कुक्कुटाजिप्रिया केलिकरा कैलासवासिनी ।
कैलासवासितनयकलत्रं केशवात्मजा ॥ ४९॥
किराततनया कीर्तिदायिनी कीरवादिनी ।
किरातकी किरातेड्या किराताधिपवन्दिता ॥ ५०॥
कीलकीलितभक्तेड्या कलिहीना कलीश्वरी ।
कार्तस्वरसमच्छाया कार्तवीर्यसुपूजिता ॥ ५१॥
काकपक्षधरा केकिवाहा केकिविहारिणी ।
कृकवाकुपताकाढ्या कृकवाकुधरा कृशा ॥ ५२॥
कृशाङ्गी कृष्णसहजपूजिता कृष्ण वन्दिता ।
कल्याणाद्रिकृतावासा कल्याणायातषण्मुखा ॥ ५३॥
कल्याणी कन्यका कन्या कमनीया कलावती ।
कारुण्यविग्रहा कान्ता कान्तक्रीडारतोत्सवा ॥ ५४॥
कावेरीतीरगा कार्तस्वराभा कामितार्थदा ।
विवधासहमानास्या विवधोत्साहितानना ॥ ५५॥
वीरावेशकरी वीर्या वीर्यदा वीर्यवर्धिनी ॥
वीरभद्रा वीरनवशतसाहस्रसेविता ॥ ५६॥
विशाखकामिनी विद्याधरा विद्याधरार्चिता ।
शूर्पकारातिसहजा शूर्पकर्णानुजाङ्गना ॥ ५७॥
शूर्पहोत्री शूर्पणखासहोदरकुलान्तका ।
शुण्डालभीता शुण्डालमस्तकाभस्तनद्वया ॥ ५८॥
शुण्डासमोरुयुगला शुद्धा शुभ्रा शुचिस्मिता ।
श्रुता श्रुतप्रियालापा श्रुतिगीता शिखिप्रिया ॥ ५९॥
शिखिध्वजा शिखिगता शिखिनृत्तप्रिया शिवा ।
शिवलिङ्गार्चनपरा शिवलास्येक्षणोत्सुका ॥ ६०॥
शिवाकारान्तरा शिष्टा शिवादेशानुचारिणी ।
शिवस्थानगता शिष्यशिवकामा शिवाद्वया ॥ ६१॥
शिवतापससम्भूता शिवतत्त्वावबोधिका ।
शृङ्गाररससर्वस्वा शृङ्गाररसवारिधिः ॥ ६२॥
शृङ्गारयोनिसहजा शृङ्गबेरपुराश्रिता ।
श्रिताभीष्टप्रदा श्रीड्या श्रीजा श्रीमन्त्रवादिनी ॥ ६३॥
श्रीविद्या श्रीपरा श्रीशा श्रीमयी श्रीगिरिस्थिता ।
शोणाधरा शोभनाङ्गी शोभना शोभनप्रदा ॥ ६४॥
शेषहीना शेषपूज्या शेषतल्पसमुद्भवा ।
शूरसेना शूरपद्मकुलधूमपताकिका ॥ ६५॥
शून्यापाया शून्यकटिः शून्यसिंहासनस्थिता ।
शून्यलिङ्गा शून्य शून्या शौरिजा शौर्यवर्धिनी ॥ ६६॥
शरानेकस्यूतकायभक्तसङ्घाश्रितालया ।
शश्वद्वैवधिकस्तुत्या शरण्या शरणप्रदा ॥ ६७॥
अरिगण्डादिभयकृद्यन्त्रोद्वाहिजनार्चिता ।
कालकण्ठस्नुषा कालकेशा कालभयङ्करी ॥ ६८॥
अजावाहा चाजामित्रा चाजासुरहरा ह्यजा ।
अजामुखीसुतारातिपूजिता चाजराऽमरा ॥ ६९॥
आजानपावनाऽद्वैता आसमुद्रक्षितीश्वरी ।
