श्रीगणेशस्तवराजः

श्रीगणेशस्तवराजः

गणेशाष्टकम् च । श्रीगणेशाय नमः । श्रीभगवानुवाच । गणेशस्य स्तवं वक्ष्ये कलौ झटिति सिद्धिदम् । न न्यासो न च संस्कारो न होमो न च तर्पणम् ॥ १॥ न मार्जनं च पञ्चाशत्सहस्रजपमात्रतः । सिद्ध्यत्यर्चनतः पञ्चशत-ब्राह्मणभोजनात् ॥ २॥ अस्य श्रीगणेशस्तवराजमन्त्रस्य भगवान् सदाशिव ऋषिः, अनुष्टुप् छन्दः, श्रीमहागणपतिर्देवता, श्रीमहागणपतिप्रीत्यर्थे जपे विनियोगः । विनायकैक-भावना-समर्चना-समर्पितं प्रमोदकैः प्रमोदकैः प्रमोद-मोद-मोदकम् । यदर्पितं सदर्पितं नवान्नधान्यनिर्मितं न कण्डितं न खण्डितं न खण्डमण्डनं कृतम् ॥ १॥ सजातिकृद्-विजातिकृत-स्वनिष्ठभेदवर्जितं निरञ्जनं च निर्गुणं निराकृतिं ह्यनिष्क्रियम् सदात्मकं चिदात्मकं सुखात्मकं परं पदं भजामि तं गजाननं स्वमाययात्तविग्रहम् ॥२। गणाधिप! त्वमष्टमूर्तिरीशसूनुरीश्वर- स्त्वमम्बरं च शम्बरं धनञ्जयः प्रभञ्जनः । त्वमेवं दीक्षितः क्षितिर्निशाकरः प्रभाकर- श्चराऽचर-प्रचार-हेतुरन्तराय-शान्तिकृत् ॥ ३॥ अनेकदं तमाल-नीलमेकदन्त-सुन्दरं गजाननं नमोऽगजाननाऽमृताब्धि-चन्दिरम् । समस्त-वेदवादसत्कला-कलाप-मन्दिरं महान्तराय-कृत्तमोऽर्कमाश्रितोऽन्दरूं परम् ॥ ४॥ सरत्नहेम-घण्टिका-निनाद-नुपुरस्वनै- मृदङ्ग-तालनाद-भेदसाधनानुरूपतः । धिमि-द्धिमि-त्तथोंग-थोङ्ग-थैयि-थैयिशब्दतो विनायकः शशाङ्कशेखरः प्रहृष्य नृत्यति ॥ ५॥ सदा नमामि नायकैकनायकं विनायकं कलाकलाप-कल्पना-निदानमादिपरूषम् । गणेश्वरं गुणेश्वरं महेश्वरात्मसम्भवं स्वपादपद्म-सेविना-मपार-वैभवप्रदम् ॥ ६॥ भजे प्रचण्ड-तुन्दिलं सदन्दशूकभूषणं सनन्दनादि-वन्दितं समस्त-सिद्धसेवितम् । सुराऽसुरौघयोः सदा जयप्रदं भयप्रदं समस्तविघ्न-घातिनं स्वभक्त-पक्षपातिनम् ॥ ७॥ कराम्बुजात-कङ्कणः पदाब्ज-किङ्किणोगणो गणेश्वरो गुणार्णवः फणीश्वराङ्गभूषणः । जगत्त्रयान्तराय-शान्तिकारकोऽस्तु तारको भवार्णवस्थ-घोरदुर्गहा चिदेकविग्रहः ॥ ८॥ यो भक्तिप्रवणश्चरा-ऽचर-गुरोः स्तोत्रं गणेशाष्टकं शुद्धः संयतचेतसा यदि पठेन्नित्यं त्रिसन्ध्यं पुमान् । तस्य श्रीरतुला स्वसिद्धि-सहिता श्रीशारदा सर्वदा स्यातां तत्परिचारिके किल तदा काः कामनानां कथाः ॥ ९॥ ॥ इति श्रीरुद्रयामलोक्तो गणेशस्तवराजः सम्पूर्णः ॥ Proofread by Ravin Bhalekar ravibhalekar at hotmail.com
% Text title            : gaNeshastavarAjaH
% File name             : gaNeshastavarAja.itx
% itxtitle              : gaNeshastavarAjaH athavA gaNeshAShTakam (rudrayAmalAntargatam)
% engtitle              : gaNeshastavarAjaH or gaNesha aShTaka
% Category              : stavarAja, ganesha, aShTaka
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : hinduism/religion
% Proofread by          : Ravin Bhalekar ravibhalekar at hotmail.com
% Description-comments  : source rudrayAmala tantra
% Indexextra            : (varivasyA, Scan)
% Latest update         : April 23, 2004
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org