॥ श्रीगणेशमानसपूजा ॥

श्री गणेशाय नमः ॥ गृत्समद उवाच ॥ विघ्नेशवीर्याणि विचित्रकाणि बंदीजनैर्मागधकैः स्मृतानि । श्रुत्वा समुत्तिष्ठ गजानन त्वं ब्राह्मे जगन्मंगलकं कुरुष्व ॥ १॥ एवं मया प्रार्थितो विघ्नराजश्चित्तेन चोत्थाय बहिर्गणेशः । तं निर्गतं वीक्ष्य नमन्ति देवाः शंभ्वादयो योगिमुखास्तथाऽहम् ॥ २॥ शौचादिकं ते परिकल्पयामि हेरम्ब वै दन्तविशुद्धिमेवम् । वस्त्रेण सम्प्रोक्ष्य मुखारविन्दं देवं सभायां विनिवेशयामि ॥ ३॥ द्विजादिसर्वेरभिवन्दितं च शुकादिभिर्मोद-सुमोदकाद्यैः । संभाष्य चालोक्य समुत्थितं तं सुमण्डपं कल्प्य निवेशयामि ॥ ४॥ रत्नैः सुदीप्तैः प्रतिबिम्बितं तं पश्यामि चित्तेन विनायकं च । तत्रासनं रत्नसुवर्णयुक्तं संकल्प्य देवं विनिवेशयामि ॥ ५॥ सिद्ध्या च बुद्ध्या सह विघ्नराज! पाद्यं कुरु प्रेमभरेण सर्वैः । सुवासितं नीरमथो गृहाण चित्तेन दत्तं च सुखोष्णभावम् ॥ ६॥ ततः सुवस्त्रेण गणेशमादौ सम्प्रोक्ष्य दूर्वादिभिरर्चयामि । चित्तेन भावप्रिय दीनबन्धो मनो विलीनं कुरु ते पदाब्जे ॥ ७॥ कर्पूरकैलादि-सुवासितं तु सुकल्पितं तोयमथो गृहाण । आचम्य तेनैव गजानन! त्वं कृपाकटाक्षेण विलोकयाशु ॥ ८॥ प्रवाल-मुक्ताफल-हारकाद्यैः सुसंस्कृतं ह्यन्तरभावकेन । अनर्घ्यमर्घ्यं सफलं कुरुष्व मया प्रदत्तं गणराज ढुण्ढे ॥ ९॥ सौगंध्ययुक्तं मधुपर्कमाद्यं संकल्पितं भावयुतं गृहाण । पुनस्तथाऽऽचम्य विनायक त्वं भक्तांश्च भक्तेश सुरक्षयाशु ॥ १०॥ सुवासितं चंपक जातिकाद्यैस्तैलं मया कल्पितमेव ढुण्ढे । गृहाण तेन प्रविमर्दयामि सर्वांगमेवं तव सेवनाय ॥ ११॥ ततः सुखोष्णेन जलेन चाहमनेकतीर्थाहृतकेन ढुण्ढे । चित्तेन शुद्धेन च स्नापयामि स्नानं मया दत्तमथो गृहाण ॥ १२॥ ततः पयःस्नानमचिन्त्यभाव गृहाण तोयस्य तथा गणेश । पुनर्दधिस्नानमनामयत्वं चित्तेन दत्तं च जलस्य चैव ॥ १३॥ ततो घृतस्नानमपारवन्द्य सुतीर्थजं विघ्नहर प्रसीद । गृहाण चित्तेन सुकल्पितं तु ततो मधुस्नानमथो जलस्य ॥ १४॥ सुशर्करायुक्तमथो गृहाण स्नानं मया कल्पितमेव ढुण्ढे । ततो जलस्नानमघापहंतृ विघ्नेश मायाभ्रमं हिनिवारयाशु ॥ १५॥ सुयक्षपंकं स्तमथो गृहाण स्नानं परेशाधिपते ततश्च । कौमण्डलीसंभवजं कुरुष्व विशुद्धमेवं परिकल्पितं तु ॥ १६॥ ततस्तु सूक्तैर्मनसा गणेशं सम्पूज्य दूर्वादिभिरल्पभावैः । अपारकैर्मण्डलभूतब्रह्मणस्पत्यादिकैस्तं ह्यभिषेचयामि ॥ १७॥ ततः सुवस्त्रेण तु प्रोंछनं वै गृहाण चित्तेन मया सुकल्पितम् । ततो विशुद्धेन जलेन ढुण्ढे ह्याचान्तमेवं कुरु विघ्नराज ॥ १८॥ अग्नौ विशुद्धे तु गृहाण वस्त्रे ह्यनर्घ्यमौल्ये मनसा मया ते । दत्ते परिच्छाद्य निजात्मदेहं ताभ्यां मयूरेश जनांश्च पालय ॥ १९॥ आचम्य विघ्नेश पुनस्तथैव चित्तेन दत्तं सुखमुत्तरीयम् । गृहाण भक्तप्रतिपालक त्वं नमोऽथ तारकसंयुतं तु ॥ २०॥ यज्ञोपवीतं त्रिगुणस्वरूपं सौवर्णमेवं ह्यहिनाथभूतम् । भावेन दत्तं गणनाथ तत्वं गृहाण भक्तोद्धृतिकारणाय ॥ २१॥ आचान्तमेवं मनसा प्रदत्तं कुरुष्व शुद्धेन जलेन ढुण्ढे । पुनश्च कौमण्डलकेन पाहि विश्वं प्रभो खेलकरं सदा ते ॥ २२॥ उद्यद्दिनेशाभमथो गृहाण सिन्दूरकं ते मनसा प्रदत्तम् । सर्वांगसंलेपनमादराद्वै कुरुष्व हेरम्ब च तेन पूर्णम् ॥ २३॥ सहस्रशीर्षं मनसा मया त्वं दत्तं किरीटं तु सुवर्णजं वै । अनेकरत्नैः खचितं गृहाण ब्रह्मेश ते मस्तकशोभनाय ॥ २४॥ विचित्ररत्नैः कनकेन ढुण्ढे युतानि चित्तेन मया परेश । दत्तानि नानापदकुण्डलानि गृहाण शूर्पश्रुतिभूषणाय ॥ २५॥ शुण्डाविभूषार्थमनन्तखेलिन् सुवर्णजं कंचुकमागृहाण । रत्नैश्च युक्तं मनसा मया, यद्दत्तं प्रभो तत्सफलंकुरुष्व ॥ २६॥ सुवर्णरत्नैश्च युतानि ढुण्ढे सदैकदन्ताभरणानि कल्प्य । गृहाण चूडाकृतये परेश दत्तानि दन्तस्य च शोभनार्थम् ॥ २७॥ रत्नैः सुवर्णेन कृतानि तानि गृहाण चत्वारि मया प्रकल्प्य । सम्भूषय त्वं कटकानि नाथ चतुर्भुजेषु ह्यज विघ्नहारिन् ॥ २८॥ विचित्ररत्नैः खचितं सुवर्णसंभूतकं गृह्य मया प्रदत्तम् । तथांगुलीष्वांगुलिकं गणेश चित्तेन् संशोभय तत्परेश ॥ २९॥ विचित्ररत्नैः खचितानि ढुण्ढे केयूरकाणि ह्यथ कल्पितानि । सुवर्णजानि प्रथमाधिनाथ गृहाण दत्तानि तु बाहुषु त्वम् ॥ ३०॥ प्रवाल-मुक्ताफल-रत्नजैस्त्वं सुवर्णसूत्रैश्च गृहाण कण्ठे । चित्तेन दत्ता विविधाश्च माला ऊरूदरे सोभय विघ्नराज ॥ ३१॥ चन्द्रं ललाटे गणनाथ पूर्णं वृद्धिक्षयाभ्यां तु विहीनमाद्यम् । संशोभय त्वं वरसंयुतं ते भक्तिप्रियत्वं प्रकटीकुरुष्व ॥ ३२॥ चिंतामणिं चिंतितदं परेश हृद्देशगं ज्योतिर्मयं कुरुष्व । मणिं सदानन्दसुखप्रदं च विघ्नेश दीनार्थद पालयस्व ॥ ३३॥ नाभौ फणीशं च सहस्रशीर्षं संवेष्टनेनैव गणाधिनाथ । भक्तं सुभूषं कुरु भूषणेन वरप्रदानं सफलं परेश ॥ ३४॥ कटीतटे रत्नसुवर्णयुक्तां कांचीं सुचित्तेन च धारयामि । विघ्नेश ज्योतिर्गणदीपनीं ते प्रसीद भक्तं कुरु मां दयाब्धे ॥ ३५॥ हेरम्ब ते रत्नसुवर्णयुक्ते सुनूपुरे मंजिरके तथैव । सुकिंकिणीनादयुते सुबुद्ध्या सुपादयोः शोभय मे प्रदत्ते ॥ ३६॥ इत्यादि-नानाविध-भूषणानि तवेच्छया मानसकल्पितानि । सम्भूषयाम्येव त्वदंकेषु विचित्रधातुप्रभवाणि ढुण्ढे ॥ ३७॥ सुचन्दनं रक्तममोघवीर्यं सुघर्षितं ह्यष्टकगन्धमुख्यैः । युक्तं मया कल्पितमेकदन्त गृहाण ते त्वंगविलेपनार्थम् ॥ ३८॥ लिप्तेषु वैचित्र्यमथाष्टगन्धैरंगेषु तेऽहं प्रकरोमि चित्रम् । प्रसीद चित्तेन विनायक त्वं ततः सुरक्तं रविमेव भाले ॥ ३९॥ घृतेन वै कुंकुमकेन रक्तान् सुतंडुलांस्ते परिकल्पयामि । भाले गणाध्यक्ष गृहाण पाहि भक्तान् सुभक्तिप्रिय दीनबन्धो ॥ ४०॥ गृहाण भो चम्पकमालतीनि जलपंकजानि स्थलपंकजानि । चित्तेन दत्तानि च मल्लिकादि पुष्पाणि नानाविधवृक्षजानि ॥ ४१॥ पुष्पोपरि त्वं मनसा गृहाण हेरम्ब मन्दारशमीदलानि । मया सुचित्तेन च कल्पितानि ह्यपारकाणि प्रणवाकृते तु ॥ ४२॥ दूर्वांकुरान् वै मनसा प्रदत्तांस्त्रिपंचपत्रैर्युतकांश्च स्निग्धान । गृहाण विघ्नेश्वर संख्यया त्वं हीनाश्च सर्वोपरि वक्रतुण्ड ॥ ४३॥ दशांगभूतं मनसा मया ते धूपं प्रदत्तं गणराज ढुण्ढे । गृहाण सौरभ्यकरं परेश सिद्ध्या च बुद्ध्या सह भक्तपाल ॥ ४४॥ दीपं सुवर्त्या युतमादरात्ते दत्तं मया मानसकं गणेश । गृहाण नानाविधजं घृतादि-तैलादि-संभूतममोघदृष्टे ॥ ४५॥ भोज्यं च लेह्यं गणराज पेयं चोष्यं च नानाविध-षड्रसाढ्यम् । गृहाण नैवेद्यमथो मया ते सुकल्पितं पुष्टिपते महात्मन् ॥ ४६॥ सुवासितं भोजनमध्यभागे जलं मया दत्तमथो गृहाण । कमण्डलुस्थं मनसा गणेश पिबस्व विश्वादिकतृप्तिकारिन् ॥ ४७॥ ततः करोद्वर्तनकं गृहाण सौगन्ध्युक्तं मुखमार्जनाय । सुवासितेनैव सुतीर्थजेन सुकल्पितं नाथ गृहाण ढुण्ढे ॥ ४८॥ पुनस्तथाचम्य सुवासितं च दत्तं मया तीर्थजलं पिबस्व । प्रकल्प्य विघ्नेश ततः परं ते सम्प्रोंछनं हस्तमुखेकरोमि ॥ ४९॥ द्राक्षादि-रम्भाफल-चूतकानि खार्जूर-कार्कन्धुक-दाडिमानि । सुस्वादयुक्तानि मया प्रकल्प्य गृहाण दत्तानि फलानि ढुण्ढे ॥ ५०॥ पुनर्जलेनैव करादिकं ते संक्षालयेऽहं मनसा गणेश । सुवासितं तोयमथो पिबस्व मया प्रदत्तं मनसा परेश ॥ ५१॥ अष्टांगयुक्तं गणनाथ दत्तं ताम्बूलकं ते मनसा मया वै । गृहाण विघ्नेश्वर भावयुक्तं सदासकृत्तुण्डविशोधनार्थम् ॥ ५२॥ ततो मया कल्पितके गणेश महासने रत्नसुवर्णयुक्ते । मन्दारकूर्पासकयुक्त-वस्त्रैरनर्घ्य-संछादितके प्रसीद ॥ ५३॥ ततस्त्वदीयावरणं परेश सम्पूजयेऽहं मनसा यथावत् । नानोपचारैः परमप्रियैस्तु त्वत्प्रीतिकामार्थमनाथबन्धो ॥ ५४॥ गृहाण लम्बोदर दक्षिणां ते ह्यसंख्यभूतां मनसा प्रदत्ताम् । सौवर्ण-मुद्रादिक-मुख्यभावां, पाहि प्रभो विश्वमिदं गणेश ॥। ५५॥ राजोपचारान् विविधान् गृहाण हस्त्यश्व-छत्रादिकमादराद्वै । चित्तेन दत्तान् गणनाथ ढुण्ढे ह्यपारसख्यान् स्थिरजंगमांस्ते ॥ ५६॥ दानाय नानाविधरूपकांस्ते गृहाण दत्तान् मनसा मया वै । पदार्थभूतान् स्थिर-जंगमांश्च हेरम्ब मां तारय मोहभावात् ॥ ५७॥ मन्दारपुष्पाणि शमीदलानि दूर्वांकुरांस्ते मनसा ददामि । हेरम्ब लम्बोदर दीनपाल गृहाण भक्तं कुरु मां पदे ते ॥ ५८॥ ततो हरिद्रामबिरं गुलालं सिंदूरकं ते परिकल्पयामि । सुवासितं वस्तुसुवासभूतैर्गृहाण ब्रह्मेश्वर-शोभनार्थम् ॥ ५९॥ ततः शुकाद्याः शिव-विष्णुमुख्या इन्द्रादयः शेषमुखास्तथाऽन्ये । मुनीन्द्रकाः सेवकभावयुक्ताः सभासनस्थं प्रणमन्ति ढुण्ढिम् ॥ ६०॥ वामांगके शक्तियुता गणेशं सिद्धिस्तु नानाविधसिद्धि भिस्तम् । अत्यन्तभावेन सुसेवते तु मायास्वरूपा परमार्थभूता ॥ ६१॥ गणेश्वर दक्षिणभागसंस्था बुद्धिः कलाभिश्च सुबोधिकाभिः । विद्याभिरेवं भजते परेशा मायासु सांख्यप्रदचित्तरूपा ॥ ६२॥ प्रमोदमोदादयः पृष्ठभागे गणेश्वरं भावयुता भजन्ते । भक्तेश्वरा मुद्गलशम्भुमुख्याः शुकादयस्तं स्म पुरो भजन्ते ॥ ६३॥ गन्धर्वमुख्या मधुरं जगुश्च गणेशगीतं विविधस्वरूपम् । नृत्यंकलायुक्तमथो पुरस्ताच्चक्रुस्तथा ह्यसरसो विचित्रम् ॥ ६४॥ इत्यादि-नानाविध-भावयुक्तैः संसेवितं विघ्नपतिं भजामि । चित्तेन ध्यात्वा तु निरंजनं वै करोमि नानाविधदीपयुक्तम् ॥ ६५॥ चतुर्भुजं पाशधरं गणेशं तथांकुशं दन्तयुतं तमेवम् । त्रिनेत्रयुक्तं त्वभयंकरं तं महोदरं चैकरदं गजास्यम् ॥ ६६॥ सर्पोपवीतं गजकर्णधारं विभूतिभिः सेवितपादपद्यम् । ध्याये गणेशं विविधप्रकारैः सुपूजितं शक्तियुतं परेशम् ॥ ६७॥ ततो जपं वै मनसा करोमि स्वमूलमन्त्रस्य विधानयुक्तम् । असंख्यभूतं गणराजहस्ते समर्पयाम्येव गृहाण ढुण्ढे ॥ ६८॥ आरार्तिका कर्पुरकादिभूतामपारदीपां प्रकरोमि पूर्णाम् । चित्तेन लम्बोदर तां गृहाण ह्यज्ञानध्वान्तौघहरां निजानाम् ॥ ६९॥ वेदेषु वैघ्नैश्वरकैः सुमन्त्रैः सुमन्त्रितं पुष्पदलं प्रभूतम् । गृहाण चित्तीन मया प्रदत्तमपारवृत्त्या त्वथ मन्त्रपुष्पम् ॥ ७०॥ अपारवृत्या स्तुतिमेकदन्तं गृहाण चित्तेन कृतां गणेश । युक्तां श्रुतिस्मार्तभवैः पुराणैः सर्वैः परेशाधिपते मया ते ॥ ७१॥ प्रदक्षिणा मानसकल्पितास्ता गृहाण लम्बोदर भावयुक्ताः । संख्याविहीना विविधस्वरूपा भक्तान् सदा रक्ष भवार्णवाद्वै ॥ ७२॥ नतिं ततो विघ्नपते गृहाण साष्टांगकाद्यां विविधस्वरूपाम् । संख्याविहीनां मनसा कृतां ते सिद्ध्या च बुद्ध्या परिपालयाशु ॥ ७३॥ न्यूनातिरिक्तं तु मया कृतं चेत्तदर्थमन्ते मनसा गृहाण । दूर्वांकुरान विघ्नपते प्रदत्तान् सम्पूर्णमेवं कुरु पूजनं मे ॥ ७४॥ क्षमस्व विघ्नाधिपते मदीयान् सदापराधान् विविधस्वरूपान् । भक्तिं मदीयां सफलां कुरुष्व सम्प्रार्थयेऽहं मनसा गणेश ॥ ७५॥ ततः प्रसन्नेन गजानेन दत्तं प्रसादं शिरसाऽभिवन्द्य । स्वमस्तके तं परिधारयामि चित्तेन विघ्नेश्वरमानतोऽस्मि ॥ ७६॥ उत्थाय विघ्नेश्वर एव तस्माद्गतस्ततस्त्वन्तरधानशक्त्या । शिवादयस्तं प्रणिपत्य सर्वे गताः सुचित्तेन च चिन्तयामि ॥ ७७॥ सर्वान्नमस्कृत्य ततोऽहमेव भजामि चित्तेन गणाधिपं तम् । स्वस्थानमागत्य महानुभावैर्भक्तैर्गणेशस्य च खेलयामि ॥ ७८॥ एवं त्रिकालेषु गणाधिपं तं चित्तेन नित्यं परिपूजयामि । तेनैव तुष्टः प्रददातु भावं विघ्नेश्वरो भक्तिमयं तु मह्यम् ॥ ७९॥ गणेशपादोदकपानकं च उच्छिष्टगंधस्य सुलेपन तु । निर्माल्य-सन्धारणकं सुभोज्यं लम्बोदरस्यास्तु हि भुक्तशेषम् ॥ ८०॥ यं यं करोम्येव तदेव दीक्षा गणेश्वरस्यास्तु सदा गणेश । प्रसीद नित्यं तवपादभक्तं कुरुष्व मां ब्रह्मपते दयालो ॥ ८१॥ ततस्तु शय्यां परिकल्पयामि मन्दार-कूर्पासक-वस्त्रयुक्ताम् । सुवास-पुष्पादिभिरर्चितां ते गृहाण निद्रां कुरु विघ्नराज ॥ ८२॥ सिद्ध्या च बुद्ध्या सहितं गणेश सुनिद्रितं वीक्ष्य तथाऽहमेव । गत्वा स्ववासं च करोमि निद्रां ध्यात्वा हृदि ब्रह्मपतिं तदीयः ॥ ८३॥ एतादृशं सौख्यममोघशक्ते देहि प्रभो मानसजं गणेश । मह्यं च तेनैव कृतार्थरूपो भवामि भक्त्यमृतलालसोऽहम् ॥ ८४॥ गार्ग्य उवाच ॥ एवं नित्यं महाराज गृत्समादो महायशाः । चकार मानसीं पूजां योगीन्द्राणां गुरुः स्वयम् ॥ ८५॥ य एतां मानसीं पूजां करिष्यति नरोत्तमः । पठिष्यति सदा सोऽपि गाणपत्यो भविष्यति ॥ ८६॥ श्रावयिष्यति यो मर्त्यः श्रोष्यते भावसंयुतः । स क्रमेण महीपाल ब्रह्मभूतो भविष्यति ॥ ८७॥ यद्यदिच्छति तत्तद्वै सफलं तस्य जायते । अन्ते स्वानन्दगः सोऽपि योगिवन्द्यो भविष्यति ॥ ८८॥ इति श्रीमदान्त्ये मुद्गलपुराणे गणेशमानसपूजा समाप्ता ॥ proofread by Karthik Chandan.P (kardan5380@yahoo.com) Amith K Nagaraj (amithkn@rediffmail.com)

% Text title            : gaNeshamAnasapUjA
% File name             : gaNeshamAnasapUjA.itx
% itxtitle              : gaNeshamAnasapUjA
% engtitle              : gaNeshamAnasapUjA
% Category              : pUjA
% Location              : doc_ganesha
% Sublocation           : ganesha
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : http://www.webdunia.com
% Proofread by          : Karthik Chandan.P : Amith K Nagaraj(amithkn at rediffmail.com)
% Description-comments  : mudgalapurANa
% Latest update         : March 9, 2004
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP