व्रजविलासस्तवः
अथ व्रजविलासस्तवः ।
श्रीश्रीराधाकृष्णपादाम्बुजेभ्यो नमः ।
प्रतिष्ठा रज्जूभिर्बद्धं कामाद्यैर्वर्त्मपातिभिः ।
छित्त्वा ताः संहरन्तस्तानघारेः पान्तु मां भटाः ॥ १॥
दग्धं वार्धकवन्यवह्निभिरलं दष्टं दुरान्ध्याहिना
विद्धं मामतिपारवश्यविशिखैः क्रोधादिसिंहैर्वृतम् ।
स्वामिन् प्रेमसुधाद्रवं करुणया द्राक्पायय श्रीहरे
येनैतानवधीर्य सन्ततमहं धीरो भवन्तं भजे ॥ २॥
यन्माधुरी दिव्यसुधारसाब्धेः
स्मृतेः कणेनाप्यतिलोलितात्मा ।
पद्मैर्व्रजस्थानखिलान्व्रजं च
नत्वा स्वनाथौ बत तौ दिदृक्षे ॥ ३॥
प्रादुर्भावसुधाद्रवेण नितरामङ्गित्वमाप्त्वा ययो-
र्गोष्ठेऽतीक्ष्णमनङ्ग एष परितः क्रीडाविनोदं रसैः ।
प्रीत्योल्लासयतीह मुग्धमिथुनश्रेणीवतंसाविमौ
गान्धर्वा गिरिधारिणौ बत कदा द्रक्ष्यामि रागेण तौ ॥ ४॥
वैकुण्ठादपि सोदरात्मजवृता द्वारावती सा प्रिया
यत्र श्रीशतनिन्दिपङ्क्तमहिषीवृन्दैः प्रभुः खेलति ।
प्रेमक्षेत्रमसौ ततोऽपि मथुरा श्रेष्ठा हरेर्जन्मतो
यत्र श्रीव्रज एव राजतितरां तामेव नित्यं भजे ॥ ५॥
यत्र क्रीडति माधवः प्रियतमैः स्निग्धः सखीनां कुलै-
र्नित्यं गाढरसेन रामसहितोऽप्यद्यापि गोचारणैः ।
यस्याप्यद्भुतमाधुरीरसविदां हृद्येव कापि स्फुरेत्
प्रेष्ठं तन्मथुरापुरादपि हरेर्गोष्ठं तदेवाश्रये ॥ ६॥
वैदग्ध्योत्तरनर्मकर्मठसखीवृन्दैः परीतं रसैः
प्रत्येकं तरुकुञ्जवल्लरिगिरिद्रोणीषु रात्रिन्दिवम् ।
नानाकेलिभरेण यत्र रमते तन्नव्ययूनोर्युगं
तत्पादाम्बुजगन्धबन्धुरतरं वृन्दावनं तद्भजे ॥ ७॥
यत्र श्रीः परितो भ्रमत्यविरतं तास्ता महासिद्धयः
स्फीताः सृष्टिरलं गवामुदयनी वासोऽपि गोष्ठौकसाम् ।
वात्सल्यात्परिपालितो विहरते कृष्णः पितृभ्यां सुखै-
स्तन्नान्दीश्वरमालयं व्रजपतेर्गोष्ठोत्तमाङ्गं भजे ॥ ८॥
पुत्रस्याभ्युदयार्थमादरभरैर्मिष्टान्नपानोत्करै-
र्दिव्यानां च गवां मणिव्रजयुषां दानैरिह प्रत्यहम् ।
यो विप्रान् गणशः प्रतोषयति तद्भव्यस्य वार्तां मुहुः
स्नेहात्पृच्छति यश्च तद्गतमनास्तं गोकुलेन्द्रं भजे ॥ ९॥
पुत्रस्नेहभरैः सदा स्नुतकुचद्वन्द्वा तदीयोच्छल-
द्धर्मस्यापि लवस्य रक्षणविधौ स्वप्राणदेहार्बुदैः ।
आसक्ता क्षणमात्रमप्यकलनात्सद्यः प्रसूतेव गौ-
र्व्यग्राया विलपत्यलं बहुभयात्सा पातु गोष्ठेश्वरी ॥ १०॥
पुत्रादुच्चैरपि हलधरात्सिञ्चति स्नेहपूरै-
र्गोविन्दं याद्भुतरसवतीप्रक्रियासु प्रवीणा ।
सख्यश्रीभिर्व्रजपुरमहाराजराज्ञीं नयैस्त-
द्गोपेन्द्रं या सुखयति भजे रोहिणीमीश्वरीं ताम् ॥ ११॥
उद्यच्छुभ्रांशुकोटिद्युतिनिकरतिरस्कारकार्युज्ज्वलश्री-
र्दुर्वारोद्दामधामप्रकररिपुघटोन्मादविध्वंसिदग्धः ।
स्नेहादप्युन्निमेषं निजमनुजमितोऽरण्यभूमौ स्ववीतं
तद्वीर्यज्ञोऽपि यो न क्षणमुपनयते स्तौमि तं धेनुकारिम् ॥ १२॥
पर्जन्यनामा निजनप्तृगर्वैः पर्जन्यलक्षानिभतो विनिन्दन् ।
यो नर्म तन्वन् रमतेऽस्य कर्णे नमाम्यहो कृष्णपितामहं तम् ॥ १३॥
