श्रीगणेश संस्कृतमारात्रिकम्
जयदेव जयदेव गजमुख सुखहेतो ।
नेतर्विघ्नगणानां जाड्यर्णवसेतो ॥ ध्रुवपदम् ॥
येन भवदुपायनतां नीता नवदूर्वा
विद्यासम्पत्कीर्तिस्तेनाप्ताऽपूर्वा ।
मुक्तिर्लभ्या सुखतस्तव नित्याऽपूर्वा
धार्या जगतः स्थितये भूमौ दिवि पूर्वा ॥ जयदेव जयदेव० ॥ १॥
प्रथमनमस्कृतिभाक् त्वं तव लोकप्रथितं
दृष्टं सद्व्यवहारे गुरुभिरपि च कथितम् ।
यः कश्चन विमुखस्त्वयि निजसिद्धेःपथि तं
विविधा विघ्ना भगवन् कुर्वन्ति व्यथितम् ॥ जयदेव जयदेव० ॥ २॥
बालं सकृदनुसरति त्वद्दृष्टिश्चेत्ता
मनुरासीमिव दास्यो विद्याः स हि वेत्ता ।
पविपाणिरिव परं परपक्षाणां भेत्ता
भवति मयूरोऽहेरिव मोहस्यच्छेत्ता ॥ जयदेव जयदेव० ॥ ३॥
इति श्रीमयूरकविविरचितं श्रीगणेश संस्कृतमारात्रिकं सम्पूर्णम् ।
In the refrain lines, netarvighnagaNAnAM
is built with नेतः as सम्बोधनं
in relation with another सम्बोधन
सुखहेतो in the first line.
Alternatively, additional options provided
were नेता as one who carries away
hordes of troubles, not as a leader and
हर्ता
Encoded and proofread by V. Kumaran vkumaran at hotmail.com