श्रीगणेशस्तुतिमञ्जरी

श्रीगणेशस्तुतिमञ्जरी

सद्गुरुगजास्यवाणीचरणयुगाम्भोरुहेषु मद्धृदयम् । सततं द्विरेफलीलां करुणामकरन्दलिप्सया तनुताम् ॥ १॥ कल्याणं नः क्रियासुः कटतटविगलद्दाननीरप्रवाहो- न्माद्यद्भृङ्गारवारावितनिखिलजगन्मण्डलस्येशसूनोः । प्रत्यूहध्वान्तराशिप्रमथनशुचिकालीनमध्याह्नभानोः वामाश्लिष्टप्रियस्य प्रणतदुरितहृद्दन्तिनः सत्कटाक्षाः ॥ २॥ सिन्दूरबन्धुरमुखं सिन्धुरमाद्यं नमामि शिरसाऽहम् । वृन्दारकमुनिवृन्दक सं सेव्यं विघ्नशैलदम्भोलिम् ॥ ३॥ आधोरणा अंङ्कुशमेत्य हस्ते गजं विशिक्षन्त इति प्रथाऽस्ति । पञ्चास्यसूनुर्गज एव हस्ते धृत्वाऽङ्कुशं भाति विचित्रमेतत् ॥ ४॥ लोके हस्ततले समेत्य हि सृणिं शिक्षन्त आधोरणाः स्तम्बक्रीडमिति प्रथाऽखिलजनैः संश्रूयते दृश्यते । धृत्वा स्वीयशयेऽङ्कुशं मदविहीनोऽयं निराधोरणः चित्रं पश्यत राजतीह विबुधाः पञ्चास्यसूनुर्गजः ॥ ५॥ खगपपूजितसच्चरणाम्बुजं खगपशात्रववेष्टिततुन्दकम् । कवनसिद्ध्यभिलाष्यहमाश्रये कवनदीक्षितमादिगजाननम् ॥ ६॥ गगनचारिभिरञ्चितपादुकं करधृताङ्कुशपाशसुमोदकम् । जितपतङ्गरुचिं शिवयोर्मुदं ददतमादिगजाननमाश्रये ॥ ७॥ नागाननस्य जठरे निबद्धोऽयं विराजते । विनिर्गतो यथा नागो नाभ्यधोभुवनाद्बहिः ॥ ८॥ प्रलम्बारिमुखस्तुत्यं जगदालम्बकारणम् । लम्बिमुक्तालताराजल्लम्बोदरमहं भजे ॥ ९॥ गजेन्द्रवदनं हरिप्रमुखदेवसम्पूजितं सहस्रकरतेजसं सकललोककामप्रदम् । दयारसमदोदकस्रवदुभौ कटौ बिभ्रतं नमामि शिरसा सदा सृणिविभूषितं विघ्नपम् ॥ १०॥ गण्डस्रवत्स्वच्छमदप्रवाहगङ्गाकटाक्षार्कसुतायुतश्च । जिह्वाञ्चले गुप्तवहत्सरस्वतीयुतोऽयमाभाति गजप्रयागः ॥ ११॥ दन्ती नटः स्वपुरतोऽङ्गणरिङ्खमाण- पाञ्चालिकेक्षणवतामिति सूचयन् सन् । मत्पादतामरसबम्भरमानसानां जिह्वाङ्गणेऽजगृहिणीं खलु नाटयामि ॥ १२॥ पिनाकिपार्वतीमुखारविन्दभास्करायितं वराभयाङ्कुशादिमान् प्रफुल्लकञ्जसन्निभैः । करैर्दधानमानमत्सुतीक्ष्णबुद्धिदायकं समस्तविघ्ननाशकं नमाम्यहं विनायकम् ॥ १३॥ अन्तरायगिरिकृन्तनवज्रं दन्तकान्तिसुविभासितलोकम् । चिन्तनीयमनिशं मुनिवृन्दैः चिन्तयामि सततं गणनाथम् ॥ १४॥ मुक्तिवधूवरणोत्सुकलोको रक्तिमशाश्वत आशु विहाय । भक्तियुक्तोऽमरपूजितमूर्ते शक्तिगणेश मुदाऽर्चति हि त्वाम् ॥ १५॥ यत्पादपङ्कजमतीव सुपुण्यपाकाः सम्पूजयन्ति भवसागरतारणार्थम् । तं पार्वतीशिवमुखाब्जसहस्रभानुं वन्दे समस्तविषयाञ्चितमावहन्तम् ॥ १६॥ गण्डप्रदेशविगलन्मदनीरपानमत्तद्विरेफमधुरस्वर दत्तकर्णम् । विघ्नाद्रिभेदशतकोटिमुमादिगुर्वोः वक्त्राब्जभास्करगणेशमहं नमामि ॥ १७॥ गणेशोऽयं सूचयति मद्द्रष्टॄणां ददे श्रियम् । अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् ॥ १८॥ पुरेन्दुकोपयुक्तदन्तिसान्त्वनेततारकाः उत स्मितांशुसञ्चयो दिने दिने विजृम्भितः । उतोत्तमाङ्गनिस्सृता नु कुम्भसम्भवा इति गणेशकण्ठतारका भवन्ति संशयास्पदम् ॥ १९॥ मदङ्घ्र्यर्चकानां भवेज्जानुदघ्नो भवाम्भोधिरित्येतमर्थं विवक्षुः । करौ जानुयुग्मे निधायाविरास्ते पुरः श्रीगणेश कृपावारिराशिः ॥ २०॥ लोके धनाढ्यो धनिनः करोति स्वपादमूलेतजनान् दरिद्रान् । त्वं पाशयुक्तोऽपि पदाब्जनम्रान् पाशैर्विमुक्तान् किमु युक्तमेतत् ॥ २१॥ हे हेरम्ब मदीयचित्तहरिणं ह्यत्यन्तलोलं मुधा धावन्तं विषयाख्यदुःखफलदारण्येऽनुधावन्नहम् । श्रान्तो नास्ति बलं ममास्य हनने ग्राहेऽपि वा तद्भवान् कृत्वाऽस्मिन् परिपातु मां करुणया शार्दूलर्विक्रीडितम् ॥ २२॥ इति श्रीजगद्रुरु श्रीश‍ृङ्गेरीपीठाधिप श्रीचन्द्रशेखरभारती श्रीपादैः विरचिता श्रीगणेशस्तुतिमञ्जरी समाप्ता । Proofread by Aruna Narayanan narayanan.aruna at gmail.com
% Text title            : Ganesha Stuti Manjari
% File name             : gaNeshastutimanjarI.itx
% itxtitle              : gaNeshastutimanjarI (chandrashekharabhAratI virachitA)
% engtitle              : gaNeshastutimanjarI
% Category              : ganesha, chandrashekharabhAratI
% Location              : doc_ganesha
% Sublocation           : ganesha
% Author                : chandrashekharabhAratI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Latest update         : November 15, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org