प्रियस्य नप्तुः सुखतोऽतिगर्वात् पादौ न यस्याः पततः पृथिव्याम् ।
नमामि नर्मार्चितनप्तृचन्द्रां वरीयसीं कृष्णपितामहीं ताम् ॥ १४॥
श्वेतश्मश्रुभरेण सुन्दरमुखः श्यामः कृती मन्त्रणा-
भिज्ञः संसदि सन्ततं व्रजपतेः कुर्वन् स्थितिर्योऽर्चितः ।
स्वप्राणार्बुदखण्डनैर्मुरभिदं भ्रातुः सुतं तोषयेत्
साहारे निवसन् सगोष्ठमवतान्नाम्नोपनन्दः सदा ॥ १५॥
गौरः कोमलधीरुदारचरितः स्निग्धो व्रजेन्द्रानुजः
श्यामश्मश्रुरलं तदीयचरणे भक्तः सुनन्दापिता ।
यः प्राणैः परिमञ्छ्य माधवसुखं दध्ना महिष्याः परं
सन्नन्दस्तनुते स पातु नितरां नः कासरीणां पतिः ॥ १६॥
श्यामः सूक्ष्ममतिर्युवातिमधुरो ज्योतिर्विदामग्रणीः
पाण्डित्यैर्जितगीष्पतिर्व्रजपतेः सव्ये कृतावस्थितिः ।
कृष्णं पालयतीह यः प्रियतमा प्राणार्बुदैरप्यलं
मन्त्रेणाप्युपनन्दसूनुमिह तं प्रीत्या सुभद्रं नुमः ॥ १७॥
दैत्याद्भीतेरतिविकलधीः कोमलाङ्गस्य सूनोः
कृष्णस्योच्चैः सततमवने वत्सला व्यग्रचित्ता ।
कृच्छ्रैरम्बां बहुभिरिभतो हन्त सन्तोष्य शूरं
दैत्यघ्नं या सुतमजनयत्साम्बिका पातु धात्री ॥ १८॥
नादैर्यस्य स्फुटति परितो दिव्यविध्यण्डकोटिः
के ते तावत्किल दितिसुताः क्षुद्रकात्क्षुद्रजीवाः ।
स्नेहान्मात्रा विजयमभितो रक्षणे संनियुक्तं
कृष्णस्यारात्परमिह भजे हन्त धात्री सुतं तम् ॥ १९॥
मन्त्रन्यासैरिह मुररिपोस्तत्पुरोधाः पुरस्तात्
सर्वाङ्गानि प्रकटनिगमो भागुरिर्योऽभिरक्ष्य ।
आशीर्भिश्च प्रतिदिनमहो तच्छिरो जिघ्रतीदं
वन्दे तावन्मुनिसुरपतेस्तस्य पादाब्जयुग्मम् ॥ २०॥
कृष्णस्योच्चैः प्रणयवसतिः सम्प्रवीणः सखीनां
श्यामाङ्गस्तत्समगुणं वयोवेशसौन्दर्यदर्पः ।
स्नेहादन्धः क्षणमकलनाज्जायते योऽवधूतः
श्रीदामानं हरिसहचरं सर्वदा तं प्रपद्ये ॥ २१॥
गाढानुरागभवतो विरहस्य भीत्या
स्वप्नेऽपि गोकुलविधोर्न जहाति हस्तम् ।
यो राधिकाप्रणयनिर्झरसिक्तचेता-
स्तं प्रेमविह्वलतनुं सुबलं नमामि ॥ २२॥
कृत्वैकत्र गवां कुलानि परितः कृष्णेन सार्धं मुदा
हस्ताहस्ति विनोदनर्मकथनैः खेलन्ति मित्रोत्कराः ।
प्रेमाम्भोधिविधौतगौरवमहापङ्कास्तदङ्कार्चिता-
स्तत्पादार्पितचित्तजीवितकला ये तान् प्रपद्यामहे ॥ २३॥
मूर्तो हास्यरसः सदैव सुमनाः कामं बुभुक्षातुरः
प्राणप्रेष्ठवयस्ययोरनुदिनं वाग्देहभङ्ग्युत्करैः ।
हास्यं यो मधुमङ्गलः प्रकटयन् सम्भ्राजते कौतुकी
तं वृन्दावनचन्द्रनर्मसचिवं प्रीत्याऽऽशु वन्दामहे ॥ २४॥
गूढं तत्सुविदग्धतार्चितसखीद्वारोन्नयन्ती तयोः
प्रेम्णा सुष्ठु विदग्धयोरनुदिनं मानाभिसारोत्सवः ।
राधामाधवयोः सुखामृतरसं यैवोपभुङ्क्ते मुहु-
र्गोष्ठे भव्यविधायिनीं भगवतीं तां पौर्णमासीं भजे ॥ २५॥
खर्वश्मश्रुमुदारमुज्ज्वलकुलं गौरं समानं स्फुरत्
पञ्चाशत्तमवर्षवन्दितवयः क्रान्तिं प्रवीणं व्रजे ।
गोष्ठेशस्य सखायमुन्नततरश्रीदामतोऽपि प्रिय-
श्रीराधं वृषभानुमुद्भटयशोव्रातं सदा तं भजे ॥ २६॥
अनुदिनमिह मात्रा राधिकाभव्यवार्ताः
कलयितुमतियत्नात्प्रेष्यते धात्रिकायाः ।
दुहितृयुगलमुच्चैः प्रेमपूरप्रपञ्चै-
र्विकलमति ययासौ कीर्तिदा सावतान्नः ॥ २७॥
प्रथमरसविलासे हन्त रोषेण तावत्
प्रकटमिव विरोधं सन्दधानापि भङ्ग्या ।
प्रवलयति सुखं या नव्ययूनोः स्वनप्त्रोः
परमिह मुखरां तां मूर्ध्नि वृद्धां वहामि ॥ २८॥
सान्द्रप्रेमरसैः प्लुता प्रियतया प्रागल्भ्यमाप्ता तयोः
प्राणप्रेष्ठवयस्ययोरनुदिनं लीलाभिसारं क्रमैः ।
वैदग्ध्येन तथा सखीं प्रति सदा मानस्य शिक्षां रसै-
र्येयं कारयतीह हन्त ललिता गृह्णातु सा मां गणैः ॥ २९॥
प्रणयललितनर्मस्फारभूमिस्तयोर्या
व्रजपुरनवयूनोर्या च कण्ठान् पिकानाम् ।
नयति परमधस्ताद्दिव्यगानेन तुष्ट्या
प्रथयतु मम दीक्षां हन्त सेयं विशाखा ॥ ३०॥
प्रतिनवनवकुञ्जं प्रेमपूरेण पूर्णा
प्रचुरसुरभिपुष्पैर्भूषयित्वा क्रमेण ।
प्रणयति बत वृन्दा तत्र नीलोत्सवं या
प्रियगणवृतराधाकृष्णयोस्तां प्रपद्ये ॥ ३१॥
सख्येनालं परमरुचिरा नर्मभव्येन राधां
पाकार्थं या व्रजपतिमहिष्याज्ञया संनयन्ती ।
प्रेम्णा शश्वत्पथि पथि हरेर्वार्तया तर्पयन्ती
तुष्यत्वेतां परमिह भजे कुन्दपूर्वां लतां ताम् ॥ ३२॥
व्रजेश्वर्याऽऽनीतां बत रसवतीकृत्यविधये
मुदा कामं नन्दीश्वरगिरिनिकुञ्जे प्रणयिनी ।
छलैः कृष्णो राधां दयितमभि तां सारयति या
धनिष्ठां तत्प्राणप्रियतरसखीं तां किल भजे ॥ ३३॥
अवन्तीतः कीर्तेः श्रवणभवतो मुग्धहृदया
प्रगाढोत्कण्ठाभिर्व्रजभुवमुरीकृत्य किल या ।
मुदा राधाकृष्णोज्ज्वलरससुखं वर्धयति तां
मुखीं नान्दीपूर्वां सततमभिवन्दे प्रणयतः ॥ ३४॥
मुदा राधाकृष्णप्रचुरजलकेली रसभर-
स्खलत्कस्तूरीतद्घुसृणघनचर्चार्चितजला ।
प्रमोदात्तौ फणस्मितमुदितमूर्मिस्फुटकर-
श्रिया सिञ्चन्तीव प्रथयतु सुखं नस्तरणिजा ॥ ३५॥
सर्वानन्दकदम्बकेन हरिणा प्राग्याचिता अप्यमूः
स्वैरं चारु रिरंसया रहसि याः क्रोधादनादृत्य ताम् ।
प्राणप्रेष्ठसखीं निजामनुदिनं तेनैव सार्धं मुदा
राधां संरमयन्ति ताः प्रियसखीं मूर्ध्ना प्रपद्येतराम् ॥ ३६॥
प्रेम्णा ये परिबण्टनेन कलिताः सेवासदैवोत्सुकाः
कुर्वाणाः परमादरेण सततं दासा वयस्योपमाः ।
वंशीदर्पणदूत्यवारिविलसत्ताम्बूलवीणादिभिः
प्राणेशं परितोषयन्ति परितस्तान् पत्रिमुख्यान् भजे ॥ ३७॥
ताम्बूलार्पणपादमर्दनपयोदानाभिसारादिवृ-
र्न्दारण्यमहेश्वरीं प्रियतया यास्तोषयन्ति प्रियाः ।
प्राणप्रेष्ठसखीकुलादपि किलासङ्कोचिताभूमिकाः
केलीभूमिषु रूपमञ्जरिमुखास्ता दासिकाः संश्रये ॥ ३८॥
तृणीकृत्य स्फारं सुखजलधिसारं स्फुटमपि
स्वकीयं प्रेम्णां ये भरनिकरनम्रा मुररिपोः ।
सुखाभासं शश्वत्प्रथयितुमलं प्रौढकुतुकाद्-
घतन्ते तान् धन्यान्परमिह भजे माधवगणान् ॥ ३९॥
तस्याः क्षणादर्शनतो म्रियन्ते सुखेन तस्याः सुखिनो भवन्ति ।
स्निग्धाः परं ये कृतपुण्यपुञ्जाः प्राणेश्वरीप्रेष्ठगणान् भजे तान् ॥ ४०॥
सापत्न्योच्चयरज्यदुज्ज्वलरसस्योच्चैः समुद्वृद्धये
सौभाग्योद्भटगर्वविभ्रमभृतः श्रीराधिकायाः स्फुटम् ।
गोविन्दः स्मरफुल्लवल्लववधूवर्गेण येन क्षणं
क्रीडत्येष तमत्र विस्तृतमहापुण्यं च वन्दामहे ॥ ४१॥
ब्रह्माण्डात्परमुच्छलत्सुखभरं तत्कोटिसङ्ख्यादपि
प्रेम्णा कृष्णसुरक्षिताः प्रतिमुहुः प्राप्ताः परं निर्वृताः ।
कामं तत्पदपद्मसुन्दरनखप्रान्तस्खलद्रेणुका
रक्षाव्यग्रधियः स्फुरन्ति किल ये तान् गोपवर्यान् भजे ॥ ४२॥
प्राणे योऽप्यधिकैः प्रियैरपि परं पुत्रैर्मुकुन्दस्य याः
स्नेहात्पादसरोजयुग्मविगलद्धर्मस्य बिन्दोः कणम् ।
निर्मञ्छ्योरुशिखण्डसुन्दरशिरश्चुम्बन्ति गोप्यश्चिरं
तासां पादरजांसि सन्ततमहं निर्मञ्छयामि स्फटम् ॥ ४३॥
इन्द्रनीलखुरराजिताः परं स्वर्णबद्धवरशृङ्गरञ्जिताः ।
पाण्डुगण्डगिरिगर्वखर्विकाः पान्तु नः सपदि कृष्णधेनवः ॥ ४४॥
यासां पालनदोहनोत्सवरतः सार्धं वयस्योत्करैः
कामं रामविराजितः प्रतिदिनं तत्पादरेणूज्ज्वलम् ।
प्रीत्या स्फीतवनोरुपर्वतनदीकच्छेषु बद्धस्पृहो
गोष्ठाखण्डलनन्दनो विहरते ताः सौरभेयीर्भजे ॥ ४५॥
मणिखचितसुवर्णश्लिष्टशृङ्गद्वयश्री-
रसितमणिमनोज्ञज्योतिरुद्यत्खुराढ्यः ।
स्फुरदरुणिमगुच्छान्दोलविद्योतिकण्ठः
स जयति बकशत्रोः पद्मगन्धः ककुद्मी ॥ ४६॥
मृदुनवतृणमल्पं सस्पृहं वक्त्रमध्ये
क्षिपति परमयत्नादल्पकण्डूं च गात्रे ।
प्रथयति मुरवैरी हन्त यद्वत्सकानां
सपदि किल दिदृक्षे तत्तदाटीकनानि ॥ ४७॥
नक्तं दिवं मुररिपोरधरामृतं या
स्फीता पिबत्यलमबाधमहो सुभाग्या ।
श्रीराधिकाप्रथितमानमपीह दिव्य-
नादैरधो नयति तां मुरलीं नमामि ॥ ४८॥
दूतीभिर्बहुचाटुभिः सखिकुलेनालं वचोभङ्गिभिः
पादान्ते पतनैर्व्रजेन्द्रतनयेनापि क्रुद्धालीगणैः ।
राधायाः सखि शक्यते दवयितुं यो नैव मानो यया
फूत्कृत्यैव निरस्यते सुकृतिनीं वंशीं सखीं तां नुमः ॥ ४९॥
स्फीतस्ताण्डविको हरेर्मुरलिकानादेन नृत्योत्सवं
घूर्णच्चारुशिखण्डवल्गुसरसीतीरे निकुञ्जाग्रतः ।
तन्वन् कुञ्जविहारिणोः सुखभरं सम्पादयेद्यस्तयोः
स्मृत्वा तं शिखिराजमुत्सुकतया बाढं दिदृक्षामहे ॥ ५०॥
सप्ताहं मुरमर्दनः प्रणयतो गोष्ठैकरक्षोत्सुको
बिभ्रन्मानमुदारपाणिरमणैर्यस्मै सलिलं ददौ ।
गान्धर्वामुरभिद्विलासविगलत्काश्मीररज्यद्गुह-
स्तत्खङ्क्तायितरत्नसुन्दरशिलो गोवर्धनः पातु वः ॥ ५१॥
नीपैश्चम्पकपालिभिर्नववराशोकै रसालोत्करैः
पुन्नागैर्बकुलैर्लवङ्गलतिका वासन्तिकाभिर्वृतैः ।
हृद्यं तत्प्रियकुण्डयोस्तटमिलन्मध्यप्रदेशं परं
राधामाधवयोः प्रियस्थलमिदं केल्यास्तदेवाश्रये ॥ ५२॥
श्रीवृन्दाविपिनं सुरम्यमपि तच्छ्रीमान्स गोवर्धनः
सा रासस्थलिकाप्यलं रसमयी किं तावदन्यस्थलम् ।
यस्याप्यंशलवेन नार्हति मनाक्साम्यं मुकुन्दस्य तत्
प्राणे योऽप्यधिकप्रियेव दयितं तत्कुण्डमेवाश्रये ॥ ५३॥
स्फीते रत्नसुवर्णमौक्तिकभरैः संनिर्मिते मण्डपे
थूत्कारं विनिधाय यत्र रभसात्तौ दम्पती निभर्रम् ।
तन्वाते रतिनाथनर्मसचिवौ तद्राज्यचर्चां मुदा
