लम्बोदरस्तुतिः देवर्षिभिः प्रोक्ता
ब्रह्मोवाच -
एवं क्रोधासुरं शान्तं दृष्ट्वा देवर्षयोऽमलाः ।
हर्षयुक्ता विशेषेण पुपूजुर्गणनायकम् ॥ १॥
पूजयित्वा विधानेन नेमुर्लम्बोदरं पुनः ।
ततस्तं तुष्टुवुः सर्वे भक्ति नम्रात्मकन्धराः ॥ २॥
देवर्षय ऊचुः
श्रेष्ठं प्रधानं सकलादिभूतं सर्वान्तगं पूर्णमनन्तभावम् ।
नित्यं निजात्मानमचिन्त्यसंस्थं लम्बोदरं तं च वयं नताः स्मः ॥ ३॥
बोधेन हीनं स्वसुखे निमग्नं बीजात्मकं साङ्ख्यमनन्तवेद्यम् ।
वैदेहयोगेन च लभ्यमेवं लम्बोदरं तं च वयं नताः स्मः ॥ ८॥
जीवं परानन्दमयं परेशं बोधस्वरूपं प्रकृतेर्लयस्थम् ।
देहैर्विहीनं च तदात्महीनं लम्बोदरं तं च वयं नताः स्मः ॥ ५॥
सोऽहं सदा भेदविवर्जितं वै देहात्मयोगं सकलावभासम् ।
नित्यं पुराणं पुरुषं गणेशं लम्बोदरं तं च वयं नताः स्मः ॥ ६॥
बिन्दुस्वरूपं मनसाऽथ गम्यं पादैर्विहीनं च चतुष्पदं यम् ।
नानात्मभेदाश्रितमेकदन्तं लम्बोदरं तं च वयं नताः स्मः ॥ ७॥
नादस्वरूपं च गुणेशमेकं सर्वत्र चक्षुःश्रुतितुण्डभूतम् ।
सर्वत्र हस्तोदरपादपद्मं लम्बोदरं तं च वयं नताः स्मः ॥ ८॥
संस्थं सुषुप्तौ समभावदं वै द्वन्द्वज्ञमाद्यं द्विविधावभासम् ।
आनन्दकन्दं तमसा विभान्तं लम्बोदरं तं च वयं नताः स्मः ॥ ९॥
सूक्ष्मस्वरूपं च तथान्तरस्थं सर्वज्ञमाद्यं गणनायकं यम् ।
विज्ञानकोशस्थविहारकारं लम्बोदरं तं च वयं नताः स्मः ॥ १०॥
स्थूलस्वरूपं सकलाभिमानं श्रेष्ठं रजोयुक्तमनन्तमाद्यम् ।
अन्नात्मभोगेषु विहारसिद्धं लम्बोदरं तं च वयं नताः स्मः ॥ ११॥
अध्यात्मरूपं तमसा चरन्तं द्रव्यप्रकाशं परमार्थभूतम् ।
देहेन्द्रियज्ञानमयं च ढुण्ढिं लम्बोदरं तं च वयं नताः स्मः ॥ १२॥
नित्यं रजोदेहविकारगं वै कर्मस्वरूपं विविधेन्द्रियस्थम् ।
तज्जाधिभूतात्मकमप्रमेयं लम्बोदरं तं च वयं नताः स्मः ॥ १३॥
ज्ञानस्वरूपं सकलामरस्थं सर्वेन्द्रियज्ञानकरं प्रभुं वै ।
तज्जाधिदैवप्रचुरं महान्तं लम्बोदरं तं च वयं नताः स्मः ॥ १४॥
आकाशरूपं सकलावभासं नादप्रपूरं सकलाभिभूतम् ।
भूतैः सदा खेलकमादिनाथं लम्बोदरं तं च वयं नताः स्मः ॥ १५॥
वायुस्वरूपं जगदेकचालं प्राणादिसंस्थं स्वविभागदं यम् ।
देहप्रचारं दशनामभिश्च लम्बोदरं तं च वयं नताः स्मः ॥ १६॥
तेजःस्वरूपं सकलावभासं द्वन्द्वप्रचारं जठरे सुसंस्थम् ।
सन्धौ सदा व्याप्य विभागकारं लम्बोदरं तं च वयं नताः स्मः । १७
जलस्वरूपं रसयुक्तमेव पुष्टिप्रदं षड्रसगं परेशम् ।
नित्यार्द्रभावस्य प्रकाशदं यं लम्बोदरं तं च वयं नताः स्मः ॥ १८॥
पृथ्वीस्वरूपं च धराधरेशं सर्वान्नमूलं विविधौषधिस्थम् ।
आकाररूपं च गजाननं वै लम्बोदरं तं च वयं नताः स्मः ॥ १९॥
विराट्स्वरूपस्थमनन्तपारं सर्वत्र नेत्रं च सहस्रशीर्षम् ।
सर्वत्र हस्ताननपादकादिं लम्बोदरं तं च वयं नताः स्मः ॥ २०॥
रजोयुतं सृष्टिकरं द्विजेशं आदिस्वरूपं प्रपितामहं यम् ।
समानभावेन सुरासुरस्थं लम्बोदरं तं च वयं नताः स्मः ॥ २१॥
सत्वप्रचारं हरिरूपधारं यं तामसं शङ्करवेषसंस्थम् ।
सूर्यप्रचारं जगदम्बिकागं लम्बोदरं तं च वयं नताः स्मः ॥ २२॥
इत्यादिभेदैः सुविराजमानं सर्वैर्विहीनं तु कथं वयं स्तुमः ।
देवाः शिवाद्याश्च विकुण्ठिता वै लम्बोदरं तं च वयं नताः स्मः ॥ २३॥
ब्रह्मोवाच -
स्तुत्वा देवर्षयस्त्वेवं प्रणेमुस्ते गजाननम् ।
लम्बोदरस्तान् उवाच महाभागान् सुसिद्धिदः ॥ २४॥
भवत्कृतमिदं स्तोत्रं भवेन्मत्प्रीतिवर्धनम् ।
पठतां शृण्वतां सद्यः सर्वसिद्धिप्रदायकम् ॥ २५॥
धर्मार्थकाममोक्षाणां साधनं ब्रह्मदं परम् ।
भविष्यति सदा मान्यं सर्वकार्येषु सर्वदा ॥ २६॥
मारणोच्चातनादीनि स्तोत्रेणैव सुरर्षयः ।
भविष्यति न सन्देहः परकृत्यविनाशनम् ॥ २७॥
पुत्रपौत्रादिकं सर्वं लभते स्तोत्रपाठतः ।
धनधान्यकलत्रादि सुखं विन्दति मानवः ॥ २८॥
कारागृहगतं सद्यो मोचयेत् स्तोत्रपाठतः ।
हृदीप्सितं लभेत् सर्वमेकविंशतिवारत ॥ २९॥
एकविंशतिपाठांश्च स्तोत्रस्यास्य करिष्यति ।
स सद्यो हि फलं भुक्तं एकविंशद्दिनावधि ॥ ३०॥
इति देवर्षिभिर्प्रोक्ता लम्बोदरस्तुतिः समाप्ता । ५.९
Encoded by Ajit Krishnan
Proofread by Ajit Krishnan, PSA Easwaran