गणेशप्रार्थना
श्रीविनायको विजयतेराम् ।
(वसन्ततिलका वृत्तम्)
आनन्दरूप करुणाकर विश्वबन्धो
सन्तापचन्द्र भववारिधिभद्रसेतो ।
हे विघ्नमृत्युदलनामृतसौख्यसिन्धो
श्रीमन्विनायक तवाङ्घ्रियुगं नतास्स्मः ॥ १॥
यस्मिन्न जीवजगदादिकमोहजालं
यस्मिन्न जन्ममरणादिभयं समग्रम् ।
यस्मिन्सुखैकधनभूम्नि न दुःखमीषत्
तद्ब्रह्म मङ्गलपदं पव संश्रयाम्ः ॥ २॥
विद्यावतार तव कोशशुभोदयो यः
भास्वत्सुखोदयवदेव तमोनुदस्स्यात् ।
आनन्दमात्रनिजरूपपदं वितन्वन्
राराजतां भुवि सदैव सुखैकधामन् ॥ ३॥
हे भक्तवत्सल तवैव कृपाब्धिजातः
त्वक्कोशकल्पतरुरत्र शुभं तनोतु ।
त्वत्प्रीतिभाक् तव कुपापरिपोषितोऽयं
त्वत्पादकञजयुगले सुसमर्पितोऽस्तु ॥ ४॥
नित्यं समाधिकुसुमार्चितपादपद्म
आम्नायदीपपरिशोभितदिव्यगात्र ।
सन्मङगलानि विदधत्परमोक्षदो यः
नित्यं चकास्तु भुवि वैदिकविश्वधर्मः ॥ ५॥
इति श्री श्रीधरस्वामीविरचिता गणेशप्रार्थना समाप्ता ।