मयूरेश्वरस्तोत्रम्

मयूरेश्वरस्तोत्रम्

श्री गणेशाय नमः । सर्वे उचुः । परब्रह्मरूपं चिदानन्दरूपं परेशं सुरेशं गुणाब्धिं गुणेशम् । गुणातीतमीशं मयूरेशवन्द्यं गणेशं नताः स्मो नताः स्मो नताः स्मः ॥ १॥ (परब्रह्मरूपं चिदानन्दरूपं सदानन्दरूपं सुरेशं परेशम् । गुणाब्धिं गुणेशं गुणातीतमीशं मयूरेशमाद्यं नताः स्मो नताः स्मः ॥) जगद्वन्द्यमेकं पराकारमेकं गुणानां परं कारणं निर्विकल्पम् । जगत्पालकं हारकं तारकं तं मयूरेशवन्द्यं नताः स्मो नताः स्मः ॥ २॥ महादेवसूनुं महादैत्यनाशं महापूरुषं सर्वदा विघ्ननाशम् । (महेशादिदेवैः सदा सेव्यपादं सदा रक्षकं योगिनां चित्स्वरूपम् ।) सदा भक्तपोषं परं ज्ञानकोशं मयूरेशवन्द्यं नताः स्मो नताः स्मः ॥ ३॥ अनादिं गुणादिं सुरादिं शिवाया महातोषदं सर्वदा सर्ववन्द्यम् । सुरार्यन्तकं भुक्तिमुक्तिप्रदं तं मयूरेशवन्द्यं नताः स्मो नताः स्मः ॥ ४॥ परं मायिनं मायिनामप्यगम्यं मुनिध्येयमाकाशकल्पं जनेशम् । असङ्ख्यावतारं निजाज्ञाननाशं मयूरेशवन्द्यं नताः स्मो नताः स्मः ॥ ५॥ अनेकक्रियाकारकं श्रुत्यगम्यं त्रयीबोधितानेककर्मादिबीजम् । क्रियासिद्धिहेतुं सुरेन्द्रादिसेव्यं मयूरेशवन्द्यं नताः स्मो नताः स्मः ॥ ६॥ महाकालरूपं निमेषादिरूपं कलाकल्परूपं सदागम्यरूपम् । जनज्ञानहेतुं नृणां सिद्धिदं तं मयूरेशवन्द्यं नताः स्मो नताः स्मः ॥ ७॥ महेशादिदेवैः सदा ध्येयपादं सदा रक्षकं तत्पदानां हतारिम् । मुदा कामरूपं कृपावारिधिं तं मयूरेशवन्द्यं नताः स्मो नताः स्मः ॥ ८॥ सदा भक्तिं नाथे प्रणयपरमानन्दसुखदो (सदा भक्तानां त्वं प्रसभपरमानन्दसुखदो (प्रभसपरमानन्दसुखदो)) यतस्त्वं लोकानां परमकरुणामाशु तनुषे । षडूर्मीनां वेगं सुरवर विनाशं नय विभो ततो भक्तिः श्लाघ्या तव भजनतोऽनन्यसुखदात् ॥ ९॥ (ततो मुक्तिः, भजनतोऽनन्तसुखदात् ) किमस्माभिः स्तोत्रं गजवदन ते शक्यमतुलं विधातुं वा रम्यं गुणनिधिरसि प्रेम जगताम् । न चास्माकं शक्तिस्तव गुणगणं वर्णितुमहो त्वदीयोऽयं वारां निधिरिव जगत्सर्जनविधिः ॥ १०॥ फलश्रुतिः । कः उवाच । एवं स्तुत्वा पुनस्तेऽमुं प्रार्थयामासुरादरात् । यदुक्तं ते मयूरेश ! तत्कृतं परमं वचः ॥ ११॥ सर्वेषां सुरसङ्घानामवध्योऽयं हतोऽसुरः । ततोऽगात् पार्वती तत्र जहृषे चालिलिङ्ग तम् ॥ १२॥ शिवोऽपि प्रययौ तत्र समालिङ्ग्य तमब्रवीत् । सम्यक् कृतं त्वया वत्स ! त्रैलोक्यं हर्षनिर्भरम् ॥ १३॥ सिन्धोर्वधः सर्वसुरैरसाध्यो न च ते श्रमः । पराक्रमवतः सर्वलोकरक्षारतस्य च ॥ १४॥ चतुर्वेदाऽनिरुप्यस्य सर्वविद्यानिधेरपि । एवमुक्त्वा गतास्ते तु सर्वे स्वस्थानमादृताः ॥ १५॥ मयूरेशं नमस्कृत्य ततो देवाब्रुवँश्च तम् । इदं यः पठते स्तोत्रं स कामाँल्लभतेऽखिलान् ॥ १६॥ सहस्रावर्तनात् कारागृहस्थं मोचयेज्जनम् । अयुतावर्तनान्मर्त्योऽसाध्यं यत् साधयेत् क्षणात् ॥ १७॥ सर्वत्र जयमाप्नोति श्रियं परमदुर्लभाम् । पुत्रवान्धनवाँश्चैव वशतामखिलं नयेत् ॥ १८॥ variation किमस्माभिः स्तोत्रं सकलसुरतापालक विभो विधेयं विश्वात्मन्नगणितगुणानामधिपते । न सङ्ख्याता भूमिस्तव गुणगणानां त्रिभुवने न रूपाणां देव प्रकटय कृपां नोऽसुरहते ॥ १०॥ मयूरेशं नमस्कृत्य ततो देवोऽब्रवीच्च तान् । य इदं पठते स्तोत्रं स कामान् लभतेऽखिलान् ॥ ११॥ सर्वत्र जयमाप्नोति मानमायुः श्रियं पराम् । पुत्रवान् धनसम्पन्नो वश्यतामखिलं नयेत् ॥ १२॥ सहस्रावर्तनात्कारागृहस्थं मोचयेज्जनम् । नियुतावर्तनान्मर्त्यो साध्यं यत्साधयेत्क्षणात् ॥ १३॥ इति श्रीगणेशपुराणे उत्तरखण्डे त्रयोविंशत्युत्तरशततमोऽध्याये मयूरेश्वरस्तोत्रं सम्पूर्णम् ॥ - ॥ श्रीगणेशपुराणं क्रीडा (उत्तर)खण्डः । अध्यायः १२३ । २.१२३ ४०-५७॥ - .. shrIgaNeshapurANaM krIDA (uttara)khaNDaH . adhyAyaH 123 . 2.123 40-57.. Encoded by Karthik Chandan.P (kardan5380@yahoo.com) and Amith K Nagaraj (amithkn@rediffmail.com) Proofread by Ravin Bhalekar ravibhalekar@hotmail.com, Preeti Bhandare
% Text title            : mayureshvarastotram all the Gods praised Ganesha
% File name             : mayuureshvarastotram.itx
% itxtitle              : mayUreshvarastotram sarvekRitA (gaNeshapurANAntargatam)
% engtitle              : mayUreshvarastotram
% Category              : ganesha, stotra
% Location              : doc_ganesha
% Sublocation           : ganesha
% Texttype              : stotra
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Karthik Chandan.P (kardan5380 at yahoo.com) : Amith K Nagaraj)
% Proofread by          : Ravin Bhalekar ravibhalekar at hotmail.com, Preeti Bhandare
% Description-comments  : shrIgaNeshapurANaM krIDA (uttara)khaNDaH | adhyAyaH 123 | 2.123 40-57||
% Indexextra            : (Text)
% Latest update         : May 12, 2004, April 18, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org