श्रीगणेशस्तोत्रम्

श्रीगणेशस्तोत्रम्

ॐ नमो विघ्नहर्त्रे । ॐ अप्रमेयगुणं नित्यं गणेशममरोत्तमम् । वेदान्तवेद्यं सर्वज्ञं पूजितममरेश्वरैः ॥ १॥ ओङ्कारं परमंब्रह्म अक्षरं शिवमव्ययम् । पार्वतीप्रियपुत्रं तं प्रणमामि गणेश्वरम् ॥ २॥ ब्रह्मद्वयानवच्छेद्यं शिवाद्वयविबोधितम् । स्वप्रकाशं परात्मानं तं प्रपद्ये विनायकम् ॥ ३॥ वैरिविघ्नप्रदं नित्यं भक्तानां सिद्धिदायकम् । शिवसूनुं परानन्दं नमस्यामि विनायकम् ॥ ४॥ मोदकाहारपरममक्षमालाकरं परम् । त्रिनेत्रं गजवक्त्रं च तं प्रपद्ये गणेश्वरम् ॥ ५॥ स्वदन्तं परुशुं चैव धारयन्तं भुजद्वये । रक्तवस्त्राम्बरधरं रक्तमालाधरं विभुम् ॥ ६॥ विघ्नराशीन्विकिरन्तं करक्षेपैर्मुहुर्मुहुः । अनन्तं परमं तत्त्वं सारात्सारतरं परम् ॥ ७॥ अप्रमेयगुणायापि त्र्यक्षाय वरवर्णिने । विनायकाय देवाय भूयो भूयो नमो नमः ॥ ८॥ श्रीगणेशं नुमो यस्य प्रसादात्प्राप्तबुद्धयः । प्रौढबुद्धिषु हृष्यन्ति मादृशा अपि वालिशाः ॥ ९॥ श्रीगणेश्वरं भक्तकामदं श्रीकृपानिधिं सर्वसिद्धिदम् । ब्रह्मविष्णुदेवेन्द्रगोनुतं भक्तवत्सलं नौम्युमासुतम् ॥ १०॥ वारणाननं वारणाधिपदारुणं बलात्सिद्धिकारणम् । तारणं भवाद्विघ्नवारणं भक्तवत्सलं नौम्युमासुतम् ॥ ११॥ शङ्कराङ्कतोऽवातरन्मुदा शैलजाग्रतो हर्षयन्नुभौ । षण्मुखेन यो नृत्यते गिरौ भक्तवत्सलं तं नमाम्यहम् ॥ १२॥ शैलजासुतं विश्वमोहनं भक्तवत्सलं कल्मषापहम् । सिद्धिदायकं विघ्ननाशकं नौम्यहं सुरैर्वन्द्यपादुकम् ॥ १३॥ श्रीतपस्विनोऽचिन्त्यपौरुषं यं विचिन्त्य प्राक्सर्वसिद्धिदम् । सिद्धवाञ्छितास्ते भवन्ति तं भक्तवत्सलं नौम्युमासुतम् ॥ १४॥ यत्पदाब्जपीठासनङ्गणैर्मौलिकोटिभिर्वन्दितं मुहुः । प्राप्तसिद्धयस्ते भवन्ति तं भक्तवत्सलं नौम्युमासुतम् ॥ १५॥ दैवतैर्दितेरात्मजैर्नरैर्नागचारणैर्भूतकिन्नरैः । गुह्यकादिभिर्वन्दितं सदा भक्तवत्सलं नौम्युमासुतम् ॥ १६॥ चिन्तितं नरैः सिद्धनायकैर्मुक्तयेब्जजेनापि सृष्टये । त्रैपुरं च हन्तुं शिवेन वै भक्तवत्सलं नौम्युमासुतम् ॥ १७॥ पाहि पाहि मां विघ्ननायक रक्ष रक्ष मां विघ्ननाशक । देव देव त्वां विश्वपूजित भक्तवत्सलं नौम्युमासुतम् ॥ १८॥ पाहि मां विभो दीनपालक रक्ष मां प्रभो दीनवत्सल । देहि सम्पदं ह्यापदं हर भक्तवत्सलं नौम्युमासुतम् ॥ १९॥ योऽभ्यर्चितः सुरगणैर्वरसिद्धिहेतो- श्छेत्तुं भयानि च करे परुशुं दधानः । देवः स शम्भुदयितापरिवर्द्धितश्री- विघ्नान्निवारयतु वारणराजवक्त्रः ॥ २०॥ नमताशेषविघ्नौघवारणं वारणाननम् । कारणं सर्वसिद्धीनां दुरितार्णवतारणम् ॥ २१॥ इति गणेशस्तोत्रं सम्पूर्णम् ॥ Encoded by Jonathan Wiener wiener78 at sbcglobal.net Proofread by Jonathan Wiener, PSA Easwaran
% Text title            : vighnahartre gaNeshastotram
% File name             : gaNeshastotramvighnahartre.itx
% itxtitle              : gaNeshastotram vighnahartre (aprameyaguNaM nityaM)
% engtitle              : gaNeshastotram remover of obstacles
% Category              : ganesha
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jonathan Wiener wiener78 at sbcglobal.net
% Proofread by          : Jonathan Wiener, NA, PSA Easwaran
% Description-comments  : Path Pustakam 1934 Srinagar Kashmir Mercantile Press
% Source                : Adityapurana
% Indexextra            : (pustakam)
% Latest update         : April 22, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org