॥ श्रीशिवरहस्यान्तर्गता ऋभुगीता ॥

१ ॥ प्रथमोऽध्यायः ॥ हेमाद्रिं किल मातुलुङ्गफलमित्यादाय मोदाधिको मौढ्यान्नाकनिवासिनां भयपरैर्वाक्यैरिव प्रार्थितः । नीलीशाम्बरनीलमम्बरतलं जम्बूफलं भावयन् तं मुञ्चन् गिरिमम्बरं परिमृशन् लम्बोदरः पातु माम् ॥ १.१॥ वामं यस्य वपुः समस्तजगतां माता पिता चेतरत् यत्पादाम्बुजनूपुरोद्भवरवः शब्दार्थवाक्यास्पदम् । यन्नेत्रत्रितयं समस्तजगतामालोकहेतुः सदा पायाद्दैवतसार्वभौमगिरिजालङ्कारमूर्तिः शिवः ॥ १.२॥ सूतः - जैगीषव्यः पुनर्नत्वा षण्मुखं शिवसंभवम् । पप्रच्छ हृष्टस्तं तत्र मुनिभिर्गणपुङ्गवैः ॥ १.३॥ जैगीषव्यः - करुणाकर सर्वज्ञ शरणागतपालक । अरुणाधिपनेत्राब्ज चरणस्मरणोन्मुख ॥ १.४॥ करुणावरुणाम्भोधे तरणिद्युतिभास्कर । दिव्यद्वादशलिङ्गानां महिमा संश्रुतो मया ॥ १.५॥ त्वत्तोऽन्यत् श्रोतुमिच्छामि शिवाख्यानमनुत्तमम् । त्वद्वाक्यकञ्जपीयूषधाराभिः पावयाशु माम् ॥ १.६॥ सूतः - इति तस्य गिरा तुष्टः षण्मुखः प्राह तं मुनिम् ॥ १.७॥ श्रीषण्मुखः - शृणु त्वमगजाकान्तेनोक्तं ज्ञानमहार्णवम् । ऋभवे यत्पुरा प्राह कैलासे शङ्करः स्वयम् ॥ १.८॥ ब्रह्मसूनुः पुरा विप्रो गत्वा नत्वा महेश्वरम् । ऋभुर्विभुं तदा शंभुं तुष्टाव प्रणतो मुदा ॥ १.९॥ ऋभुः - दिवामणिनिशापतिस्फुटकृपीटयोनिस्फुर- ल्ललाटभसितोल्लसद्वरत्रिपुण्ड्रभागोज्वलम् ।var was त्रिपुण्ट्र भजामि भुजगाङ्गदं विधृतसामिसोमप्रभा- विराजितकपर्दकं करटिकृत्तिभूष्यत्कटिम् ॥ १.१०॥ फालाक्षाध्वरदक्षशिक्षकवलक्षोक्षेशवाहोत्तम- त्र्यक्षाक्षय्य फलप्रदावभसितालङ्काररुद्राक्षधृक् । चक्षुःश्रोत्रवराङ्गहारसुमहावक्षःस्थलाध्यक्ष मां भक्ष्यीभूतगरप्रभक्ष भगवन् भिक्ष्वर्च्यपादाम्बुज ॥ १.११॥ गङ्गाचन्द्रकलाललाम भगवन् भूभृत्कुमारीसख स्वामिंस्ते पदपद्मभावमतुलं कष्टापहं देहि मे । तुष्टोऽहं शिपिविष्टहृष्टमनसा भ्रष्टान्न मन्ये हरि- ब्रह्मेन्द्रानमरान् त्रिविष्टपगतान् निष्ठा हि मे तादृशी ॥ १.१२॥ नृत्ताडंबरसज्जटापटलिकाभ्राम्यन्महोडुच्छटा त्रुट्यत्सोमकलाललामकलिका शम्याकमौलीनतम् । उग्रानुग्रभवोग्रदुर्गजगदुद्धाराग्रपादाम्बुजं रक्षोवक्षकुठारभूतमुमया वीक्षे सुकामप्रदम् ॥ १.१३॥ फालं मे भसितत्रिपुण्ड्ररचितं त्वत्पादपद्मानतं ?? पाहीशान दयानिधान भगवन् फालानलाक्ष प्रभो । कण्ठो मे शितिकण्ठनाम भवतो रुद्राक्षधृक् पाहि मां कर्णौ मे भुजगाधिपोरुसुमहाकर्ण प्रभो पाहि माम् ॥ १.१४॥ नित्यं शङ्करनामबोधितकथासारादरं शङ्करं वाचं रुद्रजपादरां सुमहतीं पञ्चाक्षरीमिन्दुधृक् । बाहू मे शशिभूषणोत्तम महालिङ्गार्चनायोद्यतौ पाहि प्रेमरसार्द्रयाऽद्य सुदृशा शम्भो हिरण्यप्रभ ॥ १.१५॥ भास्वद्बाहुचतुष्टयोज्ज्वल सदा नेत्रे त्रिनेत्रे प्रभो त्वल्लिङ्गोत्तमदर्शनेन सुतरां तृप्तैः सदा पाहि मे । पादौ मे हरिनेत्रपूजितपदद्वन्द्वाव नित्यं प्रभो त्वल्लिङ्गालयप्रक्रमप्रणतिभिर्मान्यौ च धन्यौ विभो ॥ १.१६॥ धन्यस्त्वल्लिङ्गसङ्गेप्यनुदिनगलितानङ्गसङ्गान्तरङ्गः पुंसामर्थैकशक्त्या यमनियमवरैर्विश्ववन्द्य प्रभो यः । दत्वा बिल्वदलं सदम्बुजवरं किञ्चिज्जलं वा मुहुः प्राप्नोतीश्वरपादपङ्कजमुमानाथाद्य मुक्तिप्रदम् ॥ १.१७॥ उमारमण शङ्कर त्रिदशवन्द्य वेदेड्य हृत् त्वदीयपरभावतो मम सदैव निर्वाणकृत् । भवार्णवनिवासिनां किमु भवत्पदाम्भोरुह- प्रभावभजनादरं भवति मानसं मुक्तिदम् ॥ १.१८॥ संसारार्गलपादबद्धजनतासंमोचनं भर्ग ते पादद्वन्द्वमुमासनाथ भजतां संसारसंभर्जकम् । त्वन्नामोत्तमगर्जनादघकुलं सन्तर्जितं वै भवेद् दुःखानां परिमार्जकं तवकृपावीक्षावतां जायते ॥ १.१९॥ विधिमुण्डकरोत्तमोरुमेरुकोदण्डखण्डितपुराण्डजवाहबाण पाहि क्षमारथविकर्षसुवेदवाजिहेषान्तहर्षितपदाम्बुज विश्वनाथ ॥ १.२०॥ विभूतीनामन्तो न हि खलु भवानीरमण ते भवे भावं कश्चित् त्वयि भवह भाग्येन लभते । अभावं चाज्ञानं भवति जननाद्यैश्च रहितः उमाकान्त स्वान्ते भवदभयपादं कलयतः ॥ १.२१॥ वरं शंभो भावैर्भवभजनभावेन नितरां भवाम्भोधिर्नित्यं भवति विततः पांसुबहुलः । विमुक्तिं भुक्तिं च श्रुतिकथितभस्माक्षवरधृक् भवे भर्तुः सर्वो भवति च सदानन्दमधुरः ॥ १.२२॥ सोमसामजसुकृत्तिमौलिधृक् सामसीमशिरसि स्तुतपाद । सामिकायगिरिजेश्वर शम्भो पाहि मामखिलदुःखसमूहात् ॥ १.२३॥ भस्माङ्गराग भुजगाङ्ग महोक्षसङ्ग गङ्गाम्बुसङ्ग सुजटा निटिल स्फुलिङ्ग । लिङ्गाङ्ग भङ्गितमनङ्ग विहङ्गवाह- सम्पूज्यपाद सदसङ्ग जनान्तरङ्ग ॥ १.२४॥ वात्सल्यं मयि तादृशं तवनचेच्चन्द्रार्ध चूडामणे धिक्कृत्यापि विमुच्य वा त्वयि यतो धन्यो धरण्यामहम् । सक्षारं लवणार्णवस्य सलिलं धारा धरेण क्षणात् आदायोज्झितमाक्षितौ हि जगतां आस्वादनीयां दृशाम् ॥ १.२५॥ त्वत् कैलासवरे विशोकहृदयाः क्रोधोज्झिताच्चाण्डजाः तस्मान्मामपि भेदबुद्धिरहितं कुर्वीश तेऽनुग्रहात् । त्वद्वक्त्रामल निर्जरोज्झित महासंसार संतापहं विज्ञानं करुणाऽदिशाद्य भगवन् लोकावनाय प्रभो ॥ १.२६॥ सारङ्गी सिंहशाबं स्पृशति सुतधिया नन्दिनी व्याघ्रपोतं मार्जारी हंसबालं प्रणयपरवशा केकिकान्ता भुजङ्गम् । वैराण्याजन्मजातान्यपि गलितमदा जन्तवोऽन्ये त्यजन्ति भक्तास्त्वत्पादपद्मे किमु भजनवतः सर्वसिद्धिं लभन्ते ॥ १.२७॥ स्कन्दः - इत्थं ऋभुस्तुतिमुमावरजानिरीशः श्रुत्वा तमाह गणनाथवरो महेशः । ज्ञानं भवामयविनाशकरं तदेव तस्मै तदेव कथये शृणु पाशमुक्त्यै ॥ १.२८॥ ॥ इति श्रीशिवरहस्ये शंकराख्ये षष्ठांशे ऋभुस्तुतिर्नाम प्रथमोऽध्यायः ॥
२ ॥ द्वितीयोऽध्यायः ॥ ईश्वरः - श्रुणु पद्मजसंभूत मत्तः सूत्रविधिक्रमम् । ज्ञानोत्पादकहेतूनि श्रुतिसाराणि तत्त्वतः ॥ २.१॥ व्यासा मन्वन्तरेषु प्रतियुगजनिताः शांभवज्ञानसिद्ध्यै भस्माभ्यक्तसमस्तगात्रनिवहा रुद्राक्षमालाधराः । कैलासं समवाप्य शङ्करपदध्यानेन सूत्राण्युमा- कान्तात् प्राप्य वितन्वते स्वकधिया प्रामाण्यवादानहो ॥ २.२॥ जिज्ञास्यं ब्रह्म एवेत्यथपदविदितैः साधनप्राप्त्युपायै- र्योगैर्योगाद्युपायैर्यमनियममहासांख्यवेदान्तवाक्यैः । श्रोतव्यो भगवान् न रूपगुणतो मन्तव्य इत्याह हि वेदोद्बोधदवाक्यहेतुकरणैर्ध्येयः स साक्षात्कृतेः ॥ २.३॥ जन्माद्यस्य यतोऽस्य चित्रजगतो मिथ्यैव तत्कारणं ब्रह्म ब्रह्मात्मनैव प्रकृतिपरमदो वर्तमानं विवर्तेत् । श्रुत्या युक्त्या यतो वा इतिपदघटितो बोधतो वक्ति शंभुं नाणुः कालविपाककर्मजनितेत्याचोदना वै मृषा ॥ २.४॥ योनिः शास्त्रस्य वेदस्तदुभयमननाद्ब्रह्मणः प्रत्यभिज्ञा निःश्वासाद्वेदजालं शिववरवदनाद्वेधसा प्राप्तमेतत् । तस्मात् तर्कवितर्ककर्कशधिया नातिक्रमेत् तां धियं स्वाम्नायक्रियया तदप्रकरणे योनिर्महेशो ध्रुवम् ॥ २.५॥ तत्त्वस्यापि समन्वयात् श्रुतिगिरां विश्वेश्वरे चोदना सा चानिर्वचनीयतामुपगता वाचो निवृत्ता इति । आत्मैवैष इतीव वाक्यसुवृतिर्वृत्तिं विधत्ते धिया वेदान्तादिषु एक एव भगवानुक्तो महेशो ध्रुवम् ॥ २.६॥ नासद्वा वीक्षते यज्जडमिति करणैर्गन्धरूपादिहीनं शब्दस्पर्शादिहीनं जगदनुगतमपि तद्ब्रह्म किंरूपमीष्टे । गौणं चेदपि शब्दतो जगदिदं यन्नामरूपात्मकं तच्चात्राविशदीश्वरोऽर्थवचसा मोक्षस्य निष्ठाक्रमः ॥ २.७॥ हेयत्वावचनाच्च तच्छ्रुतिगिरां स्थूलं प्रदृष्टं भवे- द्रूपं नारूपतोऽपि प्रकरणवचनं वा विकारः किलेदम् । स्वाप्यायादपि तद्वदापि परमानन्दो यदीत्थं परः सामान्याच्च गतेरथाप्यनुभवे विद्योतते शङ्करः ॥ २.८॥ श्रुतत्वाद्वेदान्तप्रतिपदवचः कारणमुमा- सनाथो नाथानां स च किल न कश्चिज्जनिभवः । स एवानन्दात्मा श्रुतिकथितकोशादिरहितो विकारप्राचुर्यान्न हि भवति कार्यं च करणम् ॥ २.९॥ तद्धेतुव्यपदेशतोऽपि शिव एवेति चानन्दकृत् मन्त्रैर्वर्णकृतक्रमेण भगवान् सत्याद्यनन्तोच्यते । नैरन्तर्यानुपपत्तितोऽपि सुखिता चानन्दभेदोऽर्थतः कामाच्चाननुभावतो हृदि भिदा जायेद्भयं संसृतेः ॥ २.१०॥ पुच्छं ब्रह्म प्रतिष्ठितेति वचनाच्छेषी महेशोऽव्ययः । आकाशान्तरतोऽपि भौतिकहृदाकाशात्मता वाक्यतो ब्रह्मैव प्रतिभाति भेदकलने चाकल्पना कल्पतः ॥ २.११॥ सुषुप्त्युत्क्रान्त्योर्वा न हि खलु न भेदः परशिवे अतोत्थानं द्वैते न भवति परे वै विलयने । तदर्हं यत्सूक्ष्मं जगदिदमनाकारमरसं न गन्धं न स्पर्शं भवति परमेशे विलसितम् ॥ २.१२॥ अधीनं चार्थं तद्भवति पुनरेवेक्षणपरं स्वतन्त्रेच्छा शंभोर्न खलु करणं कार्यमपि न ॥ २.१३॥ ज्ञेयत्वावचनाच्च शङ्कर परानन्दे प्रमोदास्पदे प्रज्ञानं न हि कारणं प्रकृतिकं प्रश्नत्रयस्यार्थवत् । न विज्ञेयं देहप्रविलयशतोत्थानगणना स मृत्योर्मृत्युस्तद्भवति किल भेदेन जगतः ॥ २.१४॥ महद्वच्चाणीयो भवति च समो लोकसदृशा तथा ज्योतिस्त्वेकं प्रकरणपरं कल्पितवतः । न संख्याभेदेन त्रिभुवनविभवादतिकरं स्वभावोऽयं शश्वन्मुखरयति मोदाय जगताम् ॥ २.१५॥ प्राणादुद्गतपञ्चसंख्यजनिता तद्वस्त्रिवच्च श्रुतं तच्छ्रोत्रं मनसो न सिद्धपरमानन्दैकजन्यं महः । ज्योतिष्कारणदर्शिते च करणे सत्ता सदित्यन्वहं चाकर्षा भवति प्रकर्षजनिते त्वत्तीति वाक्योत्तरम् ॥ २.१६॥ जाग्रत्त्वावचनेन जीवजगतोर्भेदः कथं कथ्यते लिङ्गं प्राणगतं न चेश्वरपरं ज्योतिः किलैक्यप्रदम् । अन्यार्थत्वविवेकतोऽर्थगतिकं चाकल्पयद्वाक्यतः । प्रज्ञामित्यपरः क्रमस्थितिरसावन्यो वदन्तं मृषा ॥ २.१७॥ प्रकृत्यैवं सिद्धं भवति परमानन्दविधुरं अभिध्योपादेशाद् भवति उभयाम्नायवचनैः । भवत्यात्मा कर्ता कृतिविरहितो योनिरपि च प्रतिष्ठा निष्ठा च त्रिभुवनगुरुः प्रेमसदनः ॥ २.१८॥ अभिध्योपादेशात् स बहु भवदीक्षादिवशतः समासाचोभाभ्यां प्रकृतिजसमाम्नायवचनात् । अतो ह्यात्मा शुद्धः प्रकृतिपरिणामेन जगतां मृदीव व्यापारो भवति परिणामेषु च शिवः ॥ २.१९॥ आनन्दाभ्यासयोगाद्विकृतजगदानन्दजगतो अतो हेतोर्धर्मो न भवति शिवः कारणपरः । हिरण्यात्माऽऽदित्येऽक्षिणि उदेतीह भगवान् नतेश्चाधाराणां श्रवणवचनैर्गोपितधियः ॥ २.२०॥ भेदादिव्यपदेशतोऽस्ति भगवानन्यो भवेत् किं ततः आकाशादिशरीरलिङ्गनियमाद्व्याप्यं हि सर्वं ततः । तज्ज्योतिः परमं महेश्वरमुमाकान्ताख्यशान्तं महो वेदान्तेषु नितान्तवाक्यकलने छन्दोऽभिधानादपि ॥ २.२१॥ भूतादिव्यपदेशतोऽपि भगवत्यस्मिन् महेशे ध्रुवं यस्माद्भूतवराणि जायत इति श्रुत्याऽस्य लेशांशतः । विश्वं विश्वपतेरभूत् तदुभयं प्रामाण्यतो दर्शनात् प्राणस्यानुगमात् स एव भगवान् नान्यः पथा विद्यते ॥ २.२२॥ न वक्तुश्चात्मा वै स खलु शिवभूमादिविहितः तथैवायुर्देहे अरणिवहवत् चक्रगमहो । अदृश्यो ह्यात्मा वै स हि सुदृशतः शास्त्रनिवहैः शिवो देवो वामो मुनिरपि च सार्वात्म्यमभजत् ॥ २.२३॥ प्रसिद्धिः सर्वत्र श्रुतिषु विधिवाक्यैर्भगवतो महाभूतैर्जातं जगदिति च तज्जादिवचनैः । अतोऽणीयान् ज्यायानपि द्विविधभेदव्यपगता विवक्षा नोऽस्तीति प्रथयति गुणैरेव हि शिवः ॥ २.२४॥ संभोगप्राप्तिरेव प्रकटजगतः कारणतया सदा व्योमैवेत्थं भवति हृदये सर्वजगताम् । अतोऽत्ता वै शर्वश्चरमचरभूतं जगदिदं महामृत्युर्देशो भवति शिखरन्नाद इति च ॥ २.२५॥ प्रकरणवचनेन वेदजाते भगवति भवनाशने महेशे । प्रविशति शिव एव भोगभोक्तृ- नियमनदर्शनतो हि वाक्यजातम् ॥ २.२६॥ विशेषणैः शङ्करमेव नित्यं द्विधा वदत्येवमुपाधियोगात् । अतोऽन्तरा वाक्यपदैः समर्थितः स्थानादियोगैर्भगवानुमापतिः ॥ २.२७॥ सुखाभिधानात् सुखमेव शंभुः कं ब्रह्म खं ब्रह्म इति श्रुतीरितः । श्रुतोपवाक्योपनिषत्प्रचोदितः गतिं प्रपद्येत बुधोऽपि विद्यया ॥ २.२८॥ अनवस्थितितोऽपि नेतरो भगवानेव स चक्षुषि प्रबुध्येत् । भयभीताः खलु यस्य सोमसूर्यानलवाय्वंबुजसंभवा भ्रमन्ति ॥ २.२९॥ अन्तर्यामितयैव लोकमखिलं जानात्युमायाः पतिः । भूतेष्वन्तरगोऽपि भूतनिवहा नो जानते शङ्करम् ॥ २.३०॥ न तत्स्मृत्या धर्मैरभिलषणतो भेदविधुरं न शारीरं भेदे भवति अगजानायकवरे । अदृश्यत्वाद्धर्मैर्न खलु भगवानन्यदिति च परादादित्यं चामतिरपि च भेदप्रकलने ॥ २.३१॥ भेदादेश्च विशेषणं परशिवे रूपं न नाम प्रभा । भावो वा भवति प्रभाविरहितं ब्रह्मात्मना चाह तत् ॥ २.३२॥ स्मृतं मानं शंभौ भगवति च तत्साधनतया- प्यतो दैवं भूतं न भवति च साक्षात् परशिवे । अभिव्यक्ती चान्यः स्मृतिमपि तथाऽन्योऽपि मनुते तथा सम्पत्तिर्वै भुवि भवति किं शंभुकलने ॥ २.३३॥ यं मुक्तिव्यपदेशतः श्रुतिशिखाशाखाशतैः कल्पिते भिद्येद्ग्रन्थिरपि प्रकीर्णवचनात् साक्ष्येव बाह्यान्तरा । शब्दो ब्रह्मतयैव न प्रभवते प्राणप्रभेदेन च तच्चाप्युत्क्रमणस्थितिश्च विलये भुंक्त्येऽप्यसौ शङ्करः ॥ २.३४॥ तं भूमा सम्प्रसादाच्छिवमजरमात्मानमधुना शृणोतीक्षेद्वापि क्षणमपि तथान्यं न मनुते । तथा धर्मापत्तिर्भवति परमाकाशजनितं प्रशस्तं व्यावृत्तं दहरमपि दध्याद्यपदिशत् ॥ २.३५॥ अलिङ्गं लिङ्गस्थं वदति विधिवाक्यैः श्रुतिरियं धृतेराकाशाख्यं महिमनि प्रसिद्धेर्विमृशता । अतो मर्शान्नायं भवति भवभावात्मकतया शिवाविर्भावो वा भवति च निरूपे गतधियाम् ॥ २.३६॥ परामर्शे चान्यद्भवति दहरं किं श्रुतिवचो निरुक्तं चाल्पं यत् त्वनुकृति तदीयेऽह्नि महसा । विभातीदं शश्वत् प्रमतिवरशब्दैः श्रुतिभवैः ॥ २.३७॥ यो व्यापकोऽपि भगवान् पुरुषोऽन्तरात्मा । वालाग्रमात्रहृदये किमु सन्निविष्टः ॥ २.३८॥ प्रत्यक्षानुभवप्रमाणपरमं वाक्यं किलैकार्थदं मानेनापि च संभवाभ्रमपरो वर्णं तथैवाह हि । शब्दं चापि तथैव नित्यमपि तत् साम्यानुपत्तिक्रिया मध्वादिष्वनधीकृतोऽपि पुरुषो ज्योतिष्यभावो भवेत् ॥ २.३९॥ भावं चापि शुगस्य तच्छ्रवणतो जात्यन्तरासंभवात् संस्काराधिकृतोऽपि शङ्करपदं ये वक्तुकामा मनाक् । ज्योतिर्दर्शनतः प्रसादपरमादस्माच्छरीरात् परं ज्योतिश्चाभिनिविश्य व्योम परमानन्दं परं विन्दति ॥ २.४०॥ स्मृतीनां वादोऽत्र श्रुतिविभवदोषान्यवचसा स एवात्मा दोषैर्विगतमतिकायः परशिवः । स विश्वं विश्वात्मा भवति स हि विश्वाधिकतया समस्तेषु प्रोतो भवति स हि कार्येषु करणम् ॥ २.४१॥ प्रधानानां तेषां भवति इतरेषामनुपमो- प्यलब्धोऽप्यात्मायं श्रुतिशिरसि चोक्तोऽणुरहितः । स दृश्योऽचिन्त्यात्मा भवति वरकार्येषु करणं असद्वा सद्वा सोऽप्यसदिति न दृष्टान्तवशगम् ॥ २.४२॥ असङ्गो लक्षण्यः स भवति हि पञ्चस्वपि मुधा अभीमानोद्देशादनुगतिरथाक्षादिरहितः । स्वपक्षादौ दोषाश्रुतिरपि न ईष्टे परमतं त्वनिर्मोक्षो भूयादनुमितिकुतर्कैर्न हि भवेत् ॥ २.४३॥ भोक्त्रापत्तेरपि विषयतो लोकवेदार्थवादो नैनं शास्ति प्रभुमतिपरं वाचि वारंभणेभ्यः । भोक्ता भोगविलक्षणो हि भगवान् भावोऽपि लब्धो भवेत् सत्त्वाच्चापि परस्य कार्यविवशं सद्वाक्यवादान्वयात् ॥ २.४४॥ युक्तेः शब्दान्तराच्चासदिति न हि कार्यं च करणं प्रमाणैर्युक्त्या वा न भवति विशेषेण मनसा । परः प्राणोद्देशाद्धितकरणदोषाभिधधिया तथाश्माद्या दिव्या ??? द्योतन्ति देवा दिवि ॥ २.४५॥ प्रसक्तिर्वा कृत्स्ना श्रुतिवरबलादात्मनि चिरं स्वपक्षे दोषाणां प्रभवति च सर्वादिसुदृशा । विकाराणां भेदो न भवति वियोज्यो गुणधियां अतो लोके लीलापरविषमनैर्घृण्यविधुरम् ॥ २.४६॥ स कर्मारंभाद्वा उपलभति यद्येति च परं सर्वैर्धर्मपदैरयुक्तवचनापत्तेः प्रवृत्तेर्भवेत् । भूतानां गतिशोपयुज्यपयसि क्षारं यथा नोपयुक् अवस्थानं नैव प्रभवति तृणेषूद्यतमते- स्तथाभावात् पुंसि प्रकटयति कार्यं च करणम् ॥ २.४७॥ अङ्गित्वानुपपत्तितोऽप्यनुमितो शक्तिज्ञहीनं जगत् प्रतिषिद्धे सिद्धे प्रसभमिति मौनं हि शरणम् । महद्दीर्घं हस्वं उभयमपि कर्मैव करणे तथा साम्ये स्थित्या प्रभवति स्वभावाच्च नियतम् ॥ २.४८॥ न स्थानतोऽपि श्रुतिलिङ्गसमन्वयेन प्रकाशवैयर्थ्यमतो हि मात्रा । सूर्योपमा प्रमवतित्वतथा उदत्वा- त्तद्दर्शनाच्च नियतं प्रतिबिम्बरूपम् ॥ २.४९॥ तदव्यक्तं न ततो लिङ्गमेतत् तथोभयव्यपदेशाच्च तेजः । प्रतिषेधाच्च परमः सेतुरीशः सामान्यतः स्थानविशेषबुद्ध्या ॥ २.५०॥ विशेषतश्चोपपत्तेस्तथान्यदतः फलं चोपपद्येत यस्मात् । महेश्वराच्छ्रुतिभिश्चोदितं यत् धर्मं परे चेश्वरं चेति चान्ये । न कर्मवच्चेश्वरे भेदधीर्नः ॥ २.५१॥ भेदान्न चेति परतः परमार्थदृष्ट्या स्वाध्यायभेदादुपसंहारभेदः । अथान्यथात्वं वचसोऽसौ वरीयान् संज्ञातश्चेद्व्याप्तिरेव प्रमाणम् ॥ २.५२॥ सर्वत्राभेदादनयोस्तथान्यत् प्राधान्यमानन्दमयः शिरस्त्वम् । तथेतरे त्वर्थसामान्ययोगात् प्रयोजनाभावतयाऽप्ययाय ते ॥ २.५३॥ शब्दात्तथा ह्यात्मगृहीतिरुत्तरात् तथान्वयादितराख्यानपूर्वम् । अशब्दत्वादेवमेतत् समान- मेवं च संविद्वचनाविशेषात् ॥ २.५४॥ तद्दर्शनात् संभृतं चैवमेषोऽनाम्नायाद्वेद्यभेदात् परेति । गतेरर्थादुपपन्नार्थलोके शब्दानुमानैः सगुणोऽव्ययात्मा ॥ २.५५॥ यथाधिकारं स्थितिरेव चान्तरा तत्रैव भेदाद्विशिषन्हीतरवत् । अन्यत्तथा सत्यकृत्या तथैके कामादिरत्रायतनेषु चादरात् ॥ २.५६॥ उपस्थिते तद्वचनात् तथाग्नेः संलोप एवाग्निभवः प्रदाने । अतोऽन्यचिन्तार्थभेदलिङ्गं बलीयः क्रिया परं चासमानाच्च दृष्टेः ॥ २.५७॥ श्रुतेर्बलादनुबन्धेमखे वै भावापत्तिश्चात्मनश्चैक एव । तद्भावभावदुपलब्धिरीशे सद्भावभावादनुभावतश्च ॥ २.५८॥ अङ्गावबद्धा हि तथैव मन्त्रतो भूम्नः क्रतोर्जायते दर्शनेन ॥ २.५९॥ रूपादेश्च विपर्ययेण तु दृशा दोषोभयत्राप्ययं अग्राह्याः सकलानपेक्ष्यकरणं प्राधान्यवादेन हि । तत्प्राप्तिः समुदायकेऽपि इतरे प्रत्यायिकेनापि यत् विद्याऽविद्या असति बलतो धुर्यमार्याभिशंसी ॥ २.६०॥ दोषोभयोरपि तदा स्वगमोऽभ्युपेया । स्मृत्या सतो दृशि उदासीनवद्भजेत ॥ २.६१॥ नाभावादुपलब्धितोऽपि भगवद्वैधर्म्यस्वन्यादिवत् भावेनाप्युपलब्धिरीशितुरहो सा वै क्षणं कल्प्यते । सर्वार्थानुपपत्तितोऽपि भगवत्येकाद्वितीये पुनः । कार्त्स्न्येनात्मनि नो विकारकलनं नित्यं पतेर्धर्मतः ॥ २.६२॥ संबन्धानुअपपत्तितोऽपि समधिष्ठानोपपत्तेरपि तच्चैवाकरणं च भोगविधुरं त्वं तत्त्वसर्वज्ञता । उत्पत्तेरपि कर्तुरेव कारणतया विज्ञानभावो यदि ??? निषेधप्रतिपत्तितोऽपि मरुतश्चाकाशतः प्राणतः ॥ २.६३॥ अस्तित्वं तदपीति गौणपरता वाक्येषु भिन्ना क्रिया कार्यद्रव्यसमन्वयायकरणं शब्दाच्च ब्रह्मैव तत् । शब्देभ्योऽप्यमतं श्रुतं भवति तद् ज्ञानं परं शांभवं यावल्लोकविभागकल्पनवशात् भूतक्रमात् सर्जति ॥ २.६४॥ तस्यासंभवतो भवेज्जगदिदं तेजःप्रसूतं श्रुतिः चापः क्ष्मा मरुदेव खात्मकथयन्तल्लिङ्गसंज्ञानतः ॥ २.६५॥ विपर्ययेण क्रमतोऽन्तरा हि विज्ञानमानक्रमतो विशेषात् । न चात्मनः कारणताविपर्यश्चराचरव्यापकतो हि भावैः ॥ २.६६॥ नात्मा श्रुतो नित्यताशक्तियोगान्नानेव भासत्यविकल्पको हि । संज्ञान एवात्र गतागतानां स्वात्मानं चोत्तरणेनाणुरेव ॥ २.६७॥ स्वशब्दोन्मानाभ्यां सुखयति सदानन्दनतनुं विरोधश्चान्द्रोपद्रव इव सदात्मा निखिलगः । गुणादालोकेषु व्यतिकरवतो गन्धवहतः परो दृष्टो ह्यात्मा व्यपदिशति प्रज्ञानुभवतः ॥ २.६८॥ यावच्चात्मा नैवा दृश्येत दोषैः पुंस्त्वादिवत्त्वसतो व्यक्तियोगात् । मनोऽन्यत्रायदि कार्येषु गौणं विमुखः कर्ता शाश्वतो विहरति उपादानवशतः ॥ २.६९॥ अस्यात्मव्यपदेशतः श्रुतिरियं कर्तृत्ववादं वदत् उपालब्धुं शक्तेर्विपरति समाध्या क्षुभितया । परात्तत्तु श्रुत्याप्यनुकृति सुरत्वक्षुभितया परो मन्त्रो वर्णैर्भगवति अनुज्ञापरिहरौ । तनोः संबन्धेन प्रविशति परं ज्योतिकलने ॥ २.७०॥ आसन्नतेव्यतिकरं पररूपभेदे आभास एव सुदृशा नियतो नियम्यात् । आकाशवत् सर्वगतोऽव्ययात्मा आसन्धिभेदात् प्रतिदेशभावात् ॥ २.७१॥ तथा प्राणो गौणः प्रकृतिविधिपूर्वार्थकलना- दघस्तोये सृत्यः प्रथितगतिशेषेण कथितः । हस्तादयस्त्वणवः प्राणवायोः चक्षुस्तथा करणत्वान्न दोषः ॥ २.७२॥ यः पञ्चवृत्तिर्मनवच्च दृश्यते तथाणुतो ज्योतिरसुश्च खानि । भेदश्रुतेर्लक्षणविप्रयोगादात्मादिभेदे तु विशेष वादः ॥ २.७३॥ आत्मैकत्वात् प्राणगतेश्च वह्नेः ते जागतीवाश्रुतत्त्वान्न चेष्टा । भोक्तुर्न चात्मन्यविदीकृता ये ते धूममार्गेण किल प्रयान्ति ॥ २.७४॥ चरणादिति चान्यकल्पनां स्मरन्ति सप्तैव गतिप्ररोहात् । व्यापारवैधुर्यसमूहविद्या ते कर्मणैवेह तृतीयलब्धाम् ॥ २.७५॥ तद्दर्शनं तद्गदतोऽप्यविद्या सव्योपपत्तेरुत दौविशेषात् । चिरन्तपः शुद्धिरतो विशेषात् ते स्थावरे चाविशेषार्थवादः ॥ २.७६॥ सन्ध्यांशसृष्ट्या किल निर्ममे जगत् पुत्रेषु मायामयतोऽव्ययात्मा । कृत्स्नं मायामयं तज्जगदिदमसतो नामरूपं तु जातम् । जाग्रत्स्वप्नसुषुप्तितोऽपि परमानन्दं तिरोधानकृत् ॥ २.७७॥ देहयोगात् ह्रसते वर्धते यः तत्रैवान्यत् पश्यते सोऽथ बोधात् । स शोशुचानस्मृतिशब्दबोधः ॥ २.७८॥ नानाशब्दादिभेदात् फलविविधमहाकर्मवैचित्र्ययोगात् ईष्टे तां गुणधारणां श्रुतिहितां तद्दर्शनोद्बोधतः । तद्दर्शनात् सिद्धित एव सिद्ध्यते आचारयोगादृततच्छ्रुतेश्च ॥ २.७९॥ वाचा समारंभणतो नियामतः तस्याधिकाप्रात्वकस्योपदेशात् । तुल्यं दृशा सर्वतः स्याद्विभागः अध्यापयात्रान्नविशेषतस्तु ते ॥ २.८०॥ कामोपमर्देन तदूर्ध्वरेतसा विमर्शतो याति स्वतत्त्वतोऽन्यः । अनुष्ठेयं चान्यत् श्रुतिशिरसि निष्ठाभ्रमवशात् । विधिस्तुत्या भावं प्रवदति रथाग्नेराधानमनुवदति ज्ञानाङ्गमपि च ॥ २.८१॥ प्राणात्यये वापि समं तथान्नं अबाधतः स्मृतितः कामकारे । विहिताश्रमकर्मतः सहैव कार्यात् तथोभयोर्लिङ्गभङ्गं च दर्शयेत् ॥ २.८२॥ तथान्तरा चापि स्मृतेर्विशेषतः ज्यायोऽपि लिङ्गाभयभावनाधिका । सैवाधिकारादर्शनात् तदुक्तं आचारतः स्वामिन ईज्यवृत्त्या ॥ २.८३॥ स्मृते ऋत्विक्सहकार्यं च कृत्स्नम् । तन्मौनवाचा वचनेन कुर्वन् । तदैहिकं तदवस्थाधृतेश्च ॥ २.८४॥ आवृत्त्याप्यसकृत्तथोपदिशति ह्यात्मन्नुपागच्छति ग्राहं याति च शास्त्रतो प्रतीककलनात् सा ब्रह्मदृष्टिः प्रभोः । आदित्यादिकृतीषु तथा सतीरपि कर्माङ्गताध्यानतः तस्माच्चास्थिरतां स्मरन्ति च पुनर्यत्रैव तत्र श्रुता ॥ २.८५॥ आप्रायणात् तत्र दृष्टं हि यत्र तत्रागमात् पूर्वयोऽश्लेषनाशौ । तथेतरस्यापि पतेदसंसृतौ अनारब्धाग्निहोत्रादिकार्ये ॥ २.८६॥ अतोऽन्येषामुभयोर्यत्र योगात् विद्याभोगेन वाङ्मनसी दर्शनाच्च । सर्वाण्यनुमनसा प्राण एव सोऽध्यक्षेत उपदर्शेन कच्चित् ॥ २.८७॥ समानवृत्त्या क्रमते चासु वृत्त्या संसारतो व्यपदेशोपपत्तेः । सूक्ष्मप्रमाणोपमर्दोपलब्धस्थितिश्च तथोपपत्तेरेष ऊष्मा रसैके ॥ २.८८॥ अत्र स्मर्यनानुपरताविधिवाक्यसिद्धे- र्वैयासकिर्मुनिरेषोव्ययात्मा । अविभागो वचनाद्धार्द एव रश्म्यनुसारी निशितो दक्षिणायने । योगिनः प्रतिसृतैस्तथार्चिरात् वायुमद्घटितो वरुणेन ॥ २.८९॥ अतिवाहिकविधेस्तदलिङ्गात् तद्वदत्र उभयोरपि सिद्धिः । तद्वैतेन गतिरप्युपावृतो विशेषसामीप्यसकार्यहेतौ ॥ २.९०॥ स्मृतिस्तथाऽन्योऽपि च दर्शनेन काये तथा प्रतिपत्तिप्रतीकः । विशेषदृष्ट्या सम्पदाविर्भवेन स्वेनांशत्वान्मुक्तिविज्ञानतो हि ॥ २.९१॥ आत्मप्रकाशादविभागेन दृष्टः तद्ब्रह्मणोऽन्यद्द्युतितन्मात्रतोऽन्यः । उपन्यासादन्यसंकल्पभूत्या रथवान्योऽप्युथाह ॥ २.९२॥ भावमन्यो उभयं न स्वभावा भावे सम्पत्तिरेवं जगत् स्यात् । प्रत्यक्षेणोपदेशात् स्थितिरपि जगतो व्यक्तिभावादुपासा भेदाभासस्थितिरविकारावर्तिरिति च ॥ २.९३॥ तथा दृष्टेर्द्रष्टुर्विपरीतदृष्टेः श्रुतिवशात् तथा बुद्धेर्बोद्धा भवति अनुमानेन हि बुधः । भोगे सामान्यलिङ्गात् शिवभजनभवे मान्यमनसा अनावृत्तिः शब्दो भवति विधिवाक्येन नियतम् ॥ २.९४॥ तवोक्तः सूत्राणां विधिरपि च सामान्यमुभय- प्रकृष्ट श्रुत्यैव प्रभवति महानन्दसदने ॥ २.९५॥ स्कन्दः - त्रिनेत्रवक्त्रसुचरित्ररूपं मन्त्रार्थवादाम्बुजमित्ररूपाः । प्रहृष्टरूपा मुनयो वितेनिरे मतानुसारीण्यथ सूत्रितानि ॥ २.९६॥ न तानि बुद्ध्युद्भवबोधदानि विश्वेशपादाम्बुजभक्तिदानि ॥ २.९७॥ ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे शिवेन ऋभुं प्रति सूत्रोपदेशो नाम द्वितीयोऽध्यायः ॥
३ ॥ तृतीयोऽध्यायः ॥ सूतः - ततो महेशात् संश्रुत्य सूत्राणि ऋभुरेव हि । कैलासेशं महादेवं तुष्टाव विनयाञ्जलिः ॥ ३.१॥ लब्धज्ञानो महादेवान् मुनिभ्योऽकथयच्च तत् । तत् स्तुतिं च शृणुष्वेति जगाद गिरिजासुतः ॥ ३.२॥ जैगीषव्यं महात्मानं जितषड्वर्गमुत्तमम् । स्कन्दः - संस्तुत्य सांबमीशानमृभुर्ज्ञानमविन्दत । शांभवः स महायोगी तुष्टावाष्टतनुं हरम् ॥ ३.३॥ ऋभुः - गन्धद्विपवरवृन्दत्वचिरुचिबन्धोद्यतपट गन्धप्रमुख मदान्धव्रजदलि हरिमुखनखरोद्यत् स्कन्धोद्यन्मुख बन्धक्षुरनिभ निर्यद्रसदसृभिन्दन्नगधर विन्ध्यप्रभशिव मेध्यप्रभुवर । मेध्योत्तमशिव भेद्याखिलजगदुद्यद्भवगत वेद्यागमशिव गद्यस्तुतपद पद्यप्रकटहृ - दुद्यद्भवगद वैद्योत्तम पाहि शम्भो ॥ ३.४॥ चण्डद्विपकर काण्डप्रभभुज दण्डोद्यतनग खण्डत्रिपुर महाण्डस्फुटदुडुपशिखण्ड । द्युतिवर गण्डद्वय कोदण्डान्तक दण्डितपाद पाहि शंभो ॥ ३.५॥ किञ्चिज्जललव सिञ्चद्द्विजकुल मुञ्चद्वृजिन कुलुंचद्विजपति चञ्चच्छविजट कुञ्चत्पदनख मुञ्चन्नतवर करुणा पाहि शंभो ॥ ३.६॥ देव शङ्कर हरमहेश्वर पापतस्कर अमरमयस्कर । शिवदशंकर पुरमहेश्वर भवहरेश्वर पाहि शंभो ॥ ३.७॥ अङ्गजभङ्ग तुरङ्गरथाङ्ग जलधिनिषङ्ग धृतभुजङ्गाङ्ग दृशि सुपतङ्ग करसुकुरङ्ग जटधृतगङ्ग यमिहृदिसङ्ग भजशिवलिङ्ग भवभयभङ्ग ॥ ३.८॥ शंबरकरशर दम्बरवरचर डंबरघोषण दुंबरफलजग निकुरुंबभरहर बिंबितहृदिचिर लंबितपदयुग लंबोदरजनकान्तकहर शिव बिन्दुवरासन बिन्दुगहन शरदिन्दुवदनवर कुन्दधवल गणवृन्दविनत भवभयहर परवर करुणाकर फणिवरभूषण स्मर हर गरधर परिपाहि ॥ ३.९॥ रासभवृषभेभ शरभाननगणगुणनन्दित- त्रिगुणपथातिग शरवणभवनुत तरणिस्थित वरुणालय कृतपारण मुनिशरणायित पदपद्मारुण पिङ्गजटाधर कुरु करुणां शङ्कर शं कुरु मे ॥ ३.१०॥ जम्भप्रहरण कुम्भोद्भवनुत कुम्भप्रमथ निशुम्भद्युतिहर भिन्दद्रणगण डिम्भायितसुर तारकहरसुत कुंभ्युद्यतपद विन्ध्यस्थितदितिमान्द्यप्रहर मदान्धद्विपवर कृत्तिप्रवर सुधान्धोनुतपद बुद्ध्यागमशिव मेध्यातिथिवरद ममावन्ध्यं कुरु दिवसं तव पूजनतः परिपाहि शंभो ॥ ३.११॥ कुन्दसदृश मकरन्दनिभसुरवृन्दविनुत कुरुविन्दमणिगण वृन्दनिभाङ्घ्रिजमन्दर वसदिन्दुमकुट शरदंबुजकृश गरनिन्दनगल सुन्दरगिरितनयाकृति देहवराङ्गबिन्दुकलित शिवलिङ्गगहन सुतसिन्दुरवरमुख बन्धुरवरसिन्धुनदीतट लिङ्गनिवहवरदिग्वस पाहि शंभो ॥ ३.१२॥ पन्नगाभरण मारमारण विभूतिभूषण शैलजारमण । आपदुद्धरण यामिनीरमणशेखर सुखद पाहि शंभो ॥ ३.१३॥ दक्षाध्वरवरशिक्ष प्रभुवर त्र्यक्ष प्रबलमहोक्षस्थित सितवक्षस्स्थलकुलचक्षुःश्रवस वराक्षस्रज हर । वीक्षानिहताधोक्षजात्मज वरकक्षाश्रय पुरपक्षविदारण लीक्षायितसुर भिक्षाशन हर पद्माक्षार्चनतुष्ट भगाक्षिहराव्यय शङ्कर मोक्षप्रद परिपाहि महेश्वर ॥ ३.१४॥ अक्षयफलद शुभाक्ष हराक्षततक्षककर गरभक्ष परिस्फुरदक्ष क्षितिरथ सुरपक्षाव्यय । पुरहर भव हर हरिशर शिव शिव शङ्कर कुरु कुरु करुणां शशिमौले ॥ ३.१५॥ भजाम्यगसुताधवं पशुपतिं महोक्षध्वजं वलक्षभसितोज्ज्वलं प्रकटदक्षदाहाक्षिकम् । भगाक्षिहरणं शिवं प्रमथितोरुदक्षाध्वरं प्रपक्षसुरतामुनिप्रमथशिक्षिताधोक्षजम् ॥ ३.१६॥ श्रीनाथाक्षिसरोजराजितपदांभोजैकपूजोत्सवै- र्नित्यं मानसमेतदस्तु भगवन् सद्राजमौले हर । भूषाभूतभुजङ्गसङ्गत महाभस्माङ्गनेत्रोज्वल- ज्ज्वालादग्धमनङ्गपतङ्गदृगुमाकान्ताव गङ्गाधर ॥ ३.१७॥ स्वात्मानन्दपरायणांबुजभवस्तुत्याऽधुना पाहि माम् MISSING . गिरिजामुखसख षण्मुख पञ्चमुखोद्यतदुर्मुखमुख- हर आखुवहोन्मुख लेखगणोन्मुख शङ्कर खगगमपरिपूज्य ॥ ३.१८॥ कोटिजन्मविप्रकर्मशुद्धचित्तवर्त्मनां श्रौतसिद्धशुद्धभस्मदग्धसर्ववर्ष्मणाम् । रुद्रभुक्तमेध्यभुक्तिदग्धसर्वपाप्मनां रुद्रसूक्ति उक्तिभक्तिभुक्तिमुक्तिदायिकाम् । पुरहर इष्टतुष्टिमुक्तिलास्यवासना भक्तिभासकैलासमीश आशु लभ्यते ॥ ३.१९॥ स्कन्दः - तत्स्तुत्या तोषितः शंभुस्तमाह ऋभुमीश्वरः । प्रसन्नः करुणाम्भोधिरम्भोजसुतमोदनः ॥ ३.२०॥ ईश्वरः - वेदान्तपाठपठनेन हठादियोगैः श्रीनीलकण्ठपदभक्तिविकुण्ठभावाः । ये कर्मठा यतिवरा हरिसौरिगेहे सालावृकैर्वरकठोरकुठारघातैः ॥ ३.२१॥ भिन्नोत्तमाङ्गहृदयाश्च भुसुण्डिभिस्ते । भिक्षाशना जरठरासभवद्भ्रमन्ति ॥ ३.२२॥ विद्युच्चञ्चलजीवितेऽपि न मनागुत्पद्यते शांभवी भक्तिर्भीमपदाम्बुजोत्तमपदे भस्मत्रिपुण्ड्रेऽपि च । रुद्राक्षामलरुद्रसूक्तिजपने निष्ठा कनिष्ठात्मनां विष्ठाविष्टकुनिष्ठकष्टकुधियां दुष्टात्मनां सर्वदा ॥ ३.२३॥ भ्रष्टानां दुरदृष्टतो जनिजरानाशेन नष्टात्मनां ज्येष्ठश्रीशिपिविष्टचारुचरणांभोजार्चनानादरः । तेनानिष्टपरंपरासमुदयैरष्टाकृतेर्न स्मृतिः विष्ठापूरितदुर्मुखेषु नरके भ्रष्टे चिरं संस्थितिः ॥ ३.२४॥ अज्ञायत्तेष्वभिज्ञाः सुरवरनिकरं स्तोत्रशास्त्रादितुष्टं सत्राशं मन्त्रमात्रैर्विधिविहितधिया सामभागैर्यजन्ति । श्राद्धे श्रद्धाभरणहरणभ्रान्तरूपान्पितॄंस्ते तत्तच्छ्रद्धासमुदितमनः स्वान्तरा शम्भुमीशम् ॥ नाभ्यर्चन्ति प्रणतशरणं मोक्षदं मां महेशम् ॥ ३.२५॥ आर्याः शर्वसमर्चनेन सततं दूर्वादलैः कोमलैः बिल्वाखर्वदलैश्च शङ्करमहाभागं हृदन्तः सदा । पर्वस्वप्यविशेषितेन मनसा गर्वं विहायादरात् दुर्गाण्याशु तरन्ति शङ्करकृपापीयूषधारारसैः ॥ ३.२६ ॥ श्रीचन्द्रचूडचरणांबुज पूजनेन कालं नयन्ति पशुपाशविमुक्तिहेतोः । भावाः परं भसितफाललसत्त्रिपुण्ड्र- रुद्राक्षकङ्कणलसत्करदण्डयुग्माः ॥ ३.२७॥ पञ्चाक्षरप्रणवसूक्तधिया वदन्ति नामानि शांभवमनोहरदानि शंभो । मुक्तिप्रदानि सततं शिवभक्तवर्याः ये बिल्वमूलशिवलिङ्गसमर्चनेन ॥ ३.२८॥ कालं नयेद्विमलकोमलबिल्वपत्रैः नो तस्य कालजभयं भवतापपापम् । सन्तापभूपजनितं भजतां महेशम् ॥ ३.२९॥ शश्वद्विश्वेशपादौ यमशमनियमैर्भूतिरुद्राक्षगात्रो विश्वत्रस्तो भुजङ्गाङ्गदवरगिरिजानायके लब्धभक्तिः । मुग्धोऽप्यध्यात्मविद् यो भवति भवहरस्यार्चया प्राप्तकामः ॥ ३.३०॥ शब्दैरब्दशतेऽपि नैव स लभेत् ज्ञानं न तर्कभ्रमैः मीमांसा द्वयतस्तथाद्वयपदं किं सांख्यसंख्या वद । योगायासपरंपरादिविहितैर्वेदान्तकान्तारके श्राम्यन् भक्तिविवर्जितेन मनसा शम्भोः पदे मुक्तये ॥ ३.३१॥ किं गङ्गया वा मकरे प्रयाग- स्नानेन वा योगमखक्रियाद्यैः । यत्रार्चितं लिङ्गवरं शिवस्य तत्रैव सर्वार्थपरंपरा स्यात् ॥ ३.३२॥ श्रीशैलो हिमभूधरोऽरुणगिरिर्वृद्धाद्रिगोपर्वतौ श्रीमद्धेमसभाविहार भगवन् नृत्तं त्रिनेत्रो गिरिः । कैलासोत्तरदक्षिणौ च भगवान् यत्रार्चने शङ्करो लिङ्गे सन्निहितो वसत्यनुदिनं शाङ्गस्य हृत्पङ्कजे ॥ ३.३३॥ तत्राविमुक्तं शशिचूडवासं ॐकारकालञ्जर रुद्रकोटिम् । गङ्गाबुधेः सङ्गममम्बिकापति- प्रियं तु गोकर्णकसह्यजातटम् ॥ ३.३४॥ यत्राभ्यर्णगतं महेशकरुणापूर्णं तु तूर्णं हृदा लिङ्गं पूजितमप्यपास्तदुरितं तीर्थानि गङ्गादयः । पुण्याश्चाश्रमसंघका गिरिवरक्षेत्राणि शंभोः पदं भक्तियुक्तभजनेन महेशे शक्तिवज्जगदिदं परिभाति ॥ ३.३५॥ कर्मन्दिवृन्दा अपि वेदमौलि- सिद्धान्तवाक्यकलनेऽपि भवन्ति मन्दाः । कामादिबद्धहृदयाः सितभस्मपुण्ड्र- रुद्राक्ष शङ्करसमर्चनतो विहीनाः ॥ ३.३६॥ हीना भवन्ति बहुधाप्यबुधा भवन्ति मत्प्रेमवासभवनेषु विहीनवासाः ॥ ३.३७॥ अष्टम्यामष्टमूर्तिर्निशि शशिदिवसे सोमचूडं तु मुक्त्यै भूतायां भूतनाथं धृतभसिततनुर्वीतदोषे प्रदोषे । गव्यैः पञ्चामृताद्यैः फलवरजरसैर्बिल्वपत्रैश्च लिङ्गे तुङ्गे शाङ्गेऽप्यसङ्गो भजति यतहृदा नक्तभुक्त्यैकभक्तः ॥ ३.३८॥ ज्ञानानुत्पत्तये तद्धरिविधिसमताबुद्धिरीशानमूर्तौ भस्माक्षाधृतिरीशलिङ्गभजनाशून्यं तु दुर्मानसम् । शंभोस्तीर्थमहत्सुतीर्थवरके निन्दावरे शाङ्करे श्रीमद्रुद्रजपाद्यद्रोहकरणात् ज्ञानं न चोत्पद्यते ॥ ३.३९॥ ईशोत्कर्षधियैकलिङ्गनियमादभ्यर्चनं भस्मधृक् रुद्राक्षामल सारमन्त्र सुमहापञ्चाक्षरे जापिनाम् । ईशस्थाननिवासशांभवकथा भक्तिश्च संकीर्तनं भक्तस्यार्चनतो भवेत् सुमहाज्ञानं परं मुक्तिदम् ॥ ३.४०॥ आद्यन्तयोर्यः प्रणवेन युक्तं श्रीरुद्रमन्त्रं प्रजपत्यघघ्नम् । तस्यांघ्रिरेणुं शिरसा वहन्ति ब्रह्मादयः स्वाघनिवृत्तिकामाः ॥ ३.४१॥ अपूर्वाथर्वोक्त श्रुतिशिरसि विज्ञानमनघं महाखर्वाज्ञानप्रशमनकरं यो विरचयेत् । मुने हृत्पर्वाणां विशसनकरं सप्तमनुभि- र्व्रतं शीर्षण्यं यो विरचयति तस्येदमुदितम् ॥ ३.४२॥ गुरौ यस्य प्रेम श्रुतिशिरसि सूत्रार्थपदगं मयि श्रद्धा वृद्धा भवति किल तस्यैष सुलभः । अनन्यो मार्गोऽयम् अकथितमिदं त्वय्यपि मुदा यदा गोप्यो मुग्धे सुविहितमुनिष्वेव दिश वै ॥ ३.४३॥ स्कन्दः - इति स्तुत्वा शंभोः प्रमुदितमनास्त्वेष स ऋभुः मुनिर्नत्वा देवं नगमगपदीशस्य निलयम् । यतो गङ्गा तुङ्गा प्रपतति हिमाद्रेः शिखरतो मुनीन्द्रेष्वाहेदं तदपि शृणु विप्रोत्तम हृदा ॥ ३.४४॥ ऋभुः - पतन्त्वशनयो मुहुर्गिरिवरैः समुद्रोर्वरा भवत्वधरसम्प्लवा ग्रहगणाः सुरा यान्त्वघः । भवज्जनिम पूजनान्मम मनो न यात्यन्यतः शपामि प्रपदे प्रभोस्तव सरोरुहाभे हर ॥ ३.४५॥ ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे शिवऋभुसंवादो नाम तृतीयोऽध्यायः ॥
४ ॥ चतुर्थोऽध्यायः ॥ स्कन्दः - हिमाद्रिशिखरे तत्र केदारे संस्थितं ऋभुम् । केदारेशं पूजयन्तं शांभवं मुनिसत्तमम् । भस्मरुद्राक्षसम्पन्नं निःस्पृहं मुनयोऽब्रुवन् ॥ ४.१॥ मुनयः - पद्मोद्भवसुतश्रेष्ठ त्वया कैलासपर्वते । आराध्य देवमीशानं तस्मात् सूत्रश्रुतीरितम् ॥ ४.२॥ ज्ञानं लब्धं मुनिश्रेष्ठ त्वं नो ब्रूहि विमुक्तये । येन संसारवाराशेः समुत्तीर्णा भवामहे ॥ ४.३॥ सूतः - ऋभुर्मुनीनां वचसा तुष्टः शिष्टान् समीक्ष्य तान् । अष्टमूर्तिपदध्याननिष्ठांस्तानभ्युवाच ह ॥ ४.४॥ ऋभुः - नागोप्यं भवतामस्ति शांभवेषु महात्मसु ।var was अस्मि त्रिनेत्रप्रेमसदनान् युष्मान् प्रेक्ष्य वदामि तत् ॥ ४.५॥ शाङ्करं सूत्रविज्ञानं श्रुतिशीर्षमहोदयम् । शृणुध्वं ब्रह्मविच्छ्रेष्ठाः शिवज्ञानमहोदयम् ॥ ४.६॥ येन तीर्णाः स्थ संसारात् शिवभक्त्या जितेन्द्रियाः ।var was तीर्णास्थ नमस्कृत्वा महादेवं वक्ष्ये विज्ञानमैश्वरम् ॥ ४.७॥ ऋभुः - विश्वस्य कारणमुमापतिरेव देवो विद्योतको जडजगत्प्रमदैकहेतुः । न तस्य कार्यं करणं महेशितुः स एव तत्कारणमीश्वरो हरः ॥ ४.८॥ सूतः सायकसंभवः समुदिताः सूताननेभ्यो हयाः नेत्रे ते रथिनो रथाङ्गयुगली युग्यान्तमृग्यो रथी । मौवीमूर्ध्नि रथः स्थितो रथवहश्चापं शरव्यं पुरः योद्धुं केशचराः स एव निखिलस्थाणोरणुः पातु वः ॥ ४.९॥var was नः निदाघमथ संबोध्य ततो ऋभुरुवाच ह । अध्यात्मनिर्णयं वक्ष्ये नास्ति कालत्रयेष्वपि ॥ ४.१०॥ शिवोपदिष्टं संक्षिप्य गुह्यात् गुह्यतरं सदा । अनात्मेति प्रसङ्गात्मा अनात्मेति मनोऽपि वा । अनात्मेति जगद्वापि नास्त्यनात्मेति निश्चिनु ॥ ४.११॥ सर्वसंकल्पशून्यत्वात् सर्वाकारविवर्जनात् केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.१२॥ चित्ताभावे चिन्तनीयो देहाभावे जरा च न । केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.१३॥var was ब्रह्ममात्रत्वात् पादाभावाद्गतिर्नास्ति हस्ताभावात् क्रिया च न । केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.१४॥var was ब्रह्ममात्रत्वात् ब्रह्माभावाज्जगन्नास्ति तदभावे हरिर्न च । केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.१५॥var was ब्रह्ममात्रत्वात् मृत्युर्नास्ति जराभावे लोकवेददुराधिकम् । केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.१६॥var was ब्रह्ममात्रत्वात् धर्मो नास्ति शुचिर्नास्ति सत्यं नास्ति भयं न च । केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.१७॥var was ब्रह्ममात्रत्वात् अक्षरोच्चारणं नास्ति अक्षरत्यजडं मम । केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.१८॥var was ब्रह्ममात्रत्वात् गुरुरित्यपि नास्त्येव शिष्यो नास्तीति तत्त्वतः । केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.१९॥var was ब्रह्ममात्रत्वात् एकाभावान्न द्वितीयं न द्वितीयान्न चैकता । सत्यत्वमस्ति चेत् किञ्चिदसत्यत्वं च संभवेत् ॥ ४.२०॥ असत्यत्वं यदि भवेत् सत्यत्वं च घटिष्यति । शुभं यद्यशुभं विद्धि अशुभं शुभमस्ति चेत् ॥ ४.२१॥ भयं यद्यभयं विद्धि अभयाद्भयमापतेत् । केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.२२॥var was ब्रह्ममात्रत्वात् बद्धत्वमस्ति चेन्मोक्षो बन्धाभावे न मोक्षता । मरणं यदि चेज्जन्म जन्माभावे मृतिर्न च ॥ ४.२३॥ त्वमित्यपि भवेच्चाहं त्वं नो चेदहमेव न । इदं यदि तदेवापि तदभावे इदं न च ॥ ४.२४॥ अस्ति चेदिति तन्नास्ति नास्ति चेदस्ति किंच न । कार्यं चेत् कारणं किञ्चित् कार्याभावे न कारणम् ॥ ४.२५॥ द्वैतं यदि तदाऽद्वैतं द्वैताभावेऽद्वयं च न । दृश्यं यदि दृगप्यस्ति दृश्याभावे दृगेव न ॥ ४.२६॥ अन्तर्यदि बहिः सत्यमन्ताभावे बहिर्न च । पूर्णत्वमस्ति चेत् किंचिदपूर्णत्वं प्रसज्यते ॥ ४.२७॥ किञ्चिदस्तीति चेच्चित्ते सर्वं भवति शीघ्रतः । यत्किंचित् किमपि क्वापि नास्ति चेन्न प्रसज्यति ॥ ४.२८॥ तस्मादेतत् क्वचिन्नास्ति त्वं नाहं वा इमे इदम् । केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.२९॥var was ब्रह्ममात्रत्वात् नास्ति दृष्टान्तकं लोके नास्ति दार्ष्टान्तिकं क्वचित् । केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.३०॥var was ब्रह्ममात्रत्वात् परं ब्रह्माहमस्मीति स्मरणस्य मनो न हि । ब्रह्ममात्रं जगदिदं ब्रह्ममात्रत्वमप्य हि ॥ ४.३१॥ चिन्मात्रं केवलं चाहं नास्त्यनात्मेति निश्चिनु । इत्यात्मनिर्णयं प्रोक्तं भवते सर्वसङ्ग्रहम् ॥ ४.३२॥var was निर्ण्यः प्रोक्तः सकृच्छ्रवणमात्रेण ब्रह्मैव भवति स्वयम् ॥ ४.३३॥ निदाघः-var was ऋभुः- भगवन् को भवान् को नु वद मे वदतां वर ।var was निदाघ यच्छ्रुत्वा तत्क्षणान्मुच्येन्महासंसारसंकटात् ॥ ४.३४॥ ऋभुः- अहमेव परं ब्रह्म अहमेव परं सुखम् । अहमेवाहमेवाहमहं ब्रह्मास्मि केवलम् ॥ ४.३५॥ अहं चैतन्यमेवास्मि दिव्यज्ञानात्मको ह्यहम् । सर्वाक्षरविहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.३६॥ अहमर्थविहीनोऽस्मि इदमर्थविवर्जितः । सर्वानर्थविमुक्तोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.३७॥ नित्यशुद्धोऽस्मि बुद्धोऽस्मि नित्योऽस्म्यत्यन्तनिर्मलः । नित्यानदस्वरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.३८॥ नित्यपूर्णस्वरूपोऽस्मि सच्चिदानन्दमस्म्यहम् । केवलाद्वैतरूपोऽहमहं ब्रह्मास्मि केवलम् ॥ ४.३९॥ अनिर्देश्यस्वरूपोऽस्मि आदिहीनोऽस्म्यनन्तकः । अप्राकृतस्वरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४०॥ स्वस्वसंकल्पहीनोऽहं सर्वाविद्याविवर्जितः । सर्वमस्मि तदेवास्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४१॥ सर्वनामादिहीनोऽहं सर्वरूपविवर्जितः । सर्वसङ्गविहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४२॥ सर्ववाचां विधिश्चास्मि सर्ववेदावधिः परः । सर्वकालावधिश्चास्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४३॥ सर्वरूपावधिश्चाहं सर्वनामावधिः सुखम् । सर्वकल्पावधिश्चास्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४४॥ अहमेव सुखं नान्यदहमेव चिदव्ययः । अहमेवास्मि सर्वत्र अहं ब्रह्मास्मि केवलम् ॥ ४.४५॥ केवलं ब्रह्ममात्रात्मा केवलं शुद्धचिद्घनः । केवलाखण्डोसारोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४६॥ केवलं ज्ञानरूपोऽस्मि केवलाकाररूपवान् । केवलात्यन्तसारोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४७॥ सत्स्वरूपोऽस्मि कैवल्यस्वरूपोऽस्म्यहमेव हि । अर्थानर्थविहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४८॥ अप्रमेयस्वरूपोऽस्मि अप्रतर्क्यस्वरूपवान् । अप्रगृह्यस्वरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४९॥ अरसस्युतरूपोऽस्मि अनुतापविवर्जितः । अनुस्यूतप्रकाशोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.५०॥ सर्वकर्मविहीनोऽहं सर्वभेदविवर्जितः । सर्वसन्देहहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.५१॥ अहंभावविहीनोऽस्मि विहीनोऽस्मीति मे न च । सर्वदा ब्रह्मरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.५२॥ ब्रह्म ब्रह्मादिहीनोऽस्मि केशवत्वादि न क्वचित् । शङ्करादिविहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.५३॥ तूष्णीमेवावभासोऽस्मि अहं ब्रह्मास्मि केवलम् । किञ्चिन्नास्ति परो नास्ति किंचिदस्मि परोऽस्मि च ॥ ४.५४॥ न शरीरप्रकाशोऽस्मि जगद्भासकरो न च । चिद्घनोऽस्मि चिदंशोऽस्मि सत्स्वरूपोऽस्मि सर्वदा ॥ ४.५५॥ मुदा मुदितरूपोऽस्मि अहं ब्रह्मास्मि केवलम् । न बालोऽस्मि न वृद्धोऽस्मि न युवाऽस्मि परात् परः ॥ ४.५६॥ न च नानास्वरूपोऽस्मि अहं ब्रह्मास्मि केवलम् । इमं स्वानुभवं प्रोक्तं सर्वोपनिषदां परं रसम् ॥ ४.५७॥ यो वा को वा शृणोतीदं ब्रह्मैव भवति स्वयम् ॥ ४.५८॥ न स्थूलोऽप्यनणुर्न तेजमरुतामाकाशनीरक्षमा भूतान्तर्गतकोशकाशहृदयाद्याकाशमात्राक्रमैः । उद्ग्रन्थश्रुतिशास्त्रसूत्रकरणैः किञ्चिज्ज्ञ सर्वज्ञता बुद्ध्या मोहितमायया श्रुतिशतैर्भो जानते शङ्करम् ॥ ४.५९॥ ॥ इति श्री शिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादो नाम चतुर्थोऽध्यायः ॥
५ ॥ पञ्चमोऽध्यायः ॥ निदाघः - एवं स्थिते ऋभो को वै ब्रह्मभावाय कल्पते । तन्मे वद विशेषेण ज्ञानं शङ्करवाक्यजम् ॥ ५.१॥ ऋभुः - त्वमेव ब्रह्म एवासि त्वमेव परमो गुरुः । त्वमेवाकाशरूपोऽसि त्वं ब्रह्मासि न संशयः ॥ ५.२॥ त्वमेव सर्वभावोऽसि त्वमेवार्थस्त्वमव्ययः । त्वं सर्वहीनस्त्वं साक्षी साक्षिहीनोऽसि सर्वदा ॥ ५.३॥ कालस्त्वं सर्वहीनस्त्वं साक्षिहीनोऽसि सर्वदा । कालहीनोऽसि कालोऽसि सदा ब्रह्मासि चिद्घनः । सर्वतत्त्वस्वरूपोऽसि त्वं ब्रह्मासि न संशयः ॥ ५.४॥ सत्योऽसि सिद्धोऽसि सनातनोऽसि मुक्तोऽसि मोक्षोऽसि सदाऽमृतोऽसि । देवोऽसि शान्तोऽसि निरामयोऽसि ब्रह्मासि पूर्णोऽसि परावरोऽसि ॥ ५.५॥ समोऽसि सच्चासि सनातनोऽसि सत्यादिवाक्यैः प्रतिपादितोऽसि । सर्वाङ्गहीनोऽसि सदास्थितोऽसि ब्रह्मासि पूर्णोऽसि परावरोऽसि ॥ ५.६॥var was परापरोऽसि सर्वप्रपञ्चभ्रमवर्जितोऽसि सर्वेषु भूतेषु सदोदितोऽसि । सर्वत्र संकल्पविवर्जितोऽसि ब्रह्मासि पूर्णोऽसि परावरोऽसि ॥ ५.७॥ सर्वत्र सन्तोषसुखासनोऽसि सर्वत्र विद्वेषविवर्जितोऽसि । सर्वत्र कार्यादिविवर्जितोऽसि ब्रह्मासि पूर्णोऽसि परावरोऽसि ॥ ५.८॥ चिदाकारस्वरूपोऽसि चिन्मात्रोऽसि निरङ्कुशः । आत्मन्येवावस्थितोऽसि त्वं ब्रह्मासि न संशयः ॥ ५.९॥ आनन्दोऽसि परोऽसि त्वं सर्वशून्योऽसि निर्गुणः । एक एवाद्वितीयोऽसि त्वं ब्रह्मासि न संशयः ॥ ५.१०॥ चिद्घनानन्दरूपोऽसि चिदानन्दोऽसि सर्वदा । परिपूर्णस्वरूपोऽसि त्वं ब्रह्मासि न संशयः ॥ ५.११॥ तदसि त्वमसि ज्ञोऽसि सोऽसि जानासि वीक्ष्यसि । चिदसि ब्रह्मभूतोऽसि त्वं ब्रह्मासि न संशयः ॥ ५.१२॥ अमृतोऽसि विभुश्चासि देवोऽसि त्वं महानसि । चञ्चलोष्ठकलङ्कोऽसि त्वं ब्रह्मासि न संशयः ॥ ५.१३॥ सर्वोऽसि सर्वहीनोऽसि शान्तोऽसि परमो ह्यसि । कारणं त्वं प्रशान्तोऽसि त्वं ब्रह्मासि न संशयः ॥ ५.१४॥ सत्तामात्रस्वरूपोऽसि सत्तासामान्यको ह्यसि । नित्यशुद्धस्वरूपोऽसि त्वं ब्रह्मासि न संशयः ॥ ५.१५॥ ईषण्मात्रविहीनोऽसि अणुमात्रविवर्जितः । अस्तित्ववर्जितोऽसि त्वं नास्तित्वादिविवर्जितः ॥ ५.१६॥ योऽसि सोऽसि महान्तोऽसि त्वं ब्रह्मासि न संशयः ॥ ५.१७॥ लक्ष्यलक्षणहीनोऽसि चिन्मात्रोऽसि निरामयः । अखण्डैकरसो नित्यं त्वं ब्रह्मासि न संशयः ॥ ५.१८॥ सर्वाधारस्वरूपोऽसि सर्वतेजः स्वरूपकः । सर्वार्थभेदहीनोऽसि त्वं ब्रह्मासि न संशयः ॥ ५.१९॥ ब्रह्मैव भेदशून्योऽसि विप्लुत्यादिविवर्जितः । शिवोऽसि भेदहीनोऽसि त्वं ब्रह्मासि न संशयः ॥ ५.२०॥ प्रज्ञानवाक्यहीनोऽसि स्वस्वरूपं प्रपश्यसि । स्वस्वरूपस्थितोऽसि त्वं त्वं ब्रह्मासि न संशयः ॥ ५.२१॥ स्वस्वरूपावशेषोऽसि स्वस्वरूपो मतो ह्यसि । स्वानन्दसिन्धुमग्नोऽसि त्वं ब्रह्मासि न संशयः ॥ ५.२२॥ स्वात्मराज्ये त्वमेवासि स्वयमात्मानमो ह्यसि । स्वयं पूर्णस्वरूपोऽसि त्वं ब्रह्मासि न संशयः ॥ ५.२३॥ स्वस्मिन् सुखे स्वयं चासि स्वस्मात् किञ्चिन्न पश्यसि । स्वात्मन्याकाशवद्भासि त्वं ब्रह्मासि न संशयः ॥ ५.२४॥ स्वस्वरूपान्न चलसि स्वस्वरूपान्न पश्यसि । स्वस्वरूपामृतोऽसि त्वं त्वं ब्रह्मासि न संशयः ॥ ५.२५॥ स्वस्वरूपेण भासि त्वं स्वस्वरूपेण जृंभसि । स्वस्वरूपादनन्योऽसि त्वं ब्रह्मासि न संशयः ॥ ५.२६॥ स्वयं स्वयं सदाऽसि त्वं स्वयं सर्वत्र पश्यसि । स्वस्मिन् स्वयं स्वयं भुङ्क्षे त्वं ब्रह्मासि न संशयः ॥ ५.२७॥ सूतः - तदा निधाघवचसा तुष्टो ऋभुरुवाच तम् । शिवप्रेमरसे पात्रं तं वीक्ष्याब्जजनन्दनः ॥ ५.२८॥ ऋभुः - कैलासे शङ्करः पुत्रं कदाचिदुपदिष्टवान् । तदेव ते प्रवक्ष्यामि सावधानमनाः शृणु ॥ ५.२९॥ अयं प्रपञ्चो नास्त्येव नोत्पन्नो न स्वतः क्वचित् । चित्रप्रपञ्च इत्याहुर्नास्ति नास्त्येव सर्वदा ॥ ५.३०॥ न प्रपञ्चो न चित्तादि नाहंकारो न जीवकः । केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.३१॥ मायकार्यादिकं नास्ति मायाकार्यभयं नहि । केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.३२॥ कर्ता नास्ति क्रिया नास्ति करणं नास्ति पुत्रक । केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.३३॥ एकं नास्ति द्वयं नास्ति मन्त्रतन्त्रादिकं च न । केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.३४॥ श्रवणं मननं नास्ति निदिध्यासनविभ्रमः । केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.३५॥ समाधिद्विविधं नास्ति मातृमानादि नास्ति हि । केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.३६॥ अज्ञानं चापि नास्त्येव अविवेककथा न च । केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.३७॥ अनुबन्धचतुष्कं च संबन्धत्रयमेव न । केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.३८॥ भूतं भविष्यन्न क्वापि वर्तमानं न वै क्वचित् । केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.३९॥ गङ्गा गया तथा सेतुव्रतं वा नान्यदस्ति हि । केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.४०॥ न भूमिर्न जलं वह्निर्न वायुर्न च खं क्वचित् । केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.४१॥ नैव देवा न दिक्पाला न पिता न गुरुः क्वचित् । केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.४२॥ न दूरं नान्तिकं नान्तं न मध्यं न क्वचित् स्थितिः । नाद्वैतद्वैतसत्यत्वमसत्यं वा इदं न च ॥ ५.४३॥ न मोक्षोऽस्ति न बन्धोऽस्ति न वार्तावसरोऽस्ति हि । क्वचिद्वा किञ्चिदेवं वा सदसद्वा सुखानि च ॥ ५.४४॥ द्वन्द्वं वा तीर्थधर्मादि आत्मानात्मेति न क्वचित् । न वृद्धिर्नोदयो मृन्युर्न गमागमविभ्रमः ॥ ५.४५॥ इह नास्ति परं नास्ति न गुरुर्न च शिष्यकः । सदसन्नास्ति भूर्नास्ति कार्यं नास्ति कृतं च न ॥ ५.४६॥ जातिर्नास्ति गतिर्नास्ति वर्णो नास्ति न लौकिकम् । शमादिषट्कं नास्त्येव नियमो वा यमोऽपि वा ॥ ५.४७॥ सर्वं मिथ्येति नास्त्येव ब्रह्म इत्येव नास्ति हि । चिदित्येव हि नास्त्येव चिदहं भाषणं न हि ॥ ५.४८॥ अहमित्येव नास्त्येव नित्योऽस्मीति च न क्वचित् । केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वथा ॥ ५.४९॥ वाचा यदुच्यते किञ्चिन्मनसा मनुते च यत् । बुद्ध्या निश्चीयते यच्च चित्तेन ज्ञायते हि यत् ॥ ५.५०॥ योगेन युज्यते यच्च इन्द्रियाद्यैश्च यत् कृतम् । जाग्रत्स्वप्नसुषुप्तिं च स्वप्नं वा न तुरीयकम् ॥ ५.५१॥ सर्वं नास्तीति विज्ञेयं यदुपाधिविनिश्चितम् । स्नानाच्छुद्धिर्न हि क्वापि ध्यानात् शुद्धिर्न हि क्वचित् ॥ ५.५२॥ गुणत्रयं नास्ति किञ्चिद्गुणत्रयमथापि वा । एकद्वित्वपदं नास्ति न बहुभ्रमविभ्रमः ॥ ५.५३॥ भ्रान्त्यभ्रान्ति च नास्त्येव किञ्चिन्नास्तीति निश्चिनु । केवलं ब्रह्ममात्रत्वात् न किञ्चिदवशिष्यते ॥ ५.५४॥ इदं शृणोति यः सम्यक् स ब्रह्म भवति स्वयम् ॥ ५.५५॥ ईश्वरः - वाराश्यम्बुनि बुद्बुदा इव घनानन्दाम्बुधावप्युमा- कान्तेऽनन्तजगद्गतं सुरनरं जातं च तिर्यङ् मुहुः । भूतं चापि भविष्यति प्रतिभवं मायामयं चोर्मिजं सम्यङ् मामनुपश्यतामनुभवैर्नास्त्येव तेषां भवः ॥ ५.५६॥ हरं विज्ञातारं निखिलतनुकार्येषु करणं न जानन्ते मोहाद्यमितकरणा अप्यतितराम् । उमानाथाकारं हृदयदहरान्तर्गतसरा पयोजाते भास्वद्भवभुजगनाशाण्डजवरम् ॥ ५.५७॥ ॥इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे शिवेन कुमारोपदेशवर्णनं नाम पञ्चमोऽध्यायः ॥
६ ॥ षष्ठोऽध्यायः ॥ ईश्वरः - व्रतानि मिथ्या भुवनानि मिथ्या भावादि मिथ्या भवनानि मिथ्या । भयं च मिथ्या भरणादि मिथ्या भुक्तं च मिथ्या बहुबन्धमिथ्या ॥ ६.१॥ वेदाश्च मिथ्या वचनानि मिथ्या वाक्यानि मिथ्या विविधानि मिथ्या । वित्तानि मिथ्या वियदादि मिथ्या विधुश्च मिथ्या विषयादि मिथ्या ॥ ६.२॥ गुरुश्च मिथ्या गुणदोषमिथ्या गुह्यं च मिथ्या गणना च मिथ्या । गतिश्च मिथ्या गमनं च मिथ्या सर्वं च मिथ्या गदितं च मिथ्या ॥ ६.३॥ वेदशास्त्रपुराणं च कार्यं कारणमीश्वरः । लोको भूतं जनं चैव सर्वं मिथ्या न संशयः ॥ ६.४॥ बन्धो मोक्षः सुखं दुःखं ध्यानं चित्तं सुरासुराः । गौणं मुख्यं परं चान्यत् सर्वं मिथ्या न संशयः ॥ ६.५॥ वाचा वदति यत्किञ्चित् सर्वं मिथ्या न संशयः । सङ्कल्पात् कल्प्यते यद्यत् मनसा चिन्त्यते च यत् ॥ ६.६॥ बुद्ध्या निश्चीयते किञ्चित् चित्तेन नीयते क्वचित् । प्रपञ्चे पञ्चते यद्यत् सर्वं मिथ्येति निश्चयः ॥ ६.७॥ श्रोत्रेण श्रूयते यद्यन्नेत्रेण च निरीक्ष्यते । नेत्रं श्रोत्रं गात्रमेव सर्वं मिथ्या न संशयः ॥ ६.८॥ इदमित्येव निर्दिष्टमिदमित्येव कल्पितम् । यद्यद्वस्तु परिज्ञातं सर्वं मिथ्या न संशयः ॥ ६.९॥ कोऽहं किन्तदिदं सोऽहं अन्यो वाचयते नहि । यद्यत् संभाव्यते लोके सर्वं मिथ्येति निश्चयः ॥ ६.१०॥ सर्वाभ्यास्यं सर्वगोप्यं सर्वकारणविभ्रमः । सर्वभूतेति वार्ता च मिथ्येति च विनिश्चयः ॥ ६.११॥ सर्वभेदप्रभेदो वा सर्वसंकल्पविभ्रमः । सर्वदोषप्रभेदश्च सर्वं मिथ्या न संशयः ॥ ६.१२॥ रक्षको विष्णुरित्यादि ब्रह्मसृष्टेस्तु कारणम् । संहारे शिव इत्येवं सर्वं मिथ्या न संशयः ॥ ६.१३॥ स्नानं जपस्तपो होमः स्वाध्यायो देवपूजनम् । मन्त्रो गोत्रं च सत्सङ्गः सर्वं मिथ्या न संशयः ॥ ६.१४॥ सर्वं मिथ्या जगन्मिथ्या भूतं भव्यं भवत्तथा । नास्ति नास्ति विभावेन सर्वं मिथ्या न संशयः ॥ ६.१५॥ चित्तभेदो जगद्भेदः अविद्यायाश्च संभवः । अनेककोटिब्रह्माण्डाः सर्वं ब्रह्मेति निश्चिनु ॥ ६.१६॥ लोकत्रयेषु सद्भावो गुणदोषादिजृंभणम् । सर्वदेशिकवार्तोक्तिः सर्वं ब्रह्मेति निश्चिनु ॥ ६.१७॥ उत्कृष्टं च निकृष्टं च उत्तमं मध्यमं च तत् । ॐकारं चाप्यकारं च सर्वं ब्रह्मेति निश्चिनु ॥ ६.१८॥ यद्यज्जगति दृश्येत यद्यज्जगति वीक्ष्यते । यद्यज्जगति वर्तेत सर्वं ब्रह्मेति निश्चिनु ॥ ६.१९॥ येन केनाक्षरेणोक्तं येन केनापि सङ्गतम् । येन केनापि नीतं तत् सर्वं ब्रह्मेति निश्चिनु ॥ ६.२०॥ येन केनापि गदितं येन केनापि मोदितम् । येन केनापि च प्रोक्तं सर्वं ब्रह्मेति निश्चिनु ॥ ६.२१॥ येन केनापि यद्दत्तं येन केनापि यत् कृतम् । यत्र कुत्र जलस्नानं सर्वं ब्रह्मेति निश्चिनु ॥ ६.२२॥ यत्र यत्र शुभं कर्म यत्र यत्र च दुष्कृतम् । यद्यत् करोषि सत्येन सर्वं मिथ्येति निश्चिनु ॥ ६.२३॥ इदं सर्वमहं सर्वं सर्वं ब्रह्मेति निश्चिनु । यत् किञ्चित् प्रतिभातं च सर्वं मिथ्येति निश्चिनु ॥ ६.२४॥ ऋभुः - पुनर्वक्ष्ये रहस्यानां रहस्यं परमाद्भुतम् । शङ्करेण कुमाराय प्रोक्तं कैलास पर्वते ॥ ६.२५॥ तन्मात्रं सर्वचिन्मात्रमखण्डैकरसं सदा । एकवर्जितचिन्मात्रं सर्वं चिन्मयमेव हि ॥ ६.२६॥ इदं च सर्वं चिन्मात्रं सर्वं चिन्मयमेव हि । आत्माभासं च चिन्मात्रं सर्वं चिन्मयमेव हि ॥ ६.२७॥ सर्वलोकं च चिन्मात्रं सर्वं चिन्मयमेव हि । त्वत्ता मत्ता च चिन्मात्रं चिन्मात्रान्नास्ति किञ्चन ॥ ६.२८॥ आकाशो भूर्जलं वायुरग्निर्ब्रह्मा हरिः शिवः । यत्किञ्चिदन्यत् किञ्चिच्च सर्वं चिन्मयमेव हि ॥ ६.२९॥ अखण्डैकरसं सर्वं यद्यच्चिन्मात्रमेव हि । भूतं भव्यं च चिन्मात्रं सर्वं चिन्मयमेव हि ॥ ६.३०॥ द्रव्यं कालश्च चिन्मात्रं ज्ञानं चिन्मयमेव च । ज्ञेयं ज्ञानं च चिन्मात्रं सर्वं चिन्मयमेव हि ॥ ६.३१॥ संभाषणं च चिन्मात्रं वाक् च चिन्मात्रमेव हि । असच्च सच्च चिन्मात्रं सर्वं चिन्मयमेव हि ॥ ६.३२॥ आदिरन्तं च चिन्मात्रं अस्ति चेच्चिन्मयं सदा । ब्रह्मा यद्यपि चिन्मात्रं विष्णुश्चिन्मात्रमेव हि ॥ ६.३३॥ रुद्रोऽपि देवाश्चिन्मात्रं अस्ति नरतिर्यक्सुरासुरम् । गुरुशिष्यादि सन्मात्रं ज्ञानं चिन्मात्रमेव हि ॥ ६.३४॥ दृग्दृश्यं चापि चिन्मात्रं ज्ञाता ज्ञेयं ध्रुवाध्रुवम् । सर्वाश्चर्यं च चिन्मात्रं देहं चिन्मात्रमेव हि ॥ ६.३५॥ लिङ्गं चापि च चिन्मात्रं कारणं कार्यमेव च । मूर्तामूर्तं च चिन्मात्रं पापपुण्यमथापि च ॥ ६.३६॥ द्वैताद्वैतं च चिन्मात्रं वेदवेदान्तमेव च । दिशोऽपि विदिशश्चैव चिन्मात्रं तस्य पालकाः ॥ ६.३७॥ चिन्मात्रं व्यवहारादि भूतं भव्यं भवत्तथा । चिन्मात्रं नामरूपं च भूतानि भुवनानि च ॥ ६.३८॥ चिन्मात्रं प्राण एवेह चिन्मात्रं सर्वमिन्द्रियम् । चिन्मात्रं पञ्चकोशादि चिन्मात्रानन्दमुच्यते ॥ ६.३९॥ नित्यानित्यं च चिन्मात्रं सर्वं चिन्मात्रमेव हि । चिन्मात्रं नास्ति नित्यं च चिन्मात्रं नास्ति सत्यकम् ॥ ६.४०॥ चिन्मात्रमपि वैराग्यं चिन्मात्रकमिदं किल । आधारादि हि चिन्मात्रं आधेयं च मुनीश्वर ॥ ६.४१॥ यच्च यावच्च चिन्मात्रं यच्च यावच्च दृश्यते । यच्च यावच्च दूरस्थं सर्वं चिन्मात्रमेव हि ॥ ६.४२॥ यच्च यावच्च भूतानि यच्च यावच्च वक्ष्यते । यच्च यावच्च वेदोक्तं सर्वं चिन्मात्रमेव हि ॥ ६.४३॥ चिन्मात्रं नास्ति बन्धं च चिन्मात्रं नास्ति मोक्षकम् । चिन्मात्रमेव सन्मात्रं सत्यं सत्यं शिवं स्पृशे ॥ ६.४४॥ सर्वं वेदत्रयप्रोक्तं सर्वं चिन्मात्रमेव हि । शिवप्रोक्तं कुमाराय तदेतत् कथितं त्वयि । यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥ ६.४५॥ सूतः - ईशावास्यादिमन्त्रैर्वरगगनतनोः क्षेत्रवासार्थवादैः तल्लिङ्गागारमध्यस्थितसुमहदीशान लिङ्गेषु पूजा । अक्लेद्ये चाभिषेको ??? ??? ??? दिग्वाससे वासदानं नो गन्धघ्राणहीने रूपदृश्याद्विहीने गन्धपुष्पार्पणानि ॥ ६.४६॥ स्वभासे दीपदानं ??? सर्वभक्षे महेशे नैवेद्यं नित्यतृप्ते सकलभुवनगे प्रक्रमो वा नमस्या । कुर्यां केनापि भावैर्मम निगमशिरोभाव एव प्रमाणम् ॥ ६.४७॥ अविच्छिन्नैश्छिन्नैः परिकरवरैः पूजनधिया भजन्त्यज्ञास्तद्ज्ञाः विधिविहितबुद्ध्यागतधियः ।var was तदज्ञाः तथापीशं भावैर्भजति भजतामात्मपदवीं ददातीशो विश्वं भ्रमयति गतज्ञांश्च कुरुते ॥ ६.४८॥ ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे प्रपञ्चस्य सच्चिन्मयत्वकथनं नाम षष्ठोऽध्यायः ॥
