वसुन्धरास्तोत्रम्
ॐ नमः श्रीवसुन्धरा देव्यै ।
ॐ दिव्यरूपी सुरूपी च सौम्यरूपी वरप्रदा ।
वसुन्धरी वसुन्धारी वसुश्री श्रीकरी वरा ॥ १॥
धरणी धारणी धाता शरण्या भक्तवत्सला
प्रज्ञापारमिता देवी प्रज्ञा श्रीबुद्धिवर्धिनी ॥ २॥
विद्याधरी शिवा सूक्ष्मा शान्ता सर्वत्रमातृका ।
तरुणी तारणी देवी विद्या दानेश्वरेश्वरी ॥ ३॥
भूषिता भूतमाता च सर्वाभरणभूषिणी ।
दुर्दान्तवासिणी भीमा उग्राग्रपराक्रमा ॥ ४॥
दानपारमिता देवी वर्षणी दिव्यरूपिणी ।
निधानं सर्वमाङ्गल्ये कीर्तिलक्ष्मी यशस्विनी ॥ ५॥
दहनी मारणी चण्डी शबरी सर्वमातृका ।
कृतान्तत्राशनी भीमा कौमारी विश्वरूपिणी ॥ ६॥
वीर्यपारमिता देवी जगदानन्दरोचनी ।
तापसि उग्ररूपी च ऋद्धिसिद्धिवरप्रदा ॥ ७॥
दानपुण्यमहाभागा अजिताजितविक्रमा ।
जगदेकहितो विद्या सङ्ग्रम्यतारणी शुभा ॥ ८॥
क्षान्तिपारमिता देवी साधनी ध्यानध्यायिनी ।
पाद्मानी पद्ममाता च पद्माभां शतमालिनी ॥ ९॥ (पाद्मानी पद्मधारि च पद्मासन समासिनी)
शुद्धरूपी महातेजा हेमवर्णा प्रभाकरी ।
चिन्तामणिधरी देवी प्रज्ञापुस्तकधारणी ॥ १०॥
निधानं कूटमारुढा धान्यागारधनप्रिया ।
त्रैधातुकं महाअऽढि? दिव्याभरणभूषिणी ॥ ११॥
सरस्वती विशालाक्षी चतुर्ब्रह्मविहारिणी ।
तथागति महारम्या वज्रिणी धर्मधारिणी ॥ १२॥
कर्मधातेश्वरी विद्या विश्वज्वालागुमण्डली ।
बोधिनी सर्वसत्त्वानां बोध्यङ्गकृतशेखरी ॥ १३॥ (कृतस्यशरम्)
ध्यानादि मुक्ति सम्पन्ना अद्वयाद्वयभाविणी ।
सर्वार्थसाधनी भद्रा स्त्रीरूपामितविक्रमा ॥ १४॥
मातरी सर्वबुद्धानां रत्नधात्वेश्वरेश्वरी ।
शुन्यता भाविनी देवी भावाभावविवर्जिनी ॥ १५॥
वैनायकि विनेताच दीपिणी क्लेशछेदिनी ।
भिदिनी सर्वमाराणां सप्तपातालक्षोभिणी ॥ १६॥
ब्राह्मणी वेदमाताच गुह्यराट् गुह्यवासिनी ।
दर्शनि बुद्धमार्गानां नष्टमार्गप्रदर्शनी ॥ १७॥
वागीश्वरी महाशान्तिगोप्तिधातॄ धनं ददा ।
स्त्रीरूपाधारणी सिद्धा योगीनी योगमीश्वरी ॥ १८॥
मनोहरी महाक्रान्ति सौभाग्यप्रियदर्शनी । (शुभगाप्रिय)
सार्थवाहकृपादृष्टि सर्वताथागतात्मकि ॥ १९॥
नमोऽस्तुते महादेवी सर्वसत्वार्थदायिणी ।
नमोऽस्तुते दीव्यरूपीच वसुधारा नमोऽस्तुते ॥ २०॥
अष्टोत्तरशतनाम त्रिकालय यथेदिमा ।
प्राप्नोतिनियत सिद्धि इप्सित सुमनोरथम् ॥
तत्सर्वक्षेपयिष्यं तिस्मरणान्नाम भद्रकम् ।
अथवा शीलसम्पन्ना सप्तजातिस्मरो भवेत् ॥
प्रियश्चादिय वाक्यश्चरूपवान् प्रियदर्शनः ।
विप्रक्षेत्रियकूलेषु आदेयमुपाजायते ॥
अन्तेभूमिश्वरं प्राप्तः पश्चात्प्राप्त सुखावति ॥
इति श्रीवसुन्धारायानामस्तोत्रशतकं बुद्धभाषितं समाप्तं शुभम् ॥