श्रीविघ्नेश्वरगीतम्
विशदवाससं विस्तृतोरसं विमलतेजसं विद्धराक्षसम् ।
विगततामसं विष्टरौकसं विभुमुपास्महे विघ्ननायकम् ॥ १॥
विधिहरिस्तुतं विष्टरस्थितं विपुललोचनं वीर्यशालिनम् ।
विकटविक्रमं विद्ययावृतं विभुमुपास्महे विघ्ननायकम् ॥ २॥
विबुधसत्तमं विप्रपूजितं विधुकुलोज्ज्वलं विघ्ननाशनम् ।
विधृतभूषणं वीतरागिणं विभुमुपास्महे विघ्ननायकम् ॥ ३॥
विभवसंयुतं विभ्रमान्वितं विषधरेट्तनूवेष्टितोदरम् ।
विनुतपौरुषं (विस्तरा)विस्तृतालिकं विभुमुपास्महे विघ्ननायकम् ॥ ४॥
विमतमर्दनं विश्वनायकं वितरणोत्सुकं वारणाननम् ।
विचलितश्रुतिं वीतकल्मषं विभुमुपास्महे विघ्ननायकम् ॥ ५॥
॥ इति श्रीविघ्नेश्वरगीतं सम्पूर्णम् ॥
Proofread by Sreenivasa Rao Bhagavatula