आसेतुहिमशैलार्च्या आकुञ्चित शिरोरुहा ॥ ७०॥
आहाररसिका चाद्या आश्चर्यनिलया तथा ।
आधारा च तथाऽऽधेया तथाचाधेयवर्जिता ॥ ७१॥
आनुपूर्वीक्लृप्तरथा चाशापालसुपूजिता ।
उमास्नुषा उमासूनुप्रिया चोत्सवमोदिता ॥ ७२॥
ऊर्ध्वगा ऋद्धिदा ऋद्धा औषधीशातिशायिनी ।
औपम्यहीना चौत्सुक्यकरी चौदार्यशालिनी ॥ ७३॥
श्रीचक्रवालातपत्रा श्रीवत्साङ्कितभूषणा ।
श्रीकान्तभागिनेयेष्टा श्रीमुखाब्दाधिदेवता ॥ ७४॥
इयं नारी वरनुता पीनोन्नतकुचद्वया ।
श्यामा यौवनमध्यस्था का जाता सा गृहादृता ॥ ७५॥
एषा सम्मोहिनी देवी प्रियलक्ष्या वराश्रिता ।
कामाऽनुभुक्ता मृगयासक्ताऽऽवेद्या गुहाश्रिता ॥ ७६॥
पुलिन्दवनितानीता रहः कान्तानुसारिणी ।
निशा चाक्रीडिताऽऽबोध्या निर्निद्रा पुरुषायिता ॥ ७७॥
स्वयंवृता सुदृक् सूक्ष्मा सुब्रह्मण्यमनोहरा ।
परिपूर्णाचलारूढा शबरानुमताऽनघा ॥ ७८॥
चन्द्रकान्ता चन्द्रमुखी चन्दनागरुचर्चिता ।
चाटुप्रियोक्तिमुदिता श्रेयोदात्री विचिन्तिता ॥ ७९॥
मूर्धास्फाटिपुराधीशा मूर्धारूढपदाम्बुजा ।
मुक्तिदा मुदिता मुग्धा मुहुर्ध्येया मनोन्मनी ॥ ८०॥
चित्रितात्मप्रियाकारा चिदम्बरविहारिणी ।
चतुर्वेदस्वरारावा चिन्तनीया चिरन्तनी ॥ ८१॥
कार्तिकेयप्रिया कामसहजा कामिनीवृता ।
काञ्चनाद्रिस्थिता कान्तिमती साधुविचिन्तिता ॥ ८२॥
नारायणसमुद्भूता नागरत्नविभूषणा ।
नारदोक्तप्रियोदन्ता नम्या कल्याणदायिनी ॥ ८३॥
नारदाभीष्टजननी नाकलोकनिवासिनी ।
नित्यानन्दा निरतिशया नामसाहस्रपूजिता ॥ ८४॥
पितामहेष्टदा पीता पीताम्बरसमुद्भवा ।
पीताम्बरोज्ज्वला पीननितम्बा प्रार्थिता परा ॥ ८५॥
गण्या गणेश्वरी गम्या गहनस्था गजप्रिया ।
गजारूढा गजगतिः गजाननविनोदिनी ॥ ८६॥
अगजाननपद्मार्का गजाननसुधाकरा ।
गन्धर्ववन्द्या गन्धर्वतन्त्रा गन्धविनोदिनी ॥ ८७॥
गान्धर्वोद्वाहिता गीता गायत्री गानतत्परा ।
गतिर्गहनसम्भूता गाढाश्लिष्टशिवात्मजा ॥ ८८॥
गूढा गूढचरा गुह्या गुह्यकेष्टा गुहाश्रिता ।
गुरुप्रिया गुरुस्तुत्य गुण्या गुणिगणाश्रिता ॥ ८९॥
गुणगण्या गूढरतिः गीर्गीर्विनुतवैभवा ।
गीर्वाणी गीतमहिमा गीर्वाणेश्वरसन्नुता ॥ ९०॥
गीर्वाणाद्रिकृतावासा गजवल्ली गजाश्रिता ।
