मयूरेश्वरस्तोत्रम्
श्री गणेशाय नमः ।
सर्वे उचुः ।
परब्रह्मरूपं चिदानन्दरूपं परेशं सुरेशं गुणाब्धिं गुणेशम् ।
गुणातीतमीशं मयूरेशवन्द्यं गणेशं नताः स्मो नताः स्मो नताः स्मः ॥ १॥
(परब्रह्मरूपं चिदानन्दरूपं सदानन्दरूपं सुरेशं परेशम् ।
गुणाब्धिं गुणेशं गुणातीतमीशं मयूरेशमाद्यं नताः स्मो नताः स्मः ॥)
जगद्वन्द्यमेकं पराकारमेकं गुणानां परं कारणं निर्विकल्पम् ।
जगत्पालकं हारकं तारकं तं मयूरेशवन्द्यं नताः स्मो नताः स्मः ॥ २॥
महादेवसूनुं महादैत्यनाशं महापूरुषं सर्वदा विघ्ननाशम् ।
(महेशादिदेवैः सदा सेव्यपादं सदा रक्षकं योगिनां चित्स्वरूपम् ।)
सदा भक्तपोषं परं ज्ञानकोशं मयूरेशवन्द्यं नताः स्मो नताः स्मः ॥ ३॥
अनादिं गुणादिं सुरादिं शिवाया महातोषदं सर्वदा सर्ववन्द्यम् ।
सुरार्यन्तकं भुक्तिमुक्तिप्रदं तं मयूरेशवन्द्यं नताः स्मो नताः स्मः ॥ ४॥
परं मायिनं मायिनामप्यगम्यं मुनिध्येयमाकाशकल्पं जनेशम् ।
असङ्ख्यावतारं निजाज्ञाननाशं मयूरेशवन्द्यं नताः स्मो नताः स्मः ॥ ५॥
अनेकक्रियाकारकं श्रुत्यगम्यं त्रयीबोधितानेककर्मादिबीजम् ।
क्रियासिद्धिहेतुं सुरेन्द्रादिसेव्यं मयूरेशवन्द्यं नताः स्मो नताः स्मः ॥ ६॥
महाकालरूपं निमेषादिरूपं कलाकल्परूपं सदागम्यरूपम् ।
जनज्ञानहेतुं नृणां सिद्धिदं तं मयूरेशवन्द्यं नताः स्मो नताः स्मः ॥ ७॥
महेशादिदेवैः सदा ध्येयपादं सदा रक्षकं तत्पदानां हतारिम् ।
मुदा कामरूपं कृपावारिधिं तं मयूरेशवन्द्यं नताः स्मो नताः स्मः ॥ ८॥
सदा भक्तिं नाथे प्रणयपरमानन्दसुखदो
(सदा भक्तानां त्वं प्रसभपरमानन्दसुखदो (प्रभसपरमानन्दसुखदो))
यतस्त्वं लोकानां परमकरुणामाशु तनुषे ।
षडूर्मीनां वेगं सुरवर विनाशं नय विभो
ततो भक्तिः श्लाघ्या तव भजनतोऽनन्यसुखदात् ॥ ९॥ (ततो मुक्तिः, भजनतोऽनन्तसुखदात् )
किमस्माभिः स्तोत्रं गजवदन ते शक्यमतुलं
विधातुं वा रम्यं गुणनिधिरसि प्रेम जगताम् ।
न चास्माकं शक्तिस्तव गुणगणं वर्णितुमहो
त्वदीयोऽयं वारां निधिरिव जगत्सर्जनविधिः ॥ १०॥
फलश्रुतिः ।
कः उवाच ।
एवं स्तुत्वा पुनस्तेऽमुं प्रार्थयामासुरादरात् ।
यदुक्तं ते मयूरेश ! तत्कृतं परमं वचः ॥ ११॥
सर्वेषां सुरसङ्घानामवध्योऽयं हतोऽसुरः ।
ततोऽगात् पार्वती तत्र जहृषे चालिलिङ्ग तम् ॥ १२॥
शिवोऽपि प्रययौ तत्र समालिङ्ग्य तमब्रवीत् ।
सम्यक् कृतं त्वया वत्स ! त्रैलोक्यं हर्षनिर्भरम् ॥ १३॥
सिन्धोर्वधः सर्वसुरैरसाध्यो न च ते श्रमः ।
पराक्रमवतः सर्वलोकरक्षारतस्य च ॥ १४॥
चतुर्वेदाऽनिरुप्यस्य सर्वविद्यानिधेरपि ।
एवमुक्त्वा गतास्ते तु सर्वे स्वस्थानमादृताः ॥ १५॥
मयूरेशं नमस्कृत्य ततो देवाब्रुवँश्च तम् ।
इदं यः पठते स्तोत्रं स कामाँल्लभतेऽखिलान् ॥ १६॥
सहस्रावर्तनात् कारागृहस्थं मोचयेज्जनम् ।
अयुतावर्तनान्मर्त्योऽसाध्यं यत् साधयेत् क्षणात् ॥ १७॥
सर्वत्र जयमाप्नोति श्रियं परमदुर्लभाम् ।
पुत्रवान्धनवाँश्चैव वशतामखिलं नयेत् ॥ १८॥
variation
किमस्माभिः स्तोत्रं सकलसुरतापालक विभो
विधेयं विश्वात्मन्नगणितगुणानामधिपते ।
न सङ्ख्याता भूमिस्तव गुणगणानां त्रिभुवने
न रूपाणां देव प्रकटय कृपां नोऽसुरहते ॥ १०॥
मयूरेशं नमस्कृत्य ततो देवोऽब्रवीच्च तान् ।
य इदं पठते स्तोत्रं स कामान् लभतेऽखिलान् ॥ ११॥
सर्वत्र जयमाप्नोति मानमायुः श्रियं पराम् ।
पुत्रवान् धनसम्पन्नो वश्यतामखिलं नयेत् ॥ १२॥
सहस्रावर्तनात्कारागृहस्थं मोचयेज्जनम् ।
नियुतावर्तनान्मर्त्यो साध्यं यत्साधयेत्क्षणात् ॥ १३॥
इति श्रीगणेशपुराणे उत्तरखण्डे त्रयोविंशत्युत्तरशततमोऽध्याये
मयूरेश्वरस्तोत्रं सम्पूर्णम् ॥
- ॥ श्रीगणेशपुराणं क्रीडा (उत्तर)खण्डः । अध्यायः १२३ । २.१२३ ४०-५७॥
- .. shrIgaNeshapurANaM krIDA (uttara)khaNDaH . adhyAyaH 123 . 2.123 40-57..
Encoded by Karthik Chandan.P (kardan5380@yahoo.com)
and Amith K Nagaraj (amithkn@rediffmail.com)
Proofread by Ravin Bhalekar ravibhalekar@hotmail.com, Preeti Bhandare