श्रीमहागणपतिनामस्तोत्रं नामावलिश्च
अथ स्तोत्रम् ।
पञ्चवक्त्रो दशभुजो ललाटेन्दुः शशिप्रभः ।
मुण्डमालः सर्पभूषो मुकुटाङ्गदभूषणः ॥ १॥
अग्न्यर्कशशिनो भाभिस्तिरस्कुर्वन् दशायुधः ।
धर्मप्रदोऽर्थदः कामदाता सौभाग्यवर्धनः ॥ २॥
विद्याप्रदो विभवदो भुक्तिमुक्तिफलप्रदः ।
आभिरूप्यकरो वीरश्रीप्रदो विजयप्रदः ॥ ३॥
सर्ववश्यकरो गर्भदोषहा पुत्रपौत्रदः ।
मेधादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः ॥ ४॥
प्रतिवादिमुखस्तम्भो रुष्टचित्तप्रसादनः ।
पराभिचारशमनो दुःखभञ्जनकारकः ।
सर्वदुःखहरो देवस्तं ध्यायामि गजाननम् ॥ ५॥
अथ नामावलिः ।
ॐ गम् । पञ्चवक्त्राय नमः । दशभुजाय । ललाटेन्दवे । शशिप्रभाय ।
मुण्डमालाय । सर्पभूषाय । मुकुटाङ्गदभूषणाय । अग्न्यर्कशशिनो-
भाभिस्तिरस्कुर्वते । दशायुधाय । धर्मप्रदाय । अर्थदाय । कामदात्रे ।
सौभाग्यवर्धनाय । विद्याप्रदाय । विभवदाय । भुक्तिमुक्ति-फलप्रदाय ।
आभिरूप्यकराय । वीरश्रीप्रदाय । विजयप्रदाय । सर्ववश्यकराय ।
गर्भदोषघ्ने । पुत्रपौत्रदाय । मेधादाय । कीर्तिदाय । शोकहारिणे ।
दौर्भाग्यनाशनाय । प्रतिवादिमुखस्तम्भाय । रुष्टचित्तप्रसादनाय ।
पराभिचार शमनाय । दुःखभञ्जनकारकाय । सर्वदुःखहराय । देवाय ।
गजाननाय नमः । (३३)
इति श्रीमहागणपतिनामस्तोत्रं नामावलिश्च ।
Proofread by Aruna Narayanan