श्रीउच्छिष्टमहागणपति ध्यानम्
मूलाधारे सुयोन्याख्ये चिदग्निवरमण्डले ।
समासीनं पराशक्तिविग्रहं गणनायकम् ॥ १॥
रक्तोत्पलसमप्रख्यं नीलमेघसमप्रभम् ।
रत्नप्रभालसद्दीप्तमुकुटाञ्चितमस्तकम् ॥ २॥
करुणारससुधाधारास्रवदक्षित्रयान्वितम् ।
अक्षिकुक्षिमहावक्षः गण्डशूकादिभूषणम् ॥ ३॥
पाशाङ्कुशेक्षुकोदण्डपञ्चबाणलसत्करम् ।
नीलकान्तिघनीभूतनीलवाणीसुपार्श्वकम् ॥ ४॥
सुत्रिकोणाख्यनीलाङ्गरसास्वादनतत्परम् ।
पत्न्यालिङ्गतवामाङ्गं सप्तमातृनिषेवितम् ॥ ५॥
ब्रह्मविष्णुमहेन्द्रादिसम्प्रपूजितपादुकम् ।
महद्द्वयपदोवाच्यपादुकामन्त्रसारकम् ॥ ६॥
नवावरणयज्ञाख्य वरिवस्याविधिप्रियम् ।
पञ्चावरणयज्ञाख्य विधिसम्पूज्यपादुकम् ॥ ७॥
अखण्डकोटिब्रह्माण्डामण्डलेश्वरमव्ययम् ।
रदनाक्षरसम्पूर्णमन्त्रराजस्वरूपिणम् ॥ ८॥
गिरिव्याहृतिवर्णात्ममन्त्रतत्वप्रदर्शकम् ।
अरुणारुणतनुच्छायमहाकामकलात्मकम् ॥ ९॥
महागोप्यमहाविद्या प्रकाशितकलेवरम् ।
चिच्छिवं चिद्भवं शान्तं त्रिगुणादिविवर्जितम् ॥ १०॥
अष्टोत्तरशताभिख्यकलान्यासविधिप्रियम् ।
चिदाकारमहाद्वीपमध्यवाससुविग्रहम् ॥ ११॥
चिदब्धिमथनोत्पन्नचित्सारघनविग्रहम् ।
वाचामगोचरं शान्तं शुद्धचैतन्यरूपिणम् ॥ १२॥
मूलकन्दस्थचिद्देशनवताण्डवपण्डितम् ।
षडम्बुरुहसंस्थायिपरचिव्द्योमभासुरम् ॥ १३॥
अकारादिक्षकारान्तवर्णलक्षितचित्सुखम् ।
अकाराक्षरनिर्दिष्टप्रकाशमयविग्रहम् ॥ १४॥
हकाराख्यविमर्शात्मप्रभादीप्तजगत्त्रयम् ।
महाहंसजपध्यानविधिज्ञातस्वरूपकम् ॥ १५॥
सदोदितमहाप्रज्ञाकारं संसारतारकम् ।
मोक्षलक्ष्मीप्रदातारं कालातीतमहाप्रभुम् ॥ १६॥
नामरूपादिसम्भिन्ननित्यपूर्णचिदुत्तमम् ।
प्रत्यग्भूतमहाप्रज्ञागात्रगोचरविग्रहम् ॥ १७॥
महाकुण्डलिनीरूपं षट्च्क्रनगरेश्वरम् ।
अप्राकृतमहादिव्यचैतन्यात्मस्वरूपिणम् ॥ १८॥
नादबिन्दुकलातीतं कार्यकारणवर्जितम् ।
षडम्बुरुहचक्रान्तः स्फुरत्सौदामिनीप्रभम् ॥ १९॥
तत्त्वमस्यादिवाक्यार्थपरिबोधनपण्डितम् ।
ब्रह्मादिकीटपर्यन्तव्याप्तसंवित्सुधारसम् ॥ २०॥
इच्छाज्ञानक्रियानन्दसर्वतन्त्र स्वतन्त्रिणम् ।
हृदयग्रन्थिभिद्विद्यादर्शनोत्सुकमानसम् ॥ २१॥
पञ्चकृत्यपरेशानं महात्रैपुरविग्रहम् ।
श्रीचक्रराजमध्यस्थशून्यग्राममहेश्वरम् ॥ २२॥
ब्रह्मविद्यास्वरूपश्रीललितारूपधारिणम् ।
वशिन्याद्यावृतं साध्यं अद्वयानन्दवर्धनम् ॥ २३॥
आदिशङ्कररूपेशदक्षिणामूर्तिपूजितम् ।
असंस्पृष्टमहाप्रज्ञाभिख्याद्वैतस्थितिप्रभम् ॥ २४॥
एवं सञ्चितयेद्देवं उच्छिष्टगणनायकम् ।
नीलतारासमेतं तु सच्चिदानन्दविग्रहम् ॥ २५॥
This is a Dhyana that was composed by Shri Harsha Ramamurthy.
The Upasana, significance and secret of Shri Ucchishta Mahaganapathi
are known to very few advanced Sadhakas.
Encoded and proofread from the source document at www.kamakotimandali.com
by YV Malleswara Rao malleswararaoy at yahoo.com