श्रीगणेशमानसपूजा २

श्रीगणेशमानसपूजा २

रक्ताम्भोधिस्थपोतोल्लसदरुणसरोजाधिरूढं त्रिनेत्रं पाशं चैवाङ्कुशं वै वरदमभयदं बाहुभिर्धारयन्तम् । शक्त्या युक्तं गजास्यं पृथुतरजठरं नागयज्ञोपवीतं देवं चन्द्रार्धचूडं सकलभयहरं विघ्नराजं नमामि ॥ १॥ नानारत्नविचित्रकं रमणिकं सिंहासनं कल्पितं स्नानं जाह्नविवारिणा गणपते पिताम्बरं गृह्यताम् । कण्ठे मौक्तिकमालिका श्रुतियुगे द्वे धारिते कुण्डले नानारत्नविराजितो रविविभायुक्तः किरीटः शिरे ॥ २॥ भाले चर्चितकेशरं मृगमदामोदाङ्कितं चन्दनं नानावृक्षसमुद्गतं सुकुसुमं मन्दारदूर्वाशमीः । गुग्गूल्लोद्भवधूपकं विरचितं दीपं त्वदग्रे स्थितं भक्ष्यं मोदकसंयुतं गणपते क्षीरोदनं गृह्यताम् ॥ ३॥ ताम्बूलं मनसा मया विरचितं जम्बूफलं दक्षिणां साष्टाङ्गं प्रणतोऽस्मि ते मम कृतां पूजा गृहाण प्रभो । मे कामः सततं तवार्चनविधौ बुद्धिस्तवालिङ्गने स्वेच्छा ते मुखदर्शने गणपते भक्तिस्तु पादाम्बुजे ॥ ४॥ माता गणेशश्च पिता गणेशो भ्राता गणेशश्च सखा गणेशः । विद्या गणेशो द्रविणं गणेशः स्वामी गणेशः शरणं गणेशः ॥ ५॥ इतो गणेशः परतो गणेशः यतो यतो यामि ततो गणेशः । गणेशदेवादपरं न किञ्चित् तस्मात् गणेशं शरणं प्रपद्ये ॥ ६॥ बुद्ध्या कृतं वचनजं मनसेन्द्रियैर्यद् देहेन जागृतिसुषुप्तिजस्वप्नजं यत् । यद्यच्च कर्म हि मया सकलं परस्मै गजाननाय वरदाय समर्पये तत् ॥ ७॥ देहेन वाचा मनसा कृतान् मे सांसर्गिकान् जागृतस्वप्नजातान् । सौषुप्ततौर्यान् सकलापराधान् क्षमस्व हेरम्ब दयानिधे त्वम् ॥ ८॥ दीनानाथदयानिधे सुरगणैः संसेव्यमान द्विज - ब्रह्मेशानमहेन्द्रशेषगिरिजागन्धर्वसिद्धैः स्तुत । सर्वारिष्टनिवारणैकनिपुण त्रैलोक्यनाथ प्रभो भक्ति मे सफलां कुरुष्व सकलान् क्षान्त्वापराधान् मम ॥ ९॥ Encoded and proofread by P. Jayaraman vyshupjr at gmail.com, NA
% Text title            : gaNeshamAnasapUjA 2
% File name             : gaNeshamAnasapUjA2.itx
% itxtitle              : gaNeshamAnasapUjA 2
% engtitle              : gaNeshamAnasapUjA 2
% Category              : pUjA, ganesha
% Location              : doc_ganesha
% Sublocation           : ganesha
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : P. Jayaraman vyshupjr at gmail.com
% Proofread by          : P. Jayaraman vyshupjr at gmail.com, NA
% Indexextra            : (Scan)
% Latest update         : July 25, 2022
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org