तं राधासरसीतटोज्ज्वलमहाकुञ्जं सदाहं भजे ॥ ५४॥
कान्त्या हन्त मिथः स्फुटं हृदि तटे सम्बिम्बितं द्योतते
प्रीत्या तन्मिथुनं मुदा पदकवद्रागेण बिभ्रद्ययोः ।
धात्रा भाग्यभरेण निर्मिततरे त्रैलोक्यलक्ष्म्यास्पदे
गौरश्यामतमे इमे प्रियतमे रूपे कदाहं भजे ॥ ५५॥
नेत्रोपान्तविघूर्णनैरलघु तद्दोर्मूलसञ्चालनैः
ईषद्धास्यरसैः सुधाधरधयैश्चुम्बैर्दृढालिङ्गनैः ।
एतैरिष्टमहोपचारनिचयैस्तन्नव्ययूनोर्युगं
प्रीत्या यं भजते तमुज्ज्वलमहाराजं प्रवन्दामहे ॥ ५६॥
नेत्रे दैर्घ्यमपाङ्गयोः कुटिलता वक्षोजवक्षः स्थले
स्थौल्यं तन्मृदुवाचि वक्रिमधुरा श्रोणौ पृथु स्फारता ।
सर्वाङ्गे वरमाधुरी स्फुटमभूद्येनेह लोकोत्तरा
राधामाधवयोरलं नववयः सन्धिं सदा तं भजे ॥ ५७॥
दुष्टारिष्टवधे स्वयं समुदभूत्कृष्णाङ्घ्रिपद्मादिदं
स्फीतं यन्मकरन्दविस्तृतिरिवारिष्टाख्यमिष्टं सरः ।
सोपानैः परिरञ्जितं प्रियतया श्रीराधया कारितैः
प्रेम्णालिङ्गदिव प्रिया सर इदं तन्नीत्यनित्यं भजे ॥ ५८॥
कदम्बानां व्रातैर्मधुपकुलझङ्कारललितैः
परीते यत्रैव प्रियसलिललीलाहतिमिषैः ।
मुहुर्गोपेन्द्रस्यात्मजमभिसरन्त्यम्बुजदृशो
विनोदेन प्रीत्या तदिदमवतात्पावनसरः ॥ ५९॥
पर्जन्येन पितामहेन नितरामाराध्य नारायणं
त्यक्त्वाऽऽहारमभूत पुत्रक इह स्वीयात्मजे गोष्ठपे ।
यत्रावापि सुरारिहा गिरिधरः पौत्रो गुणैकाकरः
क्षुण्णाहारतया प्रसिद्धमवनौ तन्मे तडागं गतिः ॥ ६०॥
सार्धं मानसजाह्नवीमुपनदीवर्गैः सरङ्गोत्करैः
सावित्र्यादिसुरीकुलैश्च नितरामाकाशवाण्या विधोः ।
वृन्दारण्यवरेण्यराज्यविषये श्रीपौर्णमासी मुदा
राधां यत्र सिषेच सिञ्चतु सुखं सोन्मत्तराधास्थली ॥ ६१॥
प्रीत्या नन्दीश्वरगिरितटे स्फारपाषाणवृन्दै-
श्चातुष्कोण्येऽनुकृतिगुरुभिर्निर्मिता या विदग्धैः ।
रेमे कृष्णः सखिपरिवृतो यत्र नर्माणि तन्व-
न्नास्थानीं तां हरिपदलसत्सौरभाक्तां प्रपद्ये ॥ ६२॥
वैदग्ध्योज्ज्वलवल्गुवल्लववधूवर्गेण नृत्यन्नसौ
हित्वा तं मुरजिद्रसेन रहसि श्रीराधिकां मण्डयन् ।
पुष्पालङ्कृतिसञ्चयेन रमते यत्र प्रमोदोत्करैः
त्रैलोक्याद्भुतमाधुरी परिवृता सा पातु रासस्थली ॥ ६३॥
गान्धर्विकामुरविमर्दननौविहार-
लीलाविनोदरसनिभर्रभोगिनीयम् ।
गोवर्धनोज्ज्वलशिलाकुलमुन्नयन्ती
वीचीभरैरवतु मानसजाह्नवी माम् ॥ ६४॥
येषां क्वापि च माधवो विहरते स्निग्धैर्वयस्योत्करै-
स्तद्धातुद्रवपुञ्जचित्रिततरैस्तैस्तैः स्वयं चित्रितः ।
खेलाभिः किल पालनैरपि गवां कुत्रापि नर्मोत्सवैः
श्रीराधासहितो गुहासु रमते तान् शैलवर्यान् भजे ॥ ६५॥
स्फीते यत्र सरित्सरोवरकुले गाः पालयन्निर्वृते
ग्रीष्मे वारिविहारकेलिनिवहैर्गोपेन्द्रविद्याऽऽत्मजः ।
प्रीत्या सिञ्चति मुग्धमित्रनिकरान् हर्षेण मुग्धः स्वयं
काङ्क्षन् स्वीयजयं जयार्थिन इमान्नित्यं तदेतद्भजे ॥ ६६॥
येषां कच्छपिका लसन्मुरलिकानादेन हर्षोत्करैः
स्रस्तार्धस्तृणगुच्छ एष नितरां वक्त्रेषु संस्तम्भते ।
