गणेशस्तुतिगीतम्
हेमजासुतं भजे गणेशमीशनन्दनं
एकदन्त वक्रतुण्ड नागयज्ञसूत्रकम् ।
रक्तगात्र धूम्रनेत्र शुक्लवस्त्रमण्डितं
कल्पवृक्ष भक्त रक्ष नमोऽस्तुते गजाननम् ॥ १॥
पाशपाणि चक्रपाणि मूषकादिरोहिणं
अग्निकोटि सूर्यज्योति वज्रकोटि निर्मलम् ।
चित्रभाल भक्तिजाल भालचन्द्रशोभितं
कल्पवृक्ष भक्त रक्ष नमोऽस्तुते गजाननम् ॥ २॥
भूतभव्य हव्यकव्य भृगुभार्गवार्चितं
दिव्यवह्नि कालजाल लोकपालवन्दितम् ।
पूर्णब्रह्म सूर्यवर्ण पूरुषं पुरान्तकं
कल्पवृक्ष भक्त रक्ष नमोऽस्तुते गजाननम् ॥ ३॥
विश्ववीर्य विश्वसूर्य विश्वकर्मनिर्मलं
विश्वहर्ता विश्वकर्ता यत्र तत्र पूजितम् ।
चतुर्मुखं चतुर्भुजं सेवितं चतुर्यगं
कल्पवृक्ष भक्त रक्ष नमोऽस्तुते गजाननम् ॥ ४॥
ऋद्धि बुद्धि अष्टसिद्धि नवनिधानदायकं
यज्ञकर्म सर्वधर्म सर्ववर्णार्चितम ।
पूत धूम्र दुष्ट मुष्ट दायकं विनायकं
कल्पवृक्ष भक्त रक्ष नमोऽस्तुते गजाननम् ॥ ५॥
हर्षरूप वर्षरूप पुरुषरूपवन्दितं
शूर्पकर्ण रक्तवर्ण रक्तचन्दनलेपितम् ।
योग इष्ट योग सृष्ट योग दृष्टिदायकं
कल्पवृक्ष भक्त रक्ष नमोऽस्तुते गजाननम् ॥ ६॥
इति गणेशस्तुतिगीतं समाप्तम् ।