नवरत्नयमुनाष्टकस्तोत्रम्

नवरत्नयमुनाष्टकस्तोत्रम्

कदाचित्ते तीरे जननि जननी वाक्यममृतं गृहीत्वा शुद्धत्वं ध्रुवपदमगान्मातृसहितः । महिम्नः श्रुत्वा ते प्रचुरतरवित्तिं ध्रुवजनः तपस्तप्त्वा सद्यः शरणमिति यातस्तवतटम् ॥ १॥ कदाचित्ते देव्याः सकलजनुरुत्तारणपयः विहारस्थाने वै प्रकटिततरङ्गेः पटुतरम् । सदा स्वस्थैर्देवैः सरलहृदयैः सेविततमं वयं पीत्वा कुर्म्मः प्रचुरकलुषं सम्प्रति हतम् ॥ २॥ कदाचिन्मे भाग्यात्तव तरणितीरे भवहरे ! महद्वृन्दाटव्यां किमपि जननं मे भवतु वा । गवां रम्ये स्थाने परिरटनपाटीहरहरे ! भविष्यत्येषां वै जननिजनुषोर्भूरिमहिमा ॥ ३॥ कदाचिन्मे चित्तं हरिचरणसेवां प्रसरतु भवद्वात्सल्याद्वै सुरमनुजभक्तैः परिचिताम् । सदा ते वेलायां भव कमलपुष्पैः परिहृता इयं मे वाञ्छा स्यात्तव तट सुसेवा भवतु तवा ॥ ४॥ कदाचिन्मे मातर्मदुपरि कृपा ते सुकृतजा भविष्यत्येषा वै तव जलतरङ्गोञ्झुलितिभीः । हरेः सान्द्रं रूपं मदततिघनश्यामममलं अहं द्रक्ष्ये सौम्यं सखिजनपरीतं तब तटे ॥ ५॥ कदाचिन्मार्तण्डी विषयरसखण्डी कलुषजा प्रचण्डी स्वावेगैर्जगदघविखण्डी स्वयशसा । शिवा शान्ता नित्यं तरलसरलैः शोभिततरां ममाभीष्टं देयाद्व्रजजनसुसेवां तव तटे ॥ ६॥ कदाचित्कालिन्दी मुनिवरवरैः सेविततटी हरे ! विष्णो ! राधे ! सुरटनपरैः कूजितकुटी । प्रवाहे किं शब्दैः प्रियरमणकान्तं परिरटी किमन्यद्याञ्चाभिः प्रभवतु सदा मे भववटी ॥ ७॥ कदाचिच्छ्रीकृष्णे दृढतमकृतान् पापनिचयान् कुरुत्वं दृष्टिं मां तव महिमनित्वं भव दृढा । कदा भ्रातुर्लोकं बहुतरहठो मे प्लुतजला अतो मे मायां तां हरतु जननि प्रार्थनमिदम् ॥ ८॥ नवरत्नमिदं पुण्यं प्रातः सायं पठेन्नरः । हरिस्तस्मै प्रसन्नो वै ददाति फलमीप्सितम् ॥ ९॥ नवरत्नात्परं किञ्चिन्नान्यदस्ति महीतले । सर्ववेदेतिहासानां सारं ह्यस्मिन्नुदाहृतम् ॥ १०॥ इति श्रीमन्निम्बार्कपट्टाधिरूढश्री सर्वेश्वरशरणदेवाचार्यचरणचञ्चरीक श्रीमन्निम्बार्कशरगदेवाचार्यविरचितनवरत्न श्रीयमुनाष्टकस्तोत्रं सम्पूर्णम् । Proofread by Mohan Chettoor
% Text title            : Navaratna Yamuna Ashtaka Stotram 11
% File name             : yamunAShTakam11.itx
% itxtitle              : yamunAShTakam 11 navaratna (shrIjivirachitam kadAchitte tIre janani jananI vAkyamamRitaM)
% engtitle              : yamunAShTakam 11
% Category              : devii, nimbArkAchArya, aShTaka, devI
% Location              : doc_devii
% Sublocation           : devii
% Author                : shrIji
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mohan Chettoor
% Indexextra            : (Scan)
% Latest update         : January 7, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org