७ ॥ सप्तमोऽध्यायः ॥ ऋभुः - अत्यद्भुतं प्रवक्ष्यामि सर्वलोकेषु दुर्लभम् । वेदशास्त्रमहासारं दुर्लभं दुर्लभं सदा ॥ ७.१॥ अखण्डैकरसो मन्त्रमखण्डैकरसं फलम् । अखण्डैकरसो जीव अखण्डैकरसा क्रिया ॥ ७.२॥ अखण्डैकरसा भूमिरखण्डैकरसं जलम् । अखण्डैकरसो गन्ध अखण्डैकरसं वियत् ॥ ७.३॥ अखण्डैकरसं शास्त्रं अखण्डैकरसं श्रुतिः । अखण्डैकरसं ब्रह्म अखण्डैकरसं व्रतम् ॥ ७.४॥ अखण्डैकरसो विष्णुरखण्डैकरसः शिवः । अखण्डैकरसो ब्रह्मा अखण्डैकरसाः सुराः ॥ ७.५॥ अखण्डैकरसं सर्वमखण्डैकरसः स्वयम् । अखण्डैकरसश्चात्मा अखण्डैकरसो गुरुः ॥ ७.६॥ अखण्डैकरसं वाच्यमखण्डैकरसं महः । अखण्डैकरसं देह अखण्डैकरसं मनः ॥ ७.७॥ अखण्डैकरसं चित्तं अखण्डैकरसं सुखम् । अखण्डैकरसा विद्या अखण्डैकरसोऽव्ययः ॥ ७.८॥ अखण्डैकरसं नित्यमखण्डैकरसः परः । अखण्डैकरसात् किञ्चिदखण्डैकरसादहम् ॥ ७.९॥ अखण्डैकरसं वास्ति अखण्डैकरसं न हि । अखण्डैकरसादन्यत् अखण्डैकरसात् परः ॥ ७.१०॥ अखण्डैकरसात् स्थूलं अखण्डैकरसं जनः । अखण्डैकरसं सूक्ष्ममखण्डैकरसं द्वयम् ॥ ७.११॥ अखण्डैकरसं नास्ति अखण्डैकरसं बलम् । अखण्डैकरसाद्विष्णुरखण्डैकरसादणुः ॥ ७.१२॥ अखण्डैकरसं नास्ति अखण्डैकरसाद्भवान् । अखण्डैकरसो ह्येव अखण्डैकरसादितम् ॥ ७.१३॥ अखण्डितरसाद् ज्ञानं अखण्डितरसाद् स्थितम् । अखण्डैकरसा लीला अखण्डैकरसः पिता ॥ ७.१४॥var was लीना अखण्डैकरसा भक्ता अखण्डैकरसः पतिः । अखण्डैकरसा माता अखण्डैकरसो विराट् ॥ ७.१५॥ अखण्डैकरसं गात्रं अखण्डैकरसं शिरः । अखण्डैकरसं घ्राणं अखण्डैकरसं बहिः ॥ ७.१६॥ अखण्डैकरसं पूर्णमखण्डैकरसामृतम् । अखण्डैकरसं श्रोत्रमखण्डैकरसं गृहम् ॥ ७.१७॥ अखण्डैकरसं गोप्यमखण्डैकरसः शिवः । अखण्डैकरसं नाम अखण्डैकरसो रविः ॥ ७.१८॥ अखण्डैकरसः सोमः अखण्डैकरसो गुरुः । अखण्डैकरसः साक्षी अखण्डैकरसः सुहृत् ॥ ७.१९॥ अखण्डैकरसो बन्धुरखण्डैकरसोऽस्म्यहम् । अखण्डैकरसो राजा अखण्डैकरसं पुरम् ॥ ७.२०॥ अखण्डैकरसैश्वर्यं अखण्डैकरसं प्रभुः । अखण्डैकरसो मन्त्र अखण्डैकरसो जपः ॥ ७.२१॥ अखण्डैकरसं ध्यानमखण्डैकरसं पदम् । अखण्डैकरसं ग्राह्यमखण्डैकरसं महान् ॥ ७.२२॥ अखण्डैकरसं ज्योतिरखण्डैकरसं परम् । अखण्डैकरसं भोज्यमखण्डैकरसं हविः ॥ ७.२३॥ अखण्डैकरसो होमः अखण्डैकरसो जयः । अखण्डैकरसः स्वर्गः अखण्डैकरसः स्वयम् ॥ ७.२४॥ अखण्डैकरसाकारादन्यन्नास्ति नहि क्वचित् । शृणु भूयो महाश्चर्यं नित्यानुभवसम्पदम् ॥ ७.२५॥ दुर्लभं दुर्लभं लोके सर्वलोकेषु दुर्लभम् । अहमस्मि परं चास्मि प्रभास्मि प्रभवोऽस्म्यहम् ॥ ७.२६॥ सर्वरूपगुरुश्चास्मि सर्वरूपोऽस्मि सोऽस्म्यहम् । अहमेवास्मि शुद्धोऽस्मि ऋद्धोऽस्मि परमोऽस्म्यहम् ॥ ७.२७॥ अहमस्मि सदा ज्ञोऽस्मि सत्योऽस्मि विमलोऽस्म्यहम् । विज्ञानोऽस्मि विशेषोऽस्मि साम्योऽस्मि सकलोऽस्म्यहम् ॥ ७.२८॥ शुद्धोऽस्मि शोकहीनोऽस्मि चैतन्योऽस्मि समोऽस्म्यहम् । मानावमानहीनोऽस्मि निर्गुणोऽस्मि शिवोऽस्म्यहम् ॥ ७.२९॥ द्वैताद्वैतविहीनोऽस्मि द्वन्द्वहीनोऽस्मि सोऽस्म्यहम् । भावाभावविहीनोऽस्मि भाषाहीनोऽस्मि सोऽस्म्यहम् ॥ ७.३०॥ शून्याशून्यप्रभावोऽस्मि शोभनोऽस्मि मनोऽस्म्यहम् । तुल्यातुल्यविहीनोऽस्मि तुच्छभावोऽस्मि नास्म्यहम् ॥ ७.३१॥ सदा सर्वविहीनोऽस्मि सात्विकोऽस्मि सदास्म्यहम् । एकसंख्याविहीनोऽस्मि द्विसंख्या नास्ति नास्म्यहम् ॥ ७.३२॥ सदसद्भेदहीनोऽस्मि संकल्परहितोऽस्म्यहम् । नानात्मभेदहीनोऽस्मि यत् किञ्चिन्नास्ति सोऽस्म्यहम् ॥ ७.३३॥ नाहमस्मि न चान्योऽस्मि देहादिरहितोऽस्म्यहम् । आश्रयाश्रयहीनोऽस्मि आधाररहितोऽस्म्यहम् ॥ ७.३४॥ बन्धमोक्षादिहीनोऽस्मि शुद्धब्रह्मादि सोऽस्म्यहम् । चित्तादिसर्वहीनोऽस्मि परमोऽस्मि परोऽस्म्यहम् ॥ ७.३५॥ सदा विचाररूपोऽस्मि निर्विचारोऽस्मि सोऽस्म्यहम् । आकारादिस्वरूपोऽस्मि उकारोऽस्मि मुदोऽस्म्यहम् ॥ ७.३६॥ ध्यानाध्यानविहीनोऽस्मि ध्येयहीनोऽस्मि सोऽस्म्यहम् । पूर्णात् पूर्णोऽस्मि पूर्णोऽस्मि सर्वपूर्णोऽस्मि सोऽस्म्यहम् ॥ ७.३७॥ सर्वातीतस्वरूपोऽस्मि परं ब्रह्मास्मि सोऽस्म्यहम् । लक्ष्यलक्षणहीनोऽस्मि लयहीनोऽस्मि सोऽस्म्यहम् ॥ ७.३८॥ मातृमानविहीनोऽस्मि मेयहीनोऽस्मि सोऽस्म्यहम् । अगत् सर्वं च द्रष्टास्मि नेत्रादिरहितोऽस्म्यहम् ॥ ७.३९॥ प्रवृद्धोऽस्मि प्रबुद्धोऽस्मि प्रसन्नोऽस्मि परोऽस्म्यहम् । सर्वेन्द्रियविहीनोऽस्मि सर्वकर्महितोऽस्म्यहम् ॥ ७.४०॥ सर्ववेदान्ततृप्तोऽस्मि सर्वदा सुलभोऽस्म्यहम् । मुदा मुदितशून्योऽस्मि सर्वमौनफलोऽस्म्यहम् ॥ ७.४१॥ नित्यचिन्मात्ररूपोऽस्मि सदसच्चिन्मयोऽस्म्यहम् । यत् किञ्चिदपि हीनोऽस्मि स्वल्पमप्यति नाहितम् ॥ ७.४२॥ हृदयग्रन्थिहीनोऽस्मि हृदयाद्व्यापकोऽस्म्यहम् । षड्विकारविहीनोऽस्मि षट्कोशरहितोऽस्म्यहम् ॥ ७.४३॥ अरिषड्वर्गमुक्तोऽस्मि अन्तरादन्तरोऽस्म्यहम् । देशकालविहीनोऽस्मि दिगम्बरमुखोऽस्म्यहम् ॥ ७.४४॥ नास्ति हास्ति विमुक्तोऽस्मि नकाररहितोऽस्म्यहम् । सर्वचिन्मात्ररूपोऽस्मि सच्चिदानन्दमस्म्यहम् ॥ ७.४५॥ अखण्डाकाररूपोऽस्मि अखण्डाकारमस्म्यहम् । प्रपञ्चचित्तरूपोऽस्मि प्रपञ्चरहितोऽस्म्यहम् ॥ ७.४६॥ सर्वप्रकाररूपोऽस्मि सद्भावावर्जितोऽस्म्यहम् । कालत्रयविहीनोऽस्मि कामादिरहितोऽस्म्यहम् ॥ ७.४७॥ कायकायिविमुक्तोऽस्मि निर्गुणप्रभवोऽस्म्यहम् । मुक्तिहीनोऽस्मि मुक्तोऽस्मि मोक्षहीनोऽस्म्यहं सदा ॥ ७.४८॥ सत्यासत्यविहीनोऽस्मि सदा सन्मात्रमस्म्यहम् । गन्तव्यदेशहीनोऽस्मि गमनारहितोऽस्म्यहम् ॥ ७.४९॥ सर्वदा स्मररूपोऽस्मि शान्तोऽस्मि सुहितोऽस्म्यहम् । एवं स्वानुभवं प्रोक्तं एतत् प्रकरणं महत् ॥ ७.५०॥ यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् । पिण्डाण्डसंभवजगद्गतखण्डनोद्य- द्वेतण्डशुण्डनिभपीवरबाहुदण्ड । ब्रह्मोरुमुण्डकलिताण्डजवाहबाण कोदण्डभूधरधरं भजतामखण्डम् ॥ ७.५१॥ विश्वात्मन्यद्वितीये भगवति गिरिजानायके काशरूपे नीरूपे विश्वरूपे गतदुरितधियः प्राप्नुवन्त्यात्मभावम् । अन्ये भेदधियः श्रुतिप्रकथितैर्वर्णाश्रमोत्थश्रमैः तान्ताः शान्तिविवर्जिता विषयिणो दुःखं भजन्त्यन्वहम् ॥ ७.५२॥ ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे स्वात्मनिरूपणं नाम सप्तमोऽध्यायः ॥
८ ॥ अष्टमोऽध्यायः ॥ ऋभुः - वक्ष्ये प्रपञ्चशून्यत्वं शशशृङ्गेण संमितम् । दुर्लभं सर्वलोकेषु सावधानमनाः शृणु ॥ ८.१॥ इदं प्रपञ्चं यत् किञ्चिद्यः शृणोति च पश्यति । दृश्यरूपं च दृग्रूपं सर्वं शशविषाणवत् ॥ ८.२॥ भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहंकारश्च तेजश्च सर्वं शशविषाणवत् ॥ ८.३॥ नाश जन्म च सत्यं च लोकं भुवनमण्डलम् । पुण्यं पापं जयो मोहः सर्वं शशविषाणवत् ॥ ८.४॥ कामक्रोधौ लोभमोहौ मदमोहौ रतिर्धृतिः । गुरुशिष्योपदेशादि सर्वं शशविषाणवत् ॥ ८.५॥ अहं त्वं जगदित्यादि आदिरन्तिममध्यमम् । भूतं भव्यं वर्तमानं सर्वं शशविषाणवत् ॥ ८.६॥ स्थूलदेहं सूक्ष्मदेहं कारणं कार्यमप्ययम् । दृश्यं च दर्शनं किञ्चित् सर्वं शशविषाणवत् ॥ ८.७॥ भोक्ता भोज्यं भोगरूपं लक्ष्यलक्षणमद्वयम् । शमो विचारः सन्तोषः सर्वं शशविषाणवत् ॥ ८.८॥ यमं च नियमं चैव प्राणायामादिभाषणम् । गमनं चलनं चित्तं सर्वं शशविषाणवत् ॥ ८.९॥ श्रोत्रं नेत्रं गात्रगोत्रं गुह्यं जाड्यं हरिः शिवः । आदिरन्तो मुमुक्षा च सर्वं शशविषाणवत् ॥ ८.१०॥ ज्ञानेन्द्रियं च तन्मात्रं कर्मेन्द्रियगणं च यत् । जाग्रत्स्वप्नसुषुप्त्यादि सर्वं शशविषाणवत् ॥ ८.११॥ चतुर्विंशतितत्त्वं च साधनानां चतुष्टयम् । सजातीयं विजातीयं सर्वं शशविषाणवत् ॥ ८.१२॥ सर्वलोकं सर्वभूतं सर्वधर्मं सतत्वकम् । सर्वाविद्या सर्वविद्या सर्वं शशविषाणवत् ॥ ८.१३॥ सर्ववर्णः सर्वजातिः सर्वक्षेत्रं च तीर्थकम् । सर्ववेदं सर्वशास्त्रं सर्वं शशविषाणवत् ॥ ८.१४॥ सर्वबन्धं सर्वमोक्षं सर्वविज्ञानमीश्वरः । सर्वकालं सर्वबोध सर्वं शशविषाणवत् ॥ ८.१५॥ सर्वास्तित्वं सर्वकर्म सर्वसङ्गयुतिर्महान् । सर्वद्वैतमसद्भावं सर्वं शशविषाणवत् ॥ ८.१६॥ सर्ववेदान्तसिद्धान्तः सर्वशास्त्रार्थनिर्णयः । सर्वजीवत्वसद्भावं सर्वं शशविषाणवत् ॥ ८.१७॥ यद्यत् संवेद्यते किञ्चित् यद्यज्जगति दृश्यते । यद्यच्छृणोति गुरुणा सर्वं शशविषाणवत् ॥ ८.१८॥ यद्यद्ध्यायति चित्ते च यद्यत् संकल्प्यते क्वचित् । बुद्ध्या निश्चीयते यच्च सर्वं शशविषाणवत् ॥ ८.१९॥ यद्यद् वाचा व्याकरोति यद्वाचा चार्थभाषणम् । यद्यत् सर्वेन्द्रियैर्भाव्यं सर्वं शशविषाणवत् ॥ ८.२०॥ यद्यत् सन्त्यज्यते वस्तु यच्छृणोति च पश्यति । स्वकीयमन्यदीयं च सर्वं शशविषाणवत् ॥ ८.२१॥ सत्यत्वेन च यद्भाति वस्तुत्वेन रसेन च । यद्यत् सङ्कल्प्यते चित्ते सर्वं शशविषाणवत् ॥ ८.२२॥ यद्यदात्मेति निर्णीतं यद्यन्नित्यमितं वचः । यद्यद्विचार्यते चित्ते सर्वं शशविषाणवत् ॥ ८.२३॥ शिवः संहरते नित्यं विष्णुः पाति जगत्त्रयम् । स्रष्टा सृजति लोकान् वै सर्वं शशविषाणवत् ॥ ८.२४॥ जीव इत्यपि यद्यस्ति भाषयत्यपि भाषणम् । संसार इति या वार्ता सर्वं शशविषाणवत् ॥ ८.२५॥ यद्यदस्ति पुराणेषु यद्यद्वेदेषु निर्णयः । सर्वोपनिषदां भावं सर्वं शशविषाणवत् ॥ ८.२६॥ शशशृङ्गवदेवेदमुक्तं प्रकरणं तव । यः शृणोति रहस्यं वै ब्रह्मैव भवति स्वयम् ॥ ८.२७॥ भूयः शृणु निदाघ त्वं सर्वं ब्रह्मेति निश्चयम् । सुदुर्लभमिदं नॄणां देवानामपि सत्तम ॥ ८.२८॥ इदमित्यपि यद्रूपमहमित्यपि यत्पुनः । दृश्यते यत्तदेवेदं सर्वं ब्रह्मेति केवलम् ॥ ८.२९॥ देहोऽयमिति सङ्कल्पस्तदेव भयमुच्यते । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३०॥ देहोऽहमिति सङ्कल्पस्तदन्तःकरणं स्मृतम् । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३१॥ देहोऽहमिति सङ्कल्पः स हि संसार उच्यते । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३२॥ देहोऽहमिति सङ्कल्पस्तद्बन्धनमिहोच्यते । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३३॥ देहोऽहमिति यद् ज्ञानं तदेव नरकं स्मृतम् । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३४॥ देहोऽहमिति सङ्कल्पो जगत् सर्वमितीर्यते । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३५॥ देहोऽहमिति सङ्कल्पो हृदयग्रन्थिरीरितः । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३६॥ देहत्रयेऽपि भावं यत् तद्देहज्ञानमुच्यते । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३७॥ देहोऽहमिति यद्भावं सदसद्भावमेव च । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३८॥ देहोऽहमिति सङ्कल्पस्तत्प्रपञ्चमिहोच्यते । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३९॥ देहोऽहमिति सङ्कल्पस्तदेवाज्ञानमुच्यते । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४०॥ देहोऽहमिति या बुद्धिर्मलिना वासनोच्यते । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४१॥ देहोऽहमिति या बुद्धिः सत्यं जीवः स एव सः । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४२॥ देहोऽहमिति सङ्कल्पो महानरकमीरितम् । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४३॥ देहोऽहमिति या बुद्धिर्मन एवेति निश्चितम् । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४४॥ देहोऽहमिति या बुद्धिः परिच्छिन्नमितीर्यते । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४५॥ देहोऽहमिति यद् ज्ञानं सर्वं शोक इतीरितम् । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४६॥ देहोऽहमिति यद् ज्ञानं संस्पर्शमिति कथ्यते । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४७॥ देहोऽहमिति या बुद्धिस्तदेव मरणं स्मृतम् । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४८॥ देहोऽहमिति या बुद्धिस्तदेवाशोभनं स्मृतम् । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४९॥ देहोऽहमिति या बुद्धिर्महापापमिति स्मृतम् । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.५०॥ देहोऽहमिति या बुद्धिः तुष्टा सैव हि चोच्यते । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.५१॥ देहोऽहमिति सङ्कल्पः सर्वदोषमिति स्मृतम् । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.५२॥ देहोऽहमिति सङ्कल्पस्तदेव मलमुच्यते । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.५३॥ देहोऽहमिति सङ्कल्पो महत्संशयमुच्यते । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.५४॥ यत्किञ्चित्स्मरणं दुःखं यत्किञ्चित् स्मरणं जगत् । यत्किञ्चित्स्मरणं कामो यत्किञ्चित्स्मरणं मलम् ॥ ८.५५॥ यत्किञ्चित्स्मरणं पापं यत्किञ्चित्स्मरणं मनः । यत्किञ्चिदपि सङ्कल्पं महारोगेति कथ्यते ॥ ८.५६॥ यत्किञ्चिदपि सङ्कल्पं महामोहेति कथ्यते । यत्किञ्चिदपि सङ्कल्पं तापत्रयमुदाहृतम् ॥ ८.५७॥ यत्किञ्चिदपि सङ्कल्पं कामक्रोधं च कथ्यते । यत्किञ्चिदपि सङ्कल्पं संबन्धो नेतरत् क्वचित् ॥ ८.५८॥ यत्किञ्चिदपि सङ्कल्पं सर्वदुःखेति नेतरत् । यत्किञ्चिदपि सङ्कल्पं जगत्सत्यत्वविभ्रमम् ॥ ८.५९॥ यत्किञ्चिदपि सङ्कल्पं महादोषं च नेतरत् । यत्किञ्चिदपि सङ्कल्पं कालत्रयमुदीरितम् ॥ ८.६०॥ यत्किञ्चिदपि सङ्कल्पं नानारूपमुदीरितम् । यत्र यत्र च सङ्कल्पं तत्र तत्र महज्जगत् ॥ ८.६१॥ यत्र यत्र च सङ्कल्पं तदेवासत्यमेव हि । यत्किञ्चिदपि सङ्कल्पं तज्जगन्नास्ति संशयः ॥ ८.६२॥ यत्किञ्चिदपि सङ्कल्पं तत्सर्वं नेति निश्चयः । मन एव जगत्सर्वं मन एव महारिपुः ॥ ८.६३॥ मन एव हि संसारो मन एव जगत्त्रयम् । मन एव महादुःखं मन एव जरादिकम् ॥ ८.६४॥ मन एव हि कालं च मन एव मलं सदा । मन एव हि सङ्कल्पो मन एव हि जीवकः ॥ ८.६५॥ मन एवाशुचिर्नित्यं मन एवेन्द्रजालकम् । मन एव सदा मिथ्या मनो वन्ध्याकुमारवत् ॥ ८.६६॥ मन एव सदा नास्ति मन एव जडं सदा । मन एव हि चित्तं च मनोऽहंकारमेव च ॥ ८.६७॥ मन एव महद्बन्धं मनोऽन्तःकरणं क्वचित् । मन एव हि भूमिश्च मन एव हि तोयकम् ॥ ८.६८॥ मन एव हि तेजश्च मन एव मरुन्महान् । मन एव हि चाकाशो मन एव हि शब्दकः ॥ ८.६९॥ मन एव स्पर्शरूपं मन एव हि रूपकम् । मन एव रसाकारं मनो गन्धः प्रकीर्तितः ॥ ८.७०॥ अन्नकोशं मनोरूपं प्राणकोशं मनोमयम् । मनोकोशं मनोरूपं विज्ञानं च मनोमयः ॥ ८.७१॥ मन एवानन्दकोशं मनो जाग्रदवस्थितम् । मन एव हि स्वप्नं च मन एव सुषुप्तिकम् ॥ ८.७२॥ मन एव हि देवादि मन एव यमादयः । मन एव हि यत्किञ्चिन्मन एव मनोमयः ॥ ८.७३॥ मनोमयमिदं विश्वं मनोमयमिदं पुरम् । मनोमयमिदं भूतं मनोमयमिदं द्वयम् ॥ ८.७४॥ मनोमयमियं जातिर्मनोमयमयं गुणः । मनोमयमिदं दृश्यं मनोमयमिदं जडम् ॥ ८.७५॥ मनोमयमिदं यद्यन्मनो जीव इति स्थितम् । सङ्कल्पमात्रमज्ञानं भेदः सङ्कल्प एव हि ॥ ८.७६॥ सङ्कल्पमात्रं विज्ञानं द्वन्द्वं सङ्कल्प एव हि । सङ्कल्पमात्रकालं च देशं सङ्कल्पमेव हि ॥ ८.७७॥ सङ्कल्पमात्रो देहश्च प्राणः सङ्कल्पमात्रकः । सङ्कल्पमात्रं मननं सङ्कल्पं श्रवणं सदा ॥ ८.७८॥ सङ्कल्पमात्रं नरकं सङ्कल्पं स्वर्ग इत्यपि । सङ्कल्पमेव चिन्मात्रं सङ्कल्पं चात्मचिन्तनम् ॥ ८.७९॥ सङ्कल्पं वा मनाक्तत्त्वं ब्रह्मसङ्कल्पमेव हि । सङ्कल्प एव यत्किञ्चित् तन्नास्त्येव कदाचन ॥ ८.८०॥ नास्ति नास्त्येव सङ्कल्पं नास्ति नास्ति जगत्त्रयम् । नास्ति नास्ति गुरुर्नास्ति नास्ति शिष्योऽपि वस्तुतः ॥ ८.८१॥ नास्ति नास्ति शरीरं च नास्ति नास्ति मनः क्वचित् । नास्ति नास्त्येव किञ्चिद्वा नास्ति नास्त्यखिलं जगत् ॥ ८.८२॥ नास्ति नास्त्येव भूतं वा सर्वं नास्ति न संशयः । ᳚सर्वं नास्ति᳚ प्रकरणं मयोक्तं च निदाघ ते । यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥ ८.८३॥ वेदान्तैरपि चन्द्रशेखरपदाम्भोजानुरागादरा- दारोदारकुमारदारनिकरैः प्राणैर्वनैरुज्झितः । त्यागाद्यो मनसा सकृत् शिवपदध्यानेन यत्प्राप्यते तन्नैवाप्यति शब्दतर्कनिवहैः शान्तं मनस्तद्भवेत् ॥ ८.८४॥ अशेषदृश्योज्झितदृङ्मयानां सङ्कल्पवर्जेन सदास्थितानाम् । न जाग्रतः स्वप्नसुषुप्तिभावो न जीवनं नो मरणं च चित्रम् ॥ ८.८५॥ ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे प्रपञ्चशून्यत्व-सर्वनास्तित्वनिरूपणं नाम अष्टमोऽध्यायः ॥
९ ॥ नवमोऽध्यायः ॥ निदाघः- कुत्र वा भवता स्नानं क्रियते नितरां गुरो । स्नानमन्त्रं स्नानकालं तर्पणं च वदस्व मे ॥ ९.१॥ ऋभुः - आत्मस्नानं महास्नानं नित्यस्नानं न चान्यतः । इदमेव महास्नानं अहं ब्रह्मास्मि निश्चयः ॥ ९.२॥ परब्रह्मस्वरूपोऽहं परमानन्दमस्म्यहम् । इदमेव महास्नानं अहं ब्रह्मेति निश्चयः ॥ ९.३॥ केवलं ज्ञानरूपोऽहं केवलं परमोऽस्म्यहम् । केवलं शान्तरूपोऽहं केवलं निर्मलोऽस्म्यहम् ॥ ९.४॥ केवलं नित्यरूपोऽहं केवलं शाश्वतोऽस्म्यहम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.५॥ केवलं सर्वरूपोऽहं अहंत्यक्तोऽहमस्म्यहम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.६॥ सर्वहीनस्वरूपोऽहं चिदाकाशोऽहमस्म्यहम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.७॥ केवलं तुर्यरूपोऽस्मि तुर्यातीतोऽस्मि केवलम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.८॥ सदा चैतन्यरूपोऽस्मि सच्चिदानन्दमस्म्यहम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.९॥ केवलाकाररूपोऽस्मि शुद्धरूपोऽस्म्यहं सदा । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१०॥ केवलं ज्ञानशुद्धोऽस्मि केवलोऽस्मि प्रियोऽस्म्यहम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.११॥ केवलं निर्विकल्पोऽस्मि स्वस्वरूपोऽहमस्मि ह । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१२॥ सदा सत्सङ्गरूपोऽस्मि सर्वदा परमोऽस्म्यहम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१३॥ सदा ह्येकस्वरूपोऽस्मि सदाऽनन्योऽस्म्यहं सुखम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१४॥ अपरिच्छिन्नरूपोऽहम् अनन्तानन्दमस्म्यहम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१५॥ सत्यानन्दस्वरूपोऽहं चित्परानन्दमस्म्यहम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१६॥ अनन्तानन्दरूपोऽहमवाङ्मानसगोचरः । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१७॥ ब्रह्मानदस्वरूपोऽहं सत्यानन्दोऽस्म्यहं सदा । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१८॥ आत्ममात्रस्वरूपोऽस्मि आत्मानन्दमयोऽस्म्यहम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१९॥ आत्मप्रकाशरूपोऽस्मि आत्मज्योतिरसोऽस्म्यहम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२०॥ आदिमध्यान्तहीनोऽस्मि आकाशसदृशोऽस्म्यहम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२१॥ नित्यसत्तास्वरूपोऽस्मि नित्यमुक्तोऽस्म्यहं सदा । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२२॥ नित्यसम्पूर्णरूपोऽस्मि नित्यं निर्मनसोऽस्म्यहम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२३॥ नित्यसत्तास्वरूपोऽस्मि नित्यमुक्तोऽस्म्यहं सदा । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२४॥ नित्यशब्दस्वरूपोऽस्मि सर्वातीतोऽस्म्यहं सदा । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२५॥ रूपातीतस्वरूपोऽस्मि व्योमरूपोऽस्म्यहं सदा । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२६॥ भूतानन्दस्वरूपोऽस्मि भाषानन्दोऽस्म्यहं सदा । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२७॥ सर्वाधिष्ठानरूपोऽस्मि सर्वदा चिद्घनोऽस्म्यहम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२८॥ देहभावविहीनोऽहं चित्तहीनोऽहमेव हि । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२९॥ देहवृत्तिविहीनोऽहं मन्त्रैवाहमहं सदा । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३०॥ सर्वदृश्यविहीनोऽस्मि दृश्यरूपोऽहमेव हि । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३१॥ सर्वदा पूर्णरूपोऽस्मि नित्यतृप्तोऽस्म्यहं सदा । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३२॥ इदं ब्रह्मैव सर्वस्य अहं चैतन्यमेव हि । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३३॥ अहमेवाहमेवास्मि नान्यत् किञ्चिच्च विद्यते । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३४॥ अहमेव महानात्मा अहमेव परायणम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३५॥ अहमेव महाशून्यमित्येवं मन्त्रमुत्तमम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३६॥ अहमेवान्यवद्भामि अहमेव शरीरवत् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३७॥ अहं च शिष्यवद्भामि अहं लोकत्रयादिवत् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३८॥ अहं कालत्रयातीतः अहं वेदैरुपासितः । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३९॥ अहं शास्त्रेषु निर्णीत अहं चित्ते व्यवस्थितः । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.४०॥ मत्त्यक्तं नास्ति किञ्चिद्वा मत्त्यक्तं पृथिवी च या । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.