वक्रतुण्डस्तुतिः देवर्षिभिः प्रोक्तम्

वक्रतुण्डस्तुतिः देवर्षिभिः प्रोक्तम्

श्रीगणेशाय नमः । देवर्षय ऊचुः - सदा ब्रह्मभूतं विकारादिहीनं विकारादिभूतं महेशादिवन्द्यम् । अपारस्वरूपं स्वसंवेद्यमेकं नमामः सदा वक्रतुण्डं भजामः ॥ २॥ अजं निर्विकल्पं कलाकालहीनं हृदिस्थं सदा साक्षिरूपं परेशम् । जनज्ञानकारं प्रकाशैर्विहीनं नमामः सदा वक्रतुण्डं भजामः ॥ ३॥ अनन्तस्वरूपं सदानन्दकन्दं प्रकाशस्वरूपं सदा सर्वगं तम् । अनादिं गुणादिं गुणाधारभूतं नमामः सदा वक्रतुण्डं भजामः ॥ ४॥ धरावायुतेजोमयं तोयभावं सदाकाशरूपं महाभूतसंस्थम् । अहङ्कारधारं तमोमात्रसंस्थं नमामः सदा वक्रतुण्डं भजामः ॥ ५॥ रविप्राणविष्णुप्रचेतोयमेशविधात्रश्विवैश्वानरेन्द्रप्रकाशम् । दिशां बोधकं सर्वदेवाधिरूपं नमामः सदा वक्रतुण्डं भजामः ॥ ६॥ उपस्थत्वगुक्तीक्षणस्थप्रकाशं कराङ्घ्रिस्वरूपं कृतघ्राणजिह्वम् । गुदस्थं श्रुतिस्थं महाखप्रकाशं नमामः सदा वक्रतुण्डं भजामः ॥ ७॥ रजोरूपसृष्टिप्रकाशं विधिं तं सदा पालने केशवं सत्त्वसंस्थम् । तमोरूपधारं हरं संहरं तं नमामः सदा वक्रतुण्डं भजामः ॥ ८॥ दिशाधीशरूपं सदाशास्वरूपं ग्रहादिप्रकाशं ध्रुवादिं खगस्थम् । अनन्तोडुरूपं तदाकारहीनं नमामः सदा वक्रतुण्डं भजामः ॥ ९॥ महत्तत्त्वरूपं प्रधानस्वरूपं अहङ्कारधारं त्रयीबोधकारम् । अनाद्यन्तमायं तदाधारपुच्छं नमामः सदा वक्रतुण्डं भजामः ॥ १०॥ सदा कर्मधारं फलैः स्वर्गदं तं अकर्मप्रकाशेन मुक्तिप्रदं तम् । विकर्मादिना यातनाऽऽधारभूतं नमामः सदा वक्रतुण्डं भजामः ॥ ११॥ अलोभस्वरूपं सदा लोभधारं जनज्ञानकारं जनाधीशपालम् । नृणां सिद्धिदं मानवं मानवस्थं नमामः सदा वक्रतुण्डं भजामः । १२ लतावृक्षरूपं सदा पक्षिरूपं धनादिप्रकाशं सदा धान्यरूपम् । प्रसूपुत्रपौत्रादिनानास्वरूपं नमामः सदा वक्रतुण्डं भजामः ॥ १३॥ खगेशस्वरूपं वृषादिप्रसंस्थं मृगेन्द्रादिबोधं मृगेन्द्रस्वरूपम् । धराधारहेमाद्रिमेरुस्वरूपं नमामः सदा वक्रतुण्डं भजामः ॥ १४॥ सुवर्णादिधातुस्थसद्रङ्गसंस्थं समुद्रादिमेघस्वरूपं जलस्थम् । जले जन्तुमत्स्यादिनानाविभेदं नमामः सदा वक्रतुण्डं भजामः ॥ १५॥ सदा शेषनागादिनागस्वरूपं सदा नागभूषं च लीलाकरं तैः । सुरारिस्वरूपं च दैत्यादिभूतं नमामः सदा वक्रतुण्डं भजामः ॥ १६॥ वरं पाशधारं सदा भक्तपोषं महापौरुषं मायिनं सिंहसंस्थम् । चतुर्बाहुधारं सदा विघ्ननाशं नमामः सदा वक्रतुण्डं भजामः ॥ १७॥ गणेशं गणेशादिवन्द्यं सुरेशं परं सर्वपूज्यं सुबोधादिगम्यम् । महावाक्यवेदान्तवेद्यं परेशं नमामः सदा वक्रतुण्डं भजामः ॥ १८॥ अनन्तावतारैः सदा पालयन्तं स्वधर्मादिसंस्थं जनं कारयन्तम् । सुरैर्दैत्यपैर्वन्द्यमेकं समं त्वां नमामः सदा वक्रतुण्डं भजामः ॥ १९॥ त्वया नाशितोऽयं महादैत्यभूपः सुशान्तेर्धरोऽयं कृतस्तेन विश्वम् । अखण्डप्रहर्षेण युक्तं च तं वै नमामः सदा वक्रतुण्डं भजामः ॥ २०॥ न विन्दन्ति यं वेदवेदज्ञमर्त्या न विन्दन्ति यं शास्त्रशास्त्रज्ञभूपाः । न विन्दन्ति यं योगयोगीशकाद्या नमामः सदा वक्रतुण्डं भजामः ॥ २१॥ न वेदा विदुर्यं च देवेन्द्रमुख्या न योगैर्मुनीन्द्रा वयं किं स्तुमश्च । तथाऽपि स्वबुध्या स्तुतं वक्रतुण्डं नमामः सदा वक्रतुण्डं भजामः ॥ २२॥ मुद्गल उवाच । एवं स्तुत्वा वक्रतुण्डं स्थिता देवर्षयः प्रभो । बद्धाञ्जलिपुटाः सर्वे तूष्णींभावेन मानद ॥ २३॥ देवानां च मुनीनां स स्तुतिं श्रुत्वा गजाननः । उवाच तान् प्रसन्नात्मा हर्षयन् वचनं महत् ॥ २४॥ वक्रतुण्ड उवाच । श‍ृणुध्वं मुनयः सर्वे देवा मे वचनं महत् । भवत्कृतमिदं स्तोत्रं मत्प्रीतेर्वर्धनं भवेत् ॥ २५॥ अनेन स्तौति यो नित्यं मां तस्य परिपूरये । भोगान्नानाविधांश्चैव पुत्रपौत्रादिसम्पदः ॥ २६॥ यं यमिच्छति तं तं च दास्येऽहं नात्र संशयः । भुक्तिमुक्तिप्रदं चैतद्ब्रह्मभूयकरं भवेत् ॥ २७॥ नानासिद्धिप्रदं चैव हृदि बुद्धिप्रकाशकम् । सुरेन्द्रैवद्यतां याति यो मां स्तौति त्वनेन सः ॥ २८॥ सहस्रावर्तनान् मर्त्यः कारागृहगतं नरम् । मोचयेन्नात्र सन्देहो मत्प्रियः सर्वदा भवेत् ॥ २९॥ अपराधशतयुक्तो यो वैभवति मानवः । तस्यापराधसहनं करोमि स्तोत्रपाठतः ॥ ३०॥ एकविंशतिवारं य एकविंशद्दिनानि वै । पठिष्यति सदा तस्मै चिन्तितं प्रददाम्यहम् ॥ ३१॥ एकविंशतिकाः श्लोका भवद्भिर्मत्प्रियात्मकैः । कृतास्तैर्मां स देवास्तु स्तुता वै मुनयोऽखिलाः ॥ ३२॥ तेन विघ्नविहीनाश्च स्वधर्मरुचयस्तथा । भविष्यथ महाभागा भुक्तिमुक्तिपदास्तथा ॥ ३३॥ वरं ब्रूत महाभागा येषां यन्मनसि स्थितम् । तद्दास्यामि न सन्देहः स्तोत्रसन्तोषितो ह्यहम् ॥ ३४॥ इति देवर्षिभिर्प्रोक्ता वक्रतुण्डस्तुतिः समाप्ता । १.३९ Encoded by Ajit Krishnan Proofread by Ajit Krishnan, PSA Easwaran
% Text title            : Vakratunda Stuti by Devarshi
% File name             : vakratuNDastutiHdevarShibhiHproktam.itx
% itxtitle              : vakratuNDastutiH devarShibhiH proktam (mudgalapurANAntargatA)
% engtitle              : vakratuNDastutiH devarShibhiH proktam
% Category              : ganesha
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ajit Krishnan
% Proofread by          : Ajit Krishnan, PSA Easwaran
% Description/comments  : Mudgalapurana, Khanda 1, Adhyaya 39
% Indexextra            : (mudgalapurANa)
% Latest update         : April 23, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org