श्रीयमुना कवचम्
गर्गसंहितान्तर्गतं
मान्धातोवाच -
यमुनायाः कृष्णराज्ञ्याः कवचं सर्वतोऽमलम् ।
देहि मह्यं महाभाग धारयिष्याम्यहं सदा ॥ १॥
सौभरिरुवाच -
यमुनायाश्च कवचं सर्वरक्षाकरं नृणाम् ।
चतुष्पदार्थदं साक्षाच्छृणु राजन्महामते ॥ २॥
कृष्णां चतुर्भुजां श्यामां पुण्डरीकदलेक्षणाम् ।
रथस्थां सुन्दरीं ध्यात्वा धारयेत्कवचं ततः ॥ ३॥
स्नातः पूर्वमुखो मौनी कृतसन्ध्यः कुशासने ।
कुशैर्बद्धशिखो विप्रः पठेद्वै स्वस्तिकासनः ॥ ४॥
यमुना मे शिरः पातु कृष्णा नेत्रद्वयं सदा ।
श्यामा भ्रूभङ्गदेशं च नासिकां नाकवासिनी ॥ ५॥
कपोलौ पातु मे साक्षात्परमानन्दरूपिणी ।
कृष्णवामांससम्भूता पातु कर्णद्वयं मम ॥ ६॥
अधरौ पातु कालिन्दी चिबुकं सूर्यकन्यका ।
यमस्वसा कन्धरां च हृदयं मे महानदी ॥ ७॥
कृष्णप्रिया पातु पृष्ठं तटिनि मे भुजद्वयम् ।
श्रोणीतटं च सुश्रोणी कटिं मे चारुदर्शना ॥ ८॥
ऊरुद्वयं तु रम्भोरुर्जानुनी त्वङ्घ्रिभेदिनी ।
गुल्फौ रासेश्वरी पातु पादौ पापप्रहारिणी ॥ ९॥
अन्तर्बहिरधश्चोर्ध्वं दिशासु विदिशासु च ।
समन्तात्पातु जगतः परिपूर्णतमप्रिया ॥ १०॥
इदं श्रीयमुनायाश्च कवचं परमाद्भुतम् ।
दशवारं पठेद्भक्त्या निर्धनो धनवान्भवेत् ॥ ११॥
त्रिभिर्मासैः पठेद्धीमान् ब्रह्मचारी मिताशनः ।
सर्वराज्याधिपत्यञ्च प्राप्यते नात्र संशयः ॥ १२॥
दशोत्तरशतं नित्यं त्रिमासावधि भक्तितः ।
यः पठेत्प्रयतो भूत्वा तस्य किं किं न जायते ॥ १३॥
यः पठेत्प्रातरुत्थाय सर्वतीर्थफलं लभेत् ।
अन्ते व्रजेत्परं धाम गोलोकं योगिदुर्लभम् ॥ १४॥
इति गर्गसंहितायां माधुर्यखण्डे षोडशाध्यायान्तर्गतं
यमुना कवचं सम्पूर्णम् ।
Garga Samhita, Madhuryakhanda, Adhaya 16
Encoded by Vishwas Bhide vrbhide at rediffmail.com http://satsangdhara.net/
Proofread by PSA Easwaran psaeaswaran at gmail.com