४१॥ मयातिरिक्तं तोयं वा इत्येवं मन्त्रमुत्तमम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.४२॥ अहं ब्रह्मास्मि शुद्धोऽस्मि नित्यशुद्धोऽस्म्यहं सदा । निर्गुणोऽस्मि निरीहोऽस्मि इत्येवं मन्त्रमुत्तमम् ॥ ९.४३॥ हरिब्रह्मादिरूपोऽस्मि एतद्भेदोऽपि नास्म्यहम् । केवलं ब्रह्ममात्रोऽस्मि केवलोऽस्म्यजयोऽस्म्यहम् ॥ ९.४४॥ स्वयमेव स्वयंभास्यं स्वयमेव हि नान्यतः । स्वयमेवात्मनि स्वस्थः इत्येवं मन्त्रमुत्तमम् ॥ ९.४५॥ स्वयमेव स्वयं भुङ्क्ष्व स्वयमेव स्वयं रमे । स्वयमेव स्वयंज्योतिः स्वयमेव स्वयं रमे ॥ ९.४६॥ स्वस्यात्मनि स्वयं रंस्ये स्वात्मन्येवावलोकये । स्वात्मन्येव सुखेनासि इत्येवं मन्त्रमुत्तमम् ॥ ९.४७॥ स्वचैतन्ये स्वयं स्थास्ये स्वात्मराज्ये सुखं रमे । स्वात्मसिंहासने तिष्ठे इत्येवं मन्त्रमुत्तमम् ॥ ९.४८॥ स्वात्ममन्त्रं सदा पश्यन् स्वात्मज्ञानं सदाऽभ्यसन् । अहं ब्रह्मास्म्यहं मन्त्रः स्वात्मपापं विनाशयेत् ॥ ९.४९॥ अहं ब्रह्मास्म्यहं मन्त्रो द्वैतदोषं विनाशयेत् । अहं ब्रह्मास्म्यहं मन्त्रो भेददुःखं विनाशयेत् ॥ ९.५०॥ अहं ब्रह्मास्म्यहं मन्त्रश्चिन्तारोगं विनाशयेत् । अहं ब्रह्मास्म्यहं मन्त्रो बुद्धिव्याधिं विनाशयेत् ॥ ९.५१॥ अहं ब्रह्मास्म्यहं मन्त्र आधिव्याधिं विनाशयेत् । अहं ब्रह्मास्म्यहं मन्त्रः सर्वलोकं विनाशयेत् ॥ ९.५२॥ अहं ब्रह्मास्म्यहं मन्त्रः कामदोषं विनाशयेत् । अहं ब्रह्मास्म्यहं मन्त्रः क्रोधदोषं विनाशयेत् ॥ ९.५३॥ अहं ब्रह्मास्म्यहं मन्त्रश्चिन्तादोषं विनाशयेत् । अहं ब्रह्मास्म्यहं मन्त्रः सङ्कल्पं च विनाशयेत् ॥ ९.५४॥ अहं ब्रह्मास्म्यहं मन्त्रः इदं दुःखं विनाशयेत् । अहं ब्रह्मास्म्यहं मन्त्रः अविवेकमलं दहेत् ॥ ९.५५॥ अहं ब्रह्मास्म्यहं मन्त्रः अज्ञानध्वंसमाचरेत् । अहं ब्रह्मास्म्यहं मन्त्रः कोटिदोषं विनाशयेत् ॥ ९.५६॥ अहं ब्रह्मास्म्यहं मन्त्रः सर्वतन्त्रं विनाशयेत् । अहं ब्रह्मास्म्यहं मन्त्रो देहदोषं विनाशयेत् ॥ ९.५७॥ अहं ब्रह्मास्म्यहं मन्त्रः दृष्टादृष्टं विनाशयेत् । अहं ब्रह्मास्म्यहं मन्त्र आत्मज्ञानप्रकाशकम् ॥ ९.५८॥ अहं ब्रह्मास्म्यहं मन्त्र आत्मलोकजयप्रदम् । अहं ब्रह्मास्म्यहं मन्त्र असत्यादि विनाशकम् ॥ ९.५९॥ अहं ब्रह्मास्म्यहं मन्त्रः अन्यत् सर्वं विनाशयेत् । अहं ब्रह्मास्म्यहं मन्त्र अप्रतर्क्यसुखप्रदम् ॥ ९.६०॥ अहं ब्रह्मास्म्यहं मन्त्रः अनात्मज्ञानमाहरेत् । अहं ब्रह्मास्म्यहं मन्त्रो ज्ञानानन्दं प्रयच्छति ॥ ९.६१॥ सप्तकोटि महामन्त्रा जन्मकोटिशतप्रदाः । सर्वमन्त्रान् समुत्सृज्य जपमेनं समभ्यसेत् ॥ ९.६२॥ सद्यो मोक्षमवाप्नोति नात्र सन्देहमस्ति मे । मन्त्रप्रकरणे प्रोक्तं रहस्यं वेदकोटिषु ॥ ९.६३॥ यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् । नित्यानन्दमयः स एव परमानन्दोदयः शाश्वतो यस्मान्नान्यदतोऽन्यदार्तमखिलं तज्जं जगत् सर्वदः । यो वाचा मनसा तथेन्द्रियगणैर्देहोऽपि वेद्यो न चे- दच्छेद्यो भववैद्य ईश इति या सा धीः परं मुक्तये ॥ ९.६४॥ ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे अहंब्रह्मास्मिप्रकरणनिरूपणं नाम नवमोऽध्यायः ॥
१० ॥ दशमोऽध्यायः ॥ ऋभुः - नित्यतर्पणमाचक्ष्ये निदाघ शृणु मे वचः । वेदशास्त्रेषु सर्वेषु अत्यन्तं दुर्लभं नृणाम् ॥ १०.१॥ सदा प्रपञ्चं नास्त्येव इदमित्यपि नास्ति हि । ब्रह्ममात्रं सदापूर्णं इत्येवं ब्रह्मतर्पणम् ॥ १०.२॥ सरूपमात्रं ब्रह्मैव सच्चिदानन्दमप्यहम् । आनन्दघन एवाहं इत्येवं ब्रह्मतर्पणम् ॥ १०.३॥ सर्वदा सर्वशून्योऽहं सदात्मानन्दवानहम् । नित्यानित्यस्वरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.४॥ अहमेव चिदाकाश आत्माकाशोऽस्मि नित्यदा । आत्मनाऽऽत्मनि तृप्तोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.५॥ एकत्वसंख्याहीनोऽस्मि अरूपोऽस्म्यहमद्वयः । नित्यशुद्धस्वरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.६॥ आकाशादपि सूक्ष्मोऽहं अत्यन्ताभावकोऽस्म्यहम् । सर्वप्रकाशरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.७॥ परब्रह्मस्वरूपोऽहं परावरसुखोऽस्म्यहम् । सत्रामात्रस्वरूपोऽहं दृग्दृश्यादिविवर्जितः ॥ १०.८॥ यत् किञ्चिदप्यहं नास्ति तूष्णीं तूष्णीमिहास्म्यहम् । शुद्धमोक्षस्वरूपोऽहम् इत्येवं ब्रह्मतर्पणम् ॥ १०.९॥ सर्वानन्दस्वरूपोऽहं ज्ञानानन्दमहं सदा । विज्ञानमात्ररूपोऽहम् इत्येवं ब्रह्मतर्पणम् ॥ १०.१०॥ ब्रह्ममात्रमिदं सर्वं नास्ति नान्यत्र ते शपे । तदेवाहं न सन्देहः इत्येवं ब्रह्मतर्पणम् ॥ १०.११॥ त्वमित्येतत् तदित्येतन्नास्ति नास्तीह किञ्चन । शुद्धचैतन्यमात्रोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.१२॥ अत्यन्ताभावरूपोऽहमहमेव परात्परः । अहमेव सुखं नान्यत् इत्येवं ब्रह्मतर्पणम् ॥ १०.१३॥ इदं हेममयं किञ्चिन्नास्ति नास्त्येव ते शपे । निर्गुणानन्दरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.१४॥ साक्षिवस्तुविहीनत्वात् साक्षित्वं नास्ति मे सदा । केवलं ब्रह्मभावत्वात् इत्येवं ब्रह्मतर्पणम् ॥ १०.१५॥ अहमेवाविशेषोऽहमहमेव हि नामकम् । अहमेव विमोहं वै इत्येवं ब्रह्मतर्पणम् ॥ १०.१६॥ इन्द्रियाभावरूपोऽहं सर्वाभावस्वरूपकम् । बन्धमुक्तिविहीनोऽस्मि इत्येवं ब्रह्मतर्पणम् ॥ १०.१७॥ सर्वानन्दस्वरूपोऽहं सर्वानन्दघनोऽस्म्यहम् । नित्यचैतन्यमात्रोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.१८॥ वाचामगोचरश्चाहं वाङ्मनो नास्ति किञ्चन । चिदानन्दमयश्चाहं इत्येवं ब्रह्मतर्पणम् ॥ १०.१९॥ सर्वत्र पूर्णरूपोऽहं सर्वत्र सुखमस्म्यहम् । सर्वत्राचिन्त्यरूपोऽहम् इत्येवं ब्रह्मतर्पणम् ॥ १०.२०॥ सर्वत्र तृप्तिरूपोऽहं सर्वानन्दमयोऽस्म्यहम् । सर्वशून्यस्वरूपोऽहम् इत्येवं ब्रह्मतर्पणम् ॥ १०.२१॥ सर्वदा मत्स्वरूपोऽहं परमानन्दवानहम् । एक एवाहमेवाहं इत्येवं ब्रह्मतर्पणम् ॥ १०.२२॥ मुक्तोऽहं मोक्षरूपोऽहं सर्वमौनपरोऽस्म्यहम् । सर्वनिर्वाणरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.२३॥ सर्वदा सत्स्वरूपोऽहं सर्वदा तुर्यवानहम् । तुर्यातीतस्वरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.२४॥ सत्यविज्ञानमात्रोऽहं सन्मात्रानन्दवानहम् । निर्विकल्पस्वरूपोऽहम् इत्येवं ब्रह्मतर्पणम् ॥ १०.२५॥ सर्वदा ह्यजरूपोऽहं निरीहोऽहं निरञ्जनः । ब्रह्मविज्ञानरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.२६॥ ब्रह्मतर्पणमेवोक्तं एतत्प्रकरणं मया । यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥ १०.२७॥ नित्यहोमं प्रवक्ष्यामि सर्ववेदेषु दुर्लभम् । सर्वशास्त्रार्थमद्वैतं सावधानमनाः शृणु ॥ १०.२८॥ अहं ब्रह्मास्मि शुद्धोऽस्मि नित्योऽस्मि प्रभुरस्म्यहम् । ॐकारार्थस्वरूपोऽस्मि एवं होमं सुदुर्लभम् ॥ १०.२९॥ परमात्मस्वरूपोऽस्मि परानन्दपरोऽस्म्यहम् । चिदानन्दस्वरूपोऽस्मि एवं होमं सुदुर्लभम् ॥ १०.३०॥ नित्यानन्दस्वरूपोऽस्मि निष्कलङ्कमयो ह्यहम् । चिदाकारस्वरूपोऽहं एवं होमं सुदुर्लभम् ॥ १०.३१॥ न हि किञ्चित् स्वरूपोऽस्मि नाहमस्मि न सोऽस्म्यहम् । निर्व्यापारस्वरूपोऽस्मि एवं होमं सुदुर्लभम् ॥ १०.३२॥ निरंशोऽस्मि निराभासो न मनो नेन्द्रियोऽस्म्यहम् । न बुद्धिर्न विकल्पोऽहं एवं होमं सुदुर्लभम् ॥ १०.३३॥ न देहादिस्वारूपोऽस्मि त्रयादिपरिवर्जितः । न जाग्रत्स्वप्नरूपोऽस्मि एवं होमं सुदुर्लभम् ॥ १०.३४॥ श्रवणं मननं नास्ति निदिध्यासनमेव हि । स्वगतं च न मे किञ्चिद् एवं होमं सुदुर्लभम् ॥ १०.३५॥ असत्यं हि मनःसत्ता असत्यं बुद्धिरूपकम् । अहङ्कारमसद्विद्धि कालत्रयमसत् सदा ॥ १०.३६॥ गुणत्रयमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.३७॥ श्रुतं सर्वमसद्विद्धि वेदं सर्वमसत् सदा । सर्वतत्त्वमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.३८॥ नानारूपमसद्विद्धि नानावर्णमसत् सदा । नानाजातिमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.३९॥ शास्त्रज्ञानमसद्विद्धि वेदज्ञानं तपोऽप्यसत् । सर्वतीर्थमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४०॥ गुरुशिष्यमसद्विद्धि गुरोर्मन्त्रमसत् ततः । यद् दृश्यं तदसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४१॥ सर्वान् भोगानसद्विद्धि यच्चिन्त्यं तदसत् सदा । यद् दृश्यं तदसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४२॥ सर्वेन्द्रियमसद्विद्धि सर्वमन्त्रमसत् त्विति । सर्वप्राणानसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४३॥ जीवं देहमसद्विद्धि परे ब्रह्मणि नैव हि । मयि सर्वमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४४॥ दृष्टं श्रुतमसद्विद्धि ओतं प्रोतमसन्मयि । कार्याकार्यमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४५॥ दृष्टप्राप्तिमसद्विद्धि सन्तोषमसदेव हि । सर्वकर्माण्यसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४६॥ सर्वासर्वमसद्विद्धि पूर्णापूर्णमसत् परे । सुखं दुःखमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४७॥ यथाधर्ममसद्विद्धि पुण्यापुण्यमसत् सदा । लाभालाभमसद्विद्धि सदा देहमसत् सदा ॥ १०.४८॥ सदा जयमसद्विद्धि सदा गर्वमसत् सदा । मनोमयमसद्विद्धि संशयं निश्चयं तथा ॥ १०.४९॥ शब्दं सर्वमसद्विद्धि स्पर्शं सर्वमसत् सदा । रूपं सर्वमसद्विद्धि रसं सर्वमसत् सदा ॥ १०.५०॥ गन्धं सर्वमसद्विद्धि ज्ञानं सर्वमसत् सदा । भूतं भव्यमसद्विद्धि असत् प्रकृतिरुच्यते ॥ १०.५१॥ असदेव सदा सर्वमसदेव भवोद्भवम् । असदेव गुणं सर्वं एवं होमं सुदुर्लभम् ॥ १०.५२॥ शशशृङ्गवदेव त्वं शशशृङ्गवदस्म्यहम् । शशशृङ्गवदेवेदं शशशृङ्गवदन्तरम् ॥ १०.५३॥ इत्येवमात्महोमाख्यमुक्तं प्रकरणं मया । यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥ १०.५४॥ स्कन्दः - यस्मिन् संच विचैति विश्वमखिलं द्योतन्ति सूर्येन्दवो विद्युद्वह्निमरुद्गणाः सवरुणा भीता भजन्तीश्वरम् । भूतं चापि भवत्यदृश्यमखिलं शम्भोः सुखांशं जगत् जातं चापि जनिष्यति प्रतिभवं देवासुरैर्निर्यपि । तन्नेहास्ति न किञ्चिदत्र भगवद्ध्यानान्न किञ्चित् प्रियम् ॥ १०.५५॥ यः प्राणापानभेदैर्मननधिया धारणापञ्चकाद्यैः मध्ये विश्वजनस्य सन्नपि शिवो नो दृश्यते सूक्ष्मया । बुद्धयादध्यातयापि श्रुतिवचनशतैर्देशिकोक्त्यैकसूक्त्या योगैर्भक्तिसमन्वितैः शिवतरो दृश्यो न चान्यत् तथा ॥ १०.५६॥ ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे ब्रह्मतर्पणात्महोमाख्य प्रकरणद्वयवर्णनं नाम दशमोऽध्यायः ॥
११ ॥ एकादशोऽध्यायः ॥ ऋभुः - ब्रह्मज्ञानं प्रवक्ष्यामि जीवन्मुक्तस्य लक्षणम् । आत्ममात्रेण यस्तिष्ठेत् स जीवन्मुक्त उच्यते ॥ ११.१॥ अहं ब्रह्मवदेवेदमहमात्मा न संशयः । चैतन्यात्मेति यस्तिष्ठेत् स जीवन्मुक्त उच्यते ॥ ११.२॥ चिदात्माहं परात्माहं निर्गुणोऽहं परात्परः । इत्येवं निश्चयो यस्य स जीवन्मुक्त उच्यते ॥ ११.३॥ देहत्रयातिरिक्तोऽहं ब्रह्म चैतन्यमस्म्यहम् । ब्रह्माहमिति यस्यान्तः स जीवन्मुक्त उच्यते ॥ ११.४॥ आनन्दघनरूपोऽस्मि परानन्दपरोऽस्म्यहम् । यश्चिदेवं परानन्दं स जीवन्मुक्त उच्यते ॥ ११.५॥ यस्य देहादिकं नास्ति यस्य ब्रह्मेति निश्चयः । परमानन्दपूर्णो यः स जीवन्मुक्त उच्यते ॥ ११.६॥ यस्य किञ्चिदहं नास्ति चिन्मात्रेणावतिष्ठते । परानन्दो मुदानन्दः स जीवन्मुक्त उच्यते ॥ ११.७॥ चैतन्यमात्रं यस्यान्तश्चिन्मात्रैकस्वरूपवान् । न स्मरत्यन्यकलनं स जीवन्मुक्त उच्यते ॥ ११.८॥var was कललं सर्वत्र परिपूर्णात्मा सर्वत्र कलनात्मकः । सर्वत्र नित्यपूर्णात्मा स जीवन्मुक्त उच्यते ॥ ११.९॥ परमात्मपरा नित्यं परमात्मेति निश्चितः । आनन्दाकृतिरव्यक्तः स जीवन्मुक्त उच्यते ॥ ११.१०॥ शुद्धकैवल्यजीवात्मा सर्वसङ्गविवर्जितः । नित्यानन्दप्रसन्नात्मा स जीवन्मुक्त उच्यते ॥ ११.११॥ एकरूपः प्रशान्तात्मा अन्यचिन्ताविवर्जितः । किञ्चिदस्तित्वहीनो यः स जीवन्मुक्त उच्यते ॥ ११.१२॥ न मे चित्तं न मे बुद्धिर्नाहङ्कारो न चेन्द्रियः । केवलं ब्रह्ममात्रत्वात् स जीवन्मुक्त उच्यते ॥ ११.१३॥ न मे दोषो न मे देहो ने मे प्राणो न मे क्वचित् । दृढनिश्चयवान् योऽन्तः स जीवन्मुक्त उच्यते ॥ ११.१४॥ न मे माया न मे कामो न मे क्रोधोऽपरोऽस्म्यहम् । न मे किञ्चिदिदं वाऽपि स जीवन्मुक्त उच्यते ॥ ११.१५॥ न मे दोषो न मे लिङ्गं न मे बन्धः क्वचिज्जगत् । यस्तु नित्यं सदानन्दः स जीवन्मुक्त उच्यते ॥ ११.१६॥ न मे श्रोत्रं न मे नासा न मे चक्षुर्न मे मनः । न मे जिह्वेति यस्यान्तः स जीवन्मुक्त उच्यते ॥ ११.१७॥ न मे देहो न मे लिङ्गं न मे कारणमेव च । न मे तुर्यमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ ११.१८॥ इदं सर्वं न मे किञ्चिदयं सर्वं न मे क्वचित् । ब्रह्ममात्रेण यस्तिष्ठेत् स जीवन्मुक्त उच्यते ॥ ११.१९॥ न मे किञ्चिन्न मे कश्चिन्न मे कश्चित् क्वचिज्जगत् । अहमेवेति यस्तिष्ठेत् स जीवन्मुक्त उच्यते ॥ ११.२०॥ न मे कालो न मे देशो न मे वस्तु न मे स्थितिः । न मे स्नानं न मे प्रासः स जीवन्मुक्त उच्यते ॥ ११.२१॥ न मे तीर्थं न मे सेवा न मे देवो न मे स्थलम् । न क्वचिद्भेदहीनोऽयं स जीवन्मुक्त उच्यते ॥ ११.२२॥ न मे बन्धं न मे जन्म न मे ज्ञानं न मे पदम् । न मे वाक्यमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ ११.२३॥ न मे पुण्यं न मे पापं न मे कायं न मे शुभम् । न मे दृश्यमिति ज्ञानी स जीवन्मुक्त उच्यते ॥ ११.२४॥ न मे शब्दो न मे स्पर्शो न मे रूपं न मे रसः । न मे जीव इति ज्ञात्वा स जीवन्मुक्त उच्यते ॥ ११.२५॥ न मे सर्वं न मे किञ्चित् न मे जीवं न मे क्वचित् । न मे भावं न मे वस्तु स जीवन्मुक्त उच्यते ॥ ११.२६॥ न मे मोक्ष्ये न मे द्वैतं न मे वेदो न मे विधिः । न मे दूरमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ ११.२७॥ न मे गुरुर्न मे शिष्यो न मे बोधो न मे परः । न मे श्रेष्ठं क्वचिद्वस्तु स जीवन्मुक्त उच्यते ॥ ११.२८॥ न मे ब्रह्मा न मे विष्णुर्न मे रुद्रो न मे रविः । न मे कर्म क्वचिद्वस्तु स जीवन्मुक्त उच्यते ॥ ११.२९॥ न मे पृथ्वी न मे तोयं न मे तेजो न मे वियत् । न मे कार्यमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ ११.३०॥ न मे वार्ता न मे वाक्यं न मे गोत्रं न मे कुलम् । न मे विद्येति यः स्वस्थः स जीवन्मुक्त उच्यते ॥ ११.३१॥ न मे नादो न मे शब्दो न मे लक्ष्यं न मे भवः । न मे ध्यानमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ ११.३२॥ न मे शीतं न मे चोष्णं न मे मोहो न मे जपः । न मे सन्ध्येति यः स्वस्थः स जीवन्मुक्त उच्यते ॥ ११.३३॥ न मे जपो न मे मन्त्रो न मे होमो न मे निशा । न मे सर्वमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ ११.३४॥ न मे भयं न मे चान्नं न मे तृष्णा न मे क्षुधा । न मे चात्मेति यः स्वस्थः स जीवन्मुक्त उच्यते ॥ ११.३५॥ न मे पूर्वं न मे पश्चात् न मे चोर्ध्वं न मे दिशः । न चित्तमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ ११.३६॥ न मे वक्तव्यमल्पं वा न मे श्रोतव्यमण्वपि । न मे मन्तव्यमीषद्वा स जीवन्मुक्त उच्यते ॥ ११.३७॥ न मे भोक्तव्यमीषद्वा न मे ध्यातव्यमण्वपि । न मे स्मर्तव्यमेवायं स जीवन्मुक्त उच्यते ॥ ११.३८॥ न मे भोगो न मे रोगो न मे योगो न मे लयः । न मे सर्वमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ ११.३९॥ न मेऽस्तित्वं न मे जातं न मे वृद्धं न मे क्षयः । अध्यारोपो न मे स्वस्थः स जीवन्मुक्त उच्यते ॥ ११.४०॥ अध्यारोप्यं न मे किञ्चिदपवादो न मे क्वचित् । न मे किञ्चिदहं यत्तु स जीवन्मुक्त उच्यते ॥ ११.४१॥ न मे शुद्धिर्न मे शुभ्रो न मे चैकं न मे बहु । न मे भूतं न मे कार्यं स जीवन्मुक्त उच्यते ॥ ११.४२॥ न मे कोऽहं न मे चेदं न मे नान्यं न मे स्वयम् । न मे कश्चिन्न मे स्वस्थः स जीवन्मुक्त उच्यते ॥ ११.४३॥ न मे मांसं न मे रक्तं न मे मेदो न मे शकृत् । न मे कृपा न मेऽस्तीति स जीवन्मुक्त उच्यते ॥ ११.४४॥ न मे सर्वं न मे शुक्लं न मे नीलं न मे पृथक् । न मे स्वस्थः स्वयं यो वा स जीवन्मुक्त उच्यते ॥ ११.४५॥ न मे तापं न मे लोभो न मे गौण न मे यशः । ने मे तत्त्वमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ ११.४६॥ न मे भ्रान्तिर्न मे ज्ञानं न मे गुह्यं न मे कुलम् । न मे किञ्चिदिति ध्यायन् स जीवन्मुक्त उच्यते ॥ ११.४७॥ न मे त्याज्यं न मे ग्राह्यं न मे हास्यं न मे लयः । न मे दैवमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ ११.४८॥ न मे व्रतं न मे ग्लानिः न मे शोच्यं न मे सुखम् । न मे न्यूनं क्वचिद्वस्तु स जीवन्मुक्त उच्यते ॥ ११.४९॥ न मे ज्ञाता न मे ज्ञानं न मे ज्ञेयं न मे स्वयम् । न मे सर्वमिति ज्ञानी स जीवन्मुक्त उच्यते ॥ ११.५०॥ न मे तुभ्यं न मे मह्यं न मे त्वत्तो न मे त्वहम् । न मे गुरुर्न मे यस्तु स जीवन्मुक्त उच्यते ॥ ११.५१॥ न मे जडं न मे चैत्यं न मे ग्लानं न मे शुभम् । न मे न मेति यस्तिष्ठेत् स जीवन्मुक्त उच्यते ॥ ११.५२॥ न मे गोत्रं न मे सूत्रं न मे पात्रं न मे कृपा । न मे किञ्चिदिति ध्यायी स जीवन्मुक्त उच्यते ॥ ११.५३॥ न मे चात्मा न मे नात्मा न मे स्वर्गं न मे फलम् । न मे दूष्यं क्वचिद्वस्तु स जीवन्मुक्त उच्यते ॥ ११.५४॥ न मेऽभ्यासो न मे विद्या न मे शान्तिर्न मे दमः । न मे पुरमिति ज्ञानी स जीवन्मुक्त उच्यते ॥ ११.५५॥ न मे शल्यं न मे शङ्का न मे सुप्तिर्न मे मनः । न मे विकल्प इत्याप्तः स जीवन्मुक्त उच्यते ॥ ११.५६॥ न मे जरा न मे बाल्यं न मे यौवनमण्वपि । न मे मृतिर्न मे ध्वान्तं स जीवन्मुक्त उच्यते ॥ ११.५७॥ न मे लोकं न मे भोगं न मे सर्वमिति स्मृतः । न मे मौनमिति प्राप्तं स जीवन्मुक्त उच्यते ॥ ११.५८॥ अहं ब्रह्म ह्यहं ब्रह्म ह्यहं ब्रह्मेति निश्चयः । चिदहं चिदहं चेति स जीवन्मुक्त उच्यते ॥ ११.५९॥ ब्रह्मैवाहं चिदेवाहं परैवाहं न संशयः । स्वयमेव स्वयं ज्योतिः स जीवन्मुक्त उच्यते ॥ ११.६०॥ स्वयमेव स्वयं पश्येत् स्वयमेव स्वयं स्थितः । स्वात्मन्येव स्वयं भूतः स जीवन्मुक्त उच्यते ॥ ११.६१॥ स्वात्मानन्दं स्वयं भुंक्ष्वे स्वात्मराज्ये स्वयं वसे । स्वात्मराज्ये स्वयं पश्ये स जीवन्मुक्त उच्यते ॥ ११.६२॥ स्वयमेवाहमेकाग्रः स्वयमेव स्वयं प्रभुः । स्वस्वरूपः स्वयं पश्ये स जीवन्मुक्त उच्यते ॥ ११.६३॥ जीवन्मुक्तिप्रकरणं सर्ववेदेषु दुर्लभम् । यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥ ११.६४॥ ये वेदवादविधिकल्पितभेदबुद्ध्या पुण्याभिसन्धितधिया परिकर्शयन्तः । देहं स्वकीयमतिदुःखपरं पराभि- स्तेषां सुखाय न तु जातु तवेश पादात् ॥ ११.६५॥ कः सन्तरेत भवसागरमेतदुत्य- त्तरङ्गसदृशं जनिमृत्युरूपम् । ईशार्चनाविधिसुबोधितभेदहीन- ज्ञानोडुपेन प्रतरेद्भवभावयुक्तः ॥ ११.६६॥ ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे जीवन्मुक्तप्रकरणं नाम एकादशोऽध्यायः ॥
