स्कन्दकृता विघ्नराजस्तुतिः
पयोदधिपयेभवद्विकचपुष्करैः पुष्करं
मदान्धकरटित्वचोवसनपुत्रमिन्द्रप्रभम् ।
त्रिपुण्ड्रतिलकोज्वलं द्विरदवक्त्रकुम्भोज्वलं
महेशजनिमर्चकं प्रणतविघ्नराजं सुराः ॥ ४०॥
सिन्धूरदूर्वाचितकुम्भमौलिं
गण्डस्थलीलम्बितचामरौघम् ।
कर्णावतंसीकृतपद्मकोशं
नमामि विघ्नार्तिहरं प्रसन्नम् ॥ ४१॥
करटजमदधारागन्धसन्दोहबन्ध-
द्विजदलिकुलमालं कर्णसंवीततोद्यैः ।
भजत निगमसारं नागयज्ञोपवीतं
पशुपतिवरपुत्रं विघ्नराजन्नतोऽस्मि ॥ ४२॥
सृणिपरशुकराब्जं नौमि विज्ञानहेतुं
गणपतिमगजान्तःप्रेमधारारसाप्तम् ।
फलकुलगुडमाद्यं मोदकौघप्रियं
त्वां पशुपतिवरपुत्रन्नौमि नागेन्द्रवक्त्रम् ॥ ४३॥
आखुवाहमजशौरिसुरेशैस्सिन्धुरेन्द्रवदनं मुनिवन्द्यम् ।
वेदवृन्दनिवहैस्स्तुतमाद्यं गद्यपद्यवचसा प्रणतोऽस्मि ॥ ४४॥
॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये स्कन्दकृता विघ्नराजस्तुतिः ॥
- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ९ - जैगीषव्यागमनम् । ४०-४४॥
- .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 9 - jaigIShavyAgamanam . 40-44..
Encoded and proofread by Ruma Dewan