विश्वकर्मकृता श्रीगणेशस्तुतिः
विश्वकर्मोवाच ।
नमामि परमात्मानं सच्चिदानन्दविग्रहम् ॥ २४॥
चराचरगुरुं सर्वकारणानां चकारणम् ।
गुणेशञ्च गुणातीतं सृष्टिस्थित्यन्तकारिणम् ॥ २५॥
सर्वव्यापिनमीशानं व्यक्ताव्यक्तस्वरूपिणम् ।
अगम्यं सर्वदेवानां मुनिहृत्पद्मवासिनम् ॥ २६॥
सिद्धिबुद्धिपतिं नानाभक्तसिद्धिप्रदं विभुम् ।
अभक्तकामदहनं सहस्ररविसन्निभम् ॥ २७॥
अनेकशक्तिसंयुक्तं दैत्यदानवमर्दनम् ।
अनादिमव्ययं शान्तं जरामरणवर्जितम् ॥ २८॥
त्रितनुं च त्रयीमूलं ब्रह्मविष्णुशिवात्मकम् ।
इति विश्वकर्मकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥
- ॥ श्रीगणेशपुराणं क्रीडा (उत्तर)खण्डः । अध्यायः ९५ । २.९५ २४-२८॥
- .. shrIgaNeshapurANaM krIDA (uttara)khaNDaH . adhyAyaH 95 . 2.95 24-28..
Proofread by Preeti Bhandare