गाङ्गेयवनिता गङ्गासूनुकान्ता गिरीश्वरी ॥ ९१॥
देवसेनासपत्नी या देवेन्द्रानुजसम्भवा ।
देवरेभभयाविष्टा सरस्तीरलुठद्गतिः ॥ ९२॥
वृद्धवेषगुहाक्लिष्टा भीता सर्वाङ्गसुन्दरी ।
निशासमानकबरी निशाकरसमानना ॥ ९३॥
निर्निद्रिताक्षिकमला निष्ठ्यूतारुणभाधरा ।
शिवाचार्यसती शीता शीतला शीतलेक्षणा ॥ ९४॥
किमेतदिति साशङ्कभटा धम्मिल्लमार्गिता ।
धम्मिल्लसुन्दरी धर्त्री धात्री धातृविमोचिनी ॥ ९५॥
धनदा धनदप्रीता धनेशी धनदेश्वरी ।
धन्या ध्यानपरा धारा धराधारा धराधरा ॥ ९६॥
धरा धराधरोद्भूता धीरा धीरसमर्चिता ।
किं करोषीति सम्पृष्टगुहा साकूतभाषिणी ॥ ९७॥
रहो भवतु तद्भूयात् शमित्युक्तप्रिया स्मिता ।
कुमारज्ञात काठिन्यकुचाऽर्धोरुलसत्कटी ॥ ९८॥
कञ्चुकी कञ्चुकाच्छन्ना काञ्चीपट्टपरिष्कृता ।
व्यत्यस्तकच्छा विन्यस्तदक्षिणांसांशुकाऽतुला ॥ ९९॥
बन्धोत्सुकितकान्तान्ता पुरुषायितकौतुका ।
पूता पूतवती पृष्टा पूतनारिसमर्चिता ॥ १००॥
कण्टकोपानहोन्नृत्यद्भक्ता दण्डाट्टहासिनी ।
आकाशनिलया चाकाशा आकाशायितमध्यमा ॥ १०१॥
आलोललोलाऽऽलोला चालोलोत्सारिताण्डजा ।
रम्भोरुयुगला रम्भापूजिता रतिरञ्जनी ॥ १०२॥
आरम्भवादविमुखा चेलाक्षेपप्रियासहा ।
अन्यासङ्गप्रियोद्विग्ना अभिरामा ह्यनुत्तमा ॥ १०३॥
सत्वरा त्वरिता तुर्या तारिणी तुरगासना ।
हंसारूढा व्याघ्रगता सिंहारूढाऽऽरुणाधरा ॥ १०४॥
कृत्तिकाव्रतसम्प्रीता कार्तिकेयविमोहिनी ।
करण्डमकुटा कामदोग्ध्री कल्पद्रुसंस्थिता ॥ १०५॥
वार्ताव्यङ्ग्यविनोदेष्टा वञ्चिता वञ्चनप्रिया ।
स्वाभादीप्तगुहा स्वाभाबिम्बितेष्टा स्वयङ्ग्रहा ॥ १०६॥
मूर्धाभिषिक्तवनिता मरालगतिरीश्वरी ।
मानिनी मानिता मानहीना मातामहेडिता ॥ १०७॥
मिताक्षरी मिताहारा मितवादाऽमितप्रभा ।
मीनाक्षी मुग्धहसना मुग्धा मूर्तिमती मतिः ॥ १०८॥
माता मातृसखानन्दा मारविद्याऽमृताक्षरा ।
अपञ्चीकृतभूतेशी पञ्चीकृत वसुन्धरा ॥ १०९॥
विफलीकृतकल्पद्रुरफलीकृतदानवा ।
अनादिषट्कविपुला चादिषट्काङ्गमालिनी ॥ ११० ।
नवकक्षायितभटा नववीरसमर्चिता ।
रासक्रीडाप्रिया राधाविनुता राधेयवन्दिता ॥ १११॥
राजचक्रधरा राज्ञी राजीवाक्षसुता रमा ।