सख्येनापि तयोः परं परिवृता राधाबकद्वेषिणोः
ते हृद्या मृगयूथपाः प्रतिदिनं मां तोषयन्तु स्फुटम् ॥ ६७॥
गुञ्जद्भृङ्गकुलेन जुष्टकुसुमैः संलब्धमञ्जुश्रियां
कुञ्जानां निकरेषु येषु रमते सौरभ्यविस्तारिणाः ।
उद्यत्कामतरङ्गरङ्गितमनस्तन्नव्ययूनोर्युगं
तेषां विस्तृतकेशपाशनिकरैः कुर्यामहो मार्जनम् ॥ ६८॥
येषां चारु तलेषु शीतनिबिडच्छायेषु रात्रिन्दिवं
पुष्पाणां विगलत्परागविलसत्तल्पेषु क्लृप्ताश्रयम् ।
प्रीत्या स्निग्धमधुव्रतैर्मधुकणैः संसेवितं तन्नवं
यूनोर्युग्मतरं मुदा विहरते ते पान्तु मां भूरुहाम् ॥ ६९॥
गान्धर्वा मुरवैरिणोः प्रणयिनोः पुष्पाणि सञ्चिन्वतोः
स्वैरं स्मेरसखीकुलेन वृतयोरीषत्स्मितेन द्वयोः ।
दृष्ट्वा केलिकलिं तयोर्नवनवं हास्येन पुष्पच्छलैः
कामं या विलसन्ति ताः किल लताः सेव्याः परं प्रेमिभिः ॥ ७०॥
परिचयरसमग्नाः काममारात्तयोर्ये
मधुरतररुतेनोल्लाआसमुल्लाआसयन्ति ।
व्रजभुवि नवयूनोः सुप्रियाः पक्षिणस्ते
विदधतु मम सौख्यं स्फारमालोकनेन ॥ ७१॥
चूतेष्वेषु कदम्बकेषु बकुलेष्वन्येषु वृक्षेष्वलं
प्रीत्या माधविकादिवल्लिषु तथा भाङ्कारनादैर्द्वयोः ।
ये भृङ्गाः परितस्तयोः सुखभरं विस्तारयन्ति स्फुटं
गुञ्जन्तो बत विभ्रमेण नितरां तानेव वन्दामहे ॥ ७२॥
पुष्पैर्यस्य मुदा स्वयं गिरिधरं स्वैरं निकुञ्जेश्वरीं
फुल्लां फुल्लतरैरमण्डयदलं फुल्लो निकुञ्जेश्वरः ।
ईषन्नेत्रविघूर्णनेन कलितस्वाधीन उच्चैस्तया
श्रीमान् स प्रथयत्वहो मम दृशोः सौख्यं कदम्बेश्वरः ॥ ७३॥
नीचैः प्रौढभयात्स्वयं सुरपतिः पादौ विधृत्येह यैः
स्वर्गङ्गासलिलैश्चकार सुरिभद्वाराभिषेकोत्सवम् ।
गोविन्दस्य नवं गवामधिपता राज्ये स्फुटं कौतुकात्
तैर्यत्प्रादुरभूत्सदा स्फुरतु तद्गोविन्दकुण्डं दृशोः ॥ ७४॥
व्रजेन्द्रवर्यार्पितभोगमुच्चैर्धृत्वा बृहत्कायमघारिरुत्कः ।
वरेण राधां छलयन् विभुङ्क्ते यत्रान्नकूटं तदहं प्रपद्ये ॥ ७५॥
गिरीन्द्रवर्योपरिहाररूपी हरिः स्वयं यत्र विहारकारी ।
सदा मुदा राजति राजभोगैर्हरिस्थलं तत्तु भजेऽनुरागैः ॥ ७६॥
घङ्क्तक्रीडाकुतुकितमना नागरेन्द्रो नवीनो
दानी भूत्वा मदननृपतेर्गव्यदानच्छलेन ।
यत्र प्रातः सखिभिरिभतो वेष्टितः संरुरोध
श्रीगान्धर्वां निजगणवृतां नौमि तां कृष्णवेदीम् ॥ ७७॥
निभृतमजनि यस्माद्दाननिर्वृतिरस्मि
यत्र इदमभिधानं प्रापयत्तत्सभायाम् ।
रसविमुखनिगूढे तत्र तज्ज्ञैकवेद्ये
सरसि भवति वासो दाननिर्वर्तनेन ॥ ७८॥
सीरिब्रह्मकदम्बखण्डसुमनोरुद्राप्सरोगौरिका
ज्योत्स्नामोक्षणमाल्यहारविबुधारीन्द्रध्वजाद्याख्यया ।
यानि श्रेष्ठसरांसि भान्ति परितो गोवर्धनाद्रेरमू-
नीडे चक्रकतीर्थदैवतगिरि श्रीरत्नपीठान्यपि ॥ ७९॥
अहो दोलाक्रीडारसवरभरोत्फुल्लवदनौ
मुहुः श्रीगान्धर्वागिरिवरधरु तौ प्रति मधु ।
सखीवृन्दं यत्र प्रकटितमुदान्दोलयति तत्
प्रसिद्धं गोविन्दस्थलमिदमुदारं बत भजे ॥ ८०॥
प्रिया प्रियप्राणवयस्यवर्गे धृतापराधं किल कालियं तम् ।
