व्रजविलासस्तवः

व्रजविलासस्तवः

अथ व्रजविलासस्तवः । श्रीश्रीराधाकृष्णपादाम्बुजेभ्यो नमः । प्रतिष्ठा रज्जूभिर्बद्धं कामाद्यैर्वर्त्मपातिभिः । छित्त्वा ताः संहरन्तस्तानघारेः पान्तु मां भटाः ॥ १॥ दग्धं वार्धकवन्यवह्निभिरलं दष्टं दुरान्ध्याहिना विद्धं मामतिपारवश्यविशिखैः क्रोधादिसिंहैर्वृतम् । स्वामिन् प्रेमसुधाद्रवं करुणया द्राक्पायय श्रीहरे येनैतानवधीर्य सन्ततमहं धीरो भवन्तं भजे ॥ २॥ यन्माधुरी दिव्यसुधारसाब्धेः स्मृतेः कणेनाप्यतिलोलितात्मा । पद्मैर्व्रजस्थानखिलान्व्रजं च नत्वा स्वनाथौ बत तौ दिदृक्षे ॥ ३॥ प्रादुर्भावसुधाद्रवेण नितरामङ्गित्वमाप्त्वा ययो- र्गोष्ठेऽतीक्ष्णमनङ्ग एष परितः क्रीडाविनोदं रसैः । प्रीत्योल्लासयतीह मुग्धमिथुनश्रेणीवतंसाविमौ गान्धर्वा गिरिधारिणौ बत कदा द्रक्ष्यामि रागेण तौ ॥ ४॥ वैकुण्ठादपि सोदरात्मजवृता द्वारावती सा प्रिया यत्र श्रीशतनिन्दिपङ्क्तमहिषीवृन्दैः प्रभुः खेलति । प्रेमक्षेत्रमसौ ततोऽपि मथुरा श्रेष्ठा हरेर्जन्मतो यत्र श्रीव्रज एव राजतितरां तामेव नित्यं भजे ॥ ५॥ यत्र क्रीडति माधवः प्रियतमैः स्निग्धः सखीनां कुलै- र्नित्यं गाढरसेन रामसहितोऽप्यद्यापि गोचारणैः । यस्याप्यद्भुतमाधुरीरसविदां हृद्येव कापि स्फुरेत् प्रेष्ठं तन्मथुरापुरादपि हरेर्गोष्ठं तदेवाश्रये ॥ ६॥ वैदग्ध्योत्तरनर्मकर्मठसखीवृन्दैः परीतं रसैः प्रत्येकं तरुकुञ्जवल्लरिगिरिद्रोणीषु रात्रिन्दिवम् । नानाकेलिभरेण यत्र रमते तन्नव्ययूनोर्युगं तत्पादाम्बुजगन्धबन्धुरतरं वृन्दावनं तद्भजे ॥ ७॥ यत्र श्रीः परितो भ्रमत्यविरतं तास्ता महासिद्धयः स्फीताः सृष्टिरलं गवामुदयनी वासोऽपि गोष्ठौकसाम् । वात्सल्यात्परिपालितो विहरते कृष्णः पितृभ्यां सुखै- स्तन्नान्दीश्वरमालयं व्रजपतेर्गोष्ठोत्तमाङ्गं भजे ॥ ८॥ पुत्रस्याभ्युदयार्थमादरभरैर्मिष्टान्नपानोत्करै- र्दिव्यानां च गवां मणिव्रजयुषां दानैरिह प्रत्यहम् । यो विप्रान् गणशः प्रतोषयति तद्भव्यस्य वार्तां मुहुः स्नेहात्पृच्छति यश्च तद्गतमनास्तं गोकुलेन्द्रं भजे ॥ ९॥ पुत्रस्नेहभरैः सदा स्नुतकुचद्वन्द्वा तदीयोच्छल- द्धर्मस्यापि लवस्य रक्षणविधौ स्वप्राणदेहार्बुदैः । आसक्ता क्षणमात्रमप्यकलनात्सद्यः प्रसूतेव गौ- र्व्यग्राया विलपत्यलं बहुभयात्सा पातु गोष्ठेश्वरी ॥ १०॥ पुत्रादुच्चैरपि हलधरात्सिञ्चति स्नेहपूरै- र्गोविन्दं याद्भुतरसवतीप्रक्रियासु प्रवीणा । सख्यश्रीभिर्व्रजपुरमहाराजराज्ञीं नयैस्त- द्गोपेन्द्रं या सुखयति भजे रोहिणीमीश्वरीं ताम् ॥ ११॥ उद्यच्छुभ्रांशुकोटिद्युतिनिकरतिरस्कारकार्युज्ज्वलश्री- र्दुर्वारोद्दामधामप्रकररिपुघटोन्मादविध्वंसिदग्धः । स्नेहादप्युन्निमेषं निजमनुजमितोऽरण्यभूमौ स्ववीतं तद्वीर्यज्ञोऽपि यो न क्षणमुपनयते स्तौमि तं धेनुकारिम् ॥ १२॥ पर्जन्यनामा निजनप्तृगर्वैः पर्जन्यलक्षानिभतो विनिन्दन् । यो नर्म तन्वन् रमतेऽस्य कर्णे नमाम्यहो कृष्णपितामहं तम् ॥ १३॥ प्रियस्य नप्तुः सुखतोऽतिगर्वात् पादौ न यस्याः पततः पृथिव्याम् । नमामि नर्मार्चितनप्तृचन्द्रां वरीयसीं कृष्णपितामहीं ताम् ॥ १४॥ श्वेतश्मश्रुभरेण सुन्दरमुखः श्यामः कृती मन्त्रणा- भिज्ञः संसदि सन्ततं व्रजपतेः कुर्वन् स्थितिर्योऽर्चितः । स्वप्राणार्बुदखण्डनैर्मुरभिदं भ्रातुः सुतं तोषयेत् साहारे निवसन् सगोष्ठमवतान्नाम्नोपनन्दः सदा ॥ १५॥ गौरः कोमलधीरुदारचरितः स्निग्धो व्रजेन्द्रानुजः श्यामश्मश्रुरलं तदीयचरणे भक्तः सुनन्दापिता । यः प्राणैः परिमञ्छ्य माधवसुखं दध्ना महिष्याः परं सन्नन्दस्तनुते स पातु नितरां नः कासरीणां पतिः ॥ १६॥ श्यामः सूक्ष्ममतिर्युवातिमधुरो ज्योतिर्विदामग्रणीः पाण्डित्यैर्जितगीष्पतिर्व्रजपतेः सव्ये कृतावस्थितिः । कृष्णं पालयतीह यः प्रियतमा प्राणार्बुदैरप्यलं मन्त्रेणाप्युपनन्दसूनुमिह तं प्रीत्या सुभद्रं नुमः ॥ १७॥ दैत्याद्भीतेरतिविकलधीः कोमलाङ्गस्य सूनोः कृष्णस्योच्चैः सततमवने वत्सला व्यग्रचित्ता । कृच्छ्रैरम्बां बहुभिरिभतो हन्त सन्तोष्य शूरं दैत्यघ्नं या सुतमजनयत्साम्बिका पातु धात्री ॥ १८॥ नादैर्यस्य स्फुटति परितो दिव्यविध्यण्डकोटिः के ते तावत्किल दितिसुताः क्षुद्रकात्क्षुद्रजीवाः । स्नेहान्मात्रा विजयमभितो रक्षणे संनियुक्तं कृष्णस्यारात्परमिह भजे हन्त धात्री सुतं तम् ॥ १९॥ मन्त्रन्यासैरिह मुररिपोस्तत्पुरोधाः पुरस्तात् सर्वाङ्गानि प्रकटनिगमो भागुरिर्योऽभिरक्ष्य । आशीर्भिश्च प्रतिदिनमहो तच्छिरो जिघ्रतीदं वन्दे तावन्मुनिसुरपतेस्तस्य पादाब्जयुग्मम् ॥ २०॥ कृष्णस्योच्चैः प्रणयवसतिः सम्प्रवीणः सखीनां श्यामाङ्गस्तत्समगुणं वयोवेशसौन्दर्यदर्पः । स्नेहादन्धः क्षणमकलनाज्जायते योऽवधूतः श्रीदामानं हरिसहचरं सर्वदा तं प्रपद्ये ॥ २१॥ गाढानुरागभवतो विरहस्य भीत्या स्वप्नेऽपि गोकुलविधोर्न जहाति हस्तम् । यो राधिकाप्रणयनिर्झरसिक्तचेता- स्तं प्रेमविह्वलतनुं सुबलं नमामि ॥ २२॥ कृत्वैकत्र गवां कुलानि परितः कृष्णेन सार्धं मुदा हस्ताहस्ति विनोदनर्मकथनैः खेलन्ति मित्रोत्कराः । प्रेमाम्भोधिविधौतगौरवमहापङ्कास्तदङ्कार्चिता- स्तत्पादार्पितचित्तजीवितकला ये तान् प्रपद्यामहे ॥ २३॥ मूर्तो हास्यरसः सदैव सुमनाः कामं बुभुक्षातुरः प्राणप्रेष्ठवयस्ययोरनुदिनं वाग्देहभङ्ग्युत्करैः । हास्यं यो मधुमङ्गलः प्रकटयन् सम्भ्राजते कौतुकी तं वृन्दावनचन्द्रनर्मसचिवं प्रीत्याऽऽशु वन्दामहे ॥ २४॥ गूढं तत्सुविदग्धतार्चितसखीद्वारोन्नयन्ती तयोः प्रेम्णा सुष्ठु विदग्धयोरनुदिनं मानाभिसारोत्सवः । राधामाधवयोः सुखामृतरसं यैवोपभुङ्क्ते मुहु- र्गोष्ठे भव्यविधायिनीं भगवतीं तां पौर्णमासीं भजे ॥ २५॥ खर्वश्मश्रुमुदारमुज्ज्वलकुलं गौरं समानं स्फुरत् पञ्चाशत्तमवर्षवन्दितवयः क्रान्तिं प्रवीणं व्रजे । गोष्ठेशस्य सखायमुन्नततरश्रीदामतोऽपि प्रिय- श्रीराधं वृषभानुमुद्भटयशोव्रातं सदा तं भजे ॥ २६॥ अनुदिनमिह मात्रा राधिकाभव्यवार्ताः कलयितुमतियत्नात्प्रेष्यते धात्रिकायाः । दुहितृयुगलमुच्चैः प्रेमपूरप्रपञ्चै- र्विकलमति ययासौ कीर्तिदा सावतान्नः ॥ २७॥ प्रथमरसविलासे हन्त रोषेण तावत् प्रकटमिव विरोधं सन्दधानापि भङ्ग्या । प्रवलयति सुखं या नव्ययूनोः स्वनप्त्रोः परमिह मुखरां तां मूर्ध्नि वृद्धां वहामि ॥ २८॥ सान्द्रप्रेमरसैः प्लुता प्रियतया प्रागल्भ्यमाप्ता तयोः प्राणप्रेष्ठवयस्ययोरनुदिनं लीलाभिसारं क्रमैः । वैदग्ध्येन तथा सखीं प्रति सदा मानस्य शिक्षां रसै- र्येयं कारयतीह हन्त ललिता गृह्णातु सा मां गणैः ॥ २९॥ प्रणयललितनर्मस्फारभूमिस्तयोर्या व्रजपुरनवयूनोर्या च कण्ठान् पिकानाम् । नयति परमधस्ताद्दिव्यगानेन तुष्ट्या प्रथयतु मम दीक्षां हन्त सेयं विशाखा ॥ ३०॥ प्रतिनवनवकुञ्जं प्रेमपूरेण पूर्णा प्रचुरसुरभिपुष्पैर्भूषयित्वा क्रमेण । प्रणयति बत वृन्दा तत्र नीलोत्सवं या प्रियगणवृतराधाकृष्णयोस्तां प्रपद्ये ॥ ३१॥ सख्येनालं परमरुचिरा नर्मभव्येन राधां पाकार्थं या व्रजपतिमहिष्याज्ञया संनयन्ती । प्रेम्णा शश्वत्पथि पथि हरेर्वार्तया तर्पयन्ती तुष्यत्वेतां परमिह भजे कुन्दपूर्वां लतां ताम् ॥ ३२॥ व्रजेश्वर्याऽऽनीतां बत रसवतीकृत्यविधये मुदा कामं नन्दीश्वरगिरिनिकुञ्जे प्रणयिनी । छलैः कृष्णो राधां दयितमभि तां सारयति या धनिष्ठां तत्प्राणप्रियतरसखीं तां किल भजे ॥ ३३॥ अवन्तीतः कीर्तेः श्रवणभवतो मुग्धहृदया प्रगाढोत्कण्ठाभिर्व्रजभुवमुरीकृत्य किल या । मुदा राधाकृष्णोज्ज्वलरससुखं वर्धयति तां मुखीं नान्दीपूर्वां सततमभिवन्दे प्रणयतः ॥ ३४॥ मुदा राधाकृष्णप्रचुरजलकेली रसभर- स्खलत्कस्तूरीतद्घुसृणघनचर्चार्चितजला । प्रमोदात्तौ फणस्मितमुदितमूर्मिस्फुटकर- श्रिया सिञ्चन्तीव प्रथयतु सुखं नस्तरणिजा ॥ ३५॥ सर्वानन्दकदम्बकेन हरिणा प्राग्याचिता अप्यमूः स्वैरं चारु रिरंसया रहसि याः क्रोधादनादृत्य ताम् । प्राणप्रेष्ठसखीं निजामनुदिनं तेनैव सार्धं मुदा राधां संरमयन्ति ताः प्रियसखीं मूर्ध्ना प्रपद्येतराम् ॥ ३६॥ प्रेम्णा ये परिबण्टनेन कलिताः सेवासदैवोत्सुकाः कुर्वाणाः परमादरेण सततं दासा वयस्योपमाः । वंशीदर्पणदूत्यवारिविलसत्ताम्बूलवीणादिभिः प्राणेशं परितोषयन्ति परितस्तान् पत्रिमुख्यान् भजे ॥ ३७॥ ताम्बूलार्पणपादमर्दनपयोदानाभिसारादिवृ- र्न्दारण्यमहेश्वरीं प्रियतया यास्तोषयन्ति प्रियाः । प्राणप्रेष्ठसखीकुलादपि किलासङ्कोचिताभूमिकाः केलीभूमिषु रूपमञ्जरिमुखास्ता दासिकाः संश्रये ॥ ३८॥ तृणीकृत्य स्फारं सुखजलधिसारं स्फुटमपि स्वकीयं प्रेम्णां ये भरनिकरनम्रा मुररिपोः । सुखाभासं शश्वत्प्रथयितुमलं प्रौढकुतुकाद्- घतन्ते तान् धन्यान्परमिह भजे माधवगणान् ॥ ३९॥ तस्याः क्षणादर्शनतो म्रियन्ते सुखेन तस्याः सुखिनो भवन्ति । स्निग्धाः परं ये कृतपुण्यपुञ्जाः प्राणेश्वरीप्रेष्ठगणान् भजे तान् ॥ ४०॥ सापत्न्योच्चयरज्यदुज्ज्वलरसस्योच्चैः समुद्वृद्धये सौभाग्योद्भटगर्वविभ्रमभृतः श्रीराधिकायाः स्फुटम् । गोविन्दः स्मरफुल्लवल्लववधूवर्गेण येन क्षणं क्रीडत्येष तमत्र विस्तृतमहापुण्यं च वन्दामहे ॥ ४१॥ ब्रह्माण्डात्परमुच्छलत्सुखभरं तत्कोटिसङ्ख्यादपि प्रेम्णा कृष्णसुरक्षिताः प्रतिमुहुः प्राप्ताः परं निर्वृताः । कामं तत्पदपद्मसुन्दरनखप्रान्तस्खलद्रेणुका रक्षाव्यग्रधियः स्फुरन्ति किल ये तान् गोपवर्यान् भजे ॥ ४२॥ प्राणे योऽप्यधिकैः प्रियैरपि परं पुत्रैर्मुकुन्दस्य याः स्नेहात्पादसरोजयुग्मविगलद्धर्मस्य बिन्दोः कणम् । निर्मञ्छ्योरुशिखण्डसुन्दरशिरश्चुम्बन्ति गोप्यश्चिरं तासां पादरजांसि सन्ततमहं निर्मञ्छयामि स्फटम् ॥ ४३॥ इन्द्रनीलखुरराजिताः परं स्वर्णबद्धवरश‍ृङ्गरञ्जिताः । पाण्डुगण्डगिरिगर्वखर्विकाः पान्तु नः सपदि कृष्णधेनवः ॥ ४४॥ यासां पालनदोहनोत्सवरतः सार्धं वयस्योत्करैः कामं रामविराजितः प्रतिदिनं तत्पादरेणूज्ज्वलम् । प्रीत्या स्फीतवनोरुपर्वतनदीकच्छेषु बद्धस्पृहो गोष्ठाखण्डलनन्दनो विहरते ताः सौरभेयीर्भजे ॥ ४५॥ मणिखचितसुवर्णश्लिष्टश‍ृङ्गद्वयश्री- रसितमणिमनोज्ञज्योतिरुद्यत्खुराढ्यः । स्फुरदरुणिमगुच्छान्दोलविद्योतिकण्ठः स जयति बकशत्रोः पद्मगन्धः ककुद्मी ॥ ४६॥ मृदुनवतृणमल्पं सस्पृहं वक्त्रमध्ये क्षिपति परमयत्नादल्पकण्डूं च गात्रे । प्रथयति मुरवैरी हन्त यद्वत्सकानां सपदि किल दिदृक्षे तत्तदाटीकनानि ॥ ४७॥ नक्तं दिवं मुररिपोरधरामृतं या स्फीता पिबत्यलमबाधमहो सुभाग्या । श्रीराधिकाप्रथितमानमपीह दिव्य- नादैरधो नयति तां मुरलीं नमामि ॥ ४८॥ दूतीभिर्बहुचाटुभिः सखिकुलेनालं वचोभङ्गिभिः पादान्ते पतनैर्व्रजेन्द्रतनयेनापि क्रुद्धालीगणैः । राधायाः सखि शक्यते दवयितुं यो नैव मानो यया फूत्कृत्यैव निरस्यते सुकृतिनीं वंशीं सखीं तां नुमः ॥ ४९॥ स्फीतस्ताण्डविको हरेर्मुरलिकानादेन नृत्योत्सवं घूर्णच्चारुशिखण्डवल्गुसरसीतीरे निकुञ्जाग्रतः । तन्वन् कुञ्जविहारिणोः सुखभरं सम्पादयेद्यस्तयोः स्मृत्वा तं शिखिराजमुत्सुकतया बाढं दिदृक्षामहे ॥ ५०॥ सप्ताहं मुरमर्दनः प्रणयतो गोष्ठैकरक्षोत्सुको बिभ्रन्मानमुदारपाणिरमणैर्यस्मै सलिलं ददौ । गान्धर्वामुरभिद्विलासविगलत्काश्मीररज्यद्गुह- स्तत्खङ्क्तायितरत्नसुन्दरशिलो गोवर्धनः पातु वः ॥ ५१॥ नीपैश्चम्पकपालिभिर्नववराशोकै रसालोत्करैः पुन्नागैर्बकुलैर्लवङ्गलतिका वासन्तिकाभिर्वृतैः । हृद्यं तत्प्रियकुण्डयोस्तटमिलन्मध्यप्रदेशं परं राधामाधवयोः प्रियस्थलमिदं केल्यास्तदेवाश्रये ॥ ५२॥ श्रीवृन्दाविपिनं सुरम्यमपि तच्छ्रीमान्स गोवर्धनः सा रासस्थलिकाप्यलं रसमयी किं तावदन्यस्थलम् । यस्याप्यंशलवेन नार्हति मनाक्साम्यं मुकुन्दस्य तत् प्राणे योऽप्यधिकप्रियेव दयितं तत्कुण्डमेवाश्रये ॥ ५३॥ स्फीते रत्नसुवर्णमौक्तिकभरैः संनिर्मिते मण्डपे थूत्कारं विनिधाय यत्र रभसात्तौ दम्पती निभर्रम् । तन्वाते रतिनाथनर्मसचिवौ तद्राज्यचर्चां मुदा तं राधासरसीतटोज्ज्वलमहाकुञ्जं सदाहं भजे ॥ ५४॥ कान्त्या हन्त मिथः स्फुटं हृदि तटे सम्बिम्बितं द्योतते प्रीत्या तन्मिथुनं मुदा पदकवद्रागेण बिभ्रद्ययोः । धात्रा भाग्यभरेण निर्मिततरे त्रैलोक्यलक्ष्म्यास्पदे गौरश्यामतमे इमे प्रियतमे रूपे कदाहं भजे ॥ ५५॥ नेत्रोपान्तविघूर्णनैरलघु तद्दोर्मूलसञ्चालनैः ईषद्धास्यरसैः सुधाधरधयैश्चुम्बैर्दृढालिङ्गनैः । एतैरिष्टमहोपचारनिचयैस्तन्नव्ययूनोर्युगं प्रीत्या यं भजते तमुज्ज्वलमहाराजं प्रवन्दामहे ॥ ५६॥ नेत्रे दैर्घ्यमपाङ्गयोः कुटिलता वक्षोजवक्षः स्थले स्थौल्यं तन्मृदुवाचि वक्रिमधुरा श्रोणौ पृथु स्फारता । सर्वाङ्गे वरमाधुरी स्फुटमभूद्येनेह लोकोत्तरा राधामाधवयोरलं नववयः सन्धिं सदा तं भजे ॥ ५७॥ दुष्टारिष्टवधे स्वयं समुदभूत्कृष्णाङ्घ्रिपद्मादिदं स्फीतं यन्मकरन्दविस्तृतिरिवारिष्टाख्यमिष्टं सरः । सोपानैः परिरञ्जितं प्रियतया श्रीराधया कारितैः प्रेम्णालिङ्गदिव प्रिया सर इदं तन्नीत्यनित्यं भजे ॥ ५८॥ कदम्बानां व्रातैर्मधुपकुलझङ्कारललितैः परीते यत्रैव प्रियसलिललीलाहतिमिषैः । मुहुर्गोपेन्द्रस्यात्मजमभिसरन्त्यम्बुजदृशो विनोदेन प्रीत्या तदिदमवतात्पावनसरः ॥ ५९॥ पर्जन्येन पितामहेन नितरामाराध्य नारायणं त्यक्त्वाऽऽहारमभूत पुत्रक इह स्वीयात्मजे गोष्ठपे । यत्रावापि सुरारिहा गिरिधरः पौत्रो गुणैकाकरः क्षुण्णाहारतया प्रसिद्धमवनौ तन्मे तडागं गतिः ॥ ६०॥ सार्धं मानसजाह्नवीमुपनदीवर्गैः सरङ्गोत्करैः सावित्र्यादिसुरीकुलैश्च नितरामाकाशवाण्या विधोः । वृन्दारण्यवरेण्यराज्यविषये श्रीपौर्णमासी मुदा राधां यत्र सिषेच सिञ्चतु सुखं सोन्मत्तराधास्थली ॥ ६१॥ प्रीत्या नन्दीश्वरगिरितटे स्फारपाषाणवृन्दै- श्चातुष्कोण्येऽनुकृतिगुरुभिर्निर्मिता या विदग्धैः । रेमे कृष्णः सखिपरिवृतो यत्र नर्माणि तन्व- न्नास्थानीं तां हरिपदलसत्सौरभाक्तां प्रपद्ये ॥ ६२॥ वैदग्ध्योज्ज्वलवल्गुवल्लववधूवर्गेण नृत्यन्नसौ हित्वा तं मुरजिद्रसेन रहसि श्रीराधिकां मण्डयन् । पुष्पालङ्कृतिसञ्चयेन रमते यत्र प्रमोदोत्करैः त्रैलोक्याद्भुतमाधुरी परिवृता सा पातु रासस्थली ॥ ६३॥ गान्धर्विकामुरविमर्दननौविहार- लीलाविनोदरसनिभर्रभोगिनीयम् । गोवर्धनोज्ज्वलशिलाकुलमुन्नयन्ती वीचीभरैरवतु मानसजाह्नवी माम् ॥ ६४॥ येषां क्वापि च माधवो विहरते स्निग्धैर्वयस्योत्करै- स्तद्धातुद्रवपुञ्जचित्रिततरैस्तैस्तैः स्वयं चित्रितः । खेलाभिः किल पालनैरपि गवां कुत्रापि नर्मोत्सवैः श्रीराधासहितो गुहासु रमते तान् शैलवर्यान् भजे ॥ ६५॥ स्फीते यत्र सरित्सरोवरकुले गाः पालयन्निर्वृते ग्रीष्मे वारिविहारकेलिनिवहैर्गोपेन्द्रविद्याऽऽत्मजः । प्रीत्या सिञ्चति मुग्धमित्रनिकरान् हर्षेण मुग्धः स्वयं काङ्क्षन् स्वीयजयं जयार्थिन इमान्नित्यं तदेतद्भजे ॥ ६६॥ येषां कच्छपिका लसन्मुरलिकानादेन हर्षोत्करैः स्रस्तार्धस्तृणगुच्छ एष नितरां वक्त्रेषु संस्तम्भते । सख्येनापि तयोः परं परिवृता राधाबकद्वेषिणोः ते हृद्या मृगयूथपाः प्रतिदिनं मां तोषयन्तु स्फुटम् ॥ ६७॥ गुञ्जद्भृङ्गकुलेन जुष्टकुसुमैः संलब्धमञ्जुश्रियां कुञ्जानां निकरेषु येषु रमते सौरभ्यविस्तारिणाः । उद्यत्कामतरङ्गरङ्गितमनस्तन्नव्ययूनोर्युगं तेषां विस्तृतकेशपाशनिकरैः कुर्यामहो मार्जनम् ॥ ६८॥ येषां चारु तलेषु शीतनिबिडच्छायेषु रात्रिन्दिवं पुष्पाणां विगलत्परागविलसत्तल्पेषु क्लृप्ताश्रयम् । प्रीत्या स्निग्धमधुव्रतैर्मधुकणैः संसेवितं तन्नवं यूनोर्युग्मतरं मुदा विहरते ते पान्तु मां भूरुहाम् ॥ ६९॥ गान्धर्वा मुरवैरिणोः प्रणयिनोः पुष्पाणि सञ्चिन्वतोः स्वैरं स्मेरसखीकुलेन वृतयोरीषत्स्मितेन द्वयोः । दृष्ट्वा केलिकलिं तयोर्नवनवं हास्येन पुष्पच्छलैः कामं या विलसन्ति ताः किल लताः सेव्याः परं प्रेमिभिः ॥ ७०॥ परिचयरसमग्नाः काममारात्तयोर्ये मधुरतररुतेनोल्लाआसमुल्लाआसयन्ति । व्रजभुवि नवयूनोः सुप्रियाः पक्षिणस्ते विदधतु मम सौख्यं स्फारमालोकनेन ॥ ७१॥ चूतेष्वेषु कदम्बकेषु बकुलेष्वन्येषु वृक्षेष्वलं प्रीत्या माधविकादिवल्लिषु तथा भाङ्कारनादैर्द्वयोः । ये भृङ्गाः परितस्तयोः सुखभरं विस्तारयन्ति स्फुटं गुञ्जन्तो बत विभ्रमेण नितरां तानेव वन्दामहे ॥ ७२॥ पुष्पैर्यस्य मुदा स्वयं गिरिधरं स्वैरं निकुञ्जेश्वरीं फुल्लां फुल्लतरैरमण्डयदलं फुल्लो निकुञ्जेश्वरः । ईषन्नेत्रविघूर्णनेन कलितस्वाधीन उच्चैस्तया श्रीमान् स प्रथयत्वहो मम दृशोः सौख्यं कदम्बेश्वरः ॥ ७३॥ नीचैः प्रौढभयात्स्वयं सुरपतिः पादौ विधृत्येह यैः स्वर्गङ्गासलिलैश्चकार सुरिभद्वाराभिषेकोत्सवम् । गोविन्दस्य नवं गवामधिपता राज्ये स्फुटं कौतुकात् तैर्यत्प्रादुरभूत्सदा स्फुरतु तद्गोविन्दकुण्डं दृशोः ॥ ७४॥ व्रजेन्द्रवर्यार्पितभोगमुच्चैर्धृत्वा बृहत्कायमघारिरुत्कः । वरेण राधां छलयन् विभुङ्क्ते यत्रान्नकूटं तदहं प्रपद्ये ॥ ७५॥ गिरीन्द्रवर्योपरिहाररूपी हरिः स्वयं यत्र विहारकारी । सदा मुदा राजति राजभोगैर्हरिस्थलं तत्तु भजेऽनुरागैः ॥ ७६॥ घङ्क्तक्रीडाकुतुकितमना नागरेन्द्रो नवीनो दानी भूत्वा मदननृपतेर्गव्यदानच्छलेन । यत्र प्रातः सखिभिरिभतो वेष्टितः संरुरोध श्रीगान्धर्वां निजगणवृतां नौमि तां कृष्णवेदीम् ॥ ७७॥ निभृतमजनि यस्माद्दाननिर्वृतिरस्मि यत्र इदमभिधानं प्रापयत्तत्सभायाम् । रसविमुखनिगूढे तत्र तज्ज्ञैकवेद्ये सरसि भवति वासो दाननिर्वर्तनेन ॥ ७८॥ सीरिब्रह्मकदम्बखण्डसुमनोरुद्राप्सरोगौरिका ज्योत्स्नामोक्षणमाल्यहारविबुधारीन्द्रध्वजाद्याख्यया । यानि श्रेष्ठसरांसि भान्ति परितो गोवर्धनाद्रेरमू- नीडे चक्रकतीर्थदैवतगिरि श्रीरत्नपीठान्यपि ॥ ७९॥ अहो दोलाक्रीडारसवरभरोत्फुल्लवदनौ मुहुः श्रीगान्धर्वागिरिवरधरु तौ प्रति मधु । सखीवृन्दं यत्र प्रकटितमुदान्दोलयति तत् प्रसिद्धं गोविन्दस्थलमिदमुदारं बत भजे ॥ ८०॥ प्रिया प्रियप्राणवयस्यवर्गे धृतापराधं किल कालियं तम् । यत्रार्दयत्पादतलेन नृत्यन् हरिभर्जे तं किल कालियं ह्रदम् ॥ ८१॥ सूर्यैर्द्वादशिभः परं मुररिपुः शीतार्त उग्रातपैः भक्तिप्रेमभरैरुदारचरितः श्रीमान्मुदा सेवितः । यत्र स्त्रीपुरुषैः क्वणत्पशुकुलैरावेष्टितो राजते स्नेहैर्द्वादशसूर्यनाम तदिदं तीर्थं सदा संश्रये ॥ ८२॥ अत्यन्तातपसेवनेन परितः संजातघर्मोत्करै- र्गोविन्दस्य शरीरतो निपतितैर्यत्तीर्थमुच्चैरभूत् । तत्तत्कोमलसान्द्रसुन्दरतरश्रीमत्सदङ्गोच्छल- द्गन्धैर्हारिसुवारिसुद्युति भजे प्रस्कन्दनं वन्दनैः ॥ ८३॥ कात्यायन्यतुलार्चनार्थममले कृष्णाजले मज्जतः कन्यानां प्रकरस्य चीरनिकरं संरक्षितं तीरतः । हृत्वाऽऽरुह्य कदम्बमुज्ज्वलपरीहासेन तं लज्जयन् स्मेरंस्तं प्रददौ सुभङ्गिमुरजित्तं चीरघङ्क्तं श्रये ॥ ८४॥ हेषाभिर्जगतीत्रयं मदभरैरुत्कम्पयन्तं परैः फुल्लन्नेत्रविघूर्णनेन परितः पूर्णं दहन्तं जगत् । तं तावत्तृणवद्विदीर्य बकभिद्विद्वेषिणं केशिनं यत्र क्षालितवान् करौ सरुधिरौ तत्केशितीर्थं भजे ॥ ८५॥ अन्नैर्यत्र चतुर्विधैः पृथुगणैः स्वैरं सुधानिन्दिभिः कामं रामसमेतमच्युतमहो स्निग्धैर्वयस्यैर्वृतम् । श्रीमान्याज्ञिकविज्ञसुन्दरवधूवर्गः स्वयं यो मुदा भक्त्या भोजितवान् स्थलं च तदिदं तं चापि वन्दामहे ॥ ८६॥ मुदा गोपेन्द्रस्यात्मजभुजपरिष्वङ्गनिधये स्फुरद्गोपीवृन्दैर्यमिह भगवन्तं प्रणयिभिः । भजद्भिस्तैर्भक्त्या स्वमभिलषितं प्राप्तमचिरा- द्यमीतीरे गोपीश्वरमनुदिनं तं किल भजे ॥ ८७॥ भयात्कंसस्यारात्सदयमचिराच्छन्तनुपदे विनिक्षिप्ता राधा रहसि किल पित्रा प्रकृतितः । स्फुरन्तं तं दृष्ट्वा कमपि घनपुञ्जाकृतिवरं तमेवाप्तं यत्नाद्यमभजत सूर्योऽवतु स नः ॥ ८८॥ आविर्भावमहोत्सवे मुररिपोः स्वर्णोरुमुक्ताफल- श्रेणीविभ्रममण्डिते नवगवीलक्षे ददौ द्वे मुदा । दिव्यालङ्कृतिरत्नपर्वततिलप्रस्थादिकं चादरात् विप्रे यः किल यत्र स व्रजपतिर्वन्दे बृहत्काननम् ॥ ८९॥ गान्धर्वाया जनिमणिरभूद्यत्र सङ्कीर्तितायां आनन्दोत्कैः सुरमुनिनरैः कीर्तिदागर्भखन्याम् । गोपीगोपैः सुरभीनिकरैः सम्परीतेऽत्र मुख्यै- रावल्याख्ये वृषरविपुरे प्रीतिपूरो ममास्ताम् ॥ ९०॥ यस्य श्रीमच्चरणकमले कोमले कोमलापि श्रीराधोच्चैर्निजसुखकृते सन्नयन्ती कुचाग्रे । भीताप्यारादथ न हि दधात्यस्य कार्कश्यदोषात् स श्रीगोष्ठे प्रथयतु सदा शेषशायी स्थितिं नः ॥ ९१॥ यत्र कामसरः साक्षाद्गोपिकारमणं सरः । राधामाधवयोः प्रेष्ठं तद्वनं काम्यकं भजे ॥ ९२॥ मल्लीकृत्य निजाः सखीः प्रियतमा गर्वेण सम्भाविता मल्लीभूय मदीश्वरी रसमयी मल्लत्वमुत्कण्ठया । यस्मिन्सम्यगुपेयूषा बकभिदा राधा नियुद्धं मुदा कुर्वाणा मदनस्य तोषमतनोद्भाण्डीरकं तं भजे ॥ ९३॥ आकृष्टा या कुपितहलिना लाङ्गलाग्रेण कृष्णा धीरा यान्ती लवणजलधौ कृष्णसम्बन्धहीना । अद्यापीत्थं सकलमनुजैर्दृश्यते सैव यस्मिन् भक्त्या वन्देऽद्भुतमिदमहो रामघङ्क्तं प्रदेशम् ॥ ९४॥ प्राणप्रेष्ठवयस्यवर्गमुदरे पापीयसोऽघासुर- स्यारण्योद्भटपावकोत्कटविषैर्दुष्टे प्रविष्टं पुरः । व्यग्रः प्रेक्ष्य रुषा प्रविश्य सहसा हत्वा खलं तं बली यत्रैनं निजमाररक्ष मुरजित्सा पातु सर्पस्थली ॥ ९५॥ द्रष्टुं साक्षात्स्वपतिमहिमोद्रेकमुत्केन धात्रा वत्सव्राते द्रुतमपहृते वत्सपालोत्करे च । तत्तद्रूपो हरिरथ भवन् यत्र तत्तत्प्रसूनां मोदं चक्रेऽशनमपि भजे वत्सहारस्थलीं ताम् ॥ ९६॥ बाढं वत्सकवत्सपालहृतितो जातापराधाद्भयैः ब्रह्मा सास्रमपूर्वपद्यनिवहैर्यस्मिन्निपत्यावनौ । तुष्टावाद्भुतवत्सपं व्रजपतेः पुत्रं मुकुन्दं मनाक् स्मेरं भीरुचतुर्मुखाख्यमनिशं सेशं प्रदेशं नुमः ॥ ९७॥ गन्धव्याकुलभृङ्गसञ्चयचमूसंघृष्टपुष्पोत्करैः भाजत्कल्पलता पलाशिनिकरैर्विभ्राजितानि स्फुटम् । यानि स्फारतडागपर्वतनदीवृन्देन राजन्त्यहो कृष्णप्रेष्ठवनानि तानि नितरां वन्दे मुहुर्द्वादश ॥ ९८॥ पूर्णः प्रेमरसैः सदा मुररिपोर्दासः सखा च प्रियं स्वप्राणार्बुदतोऽपि तत्पदयुगं हित्वेह मासान् दश । प्रीत्या यो निवसंस्तदीयकथया गोष्ठं मुहुर्जीवय- त्यायातं किल पश्य कृष्णमिति तं मूर्ध्ना वहाम्युद्धवम् ॥ ९९॥ मुदा यत्र ब्रह्मा तृणनिकरगुल्मादिषु परं सदा काङ्क्षन् जन्मार्पितविविधकर्माप्यनुदिनम् । क्रमाद्ये तत्रैव व्रजभुवि वसन्ति प्रियजना मया ते ते वन्द्याः परमविनयात्पुण्यखचिताः ॥ १००॥ पुरा प्रेमोद्रेकैः प्रतिपदनवानन्दमधुरैः कृतश्रीगान्धर्वाच्युतचरणवर्यार्चनबलात् । निकामं स्वामिन्यः प्रियतरसरस्तीरभुवने वसन्ति स्फीता ये त इह मम जीवातव इमे ॥ १०१॥ यत्किञ्चित्तृणगुल्मकीकटमुखं गोष्ठे समस्तं हि तत् सर्वानन्दमयं मुकुन्ददयितं लीलानुकूलं परम् । शास्त्रैरेव मुहुर्मुहुः स्फुटमिदं निष्टङ्कितं याच्ञया ब्रह्मादेरपि सस्पृहेण तदिदं सर्वं मया वन्द्यते ॥ १०२॥ भ्रमन् चच्छे कच्छे क्षितिधरपतेर्वक्रिमगतैर लपन् राधे कृष्णेत्यनवरतमुन्मत्तवदहम् । पतन्क्वापि क्वाप्युच्छलितनयनद्वन्द्वसलिलैः कदा केलिस्थानं सकलमपि सिञ्चामि विकलः ॥ १०३॥ न ब्रह्मा न च नारदो नहि हरो न प्रेमभक्तोत्तमाः सम्यग्ज्ञातुमिहाञ्जसार्हति तथा यस्योच्छलन्माधुरीम् । किन्त्वेको बलदेव एव परितः स्वार्धं स्वमात्रा स्फुटं प्रेम्णाप्युद्धव एष वेत्ति नितरां किं स व्रजो वर्ण्यते ॥ १०४॥ अन्यत्र क्षणमात्रमच्युतपुरे प्रेमामृताम्भोनिधि- स्नातोऽप्यच्युतसज्जनैरपि समं नाहं वसामि क्वचित् । किन्त्वत्र व्रजवासिनामपि समं येनापि केनाप्यलं संलापैर्मम निभर्रः प्रति मुहुर्वासोऽस्तु नित्यं मम ॥ १०५॥ रागेण रूपमञ्जर्या रक्तीकृतमुरद्विषः । गुणाराधितराधायाः पादयुग्मे रतिर्मम ॥ १०६॥ इदं नियतमादराद्व्रजविलासनाम स्तवं सदा व्रजजनोल्लसन्मधुरमाधुरीबन्धुरम् । मुहुः कुतुकसम्भृताः परिपठति ये वल्गु तत् समं परिकरैर्दृढं मिथुनमत्र पश्यन्ति ते ॥ १०७॥ इति श्रीमद्रघुनाथदासगोस्वामिविरचितस्तवावल्यां श्रीव्रजविलासस्तवः समाप्तः । Proofread by PSA Easwaran
% Text title            : vrajavilAsastavaH
% File name             : vrajavilAsastavaH.itx
% itxtitle              : vrajavilAsastavaH (raghunAthadAsagosvAmivirachitaH)
% engtitle              : vrajavilAsastavaH
% Category              : devii, rAdhA, raghunAthadAsagosvAmin, stavAvalI, devI, stava
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : radha
% Author                : RaghunathadAsagosvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Proofread by          : PSA Easwaran
% Description/comments  : From Collected prayers by Raghunatha Dasa Goswami Stavavali
% Indexextra            : (Text, Meaning 1, 2, Info)
% Acknowledge-Permission: http://granthamandira.net Gaudiya Grantha Mandira
% Latest update         : April 24, 2020
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org