गुह्यौच्छिष्टगणेशगुह्यसहस्रनामस्तोत्रस्य पूर्वपीठिका फलश्रुति च

गुह्यौच्छिष्टगणेशगुह्यसहस्रनामस्तोत्रस्य पूर्वपीठिका फलश्रुति च

पूर्वपीठिका

सनक उवाच - देव देव महादेव विद्यानाथ गुरूत्तम । उपासनानि भिन्नानि बुद्धिभेदकृतानि तु ॥ १॥ कलौ हि धैर्यवैकल्यात् साधक भ्रमयन्ति हि । केनोपायेन लघुना लघुकालकृतेन च ॥ २॥ सधकाः सिद्धिजालानि प्राप्नुयुर्हि कलौ युगे । तमहं ज्ञातुमिच्छामि भवन्मुखरसाकुलः ॥ ३॥ यदि मे योग्यतास्तीति मन्यते भवता तदा । आचक्ष्व करुणासिन्धो कौतुकं मे प्रपूरयन् ॥ ४॥ दक्षिनामूर्तिरुवाच - वत्स वत्स किम्मेव हि ब्रूयते तु त्वयाधुना । तव चेद्योग्यता नास्ति कस्यान्यस्येह योग्यता ॥ ५॥ त्वादृशो यदि लोकेऽस्मिन् शिष्यो लभ्येत कर्हिचित् । तदैव तस्मै शिष्याय गुरुः सर्वं प्रकाशयेत् ॥ ६॥ भवान् हि त्रिषु लोकेषु ब्रह्मविद्याप्रचारणे । श्रीविद्यायास्तथा च्छन्दोविद्यायाश्च प्रचारणे ॥ ७॥ नियत्या हि नियुक्तोऽसि तन्त्रविद्याप्रचारणे । अतः सर्वं प्रकाश्यं ते योग्य एवाऽसि वत्सक ॥ ८॥ यद्यद्विषयविज्ञानं प्रतीच्छा तव जायते । तत्तद् विस्रब्धमेव त्वं मां पृच्छस्व निराकुलः ॥ ९॥ कलौ हि क्षिप्रसिद्‍ध्यर्थं समस्च्येक उपायराट् । उच्छिष्टगणनाथस्य राधनं क्षिप्रसिद्धिकृत् ॥ १०॥ उच्छिष्टस्य गणेशस्य पूजनं बहुधा श्रुतम् । तन्मन्त्रा अपि बहवः श्रूयन्ते तन्त्रवेदिभिः ॥ ११॥ हस्तिशब्दं समुच्चार्य पिशाचीति ततो वदेत् । लिखेपदं समुच्चार्य वह्निजायान्तमुद्धरेत् ॥ १२॥ नवाक्षरोऽयमाख्यात उच्छिष्टस्य गणेशितुः । ऋषिः कङ्कोलनामास्य विराट् छन्द उदाहृतम् ॥ १३॥ उच्छिष्टगणपो देवः सर्वसम्पत्प्रदायकः । द्वाभ्यां हृदयमाख्यातां त्रिभिः शिर उदाहृतम् ॥ १४॥ द्वाभ्यां शिखा समाख्याता वर्म द्वाभ्यां समीरितम् । समस्तेनाऽस्त्रमाख्यातं पञ्चाङ्गविधिरीरितः ॥ १५॥ उत्राङ्गकल्पनायां हि नेत्रत्रयं न विद्यते । वर्णलक्षं जपित्वा तु मन्त्रमेतं तु साधयेत् ॥ १६॥ आदौ षट्कोणमालिख्य ततो वसुदलद्वयम् । चतुरस्रत्रिवीथीभिः सार्धं यन्त्रं समुद्धरेत् ॥ १७॥ पूजयित्वा यन्त्रराजं विधिनेमं सुभक्तितः । सर्वसिद्धिसमृद्धश्रीः साधको भुवि जायते ॥ १८॥ मूलमन्त्राधिपं देवं मध्ये बिन्धौ प्रपूजयेत् । षट्कोणेषु षडङ्गानि पूजयेत्स्थिरमानसः ॥ १९॥ षडङ्गानि मनोरस्य ध्यातव्याश्चाङ्गदेवताः । तुषारस्फटिकश्यामनीलकृष्णारुणार्चिषः ॥ २०॥ वरदाभयधारिण्यः प्रधानतनवः स्त्रियः । पञ्चाङ्गकमनुर्यत्र तत्र पञ्चारमालिखेत् ॥ २१॥ पुजापि तत्र कर्तव्या पञ्चाङ्गैरेव मन्त्रकैः । आध्याष्टदलमूलेषु शक्तीरष्टौ क्रमाद्यजेत् ॥ २२॥ विद्याख्या विश्वधात्री च भोगदा विघ्ननाशिनी । निधिप्रदा च पापघ्नी तथा पुण्या शशिप्रभा ॥ २३॥ दलेषु च यजेत्तद्वदणिमाद्या हि देवताः । अणिमा महिमा चैव लघिमा गरिमा तथा ॥ २४॥ ईशित्वं च वशित्वं च प्राकाम्यं प्राप्तिरेव च । द्वितीयाष्टदलाब्जस्य दलेषु क्रमशोऽष्टसु ॥ २५॥ वक्रतुण्डादिका देवाः सम्पूज्या गणपेश्वराः । वक्रतुण्डैक दष्ट्रौ च महोदरगजाननौ ॥ २६॥ लम्बोदराख्य विकतौ विघ्नराट्धूम्रवर्णकौ । बहिरष्टदलाब्जस्य दलाग्रेष्वपि च क्रमात् ॥ २७॥ विघ्ना पूजनीया हि ब्रह्म्याद्यास्त्वष्टमातरः । ब्राह्मी महेश्वरीं चैव कौमारीं वैष्णवीं तथा ॥ २८॥ वाराहीं च तथेन्द्राणीं चामुण्डां तदनन्तरम् । महालक्षीं च क्रमशः पूर्वादिषु हि पूजयेत् ॥ २९॥ चतुरस्रस्याद्यवीथ्यां द्वितीयायां तथापि च । त्रितीयायामपि तथा लोकपालाष्टकस्य तु ॥ ३०॥ वाहनानि तथास्त्राणि दैवतानि प्रपूजयेत् । इन्द्रो वह्निः पितृपतिर्नैरृतो वरुणो मरुत् ॥ ३१॥ सोम ईशानः पतयः पूर्वादीनां दिशां क्रमात् । वज्रशक्ती दन्डखड्गौ पशायुधं ततो ध्वजः ॥ ३२॥ शङ्खस्तथा त्रिशूलश्च शस्त्राण्येषां यथाक्रमम् । ऐरावतोऽजमहिषौ नरश्च मकरस्तथा ॥ ३३॥ रुरुरश्वश्च वृषभो वहनानि यथाक्रमम् । पञ्चावरणकं यन्त्रमुच्छिष्टस्य गणेशितुः ॥ ३४॥ पूजयित्वा विधानेन सर्वसिद्धीश्वरो भवेत् । पञ्चावरणपूजेयमुच्छिष्टस्य गणेशितुः ॥ ३५॥ नवानामपि मन्त्राणां साधारणतया स्मृतम् । तत्तन्मन्त्रस्य साध्यस्य बिन्दुचक्रे प्रपूजनम् ॥ ३६॥ साध्यस्य देवरूपस्य ध्याने त्वस्ति विशेषकः । अन्यक्त साधारणता पऽचावरण पूजने ॥ ३७॥ मन्त्रमन्यं श‍ृणोत्वद्या सावधानेन हि चेतसा । क्रीं क्रीं पदम् समुच्चार्य ह्रीं ह्रीं च पदमुच्चरेत् ॥ ३८॥ हुङ्कारं सम्यगुच्चार्य घे घे शब्द मथोच्चरेत् । षट्कारं स्वाहया युक्तं प्रणवाद्योऽयमी रितः ॥ ३९॥ एकादशाक्षरः सम्यङ् मूलमन्त्रो गणेशितुः । ऋष्यादिकं पुरा प्रोक्तं ध्यानपूजादिकं तथा ॥ ४०॥ अन्यं मन्त्रं गणेशस्योच्छिष्टस्यास्य ब्रवीमि ते । एकदंष्ट्रं चतुर्थ्यन्तं वदेद् हस्तिमुखं ततः ॥ ४१॥ लम्बोदरपदं ङेन्तं उच्छिष्टेति पदं ततः । आत्मनेऽङ्कुशबीजं च ग्लूङ्कारं भुवनेश्वरीम् ॥ ४२॥ हुं घे घे पदमुच्चार्य स्वाहाकारं समुच्चरेत् । सप्तविंशतिभिर्वर्णैः मन्त्रः प्रोक्तो गणेशितुः ॥ ४३॥ ऋष्यादिध्यानपूजान्तं यथापूर्वं समाचरेत् । मन्त्रान्तरं संश‍ृणुष्वोच्छिष्टपूर्वगणेशितुः ॥ ४४॥ ओङ्कारमुच्चरेदादौ नमो भगवते पदम् । एकदम्ष्ट्राय सम्भाष्य हस्त्यन्ते मुखशब्दतः ॥ ४५॥ लम्बोदरपदं ङेन्तं उच्छिष्टेति पदं ततः । महात्मने पदं प्रोक्ता वदेदम्कुशबीजकम् ॥ ४६॥ ग्लूङ्कारं मायया युक्तं हुं घे घे च समुच्चरेत् । स्वाहान्तो मनुराक्यातः सम्यक् षट्त्रिंशदक्षरः ॥ ४७॥ ऋष्यादिकं पुरा प्रोक्तं षड्बीजैरङ्गकल्पना । ध्यानपूजादिकं सर्वं मन्त्री पूर्ववदाचरेत् ॥ ४८॥ बलिमन्त्रं गणेशस्य श्ऱ्ऱुत्वा बुद्धौ हि धार्यताम् । ॐ गं हं क्लौं समुच्चार्य ग्लौं उच्छिष्टगणेपदम् ॥ ४९॥ ततः शाय महायक्षायायं बलिरिति स्मृतः । अनेन मनुना मांसं फलं वापि बलिं हरेत् ॥ ५०॥ एतत्पूर्वोक्तमन्त्रेषु यथा ध्येयो गणधिपः । ऋणोत्ववहितमना ध्यानश्लोकं तथाधुना ॥ ५१॥ रम्योद्भिन्नारुणतरमणिव्रातसंशोभिकान्ति सम्बिभ्राणं करकिसलयैः पाशामप्यम्कुशाह्वम् । साभीतीष्टं त्रिनयनयुतं रक्तमाल्यांशुकाढ्यं उच्छिष्टाख्यं गणपतिममुं संस्मरेत्पद्मसंस्थम् ॥ ५२॥ अस्मिन् बलिमन्त्रे तु ध्याने स्यात्किञ्चिदन्तरम् । चतुर्भुजं त्रिनेत्रं च रक्तवर्णं कराम्बुजैः ॥ ५३॥ पशाङ्कुशौ मोदकानां पात्रं दन्तं च बिभ्रतम् । कमलासन आसीनमुन्मत्तं गणनायकम् ॥ ५४॥ ध्यायेदत्र बलेर्मन्त्र उच्छिष्टस्य गणेशितुः । मनुमन्यं गणेशस्योच्छिष्टाख्यस्य महोप्रभोः ॥ ५५॥ तव ब्रवीमि वात्सल्याच्छ्रुणोत्विह कुमारक । प्रणवो भुवनेशी च स्मृतिबिन्दुसमन्विता ॥ ५६॥ ततो नवाक्षरश्चैव सम्प्रोक्तो द्वादशाक्षरः । आदित्रयद्विरावृत्या हृदयादिषडङ्गकम् ॥ ५७॥ ध्यानपूजाविधाने तु नवार्णकवदाचरेत् । श‍ृणु मन्त्रान्तरं वत्सोच्छिष्टाख्यस्य गणेशितुः ॥ ५८॥ तारं हृदुच्छिष्टपदं गणेशाय नवाक्षरः । एकोनविंशत्यर्णोऽयं मुन्याद्याः पूर्ववत्स्मृताः ॥ ५९॥ त्र्यगद्वित्रिद्विद्विभिश्च मन्त्रार्णैः स्यात्षडङ्गकम् । एतावत्सु हि मन्त्रेषु ब्रह्मचारितया स्थितः ॥ ६०॥ ध्यातव्यः साधकैर्देव उच्छिष्टाख्यो गणेशिता । इतः परतरं मन्त्रद्वितयं तस्य विद्यते ॥ ६१॥ सप्ताधिकत्रिंशदर्णो द्वात्रिंशदक्षरोऽपि च । अनयोर्हि द्वयोर्मन्वोरुच्छिष्टाख्यगणेशिता ॥ ६२॥ विवस्त्रपत्न्यां सुरते प्रवृत्तत्वेन चिन्त्यते । शुण्डाहस्तेन जायाया लालयंश्च कुचद्वयम् ॥ ६३॥ महात्रिपुरसुन्दर्या यदायुधचतुष्टयम् । तदेव धारयन्देवो ध्यातव्योऽत्र गणाधिपः ॥ ६४॥ प्रणवं हृद्भगवते एकदम्ष्ट्राय वै वदेत् । ततो हस्तिमुखं ङेन्तं तथा लम्बोदरं ततः ॥ ६५॥ वदेदुच्छिष्टशब्दान्ते महात्मानं च ङेन्तगम् । पशमङ्कुशमाये च विघ्नवीजं च घेद्वयम् ॥ ६६॥ वह्निजायावधिं सप्तत्रिंशदर्णो मनुर्मतः । गिरिपङ्क्तिशराद्र्यब्धियुगार्णैरङ्गकल्पना ॥ ६७॥ तारो हस्तिमुखं ङेन्तं लम्बोदरपदं ततः । तथोच्छिष्टमहात्मानं पशाङ्कुशत्रपास्ततः ॥ ६८॥ कामत्रपावर्म घेघे उच्छिष्टायाग्निवल्लभा । द्वात्रिंशदक्षरो मन्त्रो गणेशस्य महात्मनः ॥ ६९॥ रसेषुसप्ताष्टयुगनेत्रार्णैरङ्गकल्पना । सप्तत्रिंशदर्णमन्त्रद्वात्रिंशदर्णयोर्द्वयोः ॥ ७०॥ गणकःस्यादृषिश्छन्दो गयत्री देवता ततः । उच्छिष्टपदपूर्वश्च गणनाथः समीरितः ॥ ७१॥ द्वात्रिंशदर्णको मन्त्रः सर्वतन्त्रेषु गोपितः । जप्त्वा यं मन्त्रराजं तु सर्वसिद्धीश्वरो भवेत् ॥ ७२॥ गुह्यनामसहस्राख्यस्तवपाठेऽपि योग्यता । अस्यैव मन्त्रराजस्य राधनेन हि जायते ॥ ७३॥ अष्टाविंशतिवर्णात्ममनुराट्साधकैरपि । गुह्यनामसहस्रेऽस्मिन् सम्प्रवेष्टुं हि शक्यते ॥ ७४॥ यत एष मनुश्रेष्ठः सर्वमन्त्रप्रसाधकः । अष्टाविंशतिवर्णात्मा सर्वमन्त्रप्रवेशकः ॥ ७५॥ सङ्गुप्तनामसाहस्रस्यादावेष प्रशस्यते । सर्वेषामपि मन्त्राणामादावेष हि साध्यते ॥ ७६॥ एकवर्णं समारभ्य यो यो मन्त्र उदीरितः । तत्तस्मिन्हि निर्भीका मनुनानेन योग्यता ॥ ७७॥ एकवर्णं समारभ्य यो यो मन्त्र समीरितः । तत्तस्मिन्हि गणेशान एतत्स्तोत्रेण पूज्यते ॥ ७८॥ वत्साधुनातिगुप्तं हि गुह्यनामसहस्रकम् । वक्ष्यामि भवतेऽद्यैव श‍ृणु तत्परमानसः ॥ ७९॥ यं श्रुत्वा सर्वलोकेषु नान्यज्ज्ञातव्यमस्ति ते । यं श्रुत्वा सर्वलोकेषु नान्यच्छ्रोतव्यमस्ति ते ॥ ८०॥ यं लब्धा नापरं लाभं मन्यसे त्वं ततोऽधिकम् । द्वात्रिंशदर्णके मन्त्रे यद्दृष्यादि समीग्तिम् ॥ ८१॥ तदेवात्रानुसन्धेयं नामसाहस्रकेऽपि च । यस्मिन् यस्मिंस्तु रूपे हि गणेशान उपास्यते ॥ ८२॥ तत्तत्प्रसादलाभार्थं स्तुतिरेषा प्रयुज्यते । उड्डामरेशतन्त्रेऽस्मिन् पटले क्षिप्रसाधने ॥ ८३॥ सङ्गुप्तनामसहस्रपूर्वभागः समाप्यते ॥ ८४॥

फलश्रुतिः ।

इदं तु नामसहस्रमुच्छिष्टगणपस्य तु । सर्वनामहस्रेषु क्षिप्रसिद्धिविधायकम् ॥ १॥ गुप्तानामपि सङ्गुप्तं सर्वशक्तिसमर्पकम् । मासेनैकैन सर्वासां सिद्धीनां हि विधायकम् ॥ २॥ अनेन सदृशं स्तोत्रमन्यद्भवि न विद्यते । विना त्रिपुरसुन्दर्या गुप्तनामसहस्रकम् ॥ ३॥ यद्यत्फलं समुद्दिष्टम् गुप्तनामसहस्रके । तत्तत् सर्वमतिक्षिप्रं सिद्‍ध्यत्यत्र न संशयः ॥ ४॥ शरीरद्वयसम्बद्धसर्वरोगविनाशनम् । अनाद्यविद्याविध्वंसि ब्रह्मविद्याप्रकाशकम् ॥ ५॥ शरीरे वर्तमानेऽपि विकलेवरमुक्तिभाक् । साधको जायतेऽनेन गुह्यनामजपेन तु ॥ ६॥ सच्चिदानन्दरूपेन वर्तमानो हि साधकः । नामरूपस्य साकल्यमुच्छिष्टत्वेन पश्यति ॥ ७॥ सिद्धस्य धीरवर्यस्य करणत्रयचेष्टितम् । उपासनरूपमेव सम्विभाति न संशयः ॥ ८॥ जीवन्नेव हि मुक्तः स उच्छिष्टस्य गणेशितुः । विदधानः सपर्यां तु सर्वदैव हि दृश्यते ॥ ९॥ तावत्पूजां सधकोद्ध उच्छिष्टस्य महाप्रभोः । क्रियाकलापजटिलां जपहोमादिनिर्भराम् ॥ १०॥ पञ्चावरणचक्रीयां कुर्यात् संस्थिरमानसः । यावत्सर्वं निजं कर्म संशान्तकर्तृतादिकम् ॥ ११॥ मरीचिकाजलप्रायमुच्छिष्टपदमाप्नुपात् । नामरूपस्य साकल्यमुच्छिष्टपदमाप्नुयात् ॥ १२॥ नामरूपात्मिका निष्टा येषां तेषामियं स्तुतिः । कलौ हि पापबहुले सर्वपापप्रणाशिका ॥ १३॥ इदं हि स्तोत्रग्रन्थानां सर्वेषां नायकायते । वैदिकैस्तान्त्रिकैर्वापि जपयज्ञादिभिस्तदा ॥ १४॥ यद्यत्पुण्यं कृच्छ्रसाध्यमश्वमेधादिभिस्तथा । तत्तत्सर्वमतिक्षिप्रं लघूपायेन साध्यते ॥ १५॥ अश्वमेधस्य कोटीनां यत्पुण्यं श्रुतिसम्मतम् । तदत्र गुह्यसाहस्रपठनेन हि सिद्‍ध्यति ॥ १६॥ सङ्गुप्तनामसाहस्रपठनाद्या हि साध्यते । सा शक्तिरश्वमेधस्याष्टकोट्यापि न सिध्यति ॥ १७॥ इदं नाम सहस्रं तु सर्वविद्याप्रकाशकम् । अष्टावधानविद्यायां शतावधानकेऽपि च ॥ १८॥ साहस्रिकावधानेऽपि सर्वविद्यास्वयङ्ग्रहे । एतादृशं स्तोत्रमन्यन् नोपकारि न संशयः ॥ १९॥ प्रतिवादिमुखस्तम्भे गणेशस्य महाप्रभोः । उच्छिष्टस्य स्तोत्रमेतद्विस्मापकफलप्रदम् ॥ २०॥ मनुष्यतारूषिताद्धि प्रमादादिकलङ्कितात् । गुरोः सम्पाद्यते विद्या या सा विद्याधिदेवता ॥ २१॥ स्वयङ्ग्रहाश्लेषमार्गमनुरुन्धे हि साधके । अनुभवैकगम्यं तु गुह्यनामप्रसादनम् ॥ २२॥ इदं नामसहस्रम् तु सर्वसम्पत्प्रदायकम् । धनधान्यसुताद्यष्टलक्ष्मीवृन्दप्रवर्धकम् ॥ २३॥ सर्ववन्ध्यात्वदोषघ्रं सत्सन्तानप्रदायकम् । सर्वज्वरार्तिशमनं दीर्घायुष्यप्रदायकम् ॥ २४॥ धर्ममर्थं काममोक्षौ इटितीदं प्रदास्यति । निष्कामो वा सकामो वा सर्व एतत्प्रसाधयेत् ॥ २५॥ द्वत्रिंशद्वर्णकं मन्त्रं सहस्रावृत्तिकं जपेत् । गुह्यनामसहस्राख्यमेतद् भक्त्या ततः पठेत् ॥ २६॥ एवं तु सधकश्रेष्ठो वर्षमात्रं प्रयत्नतः । निशीथिन्यां मुक्तकेशः प्रजपेत्स्थिरमानसः ॥ २७॥ अष्टसिद्धिमवाप्नोति खेचरीमेलको भवेत् । समस्तेष्वपि लोकेषु तस्यासाध्यं न विद्यते ॥ २८॥ द्वात्रिंशद्वर्णकं मन्त्रं मातृकापरिवेष्टितम् । मासमेकं प्रतिदिनमष्टोत्तरशतं जपेत् ॥ २९॥ ततस्तु नामासहस्रं प्रत्यहं भक्तितः पठेत् । सिद्धिसन्घाः समायान्ति सद्यः साधकतल्लजम् ॥ ३०॥ पुस्तके लिखितं मन्त्रं दृष्ट्वा जपति यो नरः । स साधकाधमभ्रष्टो योगिनीशापभाग्भवेत् ॥ ३१॥ आचार्योद्धात्सिद्धमन्त्रान्मनुं लब्ध्वा विधानतः । साधकोद्धः सद्य एव सिद्धमन्त्रो भविष्यति ॥ ३२॥ मन्त्राराधनकालेऽपि साहस्रपठेऽपि च । पत्नीयोन्यां न्यस्तलिङ्गो ध्यातव्योऽत्र गणाधिपः ॥ ३३॥ शुण्डाहस्तेन जायाया संलालितोरुजद्वयः । तारठद्वयगम्बीजैर्बीजशक्ती च कीलकम् ॥ ३४॥ ताम्बूलचर्वणायुक्तः पत्न्यालिङ्गतदेहकः । मुक्तकेशो विवस्त्रश्च कुर्याधाराधनं परम् ॥ ३५॥ जननाशौचयुक्तो वा मरणाशौचयुक् तथा । जपं कुर्वन्हि धीरोऽयं सद्यः सिद्धिं प्रश्यति ॥ ३६॥ रजस्वलायाः कन्यायाः समीपे जपतत्परः । योगिनीनां चतुःषष्टिकोटिं दासीकरोति हि ॥ ३७॥ पितृभूमौ निशीथिन्यां प्रत्यहं धैर्यसम्युतः । मातृकापुटितं मन्त्रमष्टोत्तरशतं जपेत् ॥ ३८॥ साधकतल्लजस्यास्य यावन्मासं समाप्यते । निश्चितं मन्त्रसिद्धिः स्यादित्युक्तं तन्त्रवेदिभिः ॥ ३९॥ गुरुं सन्तोषयेद् भक्त्या भूषणाच्छादनादिभिः । गुरोः सन्तोषमात्रेण मन्त्रसिद्धिर्भवेद् ध्रुमम् ॥ ४०॥ गुरुमूलमिदं सर्वमित्याहुस्तन्त्रवेदिनः । गुरुं विलङ्घ्य मन्त्रेऽस्मिन् नाधिकारः सुरेष्वपि ॥ ४१॥ एतस्य मन्त्रराजस्य प्रयोगः क्रियते यदि । गुरोर्नुज्ञां विना तस्य नाशः सद्यः प्रजायते ॥ ४२॥ शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन । यस्य देवे च मन्त्रे च गुरौ च त्रिषु निश्चला ॥ ४३॥ न व्यवच्छिद्यते भक्तिः तस्य सिद्धिरदूरतः । गुरोस्तु पाहुकामन्त्रं स्मृत्वा शिरसि पङ्कजे ॥ ४४॥ महतीं पादुकामेवाथवा स्वशिरसि स्मरन् । सर्वमन्त्रेषु संसिद्धिमनायासेन गच्छति ॥ ४५॥ गुरुपादुस्मृतिं हित्वा संसिसाधयिषोरणुम् । कोट्यावृत्तिजपेनापि तस्य मन्त्रो न सिद्‍ध्यति ॥ ४६॥ यस्य कस्यापि मन्त्रस्यालन्ध्योयं हि विधिः स्मृतः । उच्छिष्टस्य गणेशस्य जागर्त्येष विशेषतः ॥ ४७॥ महती पादुकैषा हि सर्वविद्यौघविग्रहा । आदिनाथस्य तद्विद्या शब्दरूपं वपुर्मता ॥ ४८॥ तेनास्याः स्मरणात्सद्यः सर्वमन्त्रो हि सिद्‍ध्यति । ब्राह्मे मुहूर्त उत्थाय साधकः स्थिरमानसः ॥ ४९॥ प्रत्यहं दक्षिणामूर्तेर्महतीं पादुकां सुधीः । अष्टाविंशतिवारं तु स्मृत्वा यङ्कञ्च साधयेत् ॥ ५०॥ सद्यपि ब्राह्मणश्रेष्टः कुलद्रव्यपरायणः । तदानेन विधानेन कर्तव्यं वीरसाधनम् ॥ ५१॥ मद्यं मांसं च मत्स्यं च मुद्रां मैथुनमेव च । इति मपञ्चकं दच्वा राधयेच्च गणाधिपम् ॥ ५२॥ एतेशां नित्यता ज्ञेया ह्यच्छिष्टस्य प्रपूजने । प्रतिनिध्यर्पणां त्वत्र न हि देवप्रसादकम् ॥ ५३॥ तथापीह कलौ केचिद् ग्रह्णीयुर्लशुनादिकम् । सम्प्रदायानुरोघेनानुतिष्ठतु हि साधकः ॥ ५४॥ लक्षमानं जपेन्मन्त्रं दशांशं जुहुयाद्घृतैः । तर्पणानि दशांशेन कुर्यान्मार्जनभोजने ॥ ५५॥ कलौ हि सर्वमन्त्राणां चतुर्गुणजपो भवेत् । एवं संसिद्धमन्त्रस्तु प्रयोगानाचरेत्ततः ॥ ५६॥ धनं धान्यं सुतान् पौत्रान् सौभाग्यमतुलं यशः । प्राप्नोति साधकश्रेष्ठो गणेशस्य प्रसादतः ॥ ५७॥ ललितानामसाहस्रमुच्छिष्टगणपस्य च । स्तोत्रद्वयं साधकानां सर्ववाञ्छाप्रपूरणम् ॥ ५८॥ द्वयोरप्यनयोर्मध्ये नान्तरं किञ्चिदस्ति हि । स्तोत्रयोरनयोर्यस्तु भेदकृत् पापकृद्धि सः ॥ ५९॥ उच्छिष्टगणनाथस्य मन्त्रेष्वेषु न शोधनम् । सिद्धारिचक्रचिन्ता न प्राप्ताश्चेत्सिद्धिदा गुरोः ॥ ६०॥ मनवोऽमी सदा गोप्या न प्रकाश्या एतस्ततः । द्वात्रिंशदर्णके मन्त्रे विशिष्टोऽयं विधिः स्मृतः ॥ ६१॥ अयमेव विधिर्ग्राह्यो देवीषोडशवर्णके । राज्यं देयं शिरो देयं न प्रदेयमिदं द्वयम् ॥ ६२॥ महत्पदसमायुक्तपादुका भुवि दुर्लभा । इदं द्वयात्सुसङ्गुप्ता न देया यस्य कस्य तु ॥ ६३॥ प्रणवादिस्त्रितारीयुग् बालाबीजकशोभिता । वाणीभूबीजसंयुक्ता हंसत्रयसमन्विता ॥ ६४॥ खेचरीबीजसम्भिन्ना नवनाथसुशोभिनी । प्रसादश्रीसमायुक्ता नवनाथविलोमका ॥ ६५॥ पराप्रसादबीजाढ्या महागणेशमन्त्रका । बालाषडक्षरीयुक्ता योगबालाविजृम्भिता ॥ ६६॥ अन्नपूर्णासमायुक्ता वाजिवाहाविलासिनी । सौभाग्यपूर्वविद्यायुङ्महाषोडशिकान्विता ॥ ६७॥ उच्छिष्टपूर्वचाण्डालीसमायुक्तसुविग्रहा । त्रयोदशार्णवाग्देवीसमुल्लसितमूर्तिका ॥ ६८॥ नकुलीमतृसंयुक्ता महामतङ्गिनीयुता । लघुबार्तालिकायुक्ता स्वप्नवार्तालिकान्विता ॥ ६९॥ तिरस्करिणिकायुक्ता महावार्तालिकायुता । पराबीजसमायुक्ता लोपमुद्राविजृम्भिता ॥ ७०॥ त्रयोदशाक्षरीहादिज्ञप्तिविद्यासमन्विता । द्विजपङ्क्त्यर्णसंयुक्तोच्छिष्टगणपसंयुता ॥ ७१॥ महावाक्यमहामातृचतुष्टयविलासिनी । चतुर्विंशतिवर्णात्मदक्षिणामूर्तिशोभिनी ॥ ७२॥ पुनर्हंसत्रयारूढा रसावाणीसमापिता । श्रीविद्यानन्दनाथेति तत आत्मक उच्चरेत् ॥ ७३॥ श्रीचर्यानन्दनाथेति ततश्च श्रीमहापदम् । पदुकां तु समुच्चार्य पूजयामि पदं ततः ॥ ७४॥ नाम इति समुच्चार्य महतीं पदुकां स्मरेत् । महती पदुकेयं तु सर्वतन्त्रेषु गोपिताम् ॥ ७५॥ प्रातः सायं च सञ्चिन्त्या महासिद्धिप्रदायिनी । पादुकायाः परो मन्त्रोः त्रैलोक्येपि न विद्यते ॥ ७६॥ महतीं पादुकां स्मृत्वोच्छिष्टाख्यस्य गणेशितुः । मन्त्रराजस्य संसिद्‍ध्यै प्रयतेतेह साधकः ॥ ७७॥ उच्छिष्टस्य गणेशस्य संराधनावलम्बने । सधकैर्धैर्यवत्त्वेन वर्तितव्यं प्रत्यत्नतः ॥ ७८॥ तादृश्यां धैर्यसम्पत्तौ असाध्यं नहि विद्यते । प्रमाणं मेरुतन्त्रीयं विस्मृतव्यमिदं न तु ॥ ७९॥ रमादिषोडशीदीक्षा सम्पूर्णाख्या गुरुत्तमात् । लब्धा येन हि तस्यैवोच्छिष्टोपास्तौ हि योग्यता ॥ ८०॥ षोडशीसाधकादन्य उच्छिष्टाख्यं गणेश्वरम् । शास्त्रमेनमनादृत्य सिसाधयिषुरुद्यतः ॥ ८१॥ कुलस्य पशुपुत्राणामात्मनश्च धनस्य च । नाशमेव प्रपश्यन्हि गच्छेच्च रौरवादिकम् ॥ ८२॥ देशिकापसदान्मन्त्र उच्छिष्टस्य गणेशितुः । गुह्यमाणो हि चापल्याद् हन्ति शिष्यं गुरुं तथा ॥ ८३॥ नियमोल्लङ्घिनं शिष्यं योगिनीनां क्रुधा दहेत् । अयुक्तस्य हि शिष्यस्योपदेष्टारं दहेत्तथा ॥ ८४॥ उच्छिष्टसाधनात्पूर्वमष्टाविंशतिवर्णकम् । महागणाधिनाथस्य मन्त्रराजमनुत्तमम् ॥ ८५॥ साधयेत्साधको धृत्या ह्यन्यथाऽनर्थमाचरेत् । अनन्तरं हि बालाया मन्त्रं संसाध्य साधकः ॥ ८६॥ सौभाग्यपूर्वविद्यायां सिद्धिं गच्छेद्धि यत्नतः । द्वितीयमभिषेकं च ततो लब्ध्वा गुरुत्तमात् ॥ ८७॥ पूर्णाभिषेकनामानं संसाधयेच्च षोडशीम् । तारादिषोडशीभेदाः सन्ति यद्यपि वत्सक ॥ ८८॥ श्रीबीजेन समारब्धा षोडशीह तु गुह्यते । त्रिपुरां षोडशीं नाम साधयित्वा ह्युपासकः ॥ ८९॥ उच्छिष्टाख्यं गणेशानं ततो धृत्या हि साधयेत् । द्वात्रिंशदर्णके मन्त्रेऽथ सप्ताधिकवर्णके ॥ ९०॥ सधकस्येह संसिद्धिरनायासेन दृश्यते । अत इमं स्तोत्रराजं सङ्गोपाय प्रयत्नतः ॥ ९१॥ अष्टोत्तरं सहस्रं तु स्तोत्रस्यास्य हि सेवनम् । चतुर्दशकसंयुक्तचतुर्युक्तचतुश्शती ॥ ९२॥ साहस्री मनुराजस्य सञ्जप्तिरपि साधकम् । सर्वज्ञत्वादिसिद्‍ध्यौघं सिद्धिश्चाणिमादिकाः । सङ्गमयेद्धि तत्रैव जगद्धिस्मयकारिणीः ॥ ९३॥ दक्षिणाभिमुखेशस्य सकाशाद्धि कुमारकः । स्तोत्रस्यैतस्य संश्रुत्या सद्योऽजायत निर्वृतः ॥ ९४॥ उड्डामरेशतन्त्रेऽस्मिन् पटले क्षिप्रसाधने । गुह्यनामकसाहस्रे फलभागः समाप्यते ॥ ९५॥ उड्डामरेशतन्त्रेऽस्मिन् पटले क्षिप्रसाधने । गुह्यनामसहस्राख्यस्त्रिंशोऽध्यायः समाप्यते ॥ ९६॥ इति गुह्यौच्छिष्टगणेशगुह्यसहस्रनामस्तोत्रस्य पूर्वपीठिकासहित फलश्रुतिः समाप्ता । ॥ इति सर्वं शिवम् ॥ Encoded and proofread by krishna vallapareddy krishna321 at hotmail.com
% Text title            : pUrvapIThikA and phalashrutiH of guhyanAmauchChiShTagaNeshasahasranAmastotra
% File name             : guhyauchChiShTagaNeshapUrvapIThikAphalashrutiH.itx
% itxtitle              : guhyanAmauchChiShTagaNeshasahasranAmastotrasya pUrvapIThikA evaM phalashrutiH (uDDAmareshvaratantrAntargatA)
% engtitle              : pUrvapIThikA and phalashrutiH of guhyanAmauchChiShTagaNeshasahasranAmastotra
% Category              : ganesha, sahasranAma
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Krishna Vallapareddy krishna321 at hotmail.com
% Proofread by          : Krishna Vallapareddy
% Description/comments  : From uDDAmareshvaratantra.  See corresponding sahasranAmastotram.
% Indexextra            : (sahasranAmastotram)
% Latest update         : May 31, 2021
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org