रामा रामादृता रम्या रामानन्दा मनोरमा ॥ ११२॥
रहस्यज्ञा रहोध्येया रङ्गस्था रेणुकाप्रिया ।
रैणुकेयनुता रेवाविहारा रोगनाशिनी ॥ ११३॥
विटङ्का विगताटङ्का विटपायितषण्मुखा ।
वीटिप्रिया वीरुड्ध्वजा वीरुट्प्रीतमृगावृता ॥ ११४॥
वीशारूढा वीशरत्नप्रभाऽविदितवैभवा ।
चित्रा चित्ररथा चित्रसेना चित्रितविग्रहा ॥ ११५॥
चित्रसेननुता चित्रवसना चित्रिता चितिः ।
चित्रगुप्तार्चिता चाटुवचना चारुभूषणा ॥ ११६॥
चमत्कृतिश्चमत्कारभ्रमितेष्टा चलत्कचा ।
छायापतङ्गबिम्बास्या छविनिर्जितभास्करा ॥ ११७॥
छत्रध्वजादिबिरुदा छात्रहीना छवीश्वरी ।
जननी जनकानन्दा जाह्नवीतनयप्रिया ॥ ११८॥
जाह्नवीतीरगा जानपदस्थाऽजनिमारणा ।
जम्भभेदिसुतानन्दा जम्भारिविनुता जया ॥ ११९ ।
जयावहा जयकरी जयशीला जयप्रदा ।
जिनहन्त्री जैनहन्त्री जैमिनीयप्रकीर्तिता ॥ १२०॥
ज्वरघ्नी ज्वलिता ज्वालामाला जाज्वल्यभूषणा ।
ज्वालामुखी ज्वलत्केशा ज्वलद्वल्लीसमुद्भवा ॥ १२१॥
ज्वलत्कुण्डान्तावतरद्भक्ता ज्वलनभाजना ।
ज्वलनोद्धूपितामोदा ज्वलद्दीप्तधरावृता ॥ १२२॥
जाज्वल्यमाना जयिनी जितामित्रा जितप्रिया ।
चिन्तामणीश्वरी छिन्नमस्ता छेदितदानवा ॥ १२३॥
खड्गधारोन्नटद्दासा खड्गरावणपूजिता ।
खड्गसिद्धिप्रदा खेटहस्ता खेटविहारिणी ॥ १२४॥
खट्वाङ्गधरजप्रीता खादिरासन संस्थिता ।
खादिनी खादितारातिः खनीशी खनिदायिनी ॥ १२५॥
अङ्कोलितान्तरगुहा अङ्कुरदन्तपङ्क्तिका ।
न्यङ्कूदरसमुद्भूताऽभङ्गुरापाङ्गवीक्षणा ॥ १२६॥
पितृस्वामिसखी पतिवरारूढा पतिव्रता ।
प्रकाशिता पराद्रिस्था जयन्तीपुरपालिनी ॥ १२७॥
फलाद्रिस्था फलप्रीता पाण्ड्यभूपालवन्दिता ।
अफला सफला फालदृक्कुमारतपःफला ॥ १२८॥
कुमारकोष्ठगा कुन्तशक्तिचिह्नधरावृता ।
स्मरबाणायितालोका स्मरविद्योहिताकृतिः ॥ १२९॥
कालमेघायितकचा कामसौभाग्य वारिधिः ।
कान्तालकान्ता कामेड्या करकोन्नर्तन प्रिया ॥ १३०॥
पौनः पुन्यप्रियालाया पम्पावाद्यप्रियाधिका ।
रमणीया स्मरणीया भजनीया परात्परा ॥ १३१॥
नीलवाजिगता नीलखड्गा नीलांशुकाऽनिला ।
रात्रिर्निद्रा भगवती निद्राकर्त्री विभावरी ॥ १३२॥
शुकायमानकायोक्तिः किंशुकाभाधराम्बरा ।
शुकमानितचिद्रूपा संशुकान्तप्रसाधिनी ॥ १३३॥
