वनदुर्गामन्त्रविधानम्

वनदुर्गामन्त्रविधानम्

अथ सङ्कल्पः । मम सकुटुम्बस्य सपरिवारस्य च सकलदुरितोपशमनार्थं समस्तक्षुद्राद्याभिचार-दोषनिरासार्थं दुष्टग्रहबाधा निवृत्यर्थं सर्वोपद्रवशान्त्यर्थं देहरक्षार्थं स्थलरक्षार्थं गृहरक्षार्थं विशेषेण-आत्मकलत्रपुत्रपुत्रीभ्रातॄणां विद्या-उद्योगविवाहसन्तति-अभ्युदयप्रतिबन्धकदोषाणां निवृत्त्यर्थं क्षेमस्थैर्यवीर्यविजयाभ्युदयायुरारोग्यानन्द-ऐश्वर्याभिवृद्‍ध्यर्थं धर्मार्थकाममोक्षचतुर्विधपुरुषार्थसिद्ध्यर्थं सर्वदेवतात्मिका भगवती श्रीवनदुर्गा प्रीतिद्वारा सर्वापच्छान्ति-पूर्वकदीर्घायुर्विपुलधनधान्यपुत्र- पौत्राद्यविच्छिन्नसन्ततिवृद्धिस्थिरलक्ष्मीकीर्तिलाभशत्रुपराजया- द्यभीष्टफलसिद्ध्यर्थं राजामात्यादिसर्वजनवशीकरणार्थं गोभूगृहधनधान्यकनकवस्तु वाहनादिसकल-सम्पदभिवृद्ध्यर्थं श्रीवनदुर्गाप्रीत्यर्थं वनदुर्गामन्त्रहोमाख्यं कर्म करिष्ये ॥ इति ॥ अथ जपविधानम् । अस्य श्रीवनदुर्गामन्त्रस्य आरण्यकऋषिः । See End Footnote 1 अनुष्टुप्छन्दः । श्रीवनदुर्गादेवता । दुँ बीजम् । स्वाहा शक्तिः । श्रीवनदुर्गाप्रीत्यर्थे जपे विनियोगः ॥ उत्तिष्ठ पुरुषि हृदयाय नमः । किं स्वपिषि शिरसे स्वाहा । भयं मे समुपस्थितं शिखायै वषट् । यदि शक्यमशक्यं वा कवचाय हुम् । तन्मे भगवति नेत्रत्रयाय वौषट् । शमय स्वाहा अस्त्राय फट् । इति षडङ्गन्यासाः ॥ ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ अथ ध्यानम् । हेमप्रख्यामिन्दुखण्डात्तमौलिं शङ्खारीष्टां अभीतिहस्तां त्रिणेत्राम् । हेमाब्जस्थां पीतवस्त्रां प्रसन्नां देवीं दुर्गां दिव्यरूपां नमामि ॥ इति ॥ ॐ उत्तिष्ठ पुरुषि किं स्वपिषि भयं मे समुपस्थितम् । यदि शक्यमशक्यं वा तन्मे भगवति शमय स्वाहा ॥ इत्युपद्रवशान्तिरक्षाप्रधानोऽयं मन्त्रः ॥ अथ मन्त्रोद्धारः ॥ उत्तिष्ठ पदमाभाष्य पुरुषि स्यात्पदं ततः । पितामहः स नेत्रे नः स्वपिषि स्याद्भयं च मे ॥ समुपस्थितमुच्चार्य यदिशक्यमनन्तरम् । अशक्यं वा पुनस्तन्मे वदेद्भगवतीं ततः ॥ शमयाग्निवधूः सप्तत्रिंशद्वर्णात्मको मनुः । ऋउषिराण्यकश्छन्दोप्यनुष्टुबुदाहृतम् ॥ देवता वनदुर्गा स्यात् सर्वदुर्गविमँचनी । षड्भिश्चतुर्भिरष्टाभिः षड्भिरिन्द्रियैः ॥ मन्त्रार्णैरङ्गक्लृप्तिः स्याज्जातियुक्तैर्यथाक्रमम् ॥ इति ॥ अथ मन्त्रान्तरम् ॥ सहस्रमन्त्रसारसङ्ग्रहे, आरण्यक ईश्वरऋषिः । अनुष्टुप्छन्दः । अन्तर्यामी नारायण किरातरूपधर ईश्वरो वनदुर्गा देवता । दुं बीजम् । ह्रीं शक्तिः । क्लीं कीलकम् । सर्वदुःखविमोचनार्थे जपे विनियोगः ॥ ॐ ह्रीं श्रीं क्लीं दुं ऐं ह्रीं श्रीं दुं उत्तिष्ठ पुरुषि रुद्रतेजो ज्वलज्वालामालिनि हंसिनि ह्रां, हृदयाय नमः । ॐ ह्रीं श्रीं क्लीं दुं ऐं ह्रीं श्रीं दुं किं स्वपिषि ब्रह्मतेजो ज्वलज्वालामालिनि पद्मिनि ह्रीं, शिरसे स्वाहा । ॐ ह्रीं श्रीं क्लीं दुं ऐं ह्रीं श्रीं दुं भयं मे समुपस्थितं विष्णुतेजो ज्वलज्वालामालिनि चक्रिणि ह्रूं, शिखायै वषट् । ॐ ह्रीं श्रीं क्लीं दुं ऐं ह्रीं श्रीं दुं यदि शक्यमशक्यं वा सूर्यतेजो ज्वलज्वालामालिनि गदिनि ह्रैं, कवचाय हुम् । ॐ ह्रीं श्रीं क्लीं दुं ऐं ह्रीं श्रीं दुं तन्मे भगवति अग्नितेजो ज्वलज्वालामालिनि त्रिशूलिनि ह्रौं, नेत्रत्रयाय वौषट् । ओं ह्रीं श्रीं क्लीं दुं ऐं ह्रीं श्रीं दुं शमय स्वाहा सर्वतेजो ज्वलज्वालामालिनि त्रिशूलधारिणि ह्रः, अस्त्राय फट् ॥ इति करषडङ्गहृदयादिन्यासाः ॥ ॐ क्लीं पशु हुं फट् स्वाहा इति दिग्बन्धः ॥ अथ ध्यानम् ॥ महाविद्यां हृद्यां सकलदुरितध्वंसनकरी पिशाचव्यालोग्रग्रहरिपुग्रहोच्छेदन करीम् । महामन्त्रज्वाला पठुलपठु दिग्बन्धनकरीं पठेद्यः सम्प्राप्तो न्यदखिलमिहामुष्मिकफलम् ॥ इति ॥ ॐ ह्रीं श्रीं क्लीं दुं ऐं ह्रीं श्रीं दुं उत्तिष्ठ पुरुषि किं स्वपिषि भयं मे समुपस्थितं यदि शक्यमशक्यं वा तन्मे भगवति शमय स्वाहा ॥ इति ॥ सर्वदुःखोपद्रवशान्ति रक्षाप्रधानोऽयं मन्त्रः ॥ अथ वनदुर्गायन्त्रम् ॥ षट्कोणाष्टदलद्वादशदलचतुर्विंशति दलान्विलिख्य तद्बहिर्द्विवृत्तं चतुर्द्वारमिति वनदुर्गापूजायन्त्रम् । भूपुरद्वयसहितं पद्मं विलिख्य सर्वसमृद्‍ध्यर्थं पूजयेदिति सहस्रमन्त्र सारसङ्ग्रहे ॥ अथ द्वारपालपूजा । ॐ पूर्वद्वारे द्वारश्रियै नमः । ॐ धात्रे नमः । ॐ विधात्रे नमः । ओं दक्षिणद्वारे द्वारश्रियै नमः । ॐ चण्डाय नमः । ॐ प्रचण्डाय नमः । ॐ पश्चिमद्वारे द्वारश्रियै नमः । ॐ जयाय नमः । ॐ विजयाय नमः । ॐ उत्तरद्वारे द्वारश्रियै नमः । ॐ शङ्खनिधये नमः । ॐ पुष्पनिधये नमः ॥ इति ॥ अथ पीठ पूजा । ॐ गुं गुरुभ्यो नमः । ॐ गं गणपतये नमः । ॐ आधारशक्त्यै नमः । ॐ मूलप्रकृत्यै नमः । ॐ आदिकूर्माय नमः । ॐ अनन्ताय नमः । ओं पृथिव्यै नमः । ॐ क्षीरसमुद्राय नमः । ॐ श्वेतद्वीपाय नमः । ओं रत्नमण्डपाय नमः । ॐ कल्पवृक्षाय नमः । ॐ श्वेतच्छत्राय नमः । ॐ सितचामराभ्यां नमः । ॐ रत्नसिंहासनाय नमः । ॐ धर्माय नमः । ॐ ज्ञानाय नमः । ॐ वैराग्याय नमः । ॐ ऐश्वर्याय नमः । ॐ अधर्माय नमः । ॐ अज्ञानाय नमः । ॐ अवैराग्याय नमः । ॐ आनैश्वर्याय नमः । ॐ सं सत्वाय नमः । ॐ रं रजसे नमः । ॐ तं तमसे नमः । ओं मं मायायै नमः । ॐ विं विद्यायै नमः । ॐ अं अनन्ताय नमः । ॐ पं पद्माय नमः । ॐ अं सूर्यमण्डलाय नमः । ॐ उं सोममण्डलाय नमः । ॐ मं वह्निमण्डलाय नमः । ॐ अं आत्मने नमः । ॐ उं अन्तरात्मने नमः । ॐ मं परमात्मने नमः । ॐ ह्रीं ज्ञानात्मने नमः ॥ इति पीठं सम्पूज्य नवशक्तिपूजां कुर्यात् ॥ ॐ आं प्रभायै नमः । ॐ ईं मायायै नमः । ॐ ऊं जयायै नमः । ॐ एं सूक्ष्मायै नमः । ॐ ऐं विशुद्धायै नमः । ॐ ॐ नन्दिन्यै नमः । ॐ औं सुप्रभायै नमः । ॐ अं विजयायै नमः । ॐ अः सर्वसिद्धिदायै नमः ॥ ॐ वज्रनखदंष्ट्रायुधाय महासिंहाय हुं फण्णमः ॥ इति ॥ अथ षोडशोपचार पूजा । अथ ध्यानम् । दुर्गां भगवतीं ध्यायेन्मूलमन्त्राधिदेवताम् । वाणीं लक्ष्मीं महादेवीं महामायां विचिन्तयेत् ॥ माहिषघ्नीं दशभुजां कुमारीं सिंहवाहिनीम् । दानवांस्तर्जयन्तीं च सर्वकामदुघां शिवाम् ॥ श्री वनदुर्गायै नमः । ध्यायामि ध्यानं समर्पयामि ॥ अथावाहनम् । श्रीदुर्गादिरूपेण विश्वमावृत्य तिष्ठति । आवाहयामि त्वां देवि सम्यक् सन्निहिता भव ॥ श्री वनदुर्गायै नमः । आवाहयामि आवाहनं समर्पयामि ॥ अथासनम् । भद्रकालि नमस्तेऽस्तु भक्तानामीप्सितार्थदे । स्वर्णसिंहासनं चारु प्रीत्यर्थं प्रतिगृह्यताम् ॥ श्री वनदुर्गायै नमः । आसनं समर्पयामि ॥ अथ स्वागतम् । सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते । कृताञ्जलिपुटो भक्त्या स्वागतं कल्पयाम्यहम् ॥ श्री वनदुर्गायै नमः । स्वागतं समर्पयामि ॥ अथार्घ्यम् । महालक्ष्मि महामये महाविद्यास्वरूपिणि । अर्घ्यपाद्याचमान् देवि गृहाण परमेश्वरि ॥ श्री वनदुर्गायै नमः । अर्घ्य-पाद्य-आचमनानि समर्पयामि ॥ अथ मधुपर्कम् । दूर्वाङ्कुरसमायुक्तं गन्धादिसुमनोहरम् । मधुपर्कं मया दत्तं नारायणि नमोऽस्तु ते ॥ श्री वनदुर्गायै नमः । मधुपर्कं समर्पयामि ॥ अथ पञ्चामृतस्नानम् । स्नानं पञ्चामृतं देवि भद्रकालि जगन्मयि । भक्त्या निवेदितं तुभ्यं विश्वेश्वरि नमोऽस्तु ते ॥ श्री वनदुर्गायै नमः । पञ्चामृतस्नानं समर्पयामि ॥ अथ शुद्धोदकस्नानम् । शुद्धोदकसमायुक्तं गङ्गासलिलमुत्तमम् । स्नानं गृहाण देवेशि भद्रकालि नमोऽस्तु ते ॥ श्री वनदुर्गायै नमः । शुद्धोदकस्नानं समर्पयामि ॥ अथ वस्त्रम् । वस्त्रं गृहाण देवेशि देवाङ्गसदृशं नवम् । विश्वेश्वरि महामाये नारायणि नमोऽस्तु ते ॥ श्री वनदुर्गायै नमः । रत्नदुकूलवस्त्रं समर्पयामि ॥ अथ कञ्चुकम् । गोदावरि नमस्तुभ्यं सर्वाभीष्टप्रदायिनि । सर्वलक्षणसम्भूते दुर्गे देवि नमोऽस्तु ते ॥ श्री वनदुर्गायै नमः । रत्नकञ्चुकं समर्पयामि ॥ अथ यज्ञोपवीतम् । तक्षकानन्तकर्कोट नागयज्ञोपवीतिने । सौवर्णं यज्ञसूत्रं ते ददामि हरिसेविते ॥ श्री वनदुर्गायै नमः । स्वर्णयज्ञोपवीतं समर्पयामि ॥ अथाभरणम् । नानारत्नविचित्राढ्यान् वलयान् सुमनोहरान् । अलङ्कारान् गृहाण त्वं ममाभीष्टप्रदा भव ॥ श्री वनदुर्गायै नमः । आभरणानि समर्पयामि ॥ अथ गन्धः । गन्धं चन्दनसंयुक्तं कुङ्कुमादिविमिश्रितम् । गृह्णीष्व देवि लोकेशि जगन्मातर्नमोऽस्तु ते ॥ श्री वनदुर्गायै नमः । गन्धं समर्पयामि ॥ अथ बिल्वगन्धः । बिल्ववृक्षकृतावासे बिल्वपत्रप्रिये शुभे । बिल्ववृक्षसमुद्भूतो गन्धश्च प्रतिगृह्यताम् ॥ श्री वनदुर्गायै नमः । बिल्वगन्धं समर्पयामि ॥ अथाक्षताः । अक्षतान् शुभदान् देवि हरिद्राचूर्णमिश्रितान् । प्रतिगृह्णीष्व कौमारि दुर्गादेवि नमोऽस्तुते ॥ श्री वनदुर्गायै नमः । अक्षतान् समर्पयामि ॥ अथ पुष्पाणि । मालतीबिल्वमन्दारकुन्दजातिविमिश्रितम् । पुष्पं गृहाण देवेशि सर्वमङ्गलदा भव ॥ शिवपत्नि शिवे देवि शिवभक्तभयापहे । द्रोणपुष्पं मया दत्तं गृहाण शिवदा भव ॥ श्री वनदुर्गायै नमः । नानाविध परिमळ पत्रपुष्पाणि समर्पयामि ॥ अथ अङ्गपूजा । ॐ वाराह्यै नमः पादौ पूजयामि । ॐ चामुण्डायै नमः जङ्घे पूजयामि । ॐ माहेन्द्र्यै नमः जानुनी पूजयामि । ॐ वागीश्वर्यै नमः ऊरू पूजयामि । ॐ ब्रह्माण्यै नमः गुह्यं पूजयामि । ॐ कालरात्र्यै नमः कटिं पूजयामि । ॐ जगन्मायायै नमः नाभिं पूजयामि । ॐ माहेश्वर्यै नमः कुक्षिं पूजयामि । ॐ सरस्वत्यै नमः हृदयं पूजयामि । ॐ कात्यायन्यै नमः कण्ठं पूजयामि । ॐ शिवदूत्यै नमः हस्तान् पूजयामि । ॐ नारसिंह्यै नमः बाहून् पूजयामि । ॐ इन्द्राण्यै नमः मुखं पूजयामि । ॐ शिवायै नमः नासिकां पूजयामि । ॐ शताक्ष्यै नमः कर्णौ पूजयामि । ॐ त्रिपुरहन्त्र्यै नमः नेत्रत्रयं पूजयामि । ॐ परमेश्वर्यै नमः ललाटं पूजयामि । ॐ शाकम्भर्यै नमः शिरः पूजयामि । ॐ कौशिक्यै नमः सर्वाणि अङ्गानि पूजयामि ॥ अथ बिल्वपत्रम् । श्रीवृक्षममृतोद्भूतं महादेवी प्रियं सदा । बिल्वपत्रं प्रयच्छामि पवित्रं ते सुरेश्वरी ॥ श्री वनदुर्गायै नमः । बिल्वपत्रं समर्पयामि ॥ अथ पुष्पपूजा । ॐ दुर्गायै नमः तुलसी पुष्पं समर्पयामि । ॐ कात्यायन्यै नमः चम्पकपुष्पं समर्पयामि । ॐ कौमार्यै नमः जाती पुष्पं समर्पयामि । ॐ काल्यै नमः केतकी पुष्पं समर्पयामि । ॐ गौर्यै नमः करवीरपुष्पं समर्पयामि । ॐ लक्ष्म्यै नमः उत्पलपुष्पं समर्पयामि । ॐ सर्वमङ्गलायै नमः मल्लिकापुष्पं समर्पयामि । ॐ इन्द्राण्यै नमः यूथिकापुष्पं समर्पयामि । ॐ सरस्वत्यै नमः कमलपुष्पं समर्पयामि । ॐ श्री भगवत्यै नमः सर्वाणि पुष्पाणि समर्पयामि ॥ अथावरणदेवताः । प्रथमावरणदेवताः ॥ ॐ उत्तिष्ठ पुरुषि हृदयाय नमः । ॐ किं स्वपिषि शिरसे स्वाहा नमः । ॐ भयं मे समुपस्थितं शिखायै वषण्णमः । ॐ यदि शक्यमशक्यं वा कवचाय हुं नमः । ॐ तन्मे भगवति नेत्रत्रयाय वौषण्णमः । ॐ शमय स्वाहा अस्त्राय फण्णमः ॥ ०१॥ द्वितीयावरण देवताः ॥ ॐ आर्यायै नमः । ॐ दुर्गायै नमः । ॐ भद्रायै नमः । ॐ भद्रकाळ्यै नमः । ॐ अम्बिकायै नमः । ॐ क्षेम्यायै नमः । ॐ वेदगर्भायै नमः । ॐ क्षेमकार्यै नमः ॥ ०२॥ तृतीयावरण देवताः ॥ ॐ अरये नमः । ॐ दराय नमः । ॐ कृपाणाय नमः । ॐ खेटाय नमः । ॐ बाणाय नमः । ॐ धनुषे नमः । ॐ शूलाय नमः । ॐ कपालाय नमः ॥ ०३॥ चतुर्थावरणदेवताः ॥ ॐ ब्राह्म्यै नमः । ॐ माहेश्वर्यै नमः । ओं कौमार्यै नमः । ॐ वैष्णव्यै नमः । ॐ वाराह्यै नमः । ॐ इन्द्राण्यै नमः । ॐ चामुण्डायै नमः । ॐ महालक्ष्म्यै नमः ॥ ०४॥ पञ्चमावरण देवताः ॥ ॐ इन्द्राय नमः । ॐ अग्नये नमः । ॐ यमाय नमः । ॐ निरृतये नमः । ॐ वरुणाय नमः । ॐ वायवे नमः । ॐ सोमाय नमः । ॐ ईशानाय नमः । ॐ ब्रह्मणे नमः । ॐ अनन्ताय नमः ॥ ०५॥ इति ॥

॥ श्री दुर्गाष्टोत्तरशतनामावलिः ॥

ॐ सत्यै नमः । ॐ साध्व्यै नमः । ॐ भवप्रीतायै नमः । ॐ भवान्यै नमः । ॐ भवमोचन्यै नमः । ॐ आर्यायै नमः । ॐ दुर्गायै नमः । ॐ जयायै नमः । ॐ आद्यायै नमः । ॐ त्रिनेत्रायै नमः । ॐ शूलधारिण्यै नमः । ॐ पिनाकधारिण्यै नमः । ॐ चित्रायै नमः । ॐ चण्डघण्टायै नमः । ॐ महातपायै नमः । ॐ मनरूपायै नमः । ॐ बुद्ध्यै नमः । ॐ अहङ्कारायै नमः । ॐ चित्तरूपायै नमः । ॐ चितायै नमः । २० ॐ चित्यै नमः । ॐ सर्वमन्त्रमय्यै नमः । ॐ सत्तायै नमः । ॐ सत्यानन्दस्वरूपिण्यै नमः । ॐ अनन्तायै नमः । ॐ भाविन्यै नमः । ॐ भाव्यायै नमः । ॐ भव्यायै नमः । ॐ अभव्यायै नमः । ॐ सदागत्यै नमः । ॐ शाम्भव्यै नमः । ॐ देवमात्रे नमः । ॐ चिन्तायै नमः । ॐ रत्नप्रियायैसदायै? नमः । ॐ सर्वविद्यायै नमः । ॐ दक्षकन्यायै नमः । ॐ दक्षयज्ञविनाशिन्यै नमः । ॐ अपर्णायै नमः । ॐ अनेकवर्णायै नमः । ॐ पाटलायै नमः । ४० ॐ पाटलावत्यै नमः । ॐ पट्टाम्बरपरीधानायै नमः । ॐ कलमञ्जीररञ्जिन्यै नमः । ॐ अमेयविक्रमायै नमः । ॐ क्रूरायै नमः । ॐ सुन्दर्यै नमः । ॐ सुरसुन्दर्यै