श्रीगणेशोत्तरशतकम्

श्रीगणेशोत्तरशतकम्

एवं सृष्टयवनादीन् ब्रह्माण्डानामनेककोटीनाम् । कुर्वन् क्रीडावशतो विनायकत्वं विराजसे मुदितः ॥ १॥ भौतिकपरमाणूनां पुजञ्जैर्जातं यथा नरशरीरम् । ब्रह्माण्डात्मविराजो वपुर्हि जातं तथैव बहुगोलैः ॥ २॥ चन्द्राद्या उपगोलास्तेषु हि विश्वम्भरादयो गोलाः । सूर्यादिमहागोलाः सुमणिद्वीपादयः परमगोलाः ॥ ३॥ सर्वावयवसुपूर्णो मातुर्गर्भ यथा शिशुर्भवति । एवं बहुविधगोलैः पूर्णावयवं विराटूस्वरूपं तत् ॥ ४॥ तस्य विराजो देहे कटयूर्ध्वे चैकविंशतिस्वर्गाः । षोढा विभागवन्तस्तेषां मध्ये ह्य त्व यं परमगोलः ॥ ५॥ द्वीपश्चिन्तामणिरिति मूलाधारो विराट्शरीरस्य । ब्रह्माण्डमध्यदेशे तिष्ठत्वचलः सदा निरालम्बः ॥ ६॥ परमात्मकल्पितेषु स्वपथेषु गोला यथा भ्रमन्त्यन्ये । न कदापि तथा भ्राम्यति चिन्तामणिरित्ययं परमगोलः ॥ ७॥ तत्तद्ब्रह्माण्डात्मकविराट्समूहो महाविराड्ब्रह्म । तस्य हि सवावयवा निखिलैब्रह्माण्डकोटिभिः पूर्णः ॥ ८॥ अखिलाण्डकोटिसमुदयजगदात्माभून्महाविराट्पुरुषः । ब्रह्माण्डकोटिमध्ये मूलप्रकृतिस्वरूपको द्वीपः ॥ ९॥ नाम्ना चिन्तामणिरिति मूलाधारे महाविराड् रूपे । सहसिद्धिबुद्धिरस्मिन् सगुणमहावाक्यगणपतिर्भवसि ॥ १०॥ मूलाविद्याप्रतिगतदेवरत्वं हि प्लुतप्रणवरूपी । विरिश्चिहरिहररविभिस्तेषां शक्त्यात्मजादिभिर्विनुतः ॥ ११॥ एकार्णपत्तनाभिधमूलस्थानं विभाति तन्मध्ये । तत्रापि कल्पवृक्षोद्यानगतोङ्कारमण्टपो भाति ॥ १२॥ सिंहासने हि चिन्तामणिमयसोपानसंयुते तस्मिन् । एकाक्षरगणपतिमहमनिशं ध्यायामि सिद्धिबुद्धियुतम् ॥ १३॥ तत्र मयूरेशादिममूर्तिविशेषान् समन्ततोऽभिगतान् । तच्छक्तिमूर्तिसहितान् सहपरिवारान् समाश्रये सततम् ॥ १४॥ तत्र प्रथमावरणे युवराडव्यक्तगणपतिं वन्दे । गणकं हंसगणपतिं भजेऽहमन्यांस्तदीयपरिवारान् ॥ १५॥ अद्भुतरचनावत्यस्तत्र चतुष्षष्टिविधयः सन्ति । तत्तत्स्वथलाधिकारानुरूपगणपाश्च कोटिशः सन्ति ॥ १६॥ नात्रत्यवैभवादीन् शेषोऽपीष्टे यथावदाख्यातुम् । अत्यल्पबुद्धिविभवः प्रभुर्भवेयं कथं नु वर्णयितुम् ॥ १७॥ एकापत्तनस्य तु दक्षिणपार्श्वे पुरं वरं भवति । नाम्ना षडर्णपत्तनमाज्ञास्थानं स्थलं हि कृत्यानां कार्याणाम् ॥ १८॥ अत्र हि षडर्णरूपी निजशक्तिभ्यां चकास्ति विघ्नेशः । तं त्वां नमामि सन्ततं प्रायः प्रागुदितवैभवादियुतम् ॥ १९॥ निचितचतुर्दशभुवनं सप्तमहाद्वीपवसुमतीमध्यम । लोकालोकवलयितं ब्रह्माण्डमिदं तथान्यदपि सर्वम् ॥ २०॥ गगने खद्योत इव ह्यण्डः प्रद्योततेऽयमेकैकः । अण्वणुमात्रावयवः परिणतजगदाकृतेः किल महाप्रकृते ॥ २१॥ निखिलब्रह्माण्डोपरिभागे स्वानन्दभवनलोकरते । अन्वर्थनामधेयो मुद्गलकपिलादियोगिभजनीयः ॥ २२॥ स द्वादशान्तदेशो महाविराजोऽखिलाण्डरूपस्य । ऐक्षवसागरमध्ये प्रदीप्यते कोटियोजनं विततः ॥ २३॥ कोटिदिवाकरदीप्तिर्यत्र च पुरुषार्थसम्परिसमाप्तिः । यत्र न पुनरावृत्तिर्यश्च महावाक्यगणपतेर्वसतिः ॥ २४॥ तत्र हि मूलस्थानं शतयोजनविस्तृतायतोत्तुङ्गम् । ओङ्कारवलयरूपामृतसागरमध्यगं विभाति तव ॥ २५॥ तत्र सहस्रस्तम्भे चिन्तामणिमण्टपे विचित्रतमे । एकाक्षरपीठे तव तेजोमयविग्रहं हृदा कलये ॥ २६॥ भवदीयसत्यभागे स्मितवदनां ब्रह्मभावदां दयिताम् । ध्यायामि सिद्धिदेवीं पीताम्बरधारिणीं च जगदम्बाम् ॥ २७॥ कल्हारकुसुममालां कस्तूरीतिलकविज्वलत्फालाम् । करुणापूर्णकटाक्षां कनकसवर्णा सदृक्षां ञ्च मोक्षलक्ष्मीं ताम् ॥ २८॥ शशिशेखरां त्रिनयनां सुवर्णसरसीरुहे सुखासीनाम् । भासुरसर्वविभूषणवृन्दां सर्वाङ्गसुन्दरीं वन्दे ॥ २९॥ ध्यायामि बुद्धिदेवीं ब्रह्मज्ञानप्रदयिनीं दयिताम् । भवदीयदक्षभागे घनसारतुषारसन्निभशरीराम् ॥ ३०॥ मन्दस्मितमुखपद्मां मन्दारमुखप्रसूनकृतमालाम् । वन्दारुमधुज भजन लोलां वृन्दारकमुख्यमृग्यपदमूलाम् ॥ ३१॥ कस्तूरिकाविशेषकविलसितनिटिलां गणेशकृतलीलाम् । सिततामरसासीनां त्रिलोचनां चन्द्रशेखरां रुचिराम् ॥ ३२॥ भवतो भवनं परितः प्रथमावरणे विचित्ररत्नानि । क्रीडागानादीनि स्थानानि मनोहराणि सुबहूनि ॥ ३३॥ तत्तत्स्थानानुगुणं गृहीतकमनीयविग्रहविशेषः । सिद्धथा बुद्धया च युतो विहरसि मुदितस्तदर्हपरिवारः ॥ ३४॥ कन्दर्पकोटिपरिभूसौन्दर्यझरीतरङ्गिताकाराः । क्रीडागानादिगता मङ्गलमूर्तीश्च मन्महे मनसि ॥ ३५॥ भवतः कटाक्षवीक्षां प्रतीक्षमाणाश्च किङ्करप्रवराः । आज्ञाकरणप्रवणा अभ्यर्णे सन्ति कोटिकोटिगणाः ॥ ३६॥ भवतो हि वामपूर्वे किञ्चिन्यूने महेन्द्रमणिपीठे । आसीनं युवराज सिद्धिसुताऽव्यक्तगणपतिं वन्दे ॥ ३७॥ दूर्वादलवच्च्यामलकोमलमूर्तिं निशाकरापीडम् । कन्दर्पसुन्दराङ्गं कौस्तुभचिन्तामणिप्रभादीप्रम् ॥ ३८॥ निजलोकवासिसर्वाभीप्सितविज्ञापनादिवानाम् । विज्ञापयति विशेषान् स किल महावाक्यगणपतेः सविधेभवते ॥ ३९॥ भवदीयसन्निधाने तस्मादन्यो न कोऽपि गणवर्गः । गन्तुं स्थातुं वापि प्रभवति किमुत प्रभाषणादिविधौ ॥ ४०॥ अपि चाव्यक्तनिवेदितनिजभक्तजनानुकूलकृत्यानि । आकर्णनमात्रादपि सद्यः कर्तुं कृतादरो हि भवान् ॥ ४१॥ भवतो हि याम्यपूर्वे स्फाटिकपीठे गुरुं सुखासीनम् । अतिसुन्दरं युवानं बुद्धेः सूनुं वि सु लेखनीपाणिम् ॥ ४२॥ चूडाशशिप्रकाशं शुद्धस्फटिकप्रभाप्रतीकाशम् । गणकं गणकाधीशं हंसगणेशं नमाम्यमात्ये नमामि सचिवे शम् ॥ ४३॥ लोकं देशं ग्राम ब्रह्माण्डस्थितपरात्मभक्तानाम् । पूर्वाचरितान् गणको धर्मादींश्च स्वपुस्तके लिखति ॥ ४४॥ गणकविलेखनमात्रात् सकलान्निजभक्तपुङ्गवाकलितान् । प्रणिदापयस्यनल्पान् कामकलापान् सुरादिदुरवापान् ॥ ४५॥ ब्रह्म महत्तत्त्वगतं गणकं प्राहुः समस्तयोगीन्द्राः । यो निबबन्ध ग्रन्थान् गणपतिविषयान् महेतिहासादीन् ॥ ४६॥ ध्यायन्ति हंसरूपं परमगुरुं यं सहस्रदलपद्मे । आसीनं गणकेशं हृदये किल योगिपुङ्गवाः सततम् ॥ ४७॥ निखिलब्रह्माण्डस्थितभक्त जनानां हिताहितं वक्तुम् । वरदादिकोटिगणपा विकटस्यान्ते वहन्ति सचिवत्वम् ॥ ४८॥ अखिलाण्डकोटिनिवसद्भक्तानानन्दभवनमानेतुम् । आधिकारपदनियुक्ता आमोदमुखा भवन्ति कोदिगणाः ॥ ४९॥ त्वद्भक्तिमात्रसुलभानीदृशतत्रत्यसर्वपरिवारान् । मनसा नुमो नौन्य नवरतं द्वारीभूतान् भवत्समीपाप्तौ ॥ ५०॥ त्रिनयनचन्द्रापीडा ब्रह्मानन्दाम्बुधौ भृशं मग्नाः । आनन्दभवनभुवने गणपतिसारूप्यभागिनोऽनन्ताः ॥ ५१॥ बहुकल्पकोटिकालं भवतः सदुपासनात् प्रमोदन्ते । शुण्डादण्डविराजत्तुण्डाविगलन्मदाम्बुयुतगण्डाः ॥ ५२॥ सालोक्यमुक्तिभाजोऽसङ्ख्येयाश्चाखिलाण्डभक्तजनाः । एवं सामीप्यपदप्राप्त्या सुखभूमभागिनोऽनन्ताः ॥ ५३॥ स्वर्गादिवासिनामपि दुष्टासुरबाधशापबाधादिः । प्रारब्धकर्मभोगः कदाचिदपि मातृगर्भवासादिः ॥ ५४॥ आनन्दभवनवासी नैतादृगुपद्रवं कदाचिदपि । अनुभवति किं त्वखण्डं ब्रह्मानन्दं न दुःखसम्भिन्नम् ॥ ५५॥ सङ्कल्पमात्रसुलभानाहारविहारकामभोगादीन् । परिहृत्य नित्यतृप्ता नित्यानन्दात्मना महात्मानः ॥ ५६॥ ज्ञानयोगादिनिष्ठा जीवन्मुक्ता गता हि ये तत्र । ब्रह्मविचारपरास्ते प्रापुरनन्ता विदेहकैवल्यम् ॥ ५७॥ केशाधिकारयुक्ता योगिजना ये तु पूर्वकल्पेषु । ब्रह्माच्युतादयस्ते विद्यन्ते तत्र कोटिशः परितः ॥ ५८॥ अवतारमूर्तयस्ते सन्ति समन्तात् सहस्रशस्तत्र । तव तत्र तत्रैव मूर्तिमन्तो ह्याम्नायान्ताः स्तुवन्ति महिमानं तव रूपम् ॥ ५९॥ सर्वावरणसमेतास्तत्तत्वच्छक्तिसिद्धिबुद्धधंशाः । तत्तदवसरा काल नुगुणाः सन्ति सहस्स्रं हि मूर्तयस्तत्र ॥ ६०॥ इत्यानवमावरणं विचित्ररूपा विभूतिविभवाद्याः । कविवाङ्मनसोऽविषयाः सन्ति स्वानन्दभवनलोके ते ॥ ६१॥ एतेभ्यश्च निजेभ्यो लोकानुग्राहिमूर्तिभेदेभ्यः । जीवन्मुक्तादिभ्योऽत्रत्यमहद्भयो नमोऽस्तु सर्वेभ्यः ॥ ६२॥ दूरे भवतः पुरतो सिंहासनस्य मूले मूषकराजो विराजते सुतराम् । दस्युरिवान्तर्यामी भुङ्क्ते भोगांश्च सर्वजन्तूनाम् ॥ ६३॥ अव्यक्तगणपतिस्तव सेवार्थं प्राप मूषकाकारम् । भवदीयवाहनेष्वपि कुरुते सर्वेष्वनुप्रवेशमयम् ॥ ६४॥ यद्यपि हंसो विलिखति चण्डो वा ननभैरवो दाताः । भवदालये गणपते सततं सेवाफलं हि भक्तेभ्यः ॥ ६५॥ पूर्वं तव सेवार्थं प्रवेशकालेऽस्य मूषकस्य तथा स्यान्ते । न लभेत चेदनुज्ञां सेवा फलमपि सुदुर्लभं तस्य ॥ ६६॥ सेवानभिज्ञमपि मामनीशमन्यादृशोपचारविधौ । चण्डादयोऽनुगृह्णन्त्वेते भवदीयभवनपरिवाराः ॥ ६७॥ तव भक्तकोटिमहिमा वक्तुमशक्योऽत्र मुद्गलः प्रवरः । यच्छिष्याः कपिलाद्याः सन्ति चतुष्षष्टिकोटिमित्रसिद्धाः ॥ ६८॥ त्वन्नाममात्रजापा समूलकाषं कषन्ति कलुषाणि । विषहरणसिद्धमन्त्रो जपमात्रादिव विषं निरव शेषम् ॥ ६९॥ कुङ्कुमकर्पूरागरुमृगमदगोरोचनदियतगन्धम । यद्भक्ता दधते तद्वस्तु गजास्यं सदास्तु मम चित्ते ॥ ७०॥ श्वेतार्कमूलमूर्ति जीवद्गजदन्तमूर्तिमपि भवतः । शोणशिलामपि मनसा प्रवालरत्नादिमूर्तिमपि महये ॥ ७१॥ दूर्वार्चनमन्त्रजपा व्रतं चतुर्थ्या यदीयचिह्नानि । सिन्दूरधारणाद्यपि स गणाध्यक्षः सदास्तु मम शरणम् ॥ ७२॥ दूर्वारहितसपर्या विफला भवतः कृतापि हेरम्ब । निजशक्तिदत्तबीजद्वयरूढा यत् शताङ्कुरा देवी ॥ ७३॥ दुःस्वप्ननाशिनी सा स्वार्चकपापापनोदनैकचतुरा परा । भक्तजनविघ्नहन्त्री दूर्वायां ते ततो महाप्रीतिः ॥ ७४॥ यद्यपि दूर्वान्नमयी दुर्गाशप्ता तृणात्मना जाता । आराध्य सिद्धिबुद्धी श्वेतहरिद्भेदतो द्विधाभूत् सा ॥ ७५॥ दुर्गार्चने तु निन्द्या श्लाध्यतममेवार्चनेऽन्यदेवानाम् । भवतोऽतिश्लाध्यतमा युग्मत एकैकविंशतिभ्यां वा ॥ ७६॥ तुलसी नीला देवी वैष्णवमाया गणेशशप्ता सा । भवतोऽत एव निन्द्या अर्हा ग्रहदेवतान्यदेवानाम् ॥ ७७॥ श्वेतार्ककुसुमनिकरैर्मन्दारसुमैस्तथा शमीपत्रैः । भक्तैरर्चितमात्राद्यथातितृप्तिस्तथा न ते क्वापि ॥ ७८॥ श्वेतार्कमूलमणिभिर्मन्दारशमीमयैश्च मणिनिचयैः । प्रथितां किलाक्षमालां धारयितारः प्रसादपात्रं ते ॥ ७९॥ विजयप्रवालनगरो भौममयूरेशनासिकादीनाम् । क्षेत्राणां यात्रायामशक्तमपि मां पुनातु विग्नेशः ॥ ८०॥ न मम ज्ञाने निष्ठा योगे वा मन्त्रकर्मनामादौ । त्वत्पादाश्रयणान्मामुद्धर संसारतश्च सिद्धिपते ॥ ८१॥ निर्वाणदीक्षयाहं न संस्कृतो नापि योगदीक्षाद्यैः । सामान्यदीक्षयापि च पुनीहि बुद्धीश भावनालेशात् ॥ ८२॥ मामकृतसुकृतसञ्चयमनुपासितमुख्यदेवतामूर्तिम् । केवलभक्तिबलान्मां कृतार्थयेथाः स्त्वं कृपापयोराशे ॥ ८३॥ इच्छामात्रादणुमपि मेरुं कुरुषेऽनलं च सलिलमिव । मरुमपि जलधिं भवतो मदघनिरासे गणेश को भारः ॥ ८४॥ आकस्मिकयसि कामान दुरवापानपि विचित्रयस्यर्थान् । सर्वमकिञ्चित्करमप्यपेक्षसे किन्न्वनुग्रहार्हं माम् ॥ ८५॥ यो देशकालवस्तुभिरपरिच्छिन्नोऽपि हृद्गुहावर्ती । प्रेरयति सर्वजन्तूननवरतं तं गणेशमर्हामि ॥ ८६॥ कालस्वभावनियतिप्रभृतिममन्यन्त ये जगद्बीजं (ये जगद्बीजमुद् गिरन्ति) । अविदन्तस्तव तत्त्वं संसृतिचक्रे भ्रमन्ति मुह्यन्तः ॥ ८७॥ संसृतिधर्मासङ्गी तत्साक्षी त्वं तदानुरूप्येण । उच्चावचफलदातुस्तव च न वैषम्यं नापि नैर्गृण्यम् ॥ ८८॥ यमुपासेऽस्मिञ्जन्मनि देवं यावच्छरीरहानमहम् । प्रेत्य प्रतिपत्स्येऽहं तमेव भावं च तत्क्रतुन्यायात् ॥ ८९॥ प्रागुत्पत्तेस्त्वमिदं जगच्च सर्वं स्थितेरवस्थायाम । प्रलयावस्थायां त्वं ध्यायेयं कं कथं त्वदन्यमहम् ॥ १०॥ कामतरङ्गाभिहतं गभीरसंसारसागरे मग्नम् । विषयग्रहगृहीतं भवाब्धिपोतस्त्वमेव तारय माम् ॥ ९१॥ बहु सुख दुःखमोहरूपप्रपञ्चजालाड्कुरप्ररोहार्हम् । मूलाविद्याबीजं दग्धुं नान्यद्विना भवज्ज्ञानम् ॥ ९२॥ मायाविलासितमेतत् प्रपञ्चजालं न वस्तुतः किञ्जित् । न हि रज्जुशुक्तिकादिव्यतिरेकेणास्ति सर्परजतादिः ॥ ९३॥ तज्ज्ञानं मे सुलभं यज्ञतपोदानसाधनाभावात् । त्वद्भक्तिमात्रसाधनमतिदीनं मामनुगृहाण विभो ॥ ९४॥ गन्धर्वनगरकल्पं सर्वं स्वाप्नप्रवृत्तिसदृशञ्च । मायामात्रं मन्ये त्वद्व्यतिरिक्तं त्वदेकतानोऽहम् ॥ ९५॥ अग्राह्योऽनिर्देश्योऽचिन्योऽतक्योर्ऽप्रमेयमहिमा त्वं विक्षिप्तचित्तवृत्तिः प्रभवेयमहं कथं मम द्ध्याने ॥ ९६॥ भूतभवद्भव्येषु त्वद्व्यतिरिक्तः कदापि नासेऽहं नासीय त्वद्भावापत्तिस्नु भ्रमापगमनात् सदा त्वदात्माहम् ॥ ९७॥ शऋङ्गग्राहिकयेदृश आत्मेत्युक्तौ श्रुतिस्त्वनीशाना । चकिता प्रतिपादयति ह्यध्यारोपापवादरीत्या त्वाम् ॥ ९८॥ त्वामेवाहं जाने त्वदन्यभावभ्रमापगमनाय । त्वद्भावभावितोऽहं न्यं न भोग्यवर्गञ्च कामये कमपि ॥ ९९॥ लम्बोदर हेरम्ब द्वैमातुर दन्तिवदन विनेश । अव्याजदयासिन्धो भक्तपराधीन दीनजनबन्धो ॥ १००॥ भवतानुग्राह्योऽहं संसृतिबन्धादहं प्रमुच्येय । नाल्पेन लोभनीयः विषयानन्दं न चाभिनन्देयम् ॥ १०१॥ न स्वर्गस्वानन्दं कार्यस्वानन्दमप्यहं नेहे । आनन्दभवनमीयां तद्विन्देयं विदेहकैवल्यम् ॥ १०२॥ यद्यपि शुद्धाद्वैती बाह्यसुपूजनादिनापि शैवोऽहम् । परमात्मभावितगणपतिभावः कदापि मापैतु ॥ १०३॥ श्रुत्यादिषु प्रसिद्धा गुणगण गणपति विभवा यथावदाख्याताः । कविसमयसहजसिद्धा वाचोयुक्तिः प्रतायते न मया ॥ १०४॥ यद्यपि गणपतिगुणगणवर्णनमेव प्रधानतः प्रकृतम् । मतविमतनान्तरीयकनिरूपणश्चानुषङ्गतो ग्रथितम् ॥ १०५॥ अत एव पूर्वमेव प्रतिश्रुतश्लोकशतकतोऽप्यधिका । विनेशभिन्नविषयप्रतिपादनतत्पराः कृताः श्लोकाः ॥ १०६॥ इति नीलकण्ठशास्त्री विद्वद्रत्नोपनामवान् विबुधः । शङ्करभगवत्पदस्थापितषट्दर्शनी सुसारज्ञः ॥ १०७॥ गामिषु भवत्सु सप्तदशाधिकपञ्चसहस्रेषु कलि युगाब्देषु । अकरोद्गणेशशतकं तद्गुणलेशैः स्ववाग्विशुध्यर्थम् ॥ १०८॥ तं क्षाम्यन्तु महान्तो यदि प्रमादप्रयुक्तदोषः स्यात् । जीयादियं कृतिर्मे सुचिरं भूयान्मुदे च सिद्धिपतेः ॥ १०९॥ संसारदशायामपि मोक्षदशायां तथैकरूपत्वम् । आत्मन उक्तोऽत एव शान्त ब्रह्मप्रवादिभिः साङ्खयैः ॥ ११०॥ मीमांसकास्तु कथयन्त्यात्माहम्प्रत्ययेन वेद्य इति । अन्ये त्वन्यं सर्वं न वस्तुतः किन्त्वपक्कसोपानम् ॥ १११॥ विगतद्वैताभासो वेद्यान्तरविषयवृत्तिहीनोऽहम् । त्वदूपचित्तवृत्तिः किन्न भवेयं सदा त्वदाकारः ॥ ११२॥ निरतिशयान्दात्मभवत्स्वरूपे महापयोराशौ । विषयानन्दो नार्हति बिन्दशततमांशमात्रमपि भवितुम ॥ ११३॥ ॥ इति श्रीविद्वद्रत्नोपनामकेन वैयाकरणशिरोमणिना वैदिकषड्दर्शनीसारवेदिना नीलकण्ठशास्त्रिणा विरचितं गणेशोत्तरशतकं समाप्तम् । Proofread by Gopalakrisnan
% Text title            : Ganesha Uttarashatakam 06-32
% File name             : gaNeshottarashatakam.itx
% itxtitle              : gaNeshottarashatakam (nIlakaNThashAstriNA virachitam)
% engtitle              : gaNeshottarashatakam
% Category              : ganesha, shataka
% Location              : doc_ganesha
% Sublocation           : ganesha
% Author                : nIlakaNThashAstri
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Gopalakrishnan
% Description/comments  : See accompanying gaNeshapUrvashatakam, From stotrArNavaH 06-32
% Indexextra            : (Scan, gaNeshapUrvashatakam)
% Latest update         : September 10, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org