गूढोक्ता गूढगदिता गुहसङ्केतिताऽगगा ।
धैर्या धैर्यवती धात्रीप्रेषिताऽवाप्तकामना ॥ १३४॥
सन्दृष्टा कुक्कुटारावध्वस्तधम्मिल्लजीविनी ।
भद्रा भद्रप्रदा भक्तवत्सला भद्रदायिनी ॥ १३५॥
भानुकोटिप्रतीकाशा चन्द्रकोटिसुशीतला ।
ज्वलनान्तःस्थिता भक्तविनुता भास्करेडिता ॥ १३६॥
अभङ्गुरा भारहीना भारती भारतीडिता ।
भरतेड्या भारतेशी भुवनेशी भयापहा ॥ १३७॥
भैरवी भैरवीसेव्या भोक्त्री भोगीन्द्रसेविता ।
भोगेडिता भोगकरी भेरुण्डा भगमालिनी ॥ १३८॥
भगाराध्या भागवतप्रगीताऽभेदवादिनी ।
अन्याऽनन्या निजानन्या स्वानन्याऽनन्यकामिनी ॥ १३९॥
यज्ञेश्वरी यागशीला यज्ञोद्गीतगुहानुगा ।
सुब्रह्मण्यगानरता सुब्रह्मण्यसुखास्पदा ॥ १४०॥
कुम्भजेड्या कुतुकिता कौसुम्भाम्बरमण्डिता ।
संस्कृता संस्कृतारावा सर्वावयवसुन्दरी ॥ १४१॥
भूतेशी भूतिदा भूतिः भूतावेशनिवारिणी ।
भूषणायितभूताण्डा भूचक्रा भूधराश्रिता ॥ १४२॥
भूलोकदेवता भूमा भूमिदा भूमिकन्यका ।
भूसुरेड्या भूसुरारिविमुखा भानुबिम्बगा ॥ १४३॥
पुरातनाऽभूतपूर्वाऽविजातीयाऽधुनातना ।
अपरा स्वगताभेदा सजातीयविभेदिनी ॥ १४४॥
अनन्तराऽरविन्दाभा हृद्या हृदयसंस्थिता ।
ह्रीमती हृदयासक्ता हृष्टा हृन्मोहभास्करा ॥ १४५॥
हारिणी हरिणी हारा हारायितविलासिनी ।
हरारावप्रमुदिता हीरदा हीरभूषणा ॥ १४६॥
हीरभृद्विनुता हेमा हेमाचलनिवासिनी ।
होमप्रिया हौत्रपरा हुङ्कारा हुम्फडुज्ज्वला ॥ १४७॥
हुताशनेडिता हेलामुदिता हेमभूषणा ।
ज्ञानेश्वरी ज्ञाततत्त्वा ज्ञेया ज्ञेयविवर्जिता ॥ १४८॥
ज्ञानं ज्ञानाकृतिर्ज्ञानिविनुता ज्ञातिवर्जिता ।
ज्ञाताखिला ज्ञानदात्री ज्ञाताज्ञातविवर्जिता ॥ १४९॥
ज्ञेयानन्या ज्ञेयगुहा विज्ञेयाऽज्ञेयवर्जिता ।
आज्ञाकरी पराज्ञाता प्राज्ञा प्रज्ञावशेषिता ॥ १५०॥
स्वाज्ञाधीनामराऽनुज्ञाकाङ्क्षोन्नृत्यत्सुराङ्गना ।
सगजा अगजानन्दा सगुहा अगुहान्तरा ॥ १५१॥
साधारा च निराधारा भूधरस्थाऽतिभूधरा ।
सगुणा चागुणाकारा निर्गुणा च गुणाधिका ॥ १५२॥
अशेषा चाविशेषेड्या शुभदा चाशुभापहा ।
अतर्क्या व्याकृता न्यायकोविदा तत्त्वबोधिनी ॥ १५३॥
साङ्ख्योक्ता कपिलानन्दा वैशेषिकविनिश्चिता ।
