प्रतिमास गणेशनामस्तोत्रम्
मार्गे गणपतिः पूज्यः पौषे चैव विनायकः ।
गजवक्त्रो माघमासे भालचन्द्रोऽथ फाल्गुने ॥
उपेन्द्रश्चैत्रमासे च वैशाखे विघ्ननाशनः ।
ज्येष्ठे शिवसुतः पूज्यः आषाढे हरनन्दनः ॥
श्रावणे विघ्नराजस्तु भाद्रेऽथ मोदकप्रियः ।
अश्विने कार्तिके बीजम् विघ्नहर्ताधिके मासे । एवं पूज्यो गणेश्वरः ॥
इति प्रतिमासगणेशनामस्तोत्रं सम्पूर्णम् ।