१२ ॥ द्वादशोऽध्यायः ॥ ऋभुः - देहमुक्तिप्रकरणं निदाघ शृणु दुर्लभम् । त्यक्तात्यक्तं न स्मरति विदेहान्मुक्त एव सः ॥ १२.१॥ ब्रह्मरूपः प्रशान्तात्मा नान्यरूपः सदा सुखी । स्वस्थरूपो महामौनी विदेहान्मुक्त एव सः ॥ १२.२॥ सर्वात्मा सर्वभूतात्मा शान्तात्मा मुक्तिवर्जितः । एकात्मवर्जितः साक्षी विदेहान्मुक्त एव सः ॥ १२.३॥ लक्ष्यात्मा लालितात्माहं लीलात्मा स्वात्ममात्रकः । तूष्णीमात्मा स्वभावात्मा विदेहान्मुक्त एव सः ॥ १२.४॥ शुभ्रात्मा स्वयमात्माहं सर्वात्मा स्वात्ममात्रकः । अजात्मा चामृतात्मा हि विदेहान्मुक्त एव सः ॥ १२.५॥ आनन्दात्मा प्रियः स्वात्मा मोक्षात्मा कोऽपि निर्णयः । इत्येवमिति निध्यायी विदेहान्मुक्त एव सः ॥ १२.६॥ ब्रह्मैवाहं चिदेवाहं एकं वापि न चिन्त्यते । चिन्मात्रेणैव यस्तिष्ठेद्विदेहान्मुक्त एव सः ॥ १२.७॥ निश्चयं च परित्यज्य अहं ब्रह्मेति निश्चयः । आनन्दभूरिदेहस्तु विदेहान्मुक्त एव सः ॥ १२.८॥ सर्वमस्तीति नास्तीति निश्चयं त्यज्य तिष्ठति । अहं ब्रह्मास्मि नान्योऽस्मि विदेहान्मुक्त एव सः ॥ १२.९॥ किञ्चित् क्वचित् कदाचिच्च आत्मानं न स्मरत्यसौ । स्वस्वभावेन यस्तिष्ठेत् विदेहान्मुक्त एव सः ॥ १२.१०॥ अहमात्मा परो ह्यात्मा चिदात्माहं न चिन्त्यते । स्थास्यामीत्यपि यो युक्तो विदेहान्मुक्त एव सः ॥ १२.११॥ तूष्णीमेव स्थितस्तूष्णीं सर्वं तूष्णीं न किञ्चन । अहमर्थपरित्यक्तो विदेहान्मुक्त एव सः ॥ १२.१२॥ परमात्मा गुणातीतः सर्वात्मापि न संमतः । सर्वभावान्महात्मा यो विदेहान्मुक्त एव सः ॥ १२.१३॥ कालभेदं देशभेदं वस्तुभेदं स्वभेदकम् । किञ्चिद्भेदं न यस्यास्ति विदेहान्मुक्त एव सः ॥ १२.१४॥ अहं त्वं तदिदं सोऽयं किञ्चिद्वापि न विद्यते । अत्यन्तसुखमात्रोऽहं विदेहान्मुक्त एव सः ॥ १२.१५॥ निर्गुणात्मा निरात्मा हि नित्यात्मा नित्यनिर्णयः । शून्यात्मा सूक्ष्मरूपो यो विदेहान्मुक्त एव सः ॥ १२.१६॥ विश्वात्मा विश्वहीनात्मा कालात्मा कालहेतुकः । देवात्मा देवहीनो यो विदेहान्मुक्त एव सः ॥ १२.१७॥ मात्रात्मा मेयहीनात्मा मूढात्माऽनात्मवर्जितः । केवलात्मा परात्मा च विदेहान्मुक्त एव सः ॥ १२.१८॥ सर्वत्र जडहीनात्मा सर्वेषामन्तरात्मकः । सर्वेषामिति यस्तूक्तो विदेहान्मुक्त एव सः ॥ १२.१९॥ सर्वसङ्कल्पहीनेति सच्चिदानन्दमात्रकः । स्थास्यामीति न यस्यान्तो विदेहान्मुक्त एव सः ॥ १२.२०॥ सर्वं नास्ति तदस्तीति चिन्मात्रोऽस्तीति सर्वदा । प्रबुद्धो नास्ति यस्यान्तो विदेहान्मुक्त एव सः ॥ १२.२१॥ केवलं परमात्मा यः केवलं ज्ञानविग्रहः । सत्तामात्रस्वरूपो यो विदेहान्मुक्त एव सः ॥ १२.२२॥ जीवेश्वरेति चैत्येति वेदशास्त्रे त्वहं त्विति । ब्रह्मैवेति न यस्यान्तो विदेहान्मुक्त एव सः ॥ १२.२३॥ ब्रह्मैव सर्वमेवाहं नान्यत् किञ्चिज्जगद्भवेत् । इत्येवं निश्चयो भावः विदेहान्मुक्त एव सः ॥ १२.२४॥ इदं चैतन्यमेवेति अहं चैतन्यमेव हि । इति निश्चयशून्यो यो विदेहान्मुक्त एव सः ॥ १२.२५॥ चैतन्यमात्रः संसिद्धः स्वात्मारामः सुखासनः । सुखमात्रान्तरङ्गो यो विदेहान्मुक्त एव सः ॥ १२.२६॥ अपरिच्छिन्नरूपात्मा अणोरणुविनिर्मलः । तुर्यातीतः परानन्दो विदेहान्मुक्त एव सः ॥ १२.२७॥ नामापि नास्ति सर्वात्मा न रूपो न च नास्तिकः । परब्रह्मस्वरूपात्मा विदेहान्मुक्त एव सः ॥ १२.२८॥ तुर्यातीतः स्वतोऽतीतः अतोऽतीतः स सन्मयः । अशुभाशुभशान्तात्मा विदेहान्मुक्त एव सः ॥ १२.२९॥ बन्धमुक्तिप्रशान्तात्मा सर्वात्मा चान्तरात्मकः । प्रपञ्चात्मा परो ह्यात्मा विदेहान्मुक्त एव सः ॥ १२.३०॥ सर्वत्र परिपूर्णात्मा सर्वदा च परात्परः । अन्तरात्मा ह्यनन्तात्मा विदेहान्मुक्त एव सः ॥ १२.३१॥ अबोधबोधहीनात्मा अजडो जडवर्जितः । अतत्त्वातत्त्वसर्वात्मा विदेहान्मुक्त एव सः ॥ १२.३२॥ असमाधिसमाध्यन्तः अलक्ष्यालक्ष्यवर्जितः । अभूतो भूत एवात्मा विदेहान्मुक्त एव सः ॥ १२.३३॥ चिन्मयात्मा चिदाकाशश्चिदानन्दश्चिदंबरः । चिन्मात्ररूप एवात्मा विदेहान्मुक्त एव सः ॥ १२.३४॥ सच्चिदानन्दरूपात्मा सच्चिदानन्दविग्रहः । सच्चिदानन्दपूर्णात्मा विदेहान्मुक्त एव सः ॥ १२.३५॥ सदा ब्रह्ममयो नित्यं सदा स्वात्मनि निष्ठितः । सदाऽखण्डैकरूपात्मा विदेहान्मुक्त एव सः ॥ १२.३६॥ प्रज्ञानघन एवात्मा प्रज्ञानघनविग्रहः । नित्यज्ञानपरानन्दो विदेहान्मुक्त एव सः ॥ १२.३७॥ यस्य देहः क्वचिन्नास्ति यस्य किञ्चित् स्मृतिश्च न । सदात्मा ह्यात्मनि स्वस्थो विदेहान्मुक्त एव सः ॥ १२.३८॥ यस्य निर्वासनं चित्तं यस्य ब्रह्मात्मना स्थितिः । योगात्मा योगयुक्तात्मा विदेहान्मुक्त एव सः ॥ १२.३९॥ चैतन्यमात्र एवेति त्यक्तं सर्वमतिर्न हि । गुणागुणविकारान्तो विदेहान्मुक्त एव सः ॥ १२.४०॥ कालदेशादि नास्त्यन्तो न ग्राह्यो नास्मृतिः परः । निश्चयं च परित्यक्तो विदेहान्मुक्त एव सः ॥ १२.४१॥ भूमानन्दापरानन्दो भोगानन्दविवर्जितः । साक्षी च साक्षिहीनश्च विदेहान्मुक्त एव सः ॥ १२.४२॥ सोऽपि कोऽपि न सो कोऽपि किञ्चित् किञ्चिन्न किञ्चन । आत्मानात्मा चिदात्मा च चिदचिच्चाहमेव च ॥ १२.४३॥ यस्य प्रपञ्चश्चानात्मा ब्रह्माकारमपीह न । स्वस्वरूपः स्वयंज्योतिर्विदेहान्मुक्त एव सः ॥ १२.४४॥ वाचामगोचरानन्दः सर्वेन्द्रियविवर्जितः । अतीतातीतभावो यो विदेहान्मुक्त एव सः ॥ १२.४५॥ चित्तवृत्तेरतीतो यश्चित्तवृत्तिर्न भासकः । सर्ववृत्तिविहीनो यो विदेहान्मुक्त एव सः ॥ १२.४६॥ तस्मिन् काले विदेहो यो देहस्मरणवर्जितः । न स्थूलो न कृशो वापि विदेहान्मुक्त एव सः ॥ १२.४७॥ ईषण्मात्रस्थितो यो वै सदा सर्वविवर्जितः । ब्रह्ममात्रेण यस्तिष्ठेत् विदेहान्मुक्त एव सः ॥ १२.४८॥ परं ब्रह्म परानन्दः परमात्मा परात्परः । परैरदृष्टबाह्यान्तो विदेहान्मुक्त एव सः ॥ १२.४९॥ शुद्धवेदान्तसारोऽयं शुद्धसत्त्वात्मनि स्थितः । तद्भेदमपि यस्त्यक्तो विदेहान्मुक्त एव सः ॥ १२.५०॥ ब्रह्मामृतरसास्वादो ब्रह्मामृतरसायनम् । ब्रह्मामृतरसे मग्नो विदेहान्मुक्त एव सः ॥ १२.५१॥ ब्रह्मामृतरसाधारो ब्रह्मामृतरसः स्वयम् । ब्रह्मामृतरसे तृप्तो विदेहान्मुक्त एव सः ॥ १२.५२॥ ब्रह्मानन्दपरानन्दो ब्रह्मानन्दरसप्रभः । ब्रह्मानन्दपरंज्योतिर्विदेहान्मुक्त एव सः ॥ १२.५३॥ ब्रह्मानन्दरसानन्दो ब्रह्मामृतनिरन्तरम् । ब्रह्मानन्दः सदानन्दो विदेहान्मुक्त एव सः ॥ १२.५४॥ ब्रह्मानन्दानुभावो यो ब्रह्मामृतशिवार्चनम् । ब्रह्मानन्दरसप्रीतो विदेहान्मुक्त एव सः ॥ १२.५५॥ ब्रह्मानन्दरसोद्वाहो ब्रह्मामृतकुटुम्बकः । ब्रह्मानन्दजनैर्युक्तो विदेहान्मुक्त एव सः ॥ १२.५६॥ ब्रह्मामृतवरे वासो ब्रह्मानन्दालये स्थितः । ब्रह्मामृतजपो यस्य विदेहान्मुक्त एव सः ॥ १२.५७॥ ब्रह्मानन्दशरीरान्तो ब्रह्मानन्देन्द्रियः क्वचित् । ब्रह्मामृतमयी विद्या विदेहान्मुक्त एव सः ॥ १२.५८॥ ब्रह्मानदमदोन्मत्तो ब्रह्मामृतरसंभरः । ब्रह्मात्मनि सदा स्वस्थो विदेहान्मुक्त एव सः ॥ १२.५९॥ देहमुक्तिप्रकरणं सर्ववेदेषु दुर्लभम् । मयोक्तं ते महायोगिन् विदेहः श्रवणाद्भवेत् ॥ १२.६०॥ स्कन्दः - अनाथ नाथ ते पदं भजाम्युमासनाथ स- न्निशीथनाथमौलिसंस्फुटल्ललाटसङ्गज- स्फुलिङ्गदग्धमन्मथं प्रमाथनाथ पाहि माम् ॥ १२.६१॥ विभूतिभूषगात्र ते त्रिनेत्रमित्रतामियात् मनःसरोरुहं क्षणं तथेक्षणेन मे सदा । प्रबन्धसंसृतिभ्रमद्भ्रमज्जनौघसन्ततौ न वेद वेदमौलिरप्यपास्तदुःखसन्ततिम् ॥ १२.६२॥ ॥इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे देहमुक्तिप्रकरणवर्णनं नाम द्वादशोऽध्यायः ॥
१३ ॥ त्रयोदशोऽध्यायः ॥ ऋभुः - शृणुष्व दुर्लभं लोके सारात् सारतरं परम् । आत्मरूपमिदं सर्वमात्मनोऽन्यन्न किञ्चन ॥ १३.१॥ सर्वमात्मास्ति परमा परमात्मा परात्मकः । नित्यानन्दस्वरूपात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.२॥ पूर्णरूपो महानात्मा पूतात्मा शाश्वतात्मकः । निर्विकारस्वरूपात्मा निर्मलात्मा निरात्मकः ॥ १३.३॥ शान्ताशान्तस्वरूपात्मा ह्यात्मनोऽन्यन्न किञ्चन । जीवात्मा परमात्मा हि चित्ताचित्तात्मचिन्मयः । एकात्मा एकरूपात्मा नैकात्मात्मविवर्जितः ॥ १३.४॥ मुक्तामुक्तस्वरूपात्मा मुक्तामुक्तविवर्जितः । मोक्षरूपस्वरूपात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.५॥ द्वैताद्वैतस्वरूपात्मा द्वैताद्वैतविवर्जितः । सर्ववर्जितसर्वात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.६॥ मुदामुदस्वरूपात्मा मोक्षात्मा देवतात्मकः । सङ्कल्पहीनसारात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.७॥ निष्कलात्मा निर्मलात्मा बुद्ध्यात्मा पुरुषात्मकः । आनन्दात्मा ह्यजात्मा च ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.८॥ अगण्यात्मा गणात्मा च अमृतात्मामृतान्तरः । भूतभव्यभविष्यात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.९॥ अखिलात्माऽनुमन्यात्मा मानात्मा भावभावनः । तुर्यरूपप्रसन्नात्मा आत्मनोऽन्यन्न किञ्चन ॥ १३.१०॥ नित्यं प्रत्यक्षरूपात्मा नित्यप्रत्यक्षनिर्णयः । अन्यहीनस्वभावात्मा आत्मनोऽन्यन्न किञ्चन ॥ १३.११॥ असद्धीनस्वभावात्मा अन्यहीनः स्वयं प्रभुः । विद्याविद्यान्यशुद्धात्मा मानामानविहीनकः ॥ १३.१२॥ नित्यानित्यविहीनात्मा इहामुत्रफलान्तरः । शमादिषट्कशून्यात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.१३॥ मुमुक्षुत्वं च हीनात्मा शब्दात्मा दमनात्मकः । नित्योपरतरूपात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.१४॥ सर्वकालतितिक्षात्मा समाधानात्मनि स्थितः । शुद्धात्मा स्वात्मनि स्वात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.१५॥ अन्नकोशविहीनात्मा प्राणकोशविवर्जितः । मनःकोशविहीनात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.१६॥ विज्ञानकोशहीनात्मा आनन्दादिविवर्जितः । पञ्चकोशविहीनात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.१७॥ निर्विकल्पस्वरूपात्मा सविकल्पविवर्जितः । शब्दानुविद्धहीनात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.१८॥var was शब्दानुविध्यहीनात्मा स्थूलदेहविहीनात्मा सूक्ष्मदेहविवर्जितः । कारणादिविहीनात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.१९॥ दृश्यानुविद्धशून्यात्मा ह्यादिमध्यान्तवर्जितः । शान्ता समाधिशून्यात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.२०॥ प्रज्ञानवाक्यहीनात्मा अहं ब्रह्मास्मिवर्जितः । तत्त्वमस्यादिवाक्यात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.२१॥ अयमात्मेत्यभावात्मा सर्वात्मा वाक्यवर्जितः । ओंकारात्मा गुणात्मा च ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.२२॥ जाग्रद्धीनस्वरूपात्मा स्वप्नावस्थाविवर्जितः । आनन्दरूपपूर्णात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.२३॥ भूतात्मा च भविष्यात्मा ह्यक्षरात्मा चिदात्मकः । अनादिमध्यरूपात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.२४॥ सर्वसङ्कल्पहीनात्मा स्वच्छचिन्मात्रमक्षयः । ज्ञातृज्ञेयादिहीनात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.२५॥ एकात्मा एकहीनात्मा द्वैताद्वैतविवर्जितः । स्वयमात्मा स्वभावात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.२६॥ तुर्यात्मा नित्यमात्मा च यत्किञ्चिदिदमात्मकः । भानात्मा मानहीनात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.२७॥var was मानात्मा वाचावधिरनेकात्मा वाच्यानन्दात्मनन्दकः । सर्वहीनात्मसर्वात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.२८॥ आत्मानमेव वीक्षस्व आत्मानं भावय स्वकम् । स्वस्वात्मानं स्वयं भुंक्ष्व ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.२९॥ स्वात्मानमेव सन्तुष्य आत्मानं स्वयमेव हि । स्वस्वात्मानं स्वयं पश्येत् स्वमात्मानं स्वयं श्रुतम् ॥ १३.३०॥ स्वमात्मनि स्वयं तृप्तः स्वमात्मानं स्वयंभरः । स्वमात्मानं स्वयं भस्म ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.३१॥ स्वमात्मानं स्वयं मोदं स्वमात्मानं स्वयं प्रियम् । स्वमात्मानमेव मन्तव्यं ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.३२॥ आत्मानमेव श्रोतव्यं आत्मानं श्रवणं भव । आत्मानं कामयेन्नित्यम् आत्मानं नित्यमर्चय ॥ १३.३३॥ आत्मानं श्लाघयेन्नित्यमात्मानं परिपालय । आत्मानं कामयेन्नित्यम् आत्मनोऽन्यन्न किञ्चन ॥ १३.३४॥ आत्मैवेयमियं भूमिः आत्मैवेदमिदं जलम् । आत्मैवेदमिदं ज्योतिरात्मनोऽन्यन्न किञ्चन ॥ १३.३५॥ आत्मैवायमयं वायुरात्मैवेदमिदम् वियत् । आत्मैवायमहङ्कारः आत्मनोऽन्यन्न किञ्चन ॥ १३.३६॥ आत्मैवेदमिदं चित्तं आत्मैवेदमिदं मनः । आत्मैवेयमियं बुद्धिरात्मनोऽन्यन्न किञ्चन ॥ १३.३७॥ आत्मैवायमयं देहः आत्मैवायमयं गुणः । आत्मैवेदमिदं तत्त्वम् आत्मनोऽन्यन्न किञ्चन ॥ १३.३८॥ आत्मैवायमयं मन्त्रः आत्मैवायमयं जपः । आत्मैवायमयं लोकः आत्मनोऽन्यन्न किञ्चन ॥ १३.३९॥ आत्मैवायमयं शब्दः आत्मैवायमयं रसः । आत्मैवायमयं स्पर्शः आत्मनोऽन्यन्न किञ्चन ॥ १३.४०॥ आत्मैवायमयं गन्धः आत्मैवायमयं शमः । आत्मैवेदमिदं दुःखं आत्मैवेदमिदं सुखम् ॥ १३.४१॥ आत्मीयमेवेदं जगत् आत्मीयः स्वप्न एव हि । सुषुप्तं चाप्यथात्मीयं आत्मनोऽन्यन्न किञ्चन ॥ १३.४२॥ आत्मैव कार्यमात्मैव प्रायो ह्यात्मैवमद्वयम् । आत्मीयमेवमद्वैतं आत्मनोऽन्यन्न किञ्चन ॥ १३.४३॥ आत्मीयमेवायं कोऽपि आत्मैवेदमिदं क्वचित् । आत्मैवायमयं लोकः आत्मनोऽन्यन्न किञ्चन ॥ १३.४४॥ आत्मैवेदमिदं दृश्यं आत्मैवायमयं जनः । आत्मैवेदमिदं सर्वं आत्मनोऽन्यन्न किञ्चन ॥ १३.४५॥ आत्मैवायमयं शंभुः आत्मैवेदमिदं जगत् । आत्मैवायमयं ब्रह्मा आत्मनोऽन्यन्न किञ्चन ॥ १३.४६॥ आत्मैवायमयं सूर्य आत्मैवेदमिदं जडम् । आत्मैवेदमिदं ध्यानम् आत्मैवेदमिदम् फलम् ॥ १३.४७॥ आत्मैवायमयं योगः सर्वमात्ममयं जगत् । सर्वमात्ममयं भूतं आत्मनोऽन्यन्न किञ्चन ॥ १३.४८॥ सर्वमात्ममयं भावि सर्वमात्ममयं गुरुः । सर्वमात्ममयं शिष्य आत्मनोऽन्यन्न किञ्चन ॥ १३.४९॥ सर्वमात्ममयं देवः सर्वमात्ममयं फलम् । सर्वमात्ममयं लक्ष्यं आत्मनोऽन्यन्न किञ्चन ॥ १३.५०॥ सर्वमात्ममयं तीर्थं सर्वमात्ममयं स्वयम् । सर्वमात्ममयं मोक्षं आत्मनोऽन्यन्न किञ्चन ॥ १३.५१॥ सर्वमात्ममयं कामं सर्वमात्ममयं क्रिया । सर्वमात्ममयं क्रोधः आत्मनोऽन्यन्न किञ्चन ॥ १३.५२॥ सर्वमात्ममयं विद्या सर्वमात्ममयं दिशः । सर्वमात्ममयं लोभः आत्मनोऽन्यन्न किञ्चन ॥ १३.५३॥ सर्वमात्ममयं मोहः सर्वमात्ममयं भयम् । सर्वमात्ममयं चिन्ता आत्मनोऽन्यन्न किञ्चन ॥ १३.५४॥ सर्वमात्ममयं धैर्यं सर्वमात्ममयं ध्रुवम् । सर्वमात्ममयं सत्यं आत्मनोऽन्यन्न किञ्चन ॥ १३.५५॥ सर्वमात्ममयं बोधं सर्वमात्ममयं दृढम् । सर्वमात्ममयं मेयं आत्मनोऽन्यन्न किञ्चन ॥ १३.५६॥ सर्वमात्ममयं गुह्यं सर्वमात्ममयं शुभम् । सर्वमात्ममयं शुद्धं आत्मनोऽन्यन्न किञ्चन ॥ १३.५७॥ सर्वमात्ममयं सर्वं सत्यमात्मा सदात्मकः । पूर्णमात्मा क्षयं चात्मा परमात्मा परात्परः ॥ १३.५८॥ इतोऽप्यात्मा ततोऽप्यात्मा ह्यात्मैवात्मा ततस्ततः । सर्वमात्ममयं सत्यं आत्मनोऽन्यन्न किञ्चन ॥ १३.५९॥ सर्वमात्मस्वरूपं हि दृश्यादृश्यं चराचरम् । सर्वमात्ममयं श्रुत्वा मुक्तिमाप्नोति मानवः ॥ १३.६०॥ स्वतन्त्रशक्तिर्भगवानुमाधवो विचित्रकायात्मकजाग्रतस्य । सुकारणं कार्यपरंपराभिः स एव मायाविततोऽव्ययात्मा ॥ १३.६१॥ ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे सर्वमात्मप्रकरणं नाम त्रयोदशोऽध्यायः ॥
१४ ॥ चतुर्दशोऽध्यायः ॥ ऋभुः - शृणुष्व सर्वं ब्रह्मैव सत्यं सत्यं शिवं शपे । निश्चयेनात्मयोगीन्द्र अन्यत् किञ्चिन्न किञ्चन ॥ १४.१॥ अणुमात्रमसद्रूपं अणुमात्रमिदं ध्रुवम् । अणुमात्रशरीरं च अन्यत् किञ्चिन्न किञ्चन ॥ १४.२॥ सर्वमात्मैव शुद्धात्मा सर्वं चिन्मात्रमद्वयम् । नित्यनिर्मलशुद्धात्मा अन्यत् किञ्चिन्न किञ्चन ॥ १४.३॥ अणुमात्रे विचिन्त्यात्मा सर्वं न ह्यणुमात्रकम् । अणुमात्रमसंकल्पो अन्यत् किञ्चिन्न किञ्चन ॥ १४.४॥ चैतन्यमात्रं सङ्कल्पं चैतन्यं परमं पदम् । आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.५॥ चैतन्यमात्रमोंकारः चैतन्यं सकलं स्वयम् । आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.६॥ आनन्दश्चाहमेवास्मि अहमेव चिदव्ययः । आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.७॥ अहमेव हि गुप्तात्मा अहमेव निरन्तरम् । आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.८॥ अहमेव परं ब्रह्म अहमेव गुरोर्गुरुः । आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.९॥ अहमेवाखिलाधार अहमेव सुखात् सुखम् । आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.१०॥ अहमेव परं ज्योतिरहमेवाखिलात्मकः । आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.११॥ अहमेव हि तृप्तात्मा अहमेव हि निर्गुणः । आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.१२॥ अहमेव हि पूर्णात्मा अहमेव पुरातनः । आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.१३॥ अहमेव हि शान्तात्मा अहमेव हि शाश्वतः । आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.१४॥ अहमेव हि सर्वत्र अहमेव हि सुस्थिरः । आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.१५॥ अहमेव हि जीवात्मा अहमेव परात्परः । आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.१६॥ अहमेव हि वाक्यार्थो अहमेव हि शङ्करः । आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.१७॥ अहमेव हि दुर्लक्ष्य अहमेव प्रकाशकः । आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.१८॥ अहमेवाहमेवाहं अहमेव स्वयं स्वयम् । अहमेव परानन्दोऽहमेव हि चिन्मयः ॥ १४.१९॥ अहमेव हि शुद्धात्मा अहमेव हि सन्मयः । अहमेव हि शून्यात्मा अहमेव हि सर्वगः ॥ १४.२०॥ अहमेव हि वेदान्तः अहमेव हि चित्परः ॥ १४.२१॥ अहमेव हि चिन्मात्रं अहमेव हि चिन्मयः । अन्यन्न किञ्चित् चिद्रूपादहं बाह्यविवर्जितः ॥ १४.२२॥ अहं न किञ्चिद् ब्रह्मात्मा अहं नान्यदहं परम् । नित्यशुद्धविमुक्तोऽहं नित्यतृप्तो निरञ्जनः ॥ १४.२३॥ आनन्दं परमानन्दमन्यत् किञ्चिन्न किञ्चन । नास्ति किञ्चिन्नास्ति किञ्चित् नास्ति किञ्चित् परात्परात् ॥ १४.२४॥ आत्मैवेदं जगत् सर्वमात्मैवेदं मनोभवम् । आत्मैवेदं सुखं सर्वं आत्मैवेदमिदं जगत् ॥ १४.२५॥ ब्रह्मैव सर्वं चिन्मात्रं अहं ब्रह्मैव केवलम् । आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.२६॥ दृश्यं सर्वं परं ब्रह्म दृश्यं नास्त्येव सर्वदा । ब्रह्मैव सर्वसङ्कल्पो ब्रह्मैव न परं क्वचित् । आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.२७॥ ब्रह्मैव ब्रह्म चिद्रूपं चिदेवं चिन्मयं जगत् । असदेव जगत्सर्वं असदेव प्रपञ्चकम् ॥ १४.२८॥ असदेवाहमेवास्मि असदेव त्वमेव हि । असदेव मनोवृत्तिरसदेव गुणागुणौ ॥ १४.२९॥ असदेव मही सर्वा असदेव जलं सदा । असदेव जगत्खानि असदेव च तेजकम् ॥ १४.३०॥ असदेव सदा वायुरसदेवेदमित्यपि । अहङ्कारमसद्बुद्धिर्ब्रह्मैव जगतां गणः ॥ १४.३१॥ असदेव सदा चित्तमात्मैवेदं न संशयः । असदेवासुराः सर्वे असदेवेदश्वराकृतिः ॥ १४.३२॥ असदेव सदा विश्वं असदेव सदा हरिः । असदेव सदा ब्रह्मा तत्सृष्टिरसदेव हि ॥ १४.३३॥ असदेव महादेवः असदेव गणेश्वरः । असदेव सदा चोमा असत् स्कन्दो गणेश्वराः ॥ १४.३४॥ असदेव सदा जीव असदेव हि देहकम् । असदेव सदा वेदा असद्देहान्तमेव च ॥ १४.३५॥ धर्मशास्त्रं पुराणं च असत्ये सत्यविभ्रमः । असदेव हि सर्वं च असदेव परंपरा ॥ १४.३६॥ असदेवेदमाद्यन्तमसदेव मुनीश्वराः । असदेव सदा लोका लोक्या अप्यसदेव हि ॥ १४.३७॥ असदेव सुखं दुःखं असदेव जयाजयौ । असदेव परं बन्धमसन्मुक्तिरपि ध्रुवम् ॥ १४.३८॥ असदेव मृतिर्जन्म असदेव जडाजडम् । असदेव जगत् सर्वमसदेवात्मभावना ॥ १४.३९॥ असदेव च रूपाणि असदेव पदं शुभम् । असदेव सदा चाहमसदेव त्वमेव हि ॥ १४.४०॥ असदेव हि सर्वत्र असदेव चलाचलम् । असच्च सकलं भूतमसत्यं सकलं फलम् ॥ १४.४१॥ असत्यमखिलं विश्वमसत्यमखिलो गुणः । असत्यमखिलं शेषमसत्यमखिलं जगत् ॥ १४.४२॥ असत्यमखिलं पापं असत्यं श्रवणत्रयम् । असत्यं च सजातीयविजातीयमसत् सदा ॥ १४.४३॥ असत्यमधिकाराश्च अनित्या विषयाः सदा । असदेव हि देवाद्या असदेव प्रयोजनम् ॥ १४.४४॥ असदेव शमं नित्यं असदेव शमोऽनिशम् । असदेव ससन्देहं असद्युद्धं सुरासुरम् ॥ १४.४५॥var was असदेव च सन्देहं असदेवेशभावं चासदेवोपास्यमेव हि । असच्च कालदेशादि असत् क्षेत्रादिभावनम् ॥ १४.४६॥ तज्जन्यधर्माधर्मौ च असदेव विनिर्णयः । असच्च सर्वकर्माणि असदस्वपरभ्रमः ॥ १४.४७॥ असच्च चित्तसद्भाव असच्च स्थूलदेहकम् । असच्च लिङ्गदेहं च सत्यं सत्यं शिवं शपे ॥ १४.४८॥ असत्यं स्वर्गनरकं असत्यं तद्भवं सुखम् । असच्च ग्राहकं सर्वं असत्यं ग्राह्यरूपकम् ॥ १४.४९॥ असत्यं सत्यवद्भावं असत्यं ते शिवे शपे ।var was सत्यवद्भानं असत्यं वर्तमानाख्यं असत्यं भूतरूपकम् ॥ १४.५०॥ असत्यं हि भविष्याख्यं सत्यं सत्यं शिवे शपे । असत् पूर्वमसन्मध्यमसदन्तमिदं जगत् ॥ १४.५१॥ असदेव सदा प्रायं असदेव न संशयः । असदेव सदा ज्ञानमज्ञानज्ञेयमेव च ॥ १४.५२॥ असत्यं सर्वदा विश्वमसत्यं सर्वदा जडम् । असत्यं सर्वदा दृश्यं भाति तौ रङ्गशृङ्गवत् ॥ १४.५३॥ असत्यं सर्वदा भावः असत्यं कोशसंभवम् । असत्यं सकलं मन्त्रं सत्यं सत्यं न संशयः ॥ १४.५४॥ आत्मनोऽन्यज्जगन्नास्ति नास्त्यनात्ममिदं सदा । आत्मनोऽन्यन्मृषैवेदं सत्यं सत्यं न संशयः ॥ १४.५५॥ आत्मनोऽन्यत्सुखं नास्ति आत्मनोऽन्यन्न किञ्चन । आत्मनोऽन्या गतिर्नास्ति स्थितमात्मनि सर्वदा ॥ १४.५६॥ आत्मनोऽन्यन्न हि क्वापि आत्मनोऽन्यत् तृणं न हि । आत्मनोऽन्यन्न किञ्चिच्च क्वचिदप्यात्मनो न हि ॥ १४.५७॥ आत्मानन्दप्रकरणमेतत्तेऽभिहितं मया । यः शृणोति सकृद्विद्वान् ब्रह्मैव भवति स्वयम् ॥ १४.५८॥ सकृच्छ्रवणमात्रेण सद्योबन्धविमुक्तिदम् । एतद्ग्रन्थार्थमात्रं वै गृणन् सर्वैर्विमुच्यते ॥ १४.५९॥ सूतः - पूर्णं सत्यं महेशं भज नियतहृदा योऽन्तरायैर्विहीनः सो नित्यो निर्विकल्पो भवति भुवि सदा ब्रह्मभूतो ऋतात्मा । विच्छिन्नग्रन्थिरीशे शिवविमलपदे विद्यते भासतेऽन्तः आरामोऽन्तर्भवति नियतं विश्वभूतो मृतश्च ॥ १४.६०॥ ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे आत्मानन्दप्रकरणवर्णनं नाम चतुर्दशोऽध्यायः ॥
१५ ॥ पञ्चदशोऽध्यायः ॥ ऋभुः - महारहस्यं वक्ष्यामि गुह्यात् गुह्यतरं पुनः । अत्यन्तदुर्लभं लोके सर्वं ब्रह्मैव केवलम् ॥ १५.१॥ ब्रह्ममात्रमिदं सर्वं ब्रह्ममात्रमसन्न हि । ब्रह्ममात्रं श्रुतं सर्वं सर्वं ब्रह्मैव केवलम् ॥ १५.२॥ ब्रह्ममात्रं महायन्त्रं ब्रह्ममात्रं क्रियाफलम् । ब्रह्ममात्रं महावाक्यं सर्वं ब्रह्मैव केवलम् ॥ १५.३॥ ब्रह्ममात्रं जगत्सर्वं ब्रह्ममात्रं जडाजडम् । ब्रह्ममात्रं परं देहं सर्वं ब्रह्मैव केवलम् ॥ १५.४॥ ब्रह्ममात्रं गुणं प्रोक्तं ब्रह्ममात्रमहं महत् । ब्रह्ममात्रं परं ब्रह्म सर्वं ब्रह्मैव केवलम् ॥ १५.५॥ ब्रह्ममात्रमिदं वस्तु ब्रह्ममात्रं स च पुमान् । ब्रह्ममात्रं च यत् किञ्चित् सर्वं ब्रह्मैव केवलम् ॥ १५.६॥ ब्रह्ममात्रमनन्तात्मा ब्रह्ममात्रं परं सुखम् । ब्रह्ममात्रं परं ज्ञानं सर्वं ब्रह्मैव केवलम् ॥ १५.७॥ ब्रह्ममात्रं परं पारं ब्रह्ममात्रं पुरत्रयम् । ब्रह्ममात्रमनेकत्वं सर्वं ब्रह्मैव केवलम् ॥ १५.८॥ ब्रह्मैव केवलं गन्धं ब्रह्मैव परमं पदम् । ब्रह्मैव केवलं घ्राणं सर्वं ब्रह्मैव केवलम् ॥ १५.९॥ ब्रह्मैव केवलं स्पर्शं शब्दं ब्रह्मैव केवलम् । ब्रह्मैव केवलं रूपं सर्वं ब्रह्मैव केवलम् ॥ १५.१०॥ ब्रह्मैव केवलं लोकं रसो ब्रह्मैव केवलम् । ब्रह्मैव केवलं चित्तं सर्वं ब्रह्मैव केवलम् ॥ १५.११॥ तत्पदं च सदा ब्रह्म त्वं पदं ब्रह्म एव हि । असीत्येव पदं ब्रह्म ब्रह्मैक्यं केवलम् सदा ॥ १५.१२॥ ब्रह्मैव केवलं गुह्यं ब्रह्म बाह्यं च केवलम् । ब्रह्मैव केवलं नित्यं सर्वं ब्रह्मैव केवलम् ॥ १५.१३॥ ब्रह्मैव तज्जलानीति जगदाद्यन्तयोः स्थितिः । ब्रह्मैव जगदाद्यन्तं सर्वं ब्रह्मैव केवलम् ॥ १५.१४॥ ब्रह्मैव चास्ति नास्तीति ब्रह्मैवाहं न संशयः । ब्रह्मैव सर्वं यत् किञ्चित् सर्वं ब्रह्मैव केवलम् ॥ १५.१५॥ ब्रह्मैव जाग्रत् सर्वं हि ब्रह्ममात्रमहं परम् । ब्रह्मैव सत्यमस्तित्वं ब्रह्मैव तुर्यमुच्यते ॥ १५.१६॥ ब्रह्मैव सत्ता ब्रह्मैव ब्रह्मैव गुरुभावनम् । ब्रह्मैव शिष्यसद्भावं मोक्षं ब्रह्मैव केवलम् ॥ १५.१७॥ पूर्वापरं च ब्रह्मैव पूर्णं ब्रह्म सनातनम् । ब्रह्मैव केवलं साक्षात् सर्वं ब्रह्मैव केवलम् ॥ १५.१८॥ ब्रह्म सच्चित्सुखं ब्रह्म पूर्णं ब्रह्म सनातनम् । ब्रह्मैव केवलं साक्षात् सर्वं ब्रह्मैव केवलम् ॥ १५.१९॥ ब्रह्मैव केवलं सच्चित् सुखं ब्रह्मैव केवलम् । आनन्दं ब्रह्म सर्वत्र प्रियरूपमवस्थितम् ॥ १५.२०॥ शुभवासनया जीवं शिववद्भाति सर्वदा । पापवासनया जीवो नरकं भोज्यवत् स्थितम् ॥ १५.२१॥ ब्रह्मैवेन्द्रियवद्भानं ब्रह्मैव विषयादिवत् । ब्रह्मैव व्यवहारश्च सर्वं ब्रह्मैव केवलम् ॥ १५.२२॥ ब्रह्मैव सर्वमानन्दं ब्रह्मैव ज्ञानविग्रहम् । ब्रह्मैव मायाकार्याख्यं सर्वं ब्रह्मैव केवलम् ॥ १५.२३॥ ब्रह्मैव यज्ञसन्धानं ब्रह्मैव हृदयाम्बरम् । ब्रह्मैव मोक्षसाराख्यं सर्वं ब्रह्मैव केवलम् ॥ १५.२४॥ ब्रह्मैव शुद्धाशुद्धं च सर्वं ब्रह्मैव कारणम् । ब्रह्मैव कार्यं भूलोकं सर्वं ब्रह्मैव केवलम् ॥ १५.२५॥ ब्रह्मैव नित्यतृप्तात्मा ब्रह्मैव सकलं दिनम् । ब्रह्मैव तूष्णीं भूतात्मा सर्वं ब्रह्मैव केवलम् ॥ १५.२६॥ ब्रह्मैव वेदसारार्थः ब्रह्मैव ध्यानगोचरम् । ब्रह्मैव योगयोगाख्यं सर्वं ब्रह्मैव केवलम् ॥ १५.२७॥ नानारूपत्वाद् ब्रह्म उपाधित्वेन दृश्यते । मायामात्रमिति ज्ञात्वा वस्तुतो नास्ति तत्त्वतः ॥ १५.२८॥ ब्रह्मैव लोकवद्भाति ब्रह्मैव जनवत्तथा । ब्रह्मैव रूपवद्भाति वस्तुतो नास्ति किञ्चन ॥ १५.२९॥ ब्रह्मैव देवताकारं ब्रह्मैव मुनिमण्डलम् । ब्रह्मैव ध्यानरूपं च सर्वं ब्रह्मैव केवलम् ॥ १५.३०॥ ब्रह्मैव ज्ञानविज्ञानं ब्रह्मैव परमेश्वरः । ब्रह्मैव शुद्धबुद्धात्मा सर्वं ब्रह्मैव केवलम् ॥ १५.३१॥ ब्रह्मैव परमानदं ब्रह्मैव व्यापकं महत् । ब्रह्मैव परमार्थं च सर्वं ब्रह्मैव केवलम् ॥ १५.३२॥ ब्रह्मैव यज्ञरूपं च ब्रह्म हव्यं च केवलम् । ब्रह्मैव जीवभूतात्मा सर्वं ब्रह्मैव केवलम् ॥ १५.३३॥ ब्रह्मैव सकलं लोकं ब्रह्मैव गुरुशिष्यकम् । ब्रह्मैव सर्वसिद्धिं च सर्वं ब्रह्मैव केवलम् ॥ १५.३४॥ ब्रह्मैव सर्वमन्त्रं च ब्रह्मैव सकलं जपम् । ब्रह्मैव सर्वकार्यं च सर्वं ब्रह्मैव केवलम् ॥ १५.३५॥ ब्रह्मैव सर्वशान्तत्वं ब्रह्मैव हृदयान्तरम् । ब्रह्मैव सर्वकैवल्यं सर्वं ब्रह्मैव केवलम् ॥ १५.३६॥ ब्रह्मैवाक्षरभावञ्च ब्रह्मैवाक्षरलक्षणम् । ब्रह्मैव ब्रह्मरूपञ्च सर्वं ब्रह्मैव केवलम् ॥ १५.३७॥ ब्रह्मैव सत्यभवनं ब्रह्मैवाहं न संशयः । ब्रह्मैव तत्पदार्थञ्च सर्वं ब्रह्मैव केवलम् ॥ १५.३८॥ ब्रह्मैवाहंपदार्थञ्च ब्रह्मैव परमेश्वरः । ब्रह्मैव त्वंपदार्थञ्च सर्वं ब्रह्मैव केवलम् ॥ १५.३९॥ ब्रह्मैव यद्यत् परमं ब्रह्मैवेति परायणम् । ब्रह्मैव कलनाभावं सर्वं ब्रह्मैव केवलम् ॥ १५.४०॥ ब्रह्म सर्वं न सन्देहो ब्रह्मैव त्वं सदाशिवः । ब्रह्मैवेदं जगत् सर्वं सर्वं ब्रह्मैव केवलम् ॥ १५.४१॥ ब्रह्मैव सर्वसुलभं ब्रह्मैवात्मा स्वयं स्वयम् । ब्रह्मैव सुखमात्रत्वात् सर्वं ब्रह्मैव केवलम् ॥ १५.४२॥ ब्रह्मैव सर्वं ब्रह्मैव ब्रह्मणोऽन्यदसत् सदा । ब्रह्मैव ब्रह्ममात्रात्मा सर्वं ब्रह्मैव केवलम् ॥ १५.४३॥ ब्रह्मैव सर्ववाक्यार्थः ब्रह्मैव परमं पदम् । ब्रह्मैव सत्यासत्यं च सर्वं ब्रह्मैव केवलम् ॥ १५.४४॥ ब्रह्मैवैकमनाद्यन्तं ब्रह्मैवैकं न संशयः । ब्रह्मैवैकं चिदानन्दः सर्वं ब्रह्मैव केवलम् ॥ १५.४५॥ ब्रह्मैवैकं सुखं नित्यं ब्रह्मैवैकं परायणम् । ब्रह्मैवैकं परं ब्रह्म सर्वं ब्रह्मैव केवलम् ॥ १५.४६॥ ब्रह्मैव चित् स्वयं स्वस्थं ब्रह्मैव गुणवर्जितम् । ब्रह्मैवात्यन्तिकं सर्वं सर्वं ब्रह्मैव केवलम् ॥ १५.४७॥ ब्रह्मैव निर्मलं सर्वं ब्रह्मैव सुलभं सदा । ब्रह्मैव सत्यं सत्यानां सर्वं ब्रह्मैव केवलम् ॥ १५.४८॥ ब्रह्मैव सौख्यं सौख्यं च ब्रह्मैवाहं सुखात्मकम् । ब्रह्मैव सर्वदा प्रोक्तं सर्वं ब्रह्मैव केवलम् ॥ १५.४९॥ ब्रह्मैवमखिलं ब्रह्म ब्रह्मैकं सर्वसाक्षिकम् । ब्रह्मैव भूरिभवनं सर्वं ब्रह्मैव केवलम् ॥ १५.५०॥ ब्रह्मैव परिपूर्णात्मा ब्रह्मैवं सारमव्ययम् । ब्रह्मैव कारणं मूलं ब्रह्मैवैकं परायणम् ॥ १५.५१॥ ब्रह्मैव सर्वभूतात्मा ब्रह्मैव सुखविग्रहम् । ब्रह्मैव नित्यतृप्तात्मा सर्वं ब्रह्मैव केवलम् ॥ १५.५२॥ ब्रह्मैवाद्वैतमात्रात्मा ब्रह्मैवाकाशवत् प्रभुः । ब्रह्मैव हृदयानन्दः सर्वं ब्रह्मैव केवलम् ॥ १५.५३॥ ब्रह्मणोऽन्यत् परं नास्ति ब्रह्मणोऽन्यज्जगन्न च । ब्रह्मणोऽन्यदहं नाहं सर्वं ब्रह्मैव केवलम् ॥ १५.५४॥ ब्रह्मैवान्यसुखं नास्ति ब्रह्मणोऽन्यत् फलं न हि । ब्रह्मणोऽन्यत् तृणं नास्ति सर्वं ब्रह्मैव केवलम् ॥ १५.५५॥ ब्रह्मणोऽन्यत् पदं मिथ्या ब्रह्मणोऽन्यन्न किञ्चन । ब्रह्मणोऽन्यज्जगन्मिथ्या सर्वं ब्रह्मैव केवलम् ॥ १५.५६॥ ब्रह्मणोऽन्यदहं मिथ्या ब्रह्ममात्रोहमेव हि । ब्रह्मणोऽन्यो गुरुर्नास्ति सर्वं ब्रह्मैव केवलम् ॥ १५.५७॥ ब्रह्मणोऽन्यदसत् कार्यं ब्रह्मणोऽन्यदसद्वपुः । ब्रह्मणोऽन्यन्मनो नास्ति सर्वं ब्रह्मैव केवलम् ॥ १५.५८॥ ब्रह्मणोऽन्यज्जगन्मिथ्या ब्रह्मणोऽन्यन्न किञ्चन । ब्रह्मणोऽन्यन्न चाहन्ता सर्वं ब्रह्मैव केवलम् ॥ १५.५९॥ ब्रह्मैव सर्वमित्येवं प्रोक्तं प्रकरणं मया । यः पठेत् श्रावयेत् सद्यो ब्रह्मैव भवति स्वयम् ॥ १५.६०॥ अस्ति ब्रह्मेति वेदे इदमिदमखिलं वेद सो सद्भवेत् । सच्चासच्च जगत्तथा श्रुतिवचो ब्रह्मैव तज्जादिकम् ॥ यतो विद्यैवेदं परिलुठति मोहेन जगति । अतो विद्यापादो परिभवति ब्रह्मैव हि सदा ॥ १५.६१॥ ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे ब्रह्मैव सर्वं प्रकरणनिरूपणं नाम पञ्चदशोऽध्यायः ॥
१६ ॥ षोडशोऽध्यायः ॥ ऋभुः - अत्यन्तं दुर्लभं वक्ष्ये वेदशास्त्रागमादिषु । शृण्वन्तु सावधानेन असदेव हि केवलम् ॥ १६.१॥ यत्किञ्चिद् दृश्यते लोके यत्किञ्चिद्भाषते सदा । यत्किञ्चिद् भुज्यते क्वापि तत्सर्वमसदेव हि ॥ १६.२॥ यद्यत् किञ्चिज्जपं वापि स्नानं वा जलमेव वा । आत्मनोऽन्यत् परं यद्यत् असत् सर्वं न संशयः ॥ १६.३॥ चित्तकार्यं बुद्धिकार्यं मायाकार्यं तथैव हि । आत्मनोऽन्यत् परं किञ्चित् तत्सर्वमसदेव हि ॥ १६.४॥ अहन्तायाः परं रूपं इदंत्वं सत्यमित्यपि । आत्मनोऽन्यत् परं किञ्चित् तत्सर्वमसदेव हि ॥ १६.५॥ नानात्वमेव रूपत्वं व्यवहारः क्वचित् क्वचित् । आत्मीय एव सर्वत्र तत्सर्वमसदेव हि ॥ १६.६॥ तत्त्वभेदं जगद्भेदं सर्वभेदमसत्यकम् । इच्छाभेदं जगद्भेदं तत्सर्वमसदेव हि ॥ १६.७॥ द्वैतभेदं चित्रभेदं जाग्रद्भेदं मनोमयम् । अहंभेदमिदंभेदमसदेव हि केवलम् ॥ १६.८॥ स्वप्नभेदं सुप्तिभेदं तुर्यभेदमभेदकम् । कर्तृभेदं कार्यभेदं गुणभेदं रसात्मकम् । लिङ्गभेदमिदंभेदमसदेव हि केवलम् ॥ १६.९॥ आत्मभेदमसद्भेदं सद्भेदमसदण्वपि । अत्यन्ताभावसद्भेदम् असदेव हि केवलम् ॥ १६.१०॥ अस्तिभेदं नास्तिभेदमभेदं भेदविभ्रमः । भ्रान्तिभेदं भूतिभेदमसदेव हि केवलम् ॥ १६.११॥ पुनरन्यत्र सद्भेदमिदमन्यत्र वा भयम् । पुण्यभेदं पापभेदं असदेव हि केवलम् ॥ १६.१२॥ सङ्कल्पभेदं तद्भेदं सदा सर्वत्र भेदकम् । ज्ञानाज्ञानमयं सर्वं असदेव हि केवलम् ॥ १६.१३॥ ब्रह्मभेदं क्षत्रभेदं भूतभौतिकभेदकम् । इदंभेदमहंभेदं असदेव हि केवलम् ॥ १६.१४॥ वेदभेदं देवभेदं लोकानां भेदमीदृशम् । पञ्चाक्षरमसन्नित्यम् असदेव हि केवलम् ॥ १६.१५॥ ज्ञानेन्द्रियमसन्नित्यं कर्मेन्द्रियमसत्सदा । असदेव च शब्दाख्यं असत्यं तत्फलं तथा ॥ १६.१६॥ असत्यं पञ्चभूताख्यमसत्यं पञ्चदेवताः । असत्यं पञ्चकोशाख्यम् असदेव हि केवलम् ॥ १६.१७॥ असत्यं षड्विकारादि असत्यं षट्कमूर्मिणाम् । असत्यमरिषड्वर्गमसत्यं षडृतुस्तदा ॥ १६.१८॥var was तथा असत्यं द्वादशमासाः असत्यं वत्सरस्तथा । असत्यं षडवस्थाख्यं षट्कालमसदेव हि ॥ १६.१९॥ असत्यमेव षट्शास्त्रं असदेव हि केवलम् । असदेव सदा ज्ञानं असदेव हि केवलम् ॥ १६.२०॥ अनुक्तमुक्तं नोक्तं च असदेव हि केवलम् । असत्प्रकरणं प्रोक्तं सर्ववेदेषु दुर्लभम् ॥ १६.२१॥ भूयः शृणु त्वं योगीन्द्र साक्षान्मोक्षं ब्रवीम्यहम् । सन्मात्रमहमेवात्मा सच्चिदानन्द केवलम् ॥ १६.२२॥ सन्मयानन्दभूतात्मा चिन्मयानन्दसद्घनः । चिन्मयानन्दसन्दोहचिदानन्दो हि केवलम् ॥ १६.२३॥ चिन्मात्रज्योतिरान्दश्चिन्मात्रज्योतिविग्रहः । चिन्मात्रज्योतिरीशानः सर्वदानन्दकेवलम् ॥ १६.२४॥ चिन्मात्रज्योतिरखिलं चिन्मात्रज्योतिरस्म्यहम् । चिन्मात्रं सर्वमेवाहं सर्वं चिन्मात्रमेव हि ॥ १६.२५॥ चिन्मात्रमेव चित्तं च चिन्मात्रं मोक्ष एव च । चिन्मात्रमेव मननं चिन्मात्रं श्रवणं तथा ॥ १६.२६॥ चिन्मात्रमहमेवास्मि सर्वं चिन्मात्रमेव हि । चिन्मात्रं निर्गुणं ब्रह्म चिन्मात्रं सगुणं परम् ॥ १६.२७॥ चिन्मात्रमहमेव त्वं सर्वं चिन्मात्रमेव हि । चिन्मात्रमेव हृदयं चिन्मात्रं चिन्मयं सदा ॥ १६.२८॥ चिदेव त्वं चिदेवाहं सर्वं चिन्मात्रमेव हि । चिन्मात्रमेव शान्तत्वं चिन्मात्रं शान्तिलक्षणम् ॥ १६.२९॥ चिन्मात्रमेव विज्ञानं चिन्मात्रं ब्रह्म केवलम् । चिन्मात्रमेव संकल्पं चिन्मात्रं भुवनत्रयम् ॥ १६.३०॥ चिन्मात्रमेव सर्वत्र चिन्मात्रं व्यापको गुरुः । चिन्मात्रमेव शुद्धत्वं चिन्मात्रं ब्रह्म केवलम् ॥ १६.३१॥ चिन्मात्रमेव चैतन्यं चिन्मात्रं भास्करादिकम् । चिन्मात्रमेव सन्मात्रं चिन्मात्रं जगदेव हि ॥ १६.३२॥ चिन्मात्रमेव सत्कर्म चिन्मात्रं नित्यमङ्गलम् । चिन्मात्रमेव हि ब्रह्म चिन्मात्रं हरिरेव हि ॥ १६.३३॥ चिन्मात्रमेव मौनात्मा चिन्मात्रं सिद्धिरेव हि । चिन्मात्रमेव जनितं चिन्मात्रं सुखमेव हि ॥ १६.३४॥ चिन्मात्रमेव गगनं चिन्मात्रं पर्वतं जलम् । चिन्मात्रमेव नक्षत्रं चिन्मात्रं मेघमेव हि ॥ १६.३५॥ चिदेव देवताकारं चिदेव शिवपूजनम् । चिन्मात्रमेव काठिन्यं चिन्मात्रं शीतलं जलम् ॥ १६.३६॥ चिन्मात्रमेव मन्तव्यं चिन्मात्रं दृश्यभावनम् । चिन्मात्रमेव सकलं चिन्मात्रं भुवनं पिता ॥ १६.३७॥ चिन्मात्रमेव जननी चिन्मात्रान्नास्ति किञ्चन । चिन्मात्रमेव नयनं चिन्मात्रं श्रवणं सुखम् ॥ १६.३८॥ चिन्मात्रमेव करणं चिन्मात्रं कार्यमीश्वरम् । चिन्मात्रं चिन्मयं सत्यं चिन्मात्रं नास्ति नास्ति हि ॥ १६.३९॥ चिन्मात्रमेव वेदान्तं चिन्मात्रं ब्रह्म निश्चयम् । चिन्मात्रमेव सद्भावि चिन्मात्रं भाति नित्यशः ॥ १६.४०॥ चिदेव जगदाकारं चिदेव परमं पदम् । चिदेव हि चिदाकारं चिदेव हि चिदव्ययः ॥ १६.४१॥ चिदेव हि शिवाकारं चिदेव हि शिवविग्रहः । चिदाकारमिदं सर्वं चिदाकारं सुखासुखम् ॥ १६.४२॥ चिदेव हि जडाकारं चिदेव हि निरन्तरम् । चिदेवकलनाकारं जीवाकारं चिदेव हि ॥ १६.४३॥ चिदेव देवताकारं चिदेव शिवपूजनम् । चिदेव त्वं चिदेवाहं सर्वं चिन्मात्रमेव हि ॥ १६.४४॥ चिदेव परमाकारं चिदेव हि निरामयम् । चिन्मात्रमेव सततं चिन्मात्रं हि परायणम् ॥ १६.४५॥ चिन्मात्रमेव वैराग्यं चिन्मात्रं निर्गुणं सदा । चिन्मात्रमेव सञ्चारं चिन्मात्रं मन्त्रतन्त्रकम् ॥ १६.४६॥ चिदाकारमिदं विश्वं चिदाकारं जगत्त्रयम् । चिदाकारमहङ्कारं चिदाकारं परात् परम् ॥ १६.४७॥ चिदाकारमिदं भेदं चिदाकारं तृणादिकम् । चिदाकारं चिदाकाशं चिदाकारमरूपकम् ॥ १६.४८॥ चिदाकारं महानन्दं चिदाकारं सुखात् सुखम् । चिदाकारं सुखं भोज्यं चिदाकारं परं गुरुम् ॥ १६.४९॥ चिदाकारमिदं विश्वं चिदाकारमिदं पुमान् । चिदाकारमजं शान्तं चिदाकारमनामयम् ॥ १६.५०॥ चिदाकारं परातीतं चिदाकारं चिदेव हि । चिदाकारं चिदाकाशं चिदाकाशं शिवायते ॥ १६.५१॥ चिदाकारं सदा चित्तं चिदाकारं सदाऽमृतम् । चिदाकारं चिदाकाशं तदा सर्वान्तरान्तरम् ॥ १६.५२॥ चिदाकारमिदं पूर्णं चिदाकारमिदं प्रियम् । चिदाकारमिदं सर्वं चिदाकारमहं सदा ॥ १६.५३॥ चिदाकारमिदं स्थानं चिदाकारं हृदम्बरम् । चिदाबोधं चिदाकारं चिदाकाशं ततं सदा ॥ १६.५४॥ चिदाकारं सदा पूर्णं चिदाकारं महत्फलम् । चिदाकारं परं तत्त्वं चिदाकारं परं भवान् ॥ १६.५५॥ चिदाकारं सदामोदं चिदाकारं सदा मृतम् । चिदाकारं परं ब्रह्म चिदहं चिदहं सदा ॥ १६.५६॥ चिदहं चिदहं चित्तं चित्तं स्वस्य न संशयः । चिदेव जगदाकारं चिदेव शिवशङ्करः ॥ १६.५७॥ चिदेव गगनाकारं चिदेव गणनायकम् । चिदेव भुवनाकारं चिदेव भवभावनम् ॥ १६.५८॥ चिदेव हृदयाकारं चिदेव हृदयेश्वरः । चिदेव अमृताकारं चिदेव चलनास्पदम् ॥ १६.५९॥ चिदेवाहं चिदेवाहं चिन्मयं चिन्मयं सदा । चिदेव सत्यविश्वासं चिदेव ब्रह्मभावनम् ॥ १६.६०॥ चिदेव परमं देवं चिदेव हृदयालयम् । चिदेव सकलाकारं चिदेव जनमण्डलम् ॥ १६.६१॥ चिदेव सर्वमानन्दं चिदेव प्रियभाषणम् । चिदेव त्वं चिदेवाहं सर्वं चिन्मात्रमेव हि ॥ १६.६२॥ चिदेव परमं ध्यानं चिदेव परमर्हणम् । चिदेव त्वं चिदेवाहं सर्वं चिन्मयमेव हि ॥ १६.६३॥ चिदेव त्वं प्रकरणं सर्ववेदेषु दुर्लभम् । सकृच्छ्रवणमात्रेण ब्रह्मैव भवति ध्रुवम् ॥ १६.६४॥ यस्याभिध्यानयोगाज्जनिमृतिविवशाः शाश्वतं वृत्तिभिर्ये मायामोहैर्विहीना हृदुदरभयजं छिद्यते ग्रन्थिजातम् । विश्वं विश्वाधिकरसं भवति भवतो दर्शनादाप्तकामः सो नित्यो निर्विकल्पो भवति भुवि सदा ब्रह्मभूतोऽन्तरात्मा ॥ १६.६५॥ ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे चिदेवत्वंप्रकरणवर्णनं नाम षोडशोऽध्यायः ॥