पुराणप्रथिताऽपारकरुणा वाक्प्रदायिनी ॥ १५४॥
सङ्ख्याविहीनाऽसङ्ख्येया सुस्मृता विस्मृतापहा ।
वीरबाहुनुता वीरकेसरीडितवैभवा ॥ १५५॥
वीरमाहेन्द्रविनुता वीरमाहेश्वरार्चिता ।
वीरराक्षससम्पूज्या वीरमार्तण्डवन्दिता ॥ १५६॥
वीरान्तकस्तुता वीरपुरन्दरसमर्चिता ।
वीरधीरार्चितपदा नववीरसमाश्रिता ॥ १५७॥
भैरवाष्टकसंसेव्या ब्रह्माद्यष्टकसेविता ।
इन्द्राद्यष्टकसम्पूज्या वज्राद्यायुधशोभिता ॥ १५८॥
अङ्गावरणसंयुक्ता चानङ्गामृतवर्षिणी ।
तमोहन्त्री तपोलभ्या तमालरुचिराऽबला ॥ १५९॥
सानन्दा सहजानन्दा गुहानन्दविवर्धिनी ।
परानन्दा शिवानन्दा सच्चिदानन्दरूपिणी ॥ १६०॥
पुत्रदा वसुदा सौख्यदात्री सर्वार्थदायिनी ।
योगारूढा योगिवन्द्या योगदा गुहयोगिनी ॥ १६१॥
प्रमदा प्रमदाकारा प्रमादात्री प्रमामयी ।
भ्रमापहा भ्रामयित्री प्रधाना प्रबला प्रमा ॥ १६२॥
प्रशान्ता प्रमितानन्दा परमानन्दनिर्भरा ।
पारावारा परोत्कर्षा पार्वतीतनयप्रिया ॥ १६३॥
प्रसाधिता प्रसन्नास्या प्राणायामपरार्चिता ।
पूजिता साधुविनुता सुरसास्वादिता सुधा ॥ १६४॥
स्वामिनी स्वामिवनिता समनीस्था समानिता ।
सर्वसम्मोहिनी विश्वजननी शक्तिरूपिणी ॥ १६५॥
कुमारदक्षिणोत्सङ्गवासिनी भोगमोक्षदा ॥ ॐ ।
एवं नामसहस्रं ते प्रोक्तं नारद शोभनम् ॥ १६६॥
सुब्रह्मण्यस्य कान्ताया वल्लीदेव्याः प्रियङ्करम् ।
नित्यं सङ्कीर्तयेदेतत्सर्वान्कामानवाप्नुयात् ॥ १६७॥
शुक्रवारे भौमवारे षष्ठ्यां वा कृत्तिकास्यपि ।
सङ्क्रमादिषु कालेषु ग्रहणे चन्द्रसूर्ययोः ॥ १६८॥
पठेदिदं विशेषेण सर्वसिद्धिमवाप्नुयात् ।
एभिर्नामभिरम्बां यः कुङ्कुमादिभिरर्चयेत् ॥ १६९॥
यद्यद्वाञ्छति तत्सर्वमचिराज्जायते ध्रुवम् ।
सुब्रह्मण्योऽपि सततं प्रीतः सर्वार्थदो भवेत् ॥ १७०॥
पुत्रपौत्रादिदं सर्वसम्पत्प्रद मघापहम् ।
विद्याप्रदं विशेषेण सर्वरोगनिवर्तकम् ॥ १७१॥
दुष्टारिष्टप्रशमनं ग्रहशान्तिकरं वरम् ।
जपादस्य प्रभावेण सर्वाः सिद्ध्यन्ति सिद्धयः ।
गोपनीयं पठ त्वं च सर्वमाप्नुहि नारद ॥ १७२॥
॥ स्कान्दे शङ्करसंहितातः ॥
From Bhagavati Stutimanjari (Mahaperiyaval Trust)
Encoded and proofread by Sunder Hattangadi