श्रीयमुनालहरी

श्रीयमुनालहरी

वरौवर्तिश्यामा तरणितनया दीनशरणा पदाप्तानामन्दौ हरणविधिवैदग्धहृदया । प्रवृत्ता गोलोकाद्यदमृतसुधारामलहरा पुनन्ती त्रैलोक्यं पुनरपि निजे धाम्नि विशति ॥ १॥ यदेकः सिद्धिनां किल जननि ! गोलोकसरणिः प्रवृत्तं सन्तापं प्रशमयितुमारोग्यजनकम् । हृदञ्चिप्रोन्नत्यै मदुलहिमसिदाञ्जनमिदं त्वदीयं कीलालं मम दुरितजालं जरयतु ॥ २॥ तमो दूरीकुर्वन् मद कलहमोहादिकगणं तिरः कुर्वन् कामं अमुदितकुगर्वं हृदयतः । सकृदृष्टिं यातस्तरणितनयेऽयं तव शुभः प्रवाहो नीराणां मयि विमलतत्वं वितरतु ॥ ३॥ अयि श्रीकृष्णाङ्गप्रचुरतरगन्धाक्तसलिले रजस्तेऽसत्कर्माङ्कितहृदयसमार्जनकरम् । मदीयेऽस्मिंश्चित्ते विविधविषयावासमलिने चिदानन्दामोदं निगमतिबोधं प्रदिशतु ॥ ४॥ विचित्रं त्वत्तेजो भुवि किमु समर्थाः प्रकटितुं कवीन्द्रा योगीन्द्रादिविगतमुनीन्द्राः शुभधियः । महित्वं तेऽनन्तं तपयति मखादीनपि यत- स्त्वया स्पृष्टो वायुर्नरक पदहारीनरकदः ॥ ५॥ पलायन्ते यस्या झटिति शुभनामग्रहयतो भयार्ताः पापानां विविधनिकराः कम्पनयुताः । विनिन्दन्तो मर्त्यान् स्वकृतमलनाशाश्रितविधी नऽतः को वा दक्षस्तवचरण सेवां न हि चरेत् ॥ ६॥ जनः को वा दीनस्त्यजति तव पीताऽम्बरपदै- र्विचित्रैः कलोल्लैर्निगमसरितस्वौरमसितम् । यतः सत्कामानां भवति विमला सिद्धि रनिशं निशम्यैतां कीर्तिं ह्यहमपि तवोपस्थितिमितः ॥ ७॥ सदा दीनोद्धारे जयति तव तेजोऽमरनुतं प्रसिद्धं त्रैलोक्ये कविवरगिरा श्लाघितमहो । इदानीं दौर्भाग्यं मम तु तदपि न्यूनयति वै यतस्वं निःस्नेहा भवसि मयि दीने पदमिते ॥ ८॥ अयि श्रीगोविन्दालयकलनि ! मार्त्तण्डतनये ! त्वयाऽहो वैषम्यं वद जननि ! लब्धं कुत इदम् । प्रसूधर्मं यत्त्वं त्यजसि निजबालेषु विषमा- वरेष्विष्टा मूर्खेष्वितरनयनेति त्वऽघटते ॥ ९॥ इदं त्वद्द्वैषम्यं समुचितपदं नैति कठिनं यदीच्छा चेत्कर्तुं भवति तवचित्ते हठयुते । तदा कार्य्यं चैतत्सततमपरेणैव विधिना क्वचित्तत्प्रख्यातं तवसहजजातं रविसुते ॥ १०॥ तदेतद्वैषम्यं प्रधयितुमहं नैव विभवे विशुद्धा लोकन्ते किमु मम लघोः सूचनभरैः । यतस्त्वं पुण्यानामतिशय समृद्धिं प्रकुरुषे- ऽन्यथात्वं पापानामिति जननि ! जागर्तिजगति ॥ ११॥ अबोधे विद्रोहं तमसि च विमोहं वितनुषे कलेः सैन्ये शोकं विषयिनि विमोकं रविसुते । मखादीनां वृद्धिं जगति च समृद्धिं पदगते तवाहो वैषम्यं कथितुमिह कः स्वाद्विभुरिदम् ॥ १२॥ कृतान्तप्रेष्याणां पधिगमनदुःखं प्रहरसि विमानानां तत् त्वं वितरसि कलिन्दाचलभवे । मलाढ्यानां यज्ञोद्भवफलमुताहो विदधतौ सुरेन्द्राणां चित्ते गृहरणशङ्का वितनुते ॥ १३॥ इदं त्वद्वैषम्यं क्वनुगतमहो कृष्णरमिते स्वभावादुत्पन्नं मयि जननि संयाचनपरे । यतो मत्पापानां प्रबलतरसम्बदनिचये क्वतोपेक्षासि त्वं चरितमिदमत्यद्भुतपदम् ॥ १४॥ स्वसारो वर्तन्ते जगति सरलाः स्नेहसहिता निजानां भ्रातृणां सुखसदनसम्पद्वृतधियः । चरित्रं चैतत्ते त्वमसि विषमा भ्रातरि निजे यतस्तस्यावासं गहनमिव शून्यं प्रकुरुषे ॥ १५॥ अतस्वातो भीतिर्विषमपदतः कर्तुमुचिता भवानन्दाकाङ्क्षैस्दपि तवदास्यं त्वभिलषे । यतो मे त्वङ्गात्रा सह विरोधोऽस्यऽघलिपे र्निदानादार्य्येऽतस्तव ! जननि पक्षेऽस्मि विबलः ॥ १६॥ अतो द्वेषान्मातर्मयि तवपदालम्बनतया न जाने विद्वेषं कतिविधमुताहो जनयिता । कृतान्तस्त्वङ्माता भयमिति मनो नैव कुरुते यतस्त्वं किन्तस्मान्मानिजामनुगतं पातुमबला ॥ १७॥ स्वभावाद्वाऽमर्शाद्यमसदनलुण्ठाकतिलके ममेयं वै मातस्तवपदयुगे प्रार्थनपदी । इदानीमारब्धे पितृपतिगृहालुण्ठन- विधौ मदेनो लेखानां कुरु रचितपत्राऽपहरणम् ॥ १८॥ जनं धर्मात्मानं त्वमसि यदि सन्तारयितुमु- दयुता संसाराब्धेरहह तव कोऽवास्ति महिमा । यदा पापात्मानं विगततरणोपायमबलं मुनीयासस्तर्हीह त्वयि किल महत्वं स्थितिमियात् ॥ १९॥ शिशूनां बाल्यत्वात्कृतमनुचितं बालचरितं विलोक्याऽऽमोदन्ते तदपहृतिमाकल्प पितरः । अतो मे यत्किञ्चित्कुचरितमपीड्ये तदधुना स्वकीयाद्वात्सल्यादपहर तथा पालय शिशुम् ॥ २०॥ अथ त्वं मत्पापप्रचयमिह नेवान्तकपदं नयिष्यस्याऽऽर्य्ये चेद्भवति च तदाऽनर्थपदवी । गमिष्यन्त्यौन्नत्यं विभयपमेनांस्यऽपि नृणां चरिष्यन्ती लायां स्वरुचि शुभनाशाय यमुने ॥ २१॥ अहं वै नो शक्ता तवदुरितसन्दारऽणविधौ वदेच्चेदित्येवं कथमपि न कालिन्दि घटते । यदेनो मेरोरऽप्यऽसि बलयुता मर्दनविधौ त्वदग्रे का वार्ता मदघतृणराशेरिति शपे ॥ २२॥ यदा पापाऽऽत्मानस्तवरजकणस्पर्शमऽपि वा- ऽऽप्य ते मालोके सन्दधति हरिरूपत्वमऽसिताः । अयं कृष्णः किम्बा त्विति बहुपरामर्शमनसो भ्रमन्ति श्रीकष्णानुगसखिगणा द्वापरपराः ॥ २३॥ सशङ्कं लोकन्ते तवमहिमवैचितत्र्यकुतुकं सुलेखा लेखानां विधिभिरपि लेखा न लिखितुम् । समर्था जायन्ते कथमिह तदा लेखविषये विभुः को वा भूयात्तदवरगुणाविष्टधिषणः ॥ २४॥ भवेन्नास्मिंश्चित्तं किमपि गणनाऽतर्क्यविषये महिम्नि त्वत्यादाम्बुजमहस आत्मेश्वरि ! यतः । भवाब्धिं सन्तीर्णास्तवजलनिकादिभिरहो महाघा यावन्तो न हि नभसि तारास्तरणिजे ॥ २५॥ भवत्या एतादृक् चरणमहिमा वै समुचितः पुनन्त्या प्राचीनाऽघगृहहृदयानुत्पथगतान् । यतो ब्रह्माण्डानामधिपतिरनन्तोऽपि विवश-। स्तवप्रेम्णा मातर्दधत ग्रह केलिं तवतटे ॥ २६॥ अथाऽपि श्रीकृष्णालय-विविध-सत्केलिकुतुके कवीन्द्रास्वत्पादाम्बुजयुगलमेवाविधिधियः । गुणन्ति त्वत् कीर्तिं विशदयितुमात्मीयरसनं ममाप्येवं भावो हृदय उदितो मुग्धमनसः ॥ २७॥ त्वदीये प्रत्यक्षे महिमनिहि विश्वाससहितो मली को वा न स्यात्तवचरणसेवाभिलषकः । यतस्वय्यावासात्कठिन उरगः कालिय इतः फणासु क्रीडन्तं निगमपदवीगम्यमजितम् ॥ २८॥ अतस्वं गोविन्दं नवहरिणकौशेय वसनं लसन्तं त्वत्तीरे वृषभदयिता पालनपरम् । विहारैः कौमारैः सखिभिरपि सङ्क्रीडनपरं विभुं मत्याणेशं कुरु झटिति मदृष्ठिविषये ॥ २९॥ क्वता येन क्रीडा लसति तवतीरे कलशिका जलादाने काले पशुपरमणीनां सुखकरा । विचित्रैर्माधुर्यैः सरसवचनैर्भावसहितै- र्वृतं तं स्वीकर्त्तुं कलय किल मां तत्प्रियसखि ॥ ३०॥ विहारि नियाख्ये तवपुलिन देशस्थल मिते सखीरूपेणाय्यें रसपतिनिकुञ्जोद्भवसुखम् । त्वया प्राप्तं सोऽपि त्वयि वसति साक्षाद्भरिरतः श्रमः कस्ते मह्यं प्रभुचरण पद्मेक्षणविधौ ॥ ३१॥ त्वयि स्नानान्मातः पशुपतनयाभिः पतिरितो विर्भुब्रहमादीनां व्रजपदयिता जीवनधनम् । पुलिन्दीभिश्चापि प्रभुचरणपङ्केरुहरसो वने प्राप्तःसाक्षात्दिति तवपदस्नानमहिमा ॥ ३२॥ विलीयन्ते कर्माण्ययि तवपदा वर्चति जने तदा तस्यार्चायै कलयति विधिं निर्ज्जरगणः । तवभ्रातुर्मन्त्रो निजलिपि विनाशं वितनुते तमानितुं कृष्णः परिषदिनियुङ्तेऽनुगगणान् ॥ ३३॥ भवत्याः श्रीमातर्मधुचरणपङ्केरुहयशो जनः को वा श‍ृण्वंस्त्रिदशपुरवद्यो न हि भवेत् । सवातः सुश्लोकं विषम हदयानामपि गति- प्रदं को वा दत्तो भुवि न श्रुणुयाद्वा न हि पठेत् ॥ ३४॥ भवत्यास्तीरस्था द्रुममृगविहङ्गादय उश- त्ययोमध्याविष्टाः कमठमकराद्या अपिवराः । यतो जीवन्तस्ते परमपुरुषानन्दजलाधौ निमग्नाः सन्तऽन्ते झटिति लयमायान्ति परमे ॥ ३५॥ कदाप्येको यज्ञः क्षिति विबुधशप्तः स्मरवशः सुरापी मांसाशी श्रुति-सृतिविरोधी तवतटे । भमन् दष्टो दैवात्पथिगतभुजङ्गेन सहसा मृतो रेणुस्पर्शाद्धरिमित इति त्वत्पदमहः ॥ ३६॥ मृतेऽरण्ये दुष्टे भसक उरुदुर्गन्धि-क्वमिले त्वदप्सु, स्नात्वाऽन्यैः क्वतसमर उड्डीयपतितः । वटः कश्चिद्दैवात्तवजलरजःश्लिष्टपतन- स्ततः स्पर्शामुक्तो भसक इति ते देविमहिमा ॥ ३७॥ यदार्येते रोधद्वयलसितपादाशनलता विता नराच्छन्नं दिनमणिविभा-तापरहितम् । घनश्यामाङ्गा भज्जित-मरकताभं शिक्करं मदीय स्नानाय प्रतिदिनमिदं वारि भवतात् ॥ ३८॥ मदीयेऽस्मिंश्चित्ते गगनमणि-कन्ये रुचिरियं वसंस्त्वत्तीरे श्रीपरमपदगोवर्धनधरम् । स्मरेयं गोविन्दं सकलमपहायांशु विषयं त्वयेत्यार्ये पाल्या कुरु मयि कृपां दीन उचिताम् ॥ ३९॥ ततो वृन्दारण्ये तवपुलिन सद् वृक्षकालिते निकुञ्जे कीडन्तं स्वपदरमणीभिः परिवृतम् । हरिं राधायुक्तं कनकमणिसिंहासनयुतं निरीक्षन्नर्चिष्ये तवचरण जाऽनुग्रहलवात् ॥ ४०॥ कदाहं स्यां मातस्तवचरण पङ्केरुहक्वपा भराद्वर्ये नित्यं निगम शुभसारैयाशरणः । परानन्दाऽऽपुष्टः परिहृतमवानन्दनिकरः प्रसीद श्रीकृष्णे कुरु मयि दयां कृष्णदयिते ॥ ४१॥ इदानीं सन्देहो भवति मयि कालिन्दिरविजे स्वभावादुत्पन्नं विविधजनतोद्धारक गुणम् । अथादयाहो मातर्गतमहह किं विस्मृतिपदं यदङ्घ्याव्यामोदं वितरसि न मे दीनगतिदे ॥ ४२॥ त्वदङ्घ्यज्जालम्बाद्धिगतसुरभीतीरविसुते ह्ययं चिन्ताहीनो निजभवसमुद्धारविषये । इदानीं मत्त्यागो यदि बतविधेयो जननि ते तदा मे स्याङ्गानिस्तव तु यशसामन्त विषयः ॥ ४३॥ पुनन्ती त्वं लोकांस्यजसि निजतोका निति शुभे चरित्रं को ब्रूयात् क्षम मयि सहस्त्रांशुतनये । कथं मे त्वं पुत्रो भवसि वद चेच्छङकस इति स्वयं प्राप्तोऽपि स्यात्सुत इति दृढाऽस्ति श्रुतिरिह ॥ ४४॥ सुता नो जायन्ते जगति मलमूत्रादिरहिता- स्तथा नो मातापि श्रुतिपथमिता ग्लानिसहिता । सदाचारश्चैकं जयति नु तिरस्कृत्य तमहो कथं मत्तो ग्लानिं कुरुष इह मातर्मलिनतः ॥ ४५॥ अयि श्रीगोविन्दप्रियसखिसहस्रांशुतनये तमीनाशो न स्वाद्यदि तवपितुः कः करगुणः । तथा त्वत्पादानाऽऽश्रयिण इह मेऽन्तःकरणत- स्तमोलोपो न स्यात् किमु तवयशस्तर्हि भविता ॥ ४६॥ तवालम्बान्मातर्मदकलहमोहादिकखलान् कदर्थीकृत्येभं भवनिधिमहं तर्त्तुमबलः । समोहे हे कृष्णे मम पणमिमं पालय शिशो- र्निरीक्षन् कीर्तिं स्वामपि जननि मा हासय रिपून् ॥ ४७॥ नमस्ते कालिन्दि प्रभुचरणपङ्केरुहरज- स्तुलस्यामोदान्भोविविधगमनाऽऽनन्दरसदे । तरङ्गैः प्रोत्तुङ्गैः कलिकलुषभङ्गैः शिवतमै- र्मदन्गम्मार्जन्ती मम मन दूने प्रेरय निजे ॥ ४८॥ क्वचिद्गोभिर्वत्सैः क्वचिदपि मयूरादिनिकरैः क्वचिद्वास्नातीनां पशुपरमणीनां नवगणैः । क्वचिद्वेदाभ्याऽऽगमजपपरैर्ब्राह्मणगणै- र्व्रजे याति शोभा मम हृदयलोभाय भवतात् ॥ ४९॥ कपालुत्वं ते वा इह जगति को वा निगदितुं समर्थः सम्भूयात्कविसदसि साहित्यचतुरः । सुनीतिर्वालो यत्तवतटनिवासेन झटिति प्रपेदे श्रीकृष्णं त्विति खलु न को वेत्ति यमुने ॥ ५०॥ पयोदाभे मातस्तव शुभपयःपान विधिनाऽ- म्बरीषो दुर्वासः कृतकठिनपाशादपि दृढः । भयं नैक प्राधिषदपि हरिचक्राऽविततनु- र्ह्यतः को वा न स्यात्ततवसलिलपानाऽर्पितमनाः ॥ ५१॥ कृतान्तस्त्वांङ्गाता तवदपकृतालम्बनजनान् समर्चन्नानन्दं भजति च पयःपाननिरतान् । कथं वा नो कुर्याद्यदुचितमिदं धर्मपथगः स्वसुपुन्नान् यस्माद्यजतिविभवैर्मातुलगणः ॥ ५२॥ उषो मज्जन्तीनां व्रजपदयितानां तनुगतैः सुरागैरामोदैः शिवशिवकरैः पिञ्जचररुचि । त्वदीयं कीलालं त्रिदशनिकरैः प्रार्थमनिषं कथं न स्यान्मातर्बुधजनमनोहारि यमुने ॥ ५३॥ मधोः पुर्य्याः प्राच्यां दिशि लसति भूयोजन मिते विचित्रे रायाख्ये नगर उरु कालात् स्वपितृभिः । कृतं वासं त्यक्त्वा तवजलनिधानैकविधिना स्वमुक्ते संसिध्ययाऽहमुशतिवृन्दावन इतः ॥ ५४॥ खलो वा नीचो वा निगमविमुखो वा शठमति- र्मन्दो वा क्रोधो वा कलिमलरतो वा विषयधीः । अहं याहक् तादृक् तवचरणपङ्केरुहरजः प्रपन्नोऽहं मातस्विह यदुचितं तत्कुरु हितम् ॥ ५५॥ नमस्ते कृष्णायै दिनमणिसुतायै भवकृते नमः श्रीकालिन्द्यैः जनशरणदात्र्यै शुभभुवे । नमः संशुद्धायै यदुपतिगृहिण्यैः किल नमो नमस्ते श्रीवृन्दावमपुलिनकेल्यायऽयि नमः ॥ ५६॥ स्वान्तः सुखाय यमुनालहरीकृतेयं श्लोकैसचिश्च्छिखरिणीत्यभिधानवृत्तैः । प्रेम्णाऽर्पिता रविसुतापदयोश्च दुर्गा दत्ताऽभिधेन कविनन्दकिशोरजेन ॥ ५७॥ इति श्रीनन्दकिशोरात्मज-दुर्गादत्तकृता श्रीयमुनालहरी समाप्ता । Encoded and proofread by Mandar Mali aryavrutta at gmail.com
% Text title            : Yamuna Lahari
% File name             : yamunAlaharI.itx
% itxtitle              : yamunAlaharI (durgAdattakRitA)
% engtitle              : yamunAlaharI
% Category              : devii, devI, laharI, nadI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Author                : Durgadatta
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mandar Mali aryavrutta at  gmail.com
% Proofread by          : Mandar Mali aryavrutta at  gmail.com
% Indexextra            : (Scan)
% Latest update         : March 8, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org