योगाम्बास्तुतिः इन्द्रकृता
देवीं तामरसेक्षणीं गुणमयीं सर्वाशुभद्राविणीं
भक्तानां दुरितार्तिसङ्घहरिणीं दैत्यौघसंहारिणीम् ।
वाणीशादिमुरारिहृद्यभरणीं त्रैलोक्यचूडामणिं
योगाम्बामहमात्मनाथरमणीं ध्यायामि दाक्षायणीम् ॥ १॥
शान्तां पीनपयोधरातिविनतां पाटीरपङ्काङ्कितां
चेटीभूतसमस्तदेववनितां कादम्बमालावृताम् ।
उद्यद्भानुविराजितामगसुतां खेचारिसंसेवितां
योगाम्बामहमात्मनाथवनितां ध्यायामि कुन्दस्थिताम् ॥ २
बालां बालजनाभिलाषसफलामाकर्णनेत्रोत्पलां
हेलाभूतसुरावनैकचटुलां नीलाम्बुवाहोज्ज्वलाम् ।
आलोलालकभारशोभिनिटिलां वक्षोजतालीफलां
योगाम्बामहमात्मनाथवनितां ध्यायामि कुन्दस्थिताम् ॥ ३
गौरीं माधवसोदरीं शुभकरीं सर्वेश्वरीं शाङ्करीं
ह्रीङ्कारीं प्रणतार्तिभञ्जनकरीं दीनान्नदानेश्वरीम् ।
नानारत्नसुवर्णकङ्कणधरीं कुन्दालयाधीश्वरीं
योगाम्बामहमात्मराट्सहचरीं ध्यायामि माहेश्वरीम् ॥ ४॥
लीलाकल्पितविस्तृतत्रिभुवनां सन्त्रस्तरम्भावनां
ऊरुद्वन्द्वभरात् सुवर्णभवनां क्षीराब्धिमध्यासनाम् ।
अस्मद्वाञ्छितदानशीलनयनां भक्तौघसंरक्षणां
योगाम्बामहमात्मनाथललनां ध्यायामि चन्द्राननाम् ॥ ५॥
इति इन्द्रकृता योगाम्बास्तुतिः समाप्ता ।
Proofread by Aruna Narayanan