यत्रार्दयत्पादतलेन नृत्यन् हरिभर्जे तं किल कालियं ह्रदम् ॥ ८१॥
सूर्यैर्द्वादशिभः परं मुररिपुः शीतार्त उग्रातपैः
भक्तिप्रेमभरैरुदारचरितः श्रीमान्मुदा सेवितः ।
यत्र स्त्रीपुरुषैः क्वणत्पशुकुलैरावेष्टितो राजते
स्नेहैर्द्वादशसूर्यनाम तदिदं तीर्थं सदा संश्रये ॥ ८२॥
अत्यन्तातपसेवनेन परितः संजातघर्मोत्करै-
र्गोविन्दस्य शरीरतो निपतितैर्यत्तीर्थमुच्चैरभूत् ।
तत्तत्कोमलसान्द्रसुन्दरतरश्रीमत्सदङ्गोच्छल-
द्गन्धैर्हारिसुवारिसुद्युति भजे प्रस्कन्दनं वन्दनैः ॥ ८३॥
कात्यायन्यतुलार्चनार्थममले कृष्णाजले मज्जतः
कन्यानां प्रकरस्य चीरनिकरं संरक्षितं तीरतः ।
हृत्वाऽऽरुह्य कदम्बमुज्ज्वलपरीहासेन तं लज्जयन्
स्मेरंस्तं प्रददौ सुभङ्गिमुरजित्तं चीरघङ्क्तं श्रये ॥ ८४॥
हेषाभिर्जगतीत्रयं मदभरैरुत्कम्पयन्तं परैः
फुल्लन्नेत्रविघूर्णनेन परितः पूर्णं दहन्तं जगत् ।
तं तावत्तृणवद्विदीर्य बकभिद्विद्वेषिणं केशिनं
यत्र क्षालितवान् करौ सरुधिरौ तत्केशितीर्थं भजे ॥ ८५॥
अन्नैर्यत्र चतुर्विधैः पृथुगणैः स्वैरं सुधानिन्दिभिः
कामं रामसमेतमच्युतमहो स्निग्धैर्वयस्यैर्वृतम् ।
श्रीमान्याज्ञिकविज्ञसुन्दरवधूवर्गः स्वयं यो मुदा
भक्त्या भोजितवान् स्थलं च तदिदं तं चापि वन्दामहे ॥ ८६॥
मुदा गोपेन्द्रस्यात्मजभुजपरिष्वङ्गनिधये
स्फुरद्गोपीवृन्दैर्यमिह भगवन्तं प्रणयिभिः ।
भजद्भिस्तैर्भक्त्या स्वमभिलषितं प्राप्तमचिरा-
द्यमीतीरे गोपीश्वरमनुदिनं तं किल भजे ॥ ८७॥
भयात्कंसस्यारात्सदयमचिराच्छन्तनुपदे
विनिक्षिप्ता राधा रहसि किल पित्रा प्रकृतितः ।
स्फुरन्तं तं दृष्ट्वा कमपि घनपुञ्जाकृतिवरं
तमेवाप्तं यत्नाद्यमभजत सूर्योऽवतु स नः ॥ ८८॥
आविर्भावमहोत्सवे मुररिपोः स्वर्णोरुमुक्ताफल-
श्रेणीविभ्रममण्डिते नवगवीलक्षे ददौ द्वे मुदा ।
दिव्यालङ्कृतिरत्नपर्वततिलप्रस्थादिकं चादरात्
विप्रे यः किल यत्र स व्रजपतिर्वन्दे बृहत्काननम् ॥ ८९॥
गान्धर्वाया जनिमणिरभूद्यत्र सङ्कीर्तितायां
आनन्दोत्कैः सुरमुनिनरैः कीर्तिदागर्भखन्याम् ।
गोपीगोपैः सुरभीनिकरैः सम्परीतेऽत्र मुख्यै-
रावल्याख्ये वृषरविपुरे प्रीतिपूरो ममास्ताम् ॥ ९०॥
यस्य श्रीमच्चरणकमले कोमले कोमलापि
श्रीराधोच्चैर्निजसुखकृते सन्नयन्ती कुचाग्रे ।
भीताप्यारादथ न हि दधात्यस्य कार्कश्यदोषात्
स श्रीगोष्ठे प्रथयतु सदा शेषशायी स्थितिं नः ॥ ९१॥
यत्र कामसरः साक्षाद्गोपिकारमणं सरः ।
राधामाधवयोः प्रेष्ठं तद्वनं काम्यकं भजे ॥ ९२॥
मल्लीकृत्य निजाः सखीः प्रियतमा गर्वेण सम्भाविता
मल्लीभूय मदीश्वरी रसमयी मल्लत्वमुत्कण्ठया ।
यस्मिन्सम्यगुपेयूषा बकभिदा राधा नियुद्धं मुदा
कुर्वाणा मदनस्य तोषमतनोद्भाण्डीरकं तं भजे ॥ ९३॥
आकृष्टा या कुपितहलिना लाङ्गलाग्रेण कृष्णा
धीरा यान्ती लवणजलधौ कृष्णसम्बन्धहीना ।
अद्यापीत्थं सकलमनुजैर्दृश्यते सैव यस्मिन्
भक्त्या वन्देऽद्भुतमिदमहो रामघङ्क्तं प्रदेशम् ॥ ९४॥
प्राणप्रेष्ठवयस्यवर्गमुदरे पापीयसोऽघासुर-