नमः । ॐ वनदुर्गायै नमः । ॐ मातङ्ग्यै नमः । ॐ मतङ्गमुनिपूजितायै नमः । ॐ ब्राह्म्यै नमः । ॐ माहेश्वर्यै नमः । ॐ ऐन्द्र्यै नमः । ॐ कौमार्यै नमः । ॐ वैष्णव्यै नमः । ॐ चामुण्डायै नमः । ॐ वाराह्यै नमः । ॐ लक्ष्म्यै नमः । ॐ पुरुषाकृत्यै नमः । ॐ विमलायै नमः । ६० ॐ उत्कर्षिण्यै नमः । ॐ ज्ञानायै नमः । ॐ क्रियायै नमः । ॐ नित्यायै नमः । ॐ बुद्धिदायै नमः । ॐ बहुलायै नमः । ॐ बहुलप्रेमायै नमः । ॐ सर्ववाहनवाहनायै नमः । ॐ निशुम्भशुम्भहनन्यै नमः । ॐ महिषासुरमर्दिन्यै नमः । ॐ मधुकैटभहन्त्र्यै नमः । ॐ चण्डमुण्डविनाशिन्यै नमः । ॐ सर्वासुरविनाशायै नमः । ॐ सर्वदानवघातिन्यै नमः । ॐ सर्वशास्त्रमय्यै नमः । ॐ सत्यायै नमः । ॐ सर्वास्त्रधारिण्यै नमः । ॐ अनेकशस्त्रहस्तायै नमः । ॐ अनेकास्त्रधारिण्यै नमः । ॐ कुमार्यै नमः । ८० ॐ एककन्यायै नमः । ॐ कैशोर्यै नमः । ॐ युवत्यै नमः । ॐ यत्यै नमः । ॐ अप्रौढायै नमः । ॐ प्रौढायै नमः । ॐ वृद्धमात्रे नमः । ॐ बलप्रदायै नमः । ॐ महोदर्यै नमः । ॐ मुक्तकेश्यै नमः । ॐ घोररूपायै नमः । ॐ महाबलायै नमः । ॐ अग्निज्वालायै नमः । ॐ रौद्रमुख्यै नमः । ॐ कालरात्र्यै नमः । ॐ तपस्विन्यै नमः । ॐ नारायण्यै नमः । ॐ भद्रकाल्यै नमः । ॐ विष्णुमायायै नमः । ॐ जलोदर्यै नमः । १०० ॐ शिवदूत्यै नमः । ॐ कराल्यै नमः । ॐ अनन्तायै नमः । ॐ परमेश्वर्यै नमः । ॐ कात्यायन्यै नमः । ॐ सावित्र्यै नमः । ॐ प्रत्यक्षायै नमः । ॐ ब्रह्मवादिन्यै नमः । १०८ ॥ इति श्रीदुर्गाष्टोत्तरशतनामावलिः समाप्ता ॥ अथ धूपः । सगुग्गुल्वगरूशीरगन्धादिसुमनोहरम् । धूपं गृहाण देवेशि दुर्गे देवि नमोऽस्तु ते ॥ श्री वनदुर्गायै नमः । धूपमाघ्रापयामि ॥ अथ दीपः । पट्टसूत्रोल्लसद्वर्ति गोघृतेन समन्वितम् । दीपं ज्ञानप्रदं देवि गृहाण परमेश्वरी ॥ श्री वनदुर्गायै नमः । दीपं दर्शयामि ॥ अथ नैवेद्यम् । जुषाण देवि नैवेद्यं नानाभक्ष्यैः समन्वितम् । परमान्नं मया दत्तं सर्वाभीष्टं प्रयच्छ मे ॥ श्री वनदुर्गायै नमः । महानैवेद्यं समर्पयामि ॥ अथ पानीयम् । गङ्गादिसलिलोद्भूतं पानीयं पावनं शुभम् । स्वादूदकं मया दत्तं गृहाण परमेश्वरी ॥ श्री वनदुर्गायै नमः । अमृतपानीयं समर्पयामि ॥ अथ ताम्बूलम् । पूगीफलसमायुक्तं नागवल्लीदलैर्युतम् । कर्पूरचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥ श्री वनदुर्गायै नमः । ताम्बूलं समर्पयामि ॥ अथ नीराजनम् । पट्टिसूत्रविचित्राढ्यैः प्रभामण्डलमण्डितैः । दीपैर्नीराजये देवीं प्रणवाद्यैश्च नामभिः ॥ श्री वनदुर्गायै नमः । दिव्यमङ्गलनीराजनं समर्पयामि ॥ अथ मन्त्रपुष्पम् । गन्धपुष्पाक्षतैर्युक्तमञ्जलीकरपूरकैः । महालक्ष्मि नमस्तेऽस्तु मन्त्रपुष्पं गृहाण भो ॥ श्री वनदुर्गायै नमः । वेदोक्त मन्त्रपुष्पं समर्पयामि ॥ अथ प्रदक्षिणनमस्कारः । महादुर्गे नमस्तेऽस्तु सर्वेष्टफलदायिनि । प्रदक्षिणां करोमि त्वां प्रीयतां शिववल्लभे ॥ श्री वनदुर्गायै नमः । प्रदक्षिणनमस्कारान् समर्पयामि ॥ अथ प्रसन्नार्घ्यम् । सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते । बिल्वार्घ्यं च मया दत्तं देवेशि प्रतिगृह्यताम् ॥ १॥ ज्ञानेश्वरि गृहाणेदं सर्वसौख्यविवर्धिनि । गृहाणार्घ्यं मया दत्तं देवेशि वरदा भव ॥ २॥ श्री वनदुर्गायै नमः । बिल्वपत्रार्घ्यं समर्पयामि ॥ अथ प्रार्थना । न ध्यातं तव चास्यमम्ब रुचिरं चेतस्समाकर्षणं, नो मन्त्रस्तव देवि निर्जनवने स्थित्वा प्रजप्तो मया । नो पूजा ह्यपि वेदशास्त्रविहिता पञ्चामृताद्यैः कृता, लोके केवलमेव देवि शरणं मातस्त्वमेकास्ति मे ॥ देवि देहि परं रूपं देवि देहि परं सुखम् । धर्मं देहि धनं देहि सर्वकामांश्च देहि मे ॥ सुपुत्रांश्च पशून् कोशान् सुक्षेत्राणि सुखानि च । देवि देहि परं ज्ञानमिह मुक्ति सुखं कुरु ॥ अपराध सहस्राणि क्रियन्तेऽहर्निशं मया । दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि ॥ आवाहनं न जानामि न जानामि विसर्जनम् । पूजाविधिं न जानामि क्षमस्व परमेश्वरि ॥ अपराधशतं कृत्वा जगदम्बेति चोच्चरेत् । यां गतिं समवाप्नोति नतां ब्रह्मादयः सुराः ॥ सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके । इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु ॥ अज्ञानाद्विस्मृतेर्भ्रान्त्या यन्न्यूनमधिकं कृतम् । तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि ॥ कामेश्वरि जगन्मातः सच्चिदानन्दविग्रहे । गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरि ॥ प्रसीदतां जातवेदा दुर्गा च वरदा मम । तयोः प्रसादात्सर्वत्र वाञ्छितं मम सिद्‍ध्यतात् ॥ प्रीयतां जातवेदोऽग्निः सफलं चास्तु मे व्रतम् । मन्त्रोऽयं फलतां शीघ्रं सिद्धिश्चैवास्तु शाश्वती ॥ इति ॥ श्री वनदुर्गायै नमः । प्रार्थनां समर्पयामि ॥

अथ पुरश्चरणम् ।

सौवर्णाम्बुजमध्यगां त्रिणयनां सौदामिनी सन्निभां चक्रं शङ्खवराभयानि दधतीमिन्दोः कलां बिभ्रतीम् । ग्रैवेयाङ्गदहारकुण्डलधरामाखण्डलाद्यैस्तुतां ध्यायॅद्विन्ध्यनिवासिनीं शशिमुखीं पार्श्वस्थपञ्चाननाम् ॥ एवं ध्यात्वा जपेल्लक्षं चतुष्कं तद्दशांशतः । जुहुयाद्धविषा मन्त्री शालीभिः सर्पिषा तिलैः ॥ इति ॥ तत्र प्रयोगाः ॥ १ चतुर्लक्षं जपः व्रीहितिलाज्यहविर्भिर्दशांशं पुरश्चरणहोमः । २ स्नात्वार्काभिमुखस्सन्नाभिद्वयसेऽम्भसि स्थितो मन्त्री अष्टोर्ध्वशतं प्रजपेन्निज-वाञ्छितसिद्धये च लक्ष्म्यै । ३ अयुतं तिलवनोत्थैः राजीभिर्वा हुनेत्समिद्भिर्वा मायूरिकीभिरचिरात्सोऽपस्मारादिकांश्च नाशयति । ४ जुहुयाद्रोहिणसमिधामयुतं मन्त्री पुनस्सशुङ्गानां सर्वापदां विमुक्त्यै सर्वसमृद्‍ध्यै ग्रहादिशान्त्यै च । ५ जपेल्लक्षचतुष्कं जुहुयाद्धविषा मन्त्री गालिभिस्सर्पिषा तिलैः ॥ इति ॥

अथ श्रीरुद्रचण्डी कवचम् ॥

श्रीकार्तिकेय उवाच । कवचं चण्डिकादेव्याः श्रोतुमिच्छामि ते शिव! । यदि तेऽस्ति कृपा नाथ! कथयस्व जगत्प्रभो ! ॥ १॥ श्रीशिव उवाच । श‍ृणु वत्स ! प्रवक्ष्यामि चण्डिकाकवचं शुभम् । भुक्तिमुक्तिप्रदातारमायुष्यं सर्वकामदम् ॥ २॥ दुर्लभं सर्वदेवानां सर्वपापनिवारणम् । मन्त्रसिद्धिकरं पुंसां ज्ञानसिद्धिकरं परम् ॥ ३॥ श्रीरुद्र चण्डिकाकवचस्य श्रीभैरव ऋषिः, अनुष्टुप्छन्दः, श्रीचण्डिका देवता, चतुर्वर्गफलप्राप्त्यर्थं पाठे विनियोगः ॥ अथ कवचस्तोत्रम् । चण्डिका मेऽग्रतः पातु आग्नेय्यां भवसुन्दरी । याम्यां पातु महादेवी नैरृत्यां पातु पार्वती ॥ १॥ वारुणे चण्डिका पातु चामुण्डा पातु वायवे । उत्तरे भैरवी पातु ईशाने पातु शङ्करी ॥ २॥ पूर्वे पातु शिवा देवी ऊर्ध्वे पातु महेश्वरी । अधः पातु सदाऽनन्ता मूलाधार निवासिनी ॥ ३॥ मूर्ध्नि पातु महादेवी ललाटे च महेश्वरी । कण्ठे कोटीश्वरी पातु हृदये नलकूबरी ॥ ४॥ नाभौ कटिप्रदेशे च पायाल्लम्बोदरी सदा । ऊर्वोर्जान्वोः सदा पायात् त्वचं मे मदलालसा ॥ ५॥ ऊर्ध्वे पार्श्वे सदा पातु भवानी भक्तवत्सला । पादयोः पातु मामीशा सर्वाङ्गे विजया सदा ॥ ६॥ रक्त मांसे महामाया त्वचि मां पातु लालसा । शुक्रमज्जास्थिसङ्घेषु गुह्यं मे भुवनेश्वरी ॥ ७॥ ऊर्ध्वकेशी सदा पायान् नाडी सर्वाङ्गसन्धिषु । ॐ ऐं ऐं ह्रीं ह्रीं चामुण्डे स्वाहामन्त्रस्वरूपिणी ॥ ८॥ आत्मानं मे सदा पायात् सिद्धविद्या दशाक्षरी । इत्येतत् कवचं देव्याश्चण्डिकायाः शुभावहम् ॥ ९॥ अथफलश्रुतिः । गोपनीयं प्रयत्नेन कवचं सर्वसिद्धिदम् । सर्वरक्षाकरं धन्यं न देयं यस्य कस्यचित् ॥ १०॥ अज्ञात्वा कवचं देव्या यः पठेत् स्तवमुत्तमम् । न तस्य जायते सिद्धिर्बहुधा पठनेन च ॥ ११॥ धृत्वैतत् कवचं देव्या दिव्यदेहधरो भवेत् । अधिकारी भवेदेतच्चण्डीपाठेन साधकः ॥ १२॥ इति श्रीरुद्रयामलतन्त्रे श्रीशिवकार्तिकेयसंवादे रुद्रचण्डीकवचं सम्पूर्णम् ॥

अथ वनदुर्गाष्टोत्तरशतनाम स्तोत्रम् ॥

अस्यश्री दुर्गाष्टोत्तरशतनामास्तोत्रमालामन्त्रस्य, ब्रह्माविष्णुमहेश्वराः ऋषयः, अनुष्टुप्छन्दः, श्रीदुर्गापरमेश्वरी देवता । ह्रां बीजं, ह्रीं शक्तिः, ह्रूं कीलकम् । सर्वाभीष्टसिध्यर्थे जपे विनियोगः ॥ ॐ सत्या साध्या भवप्रीता भवानी भवमोचनी । आर्या दुर्गा जया चाध्या त्रिणेत्राशूलधारिणी ॥ पिनाकधारिणी चित्रा चण्डघण्टा महातपाः । मनो बुद्धि रहङ्कारा चिद्रूपा च चिदाकृतिः ॥ अनन्ता भाविनी भव्या ह्यभव्या च सदागतिः । शाम्भवी देवमाता च चिन्ता रत्नप्रिया तथा ॥ सर्वविद्या दक्षकन्या दक्षयज्ञविनाशिनी । अपर्णाऽनेकवर्णा च पाटला पाटलावती ॥ पट्टाम्बरपरीधाना कलमञ्जीररञ्जिनी । ईशानी च महाराज्ञी ह्यप्रमेयपराक्रमा । रुद्राणी क्रूररूपा च सुन्दरी सुरसुन्दरी ॥ वनदुर्गा च मातङ्गी मतङ्गमुनिकन्यका । ब्राह्मी माहेश्वरी चैन्द्री कौमारी वैष्णवी तथा ॥ चामुण्डा चैव वाराही लक्ष्मीश्च पुरुषाकृतिः । विमला ज्ञानरूपा च क्रिया नित्या च बुद्धिदा ॥ बहुला बहुलप्रेमा महिषासुरमर्दिनी । मधुकैठभ हन्त्री च चण्डमुण्डविनाशिनी ॥ सर्वशास्त्रमयी चैव सर्वधानवघातिनी । अनेकशस्त्रहस्ता च सर्वशस्त्रास्त्रधारिणी ॥ भद्रकाली सदाकन्या कैशोरी युवतिर्यतिः । प्रौढाऽप्रौढा वृद्धमाता घोररूपा महोदरी ॥ बलप्रदा घोररूपा महोत्साहा महाबला । अग्निज्वाला रौद्रमुखी कालारात्री तपस्विनी ॥ नारायणी महादेवी विष्णुमाया शिवात्मिका । शिवदूती कराली च ह्यनन्ता परमेश्वरी ॥ कात्यायनी महाविद्या महामेधास्वरूपिणी । गौरी सरस्वती चैव सावित्री ब्रह्मवादिनी । सर्वतत्त्वैकनिलया वेदमन्त्रस्वरूपिणी ॥ इदं स्तोत्रं महादेव्याः नाम्नां अष्टोत्तरं शतम् । यः पठेत् प्रयतो नित्यं भक्तिभावेन चेतसा । शत्रुभ्यो न भयं तस्य तस्य शत्रुक्षयं भवेत् । सर्वदुःखदरिद्राच्च सुसुखं मुच्यते ध्रुवम् ॥ विद्यार्थी लभते विद्यां धनार्थी लभते धनम् । कन्यार्थी लभते कन्यां कन्या च लभते वरम् ॥ ऋणी ऋणात् विमुच्येत ह्यपुत्रो लभते सुतम् । रोगाद्विमुच्यते रोगी सुखमत्यन्तमश्नुते ॥ भूमिलाभो भवेत्तस्य सर्वत्र विजयी भवेत् । सर्वान्कामानवाप्नोति महादेवीप्रसादतः ॥ कुङ्कुमैः बिल्वपत्रैश्च सुगन्धैः रक्तपुष्पकैः । रक्तपत्रैर्विशेषेण पूजयन्भद्रमश्नुते ॥ इति ॥

॥ दुर्गा आपदुद्धाराष्टकम् ॥

नमस्ते शरण्ये शिवे सानुकम्पे नमस्ते जगद्व्यापिके विश्वरूपे । नमस्ते जगद्वन्द्यपादारविन्दे नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ १॥ नमस्ते जगच्चिन्त्यमानस्वरूपे नमस्ते महायोगिविज्ञानरूपे । नमस्ते नमस्ते सदानन्द रूपे नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ २॥ अनाथस्य दीनस्य तृष्णातुरस्य भयार्तस्य भीतस्य बद्धस्य जन्तोः । त्वमेका गतिर्देवि निस्तारकर्त्री नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ ३॥ अरण्ये रणे दारुणे शुत्रुमध्ये जले सङ्कटे राजग्रेहे प्रवाते । त्वमेका गतिर्देवि निस्तार हेतुर्नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ ४॥ अपारे महदुस्तरेऽत्यन्तघोरे विपत् सागरे मज्जतां देहभाजाम् । त्वमेका गतिर्देवि निस्तारनौका नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ ५॥ नमश्चण्डिके चण्डोर्दण्डलीलासमुत्खण्डिता खण्डलाशेषशत्रोः । त्वमेका गतिर्विघ्नसन्दोहहर्त्री नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ ६॥ त्वमेका सदाराधिता सत्यवादिन्यनेकाखिला क्रोधना क्रोधनिष्ठा । इडा पिङ्गला त्वं सुषुम्ना च नाडी नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ ७॥ नमो देवि दुर्गे शिवे भीमनादे सदासर्वसिद्धिप्रदातृस्वरूपे । विभूतिः सतां कालरात्रिस्वरूपे नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ ८॥ शरणमसि सुराणां सिद्धविद्याधराणां मुनिदनुजवराणां व्याधिभिः पीडितानाम् । नृपतिगृहगतानां दस्युभिस्त्रासितानां त्वमसि शरणमेका देवि दुर्गे प्रसीद ॥ ९॥ ॥ इति सिद्धेश्वरतन्त्रे हरगौरीसंवादे आपदुद्धाराष्टकस्तोत्रं सम्पूर्णम् ॥ सङ्ग्राहकः विद्वान् परमेश्वर भट्टः पुट्टनमने Encoded and proofread by Parameshwar Puttanmane poornapathi at gmail.com
% Text title            : vanadurgAmantravidhAnam
% File name             : vanadurgAmantravidhAnam.itx
% itxtitle              : vanadurgAmantravidhAnam
% engtitle              : vanadurgAmantravidhAnam
% Category              : devii, pUjA, durgA, devI, mantra
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : durga
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Parameshwar Puttanmane poornapathi  at gmail.com
% Proofread by          : Parameshwar Puttanmane poornapathi  at gmail.com
% Latest update         : January 8, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org