स्यारण्योद्भटपावकोत्कटविषैर्दुष्टे प्रविष्टं पुरः ।
व्यग्रः प्रेक्ष्य रुषा प्रविश्य सहसा हत्वा खलं तं बली
यत्रैनं निजमाररक्ष मुरजित्सा पातु सर्पस्थली ॥ ९५॥
द्रष्टुं साक्षात्स्वपतिमहिमोद्रेकमुत्केन धात्रा
वत्सव्राते द्रुतमपहृते वत्सपालोत्करे च ।
तत्तद्रूपो हरिरथ भवन् यत्र तत्तत्प्रसूनां
मोदं चक्रेऽशनमपि भजे वत्सहारस्थलीं ताम् ॥ ९६॥
बाढं वत्सकवत्सपालहृतितो जातापराधाद्भयैः
ब्रह्मा सास्रमपूर्वपद्यनिवहैर्यस्मिन्निपत्यावनौ ।
तुष्टावाद्भुतवत्सपं व्रजपतेः पुत्रं मुकुन्दं मनाक्
स्मेरं भीरुचतुर्मुखाख्यमनिशं सेशं प्रदेशं नुमः ॥ ९७॥
गन्धव्याकुलभृङ्गसञ्चयचमूसंघृष्टपुष्पोत्करैः
भाजत्कल्पलता पलाशिनिकरैर्विभ्राजितानि स्फुटम् ।
यानि स्फारतडागपर्वतनदीवृन्देन राजन्त्यहो
कृष्णप्रेष्ठवनानि तानि नितरां वन्दे मुहुर्द्वादश ॥ ९८॥
पूर्णः प्रेमरसैः सदा मुररिपोर्दासः सखा च प्रियं
स्वप्राणार्बुदतोऽपि तत्पदयुगं हित्वेह मासान् दश ।
प्रीत्या यो निवसंस्तदीयकथया गोष्ठं मुहुर्जीवय-
त्यायातं किल पश्य कृष्णमिति तं मूर्ध्ना वहाम्युद्धवम् ॥ ९९॥
मुदा यत्र ब्रह्मा तृणनिकरगुल्मादिषु परं
सदा काङ्क्षन् जन्मार्पितविविधकर्माप्यनुदिनम् ।
क्रमाद्ये तत्रैव व्रजभुवि वसन्ति प्रियजना
मया ते ते वन्द्याः परमविनयात्पुण्यखचिताः ॥ १००॥
पुरा प्रेमोद्रेकैः प्रतिपदनवानन्दमधुरैः
कृतश्रीगान्धर्वाच्युतचरणवर्यार्चनबलात् ।
निकामं स्वामिन्यः प्रियतरसरस्तीरभुवने
वसन्ति स्फीता ये त इह मम जीवातव इमे ॥ १०१॥
यत्किञ्चित्तृणगुल्मकीकटमुखं गोष्ठे समस्तं हि तत्
सर्वानन्दमयं मुकुन्ददयितं लीलानुकूलं परम् ।
शास्त्रैरेव मुहुर्मुहुः स्फुटमिदं निष्टङ्कितं याच्ञया
ब्रह्मादेरपि सस्पृहेण तदिदं सर्वं मया वन्द्यते ॥ १०२॥
भ्रमन् चच्छे कच्छे क्षितिधरपतेर्वक्रिमगतैर
लपन् राधे कृष्णेत्यनवरतमुन्मत्तवदहम् ।
पतन्क्वापि क्वाप्युच्छलितनयनद्वन्द्वसलिलैः
कदा केलिस्थानं सकलमपि सिञ्चामि विकलः ॥ १०३॥
न ब्रह्मा न च नारदो नहि हरो न प्रेमभक्तोत्तमाः
सम्यग्ज्ञातुमिहाञ्जसार्हति तथा यस्योच्छलन्माधुरीम् ।
किन्त्वेको बलदेव एव परितः स्वार्धं स्वमात्रा स्फुटं
प्रेम्णाप्युद्धव एष वेत्ति नितरां किं स व्रजो वर्ण्यते ॥ १०४॥
अन्यत्र क्षणमात्रमच्युतपुरे प्रेमामृताम्भोनिधि-
स्नातोऽप्यच्युतसज्जनैरपि समं नाहं वसामि क्वचित् ।
किन्त्वत्र व्रजवासिनामपि समं येनापि केनाप्यलं
संलापैर्मम निभर्रः प्रति मुहुर्वासोऽस्तु नित्यं मम ॥ १०५॥
रागेण रूपमञ्जर्या रक्तीकृतमुरद्विषः ।
गुणाराधितराधायाः पादयुग्मे रतिर्मम ॥ १०६॥
इदं नियतमादराद्व्रजविलासनाम स्तवं
सदा व्रजजनोल्लसन्मधुरमाधुरीबन्धुरम् ।
मुहुः कुतुकसम्भृताः परिपठति ये वल्गु तत्
समं परिकरैर्दृढं मिथुनमत्र पश्यन्ति ते ॥ १०७॥
इति श्रीमद्रघुनाथदासगोस्वामिविरचितस्तवावल्यां
श्रीव्रजविलासस्तवः समाप्तः ।
Proofread by PSA Easwaran