१७ ॥ सप्तदशोऽध्यायः ॥ ऋभुः - निदाघ शृणु गुह्यं मे सर्वसिद्धान्तसङ्ग्रहम् । द्वैताद्वैतमिदं शून्यं शान्तं ब्रह्मैव सर्वदा ॥ १७.१॥ अहमेव परं ब्रह्म अहमेव परात् परम् । द्वैताद्वैतमिदं शून्यं शान्तं ब्रह्मैव केवलम् ॥ १७.२॥ अहमेव हि शान्तात्मा अहमेव हि सर्वगः । अहमेव हि शुद्धात्मा अहमेव हि नित्यशः ॥ १७.३॥ अहमेव हि नानात्मा अहमेव हि निर्गुणः । अहमेव हि नित्यात्मा अहमेव हि कारणम् ॥ १७.४॥ अहमेव हि जगत् सर्वं इदं चैवाहमेव हि । अहमेव हि मोदात्मा अहमेव हि मुक्तिदः ॥ १७.५॥ अहमेव हि चैतन्यं अहमेव हि चिन्मयः । अहमेव हि चैतन्यमहं सर्वान्तरः सदा ॥ १७.६॥ अहमेव हि भूतात्मा भौतिकं त्वहमेव हि । अहमेव त्वमेवाहमहमेवाहमेव हि ॥ १७.७॥ जीवात्मा त्वहमेवाहमहमेव परेश्वरः । अहमेव विभुर्नित्यमहमेव स्वयं सदा ॥ १७.८॥ अहमेवाक्षरं साक्षात् अहमेव हि मे प्रियम् । अहमेव सदा ब्रह्म अहमेव सदाऽव्ययः ॥ १७.९॥ अहमेवाहमेवाग्रे अहमेवान्तरान्तरः । अहमेव चिदाकाशमहमेवावभासकः ॥ १७.१०॥ अहमेव सदा स्रष्टा अहमेव हि रक्षकः । अहमेव हि लीलात्मा अहमेव हि निश्चयः ॥ १७.११॥ अहमेव सदा साक्षी त्वमेव त्वं पुरातनः । त्वमेव हि परं ब्रह्म त्वमेव हि निरन्तरम् ॥ १७.१२॥ अहमेवाहमेवाहमहमेव त्वमेव हि । अहमेवाद्वयाकारः अहमेव विदेहकः ॥ १७.१३॥ अहमेव ममाधारः अहमेव सदात्मकः । अहमेवोपशान्तात्मा अहमेव तितिक्षकः ॥ १७.१४॥ अहमेव समाधानं श्रद्धा चाप्यहमेव हि । अहमेव महाव्योम अहमेव कलात्मकः ॥ १७.१५॥ अहमेव हि कामान्तः अहमेव सदान्तरः । अहमेव पुरस्ताच्च अहं पश्चादहं सदा ॥ १७.१६॥ अहमेव हि विश्वात्मा अहमेव हि केवलम् । अहमेव परं ब्रह्म अहमेव परात्परः ॥ १७.१७॥ अहमेव चिदानन्दः अहमेव सुखासुखम् । अहमेव गुरुत्वं च अहमेवाच्युतः सदा ॥ १७.१८॥ अहमेव हि वेदान्तः अहमेव हि चिन्तनः । देहोऽहं शुद्धचैतन्यः अहं संशयवर्जितः ॥ १७.१९॥ अहमेव परं ज्योतिरहमेव परं पदम् । अहमेवाविनाश्यात्मा अहमेव पुरातनः ॥ १७.२०॥ अहं ब्रह्म न सन्देहः अहमेव हि निष्कलः । अहं तुर्यो न सन्देहः अहमात्मा न संशयः ॥ १७.२१॥ अहमित्यपि हीनोऽहमहं भावनवर्जितः । अहमेव हि भावान्ता अहमेव हि शोभनम् ॥ १७.२२॥ अहमेव क्षणातीतः अहमेव हि मङ्गलम् । अहमेवाच्युतानन्दः अहमेव निरन्तरम् ॥ १७.२३॥ अहमेवाप्रमेयात्मा अहं संकल्पवर्जितः । अहं बुद्धः परंधाम अहं बुद्धिविवर्जितः ॥ १७.२४॥ अहमेव सदा सत्यं अहमेव सदासुखम् । अहमेव सदा लभ्यं अहं सुलभकारणम् ॥ १७.२५॥ अहं सुलभविज्ञानं दुर्लभो ज्ञानिनां सदा । अहं चिन्मात्र एवात्मा अहमेव हि चिद्घनः ॥ १७.२६॥ अहमेव त्वमेवाहं ब्रह्मैवाहं न संशयः । अहमात्मा न सन्देहः सर्वव्यापी न संशयः ॥ १७.२७॥ अहमात्मा प्रियं सत्यं सत्यं सत्यं पुनः पुनः । अहमात्माऽजरो व्यापी अहमेवात्मनो गुरुः ॥ १७.२८॥ अहमेवामृतो मोक्षो अहमेव हि निश्चलः । अहमेव हि नित्यात्मा अहं मुक्तो न संशयः ॥ १७.२९॥ अहमेव सदा शुद्धः अहमेव हि निर्गुणः । अहं प्रपञ्चहीनोऽहं अहं देहविवर्जितः ॥ १७.३०॥ अहं कामविहीनात्मा अहं मायाविवर्जितः । अहं दोषप्रवृत्तात्मा अहं संसारवर्जितः ॥ १७.३१॥ अहं सङ्कल्परहितो विकल्परहितः शिवः । अहमेव हि तुर्यात्मा अहमेव हि निर्मलः ॥ १७.३२॥ अहमेव सदा ज्योतिरहमेव सदा प्रभुः । अहमेव सदा ब्रह्म अहमेव सदा परः ॥ १७.३३॥ अहमेव सदा ज्ञानमहमेव सदा मृदुः । अहमेव हि चित्तं च अहं मानविवर्जितः ॥ १७.३४॥ अहंकारश्च संसारमहङ्कारमसत्सदा । अहमेव हि चिन्मात्रं मत्तोऽन्यन्नास्ति नास्ति हि ॥ १७.३५॥ अहमेव हि मे सत्यं मत्तोऽन्यन्नास्ति किञ्चन । मत्तोऽन्यत्तत्पदं नास्ति मत्तोऽन्यत् त्वत्पदं नहि ॥ १७.३६॥ पुण्यमित्यपि न क्वापि पापमित्यपि नास्ति हि । इदं भेदमयं भेदं सदसद्भेदमित्यपि ॥ १७.३७॥ नास्ति नास्ति त्वया सत्यं सत्यं सत्यं पुनः पुनः । नास्ति नास्ति सदा नास्ति सर्वं नास्तीति निश्चयः ॥ १७.३८॥ इदमेव परं ब्रह्म अहं ब्रह्म त्वमेव हि । कालो ब्रह्म कला ब्रह्म कार्यं ब्रह्म क्षणं तदा ॥ १७.३९॥ सर्वं ब्रह्माप्यहं ब्रह्म ब्रह्मास्मीति न संशयः । चित्तं ब्रह्म मनो ब्रह्म सत्यं ब्रह्म सदाऽस्म्यहम् ॥ १७.४०॥ निर्गुणं ब्रह्म नित्यं च निरन्तरमहं परः । आद्यन्तं ब्रह्म एवाहं आद्यन्तं च नहि क्वचित् ॥ १७.४१॥ अहमित्यपि वार्ताऽपि स्मरणं भाषणं न च । सर्वं ब्रह्मैव सन्देहस्त्वमित्यपि न हि क्वचित् ॥ १७.४२॥ वक्ता नास्ति न सन्देहः एषा गीता सुदुर्लभः । सद्यो मोक्षप्रदं ह्येतत् सद्यो मुक्तिं प्रयच्छति ॥ १७.४३॥ सद्य एव परं ब्रह्म पदं प्राप्नोति निश्चयः । सकृच्छ्रवणमात्रेण सद्यो मुक्तिं प्रयच्छति ॥ १७.४४॥ एतत्तु दुर्लभं लोके त्रैलोक्येऽपि च दुर्लभम् । अहं ब्रह्म न सन्देह इत्येवं भावयेत् दृढम् । ततः सर्वं परित्यज्य तूष्णीं तिष्ठ यथा सुखम् ॥ १७.४५॥ सूतः - भुवनगगनमध्यध्यानयोगाङ्गसङ्गे यमनियमविशेषैर्भस्मरागाङ्गसङ्गैः । सुखमुखभरिताशाः कोशपाशाद्विहीना हृदि मुदितपराशाः शांभवाः शंभुवच्च ॥ १७.४६॥ ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे सर्वसिद्धान्तसंग्रहप्रकरणं नाम सप्तदशोऽध्यायः ॥
१८ ॥ अष्टादशोऽध्यायः ॥ ऋभुः - शृणु भूयः परं तत्त्वं सद्यो मोक्षप्रदायकम् । सर्वं ब्रह्मैव सततं सर्वं शान्तं न संशयः ॥ १८.१॥ ब्रह्माक्षरमिदं सर्वं पराकारमिदं नहि । इदमित्यपि यद्दोषं वयमित्यपि भाषणम् ॥ १८.२॥ यत्किञ्चित्स्मरणं नास्ति यत्किञ्चिद् ध्यानमेव हि । यत्किञ्चिद् ज्ञानरूपं वा तत्सर्वं ब्रह्म एव हि ॥ १८.३॥ यत्किञ्चिद् ब्रह्मवाक्यं वा यत्किञ्चिद्वेदवाक्यकम् । यत्किञ्चिद्गुरुवाक्यं वा तत्सर्वं ब्रह्म एव हि ॥ १८.४॥ यत्किञ्चित्कल्मषं सत्यं यत्किञ्चित् प्रियभाषणम् । यत्किञ्चिन्मननं सत्ता तत्सर्वं ब्रह्म एव हि ॥ १८.५॥ यत्किञ्चित् श्रवणं नित्यं यत् किञ्चिद्ध्यानमश्नुते । यत्किञ्चिन्निश्चयं श्रद्धा तत्सर्वं ब्रह्म एव हि ॥ १८.६॥ यत्किञ्चिद् गुरूपदेशं यत्किञ्चिद्गुरुचिन्तनम् । यत्किञ्चिद्योगभेदं वा तत्सर्वं ब्रह्म एव हि ॥ १८.७॥ सर्वं त्यज्य गुरुं त्यज्य सर्वं सन्त्यज्य नित्यशः । तूष्णीमेवासनं ब्रह्म सुखमेव हि केवलम् ॥ १८.८॥ सर्वं त्यक्त्वा सुखं नित्यं सर्वत्यागं सुखं महत् । सर्वत्यागं परानन्दं सर्वत्यागं परं सुखम् ॥ १८.९॥ सर्वत्यागं मनस्त्यागः सर्वत्यागमहंकृतेः । सर्वत्यागं महायागः सर्वत्यागं सुखं परम् ॥ १८.१०॥ सर्वत्यागं महामोक्षं चित्तत्यागं तदेव हि । चित्तमेव जगन्नित्यं चित्तमेव हि संसृतिः ॥ १८.११॥ चित्तमेव महामाया चित्तमेव शरीरकम् । चित्तमेव भयं देहः चित्तमेव मनोमयम् ॥ १८.१२॥ चित्तमेव प्रपञ्चाख्यं चित्तमेव हि कल्मषम् । चित्तमेव जडं सर्वं चित्तमेवेन्द्रियादिकम् ॥ १८.१३॥ चित्तमेव सदा सत्यं चित्तमेव नहि क्वचित् । चित्तमेव महाशास्त्रं चित्तमेव मनःप्रदम् ॥ १८.१४॥ चित्तमेव सदा पापं चित्तमेव सदा मतम् । चित्तमेव हि सर्वाख्यं चित्तमेव सदा जहि ॥ १८.१५॥ चित्तं नास्तीति चिन्ता स्यात् आत्ममात्रं प्रकाशते । चित्तमस्तीति चिन्ता चेत् चित्तत्वं स्वयमेव हि ॥ १८.१६॥ स्वयमेव हि चित्ताख्यं स्वयं ब्रह्म न संशयः । चित्तमेव हि सर्वाख्यं चित्तं सर्वमिति स्मृतम् ॥ १८.१७॥ ब्रह्मैवाहं स्वयंज्योतिर्ब्रह्मैवाहं न संशयः । सर्वं ब्रह्म न सन्देहः सर्वं चिज्ज्योतिरेव हि ॥ १८.१८॥ अहं ब्रह्मैव नित्यात्मा पूर्णात् पूर्णतरं सदा । अहं पृथ्व्यादिसहितं अहमेव विलक्षणम् ॥ १८.१९॥ अहं सूक्ष्मशरीरान्तमहमेव पुरातनम् । अहमेव हि मानात्मा सर्वं ब्रह्मैव केवलम् ॥ १८.२०॥ चिदाकारो ह्यहं पूर्णश्चिदाकारमिदं जगत् । चिदाकारं चिदाकाशं चिदाकाशमहं सदा ॥ १८.२१॥ चिदाकाशं त्वमेवासि चिदाकाशमहं सदा । चिदाकाशं चिदेवेदं चिदाकाशान्न किञ्चन ॥ १८.२२॥ चिदाकाशततं सर्वं चिदाकाशं प्रकाशकम् । चिदाकारं मनो रूपं चिदाकाशं हि चिद्घनम् ॥ १८.२३॥ चिदाकाशं परं ब्रह्म चिदाकाशं च चिन्मयः । चिदाकाशं शिवं साक्षाच्चिदाकाशमहं सदा ॥ १८.२४॥ सच्चिदानन्दरूपोऽहं सच्चिदानन्दशाश्वतः । सच्चिदानन्द सन्मात्रं सच्चिदानन्दभावनः ॥ १८.२५॥ सच्चिदानन्दपूर्णोऽहं सच्चिदानन्दकारणम् । सच्चिदानन्दसन्दोहः सच्चिदानन्द ईश्वरः ॥ १८.२६॥var was हीनकः सच्चिदानन्दनित्योऽहं सच्चिदानन्दलक्षणम् । सच्चिदानन्दमात्रोऽहं सच्चिदानन्दरूपकः ॥ १८.२७॥ आत्मैवेदमिदं सर्वमात्मैवाहं न संशयः । आत्मैवास्मि परं सत्यमात्मैव परमं पदम् ॥ १८.२८॥ आत्मैव जगदाकारं आत्मैव भुवनत्रयम् । आत्मैव जगतां श्रेष्ठः आत्मैव हि मनोमयः ॥ १८.२९॥ आत्मैव जगतां त्राता आत्मैव गुरुरात्मनः । आत्मैव बहुधा भाति आत्मैवैकं परात्मनः ॥ १८.३०॥ आत्मैव परमं ब्रह्म आत्मैवाहं न संशयः । आत्मैव परमं लोकं आत्मैव परमात्मनः ॥ १८.३१॥ आत्मैव जीवरूपात्मा आत्मैवेश्वरविग्रहः । आत्मैव हरिरानन्दः आत्मैव स्वयमात्मनः ॥ १८.३२॥ आत्मैवानन्दसन्दोह आत्मैवेदं सदा सुखम् । आत्मैव नित्यशुद्धात्मा आत्मैव जगतः परः ॥ १८.३३॥ आत्मैव पञ्चभूतात्मा आत्मैव ज्योतिरात्मनः । आत्मैव सर्वदा नान्यदात्मैव परमोऽव्ययः ॥ १८.३४॥ आत्मैव ह्यात्मभासात्मा आत्मैव विभुरव्ययः । आत्मैव ब्रह्मविज्ञानं आत्मैवाहं त्वमेव हि ॥ १८.३५॥ आत्मैव परमानन्द आत्मैवाहं जगन्मयः । आत्मैवाहं जगद्भानं आत्मैवाहं न किञ्चन ॥ १८.३६॥ आत्मैव ह्यात्मनः स्नानमात्मैव ह्यात्मनो जपः । आत्मैव ह्यात्मनो मोदमात्मैवात्मप्रियः सदा ॥ १८.३७॥ आत्मैव ह्यात्मनो नित्यो ह्यात्मैव गुणभासकः । आत्मैव तुर्यरूपात्मा आत्मातीतस्ततः परः ॥ १८.३८॥ आत्मैव नित्यपूर्णात्मा आत्मैवाहं न संशयः । आत्मैव त्वमहं चात्मा सर्वमात्मैव केवलम् ॥ १८.३९॥ नित्योऽहं नित्यपूर्णोऽहं नित्योऽहं सर्वदा सदा । आत्मैवाहं जगन्नान्यद् अमृतात्मा पुरातनः ॥ १८.४०॥ पुरातनोऽहं पुरुषोऽहमीशः परात् परोऽहं परमेश्वरोऽहम् । भवप्रदोऽहं भवनाशनोऽहं सुखप्रदोऽहं सुखरूपमद्वयम् ॥ १८.४१॥ आनन्दोऽहमशेषोऽहममृतोहं न संशयः । अजोऽहमात्मरूपोऽहमन्यन्नास्ति सदा प्रियः ॥ १८.४२॥ ब्रह्मैवाहमिदं ब्रह्म सर्वं ब्रह्म सदाऽव्ययः । सदा सर्वपदं नास्ति सर्वमेव सदा न हि ॥ १८.४३॥ निर्गुणोऽहं निराधार अहं नास्तीति सर्वदा । अनर्थमूलं नास्त्येव मायाकार्यं न किञ्चन ॥ १८.४४॥ अविद्याविभवो नास्ति अहं ब्रह्म न संशयः । सर्वं ब्रह्म चिदाकाशं तदेवाहं न संशयः ॥ १८.४५॥ तदेवाहं स्वयं चाहं परं चाहं परेश्वरः । विद्याधरोऽहमेवात्र विद्याविद्ये न किञ्चन ॥ १८.४६॥ चिदहं चिदहं नित्यं तुर्योऽहं तुर्यकः परः । ब्रह्मैव सर्वं ब्रह्मैव सर्वं ब्रह्म सदाऽस्म्यहम् ॥ १८.४७॥ मत्तोऽन्यन्नापरं किञ्चिन्मत्तोऽन्यद्ब्रह्म च क्वचित् । मत्तोऽन्यत् परमं नास्ति मत्तोऽन्यच्चित्पदं नहि ॥ १८.४८॥ मत्तोऽन्यत् सत्पदं नास्ति मत्तोऽन्यच्चित्पदं न मे । मत्तोऽन्यत् भवनं नास्ति मत्तोऽन्यद् ब्रह्म एव न ॥ १८.४९॥ मत्तोऽन्यत् कारणं नास्ति मत्तोऽन्यत् किञ्चिदप्यणु । मत्तोऽन्यत् सत्त्वरूपं च मत्तोऽन्यत् शुद्धमेव न ॥ १८.५०॥ मत्तोऽन्यत् पावनं नास्ति मत्तोऽन्यत् तत्पदं न हि । मत्तोऽन्यत् धर्मरूपं वा मत्तोऽन्यदखिलं न च ॥ १८.५१॥ मत्तोऽन्यदसदेवात्र मत्तोऽन्यन्मिथ्या एव हि । मत्तोऽन्यद्भाति सर्वस्वं मत्तोऽन्यच्छशशृङ्गवत् ॥ १८.५२॥ मत्तोऽन्यद्भाति चेन्मिथ्या मत्तोऽन्यच्चेन्द्रजालकम् । मत्तोऽन्यत् संशयो नास्ति मत्तोऽन्यत् कार्य कारणम् ॥ १८.५३॥ ब्रह्ममात्रमिदं सर्वं सोऽहमस्मीति भावनम् । सर्वमुक्तं भगवता एवमेवेति निश्चिनु ॥ १८.५४॥ बहुनोक्तेन किं योगिन् निश्चयं कुरु सर्वदा । सकृन्निश्चयमात्रेण ब्रह्मैव भवति स्वयम् ॥ १८.५५॥ वननगभुवनं यच्छङ्करान्नान्यदस्ति जगदिदमसुराद्यं देवदेवः स एव । तनुमनगमनाद्यैः कोशकाशावकाशे स खलु परशिवात्मा दृश्यते सूक्ष्मबुद्ध्या ॥ १८.५६॥ चक्षुःश्रोत्रमनोऽसवश्च हृदि खादुद्भासितध्यान्तरात् तस्मिन्नेव विलीयते गतिपरं यद्वासना वासिनी । चित्तं चेतयते हृदिन्द्रियगणं वाचां मनोदूरगं तं ब्रह्मामृतमेतदेव गिरिजाकान्तात्मना संज्ञितम् ॥ १८.५७॥ ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे अष्टादशोऽध्यायः ॥
१९ ॥ एकोनविंशोऽध्यायः ॥ ऋभुः - ब्रह्मानन्दं प्रवक्ष्यामि त्रिषु लोकेषु दुर्लभम् । यस्य श्रवणमात्रेण सदा मुक्तिमवाप्नुयात् ॥ १९.१॥var was युक्तिमाप्नुयात् परमानन्दोऽहमेवात्मा सर्वदानन्दमेव हि । पूर्णानन्दस्वरूपोऽहं चिदानन्दमयं जगत् ॥ १९.२॥ सदानन्तमनन्तोऽहं बोधानन्दमिदं जगत् । बुद्धानन्दस्वरूपोऽहं नित्यानन्दमिदं मनः ॥ १९.३॥ केवलानन्दमात्रोऽहं केवलज्ञानवानहम् । इति भावय यत्नेन प्रपञ्चोपशमाय वै ॥ १९.४॥ सदा सत्यं परं ज्योतिः सदा सत्यादिलक्षणः । सदा सत्यादिहीनात्मा सदा ज्योतिः प्रियो ह्यहम् ॥ १९.५॥ नास्ति मिथ्याप्रपञ्चात्मा नास्ति मिथ्या मनोमयः । नास्ति मिथ्याभिधानात्मा नास्ति चित्तं दुरात्मवान् ॥ १९.६॥ नास्ति मूढतरो लोके नास्ति मूढतमो नरः । अहमेव परं ब्रह्म अहमेव स्वयं सदा ॥ १९.७॥ इदं परं च नास्त्येव अहमेव हि केवलम् । अहं ब्रह्मास्मि शुद्धोऽस्मि सर्वं ब्रह्मैव केवलम् ॥ १९.८॥ जगत्सर्वं सदा नास्ति चित्तमेव जगन्मयम् । चित्तमेव प्रपञ्चाख्यं चित्तमेव शरीरकम् ॥ १९.९॥ चित्तमेव महादोषं चित्तमेव हि बालकः । चित्तमेव महात्माऽयं चित्तमेव महानसत् ॥ १९.१०॥ चित्तमेव हि मिथ्यात्मा चित्तं शशविषाणवत् । चित्तं नास्ति सदा सत्यं चित्तं वन्ध्याकुमारवत् ॥ १९.११॥ चित्तं शून्यं न सन्देहो ब्रह्मैव सकलं जगत् । अहमेव हि चैतन्यं अहमेव हि निर्गुणम् ॥ १९.१२॥ मन एव हि संसारं मन एव हि मण्डलम् । मन एव हि बन्धत्वं मन एव हि पातकम् ॥ १९.१३॥ मन एव महद्दुःखं मन एव शरीरकम् । मन एव प्रपञ्चाख्यं मन एव कलेवरम् ॥ १९.१४॥ मन एव महासत्त्वं मन एव चतुर्मुखः । मन एव हरिः साक्षात् मन एव शिवः स्मृतः ॥ १९.१५॥ मन एवेन्द्रजालाख्यं मनः सङ्कल्पमात्रकम् । मन एव महापापं मन एव दुरात्मवान् ॥ १९.१६॥ मन एव हि सर्वाख्यं मन एव महद्भयम् । मन एव परं ब्रह्म मन एव हि केवलम् ॥ १९.१७॥ मन एव चिदाकारं मन एव मनायते । चिदेव हि परं रूपं चिदेव हि परं पदम् ॥ १९.१८॥ परं ब्रह्माहमेवाद्य परं ब्रह्माहमेव हि । अहमेव हि तृप्तात्मा अहमानन्दविग्रहः ॥ १९.१९॥ अहं बुद्धिः प्रवृद्धात्मा नित्यं निश्चलनिर्मलः । अहमेव हि शान्तात्मा अहमाद्यन्तवर्जितः ॥ १९.२०॥ अहमेव प्रकाशात्मा अहं ब्रह्मैव केवलम् । अहं नित्यो न सन्देह अहं बुद्धिः प्रियः सदा ॥ १९.२१॥var was बुद्धिप्रियः सदा अहमेवाहमेवैकः अहमेवाखिलामृतः । अहमेव स्वयं सिद्धः अहमेवानुमोदकः ॥ १९.२२॥ अहमेव त्वमेवाहं सर्वात्मा सर्ववर्जितः । अहमेव परं ब्रह्म अहमेव परात्परः ॥ १९.२३॥ अहङ्कारं न मे दुःखं न मे दोषं न मे सुखम् । न मे बुद्धिर्न मे चित्तं न मे देहो न मेन्द्रियम् ॥ १९.२४॥ न मे गोत्रं न मे नेत्रं न मे पात्रं न मे तृणम् । न मे जपो न मे मन्त्रो न मे लोको न मे सुहृत् ॥ १९.२५॥ न मे बन्धुर्न मे शत्रुर्न मे माता न मे पिता । न मे भोज्यं न मे भोक्ता न मे वृत्तिर्न मे कुलम् ॥ १९.२६॥ न मे जातिर्न मे वर्णः न मे श्रोत्रं न मे क्वचित् । न मे बाह्यं न मे बुद्धिः स्थानं वापि न मे वयः ॥ १९.२७॥ न मे तत्त्वं न मे लोको न मे शान्तिर्न मे कुलम् । न मे कोपो न मे कामः केवलं ब्रह्ममात्रतः ॥ १९.२८॥ केवलं ब्रह्ममात्रत्वात् केवलं स्वयमेव हि । न मे रागो न मे लोभो न मे स्तोत्रं न मे स्मृतिः ॥ १९.२९॥ न मे मोहो न मे तृष्णा न मे स्नेहो न मे गुणः । न मे कोशं न मे बाल्यं न मे यौवनवार्धकम् ॥ १९.३०॥ सर्वं ब्रह्मैकरूपत्वादेकं ब्रह्मेति निश्चितम् । ब्रह्मणोऽन्यत् परं नास्ति ब्रह्मणोऽन्यन्न किञ्चन ॥ १९.३१॥ ब्रह्मणोऽन्यदिदं नास्ति ब्रह्मणोऽन्यदिदं न हि । आत्मनोऽन्यत् सदा नास्ति आत्मैवाहं न संशयः ॥ १९.३२॥ आत्मनोऽन्यत् सुखं नास्ति आत्मनोऽन्यदहं न च । ग्राह्यग्राहकहीनोऽहं त्यागत्याज्यविवर्जितः ॥ १९.३३॥ न त्याज्यं न च मे ग्राह्यं न बन्धो न च भुक्तिदम् ।var was मुक्तिदम् न मे लोकं न मे हीनं न श्रेष्ठं नापि दूषणम् ॥ १९.३४॥ न मे बलं न चण्डालो न मे विप्रादिवर्णकम् । न मे पानं न मे ह्रस्वं न मे क्षीणं न मे बलम् ॥ १९.३५॥ न मे शक्तिर्न मे भुक्तिर्न मे दैवं न मे पृथक् । अहं ब्रह्मैकमात्रत्वात् नित्यत्वान्यन्न किञ्चन ॥ १९.३६॥ न मतं न च मे मिथ्या न मे सत्यं वपुः क्वचित् । अहमित्यपि नास्त्येव ब्रह्म इत्यपि नाम वा ॥ १९.३७॥ यद्यद्यद्यत्प्रपञ्चोऽस्ति यद्यद्यद्यद्गुरोर्वचः । तत्सर्वं ब्रह्म एवाहं तत्सर्वं चिन्मयं मतम् ॥ १९.३८॥ चिन्मयं चिन्मयं ब्रह्म सन्मयं सन्मयं सदा । स्वयमेव स्वयं ब्रह्म स्वयमेव स्वयं परः ॥ १९.३९॥ स्वयमेव स्वयं मोक्षः स्वयमेव निरन्तरः । स्वयमेव हि विज्ञानं स्वयमेव हि नास्त्यकम् ॥ १९.४०॥ स्वयमेव सदासारः स्वयमेव स्वयं परः । स्वयमेव हि शून्यात्मा स्वयमेव मनोहरः ॥ १९.४१॥ तूष्णीमेवासनं स्नानं तूष्णीमेवासनं जपः । तूष्णीमेवासनं पूजा तूष्णीमेवासनं परः ॥ १९.४२॥ विचार्य मनसा नित्यमहं ब्रह्मेति निश्चिनु । अहं ब्रह्म न सन्देहः एवं तूष्णींस्थितिर्जपः ॥ १९.४३॥ सर्वं ब्रह्मैव नास्त्यन्यत् सर्वं ज्ञानमयं तपः । स्वयमेव हि नास्त्येव सर्वातीतस्वरूपवान् ॥ १९.४४॥ वाचातीतस्वरूपोऽहं वाचा जप्यमनर्थकम् । मानसः परमार्थोऽयं एतद्भेदमहं न मे ॥ १९.४५॥ कुणपं सर्वभूतादि कुणपं सर्वसङ्ग्रहम् । असत्यं सर्वदा लोकमसत्यं सकलं जगत् ॥ १९.४६॥ असत्यमन्यदस्तित्वमसत्यं नास्ति भाषणम् । असत्याकारमस्तित्वं ब्रह्ममात्रं सदा स्वयम् ॥ १९.४७॥ असत्यं वेदवेदाङ्गं असत्यं शास्त्रनिश्चयः । असत्यं श्रवणं ह्येतदसत्यं मननं च तत् ॥ १९.४८॥ असत्यं च निदिध्यासः सजातीयमसत्यकम् । विजातीयमसत् प्रोक्तं सत्यं सत्यं न संशयः । सर्वं ब्रह्म सदा ब्रह्म एकं ब्रह्म चिदव्ययम् ॥ १९.४९॥ चेतोविलासजनितं किल विश्वमेत- द्विश्वाधिकस्य कृपया परिपूर्णभास्यात् । नास्त्यन्यतः श्रुतिशिरोत्थितवाक्यमोघ- शास्त्रानुसारिकरणैर्भवते विमुक्त्यै ॥ १९.५०॥ ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे ब्रह्मानन्दप्रकरणं नाम एकोनविंशोऽध्यायः ॥
२० ॥ विंशोऽध्यायः ॥ ऋभुः - शृणु केवलमत्यन्तं रहस्यं परमाद्भुतम् । इति गुह्यतरं सद्यो मोक्षप्रदमिदं सदा ॥ २०.१॥ सुलभं ब्रह्मविज्ञानं सुलभं शुभमुत्तमम् । सुलभं ब्रह्मनिष्ठानां सुलभं सर्वबोधकम् ॥ २०.२॥ सुलभं कृतकृत्यानां सुलभं स्वयमात्मनः । सुलभं कारणाभावं सुलभं ब्रह्मणि स्थितम् ॥ २०.३॥ सुलभं चित्तहीनानां स्वयं तच्च स्वयं स्वयम् । स्वयं संसारहीनानां चित्तं संसारमुच्यते ॥ २०.४॥ सृष्ट्वैदं न संसारः ब्रह्मैवेदं मनो न च । ब्रह्मैवेदं भयं नास्ति ब्रह्मैवेदं न किञ्चन ॥ २०.५॥ ब्रह्मैवेदमसत् सर्वं ब्रह्मैवेदं परायणम् । ब्रह्मैवेदं शरीराणां ब्रह्मैवेदं तृणं न च ॥ २०.६॥ ब्रह्मैवास्मि न चान्योऽस्मि ब्रह्मैवेदं जगन्न च । ब्रह्मैवेदं वियन्नास्ति ब्रह्मैवेदं क्रिया न च ॥ २०.७॥ ब्रह्मैवेदं महात्मानं ब्रह्मैवेदं प्रियं सदा । ब्रह्मैवेदं जगन्नान्तो ब्रह्मैवाहं भयं न हि ॥ २०.८॥ ब्रह्मैवाहं सदाचित्तं ब्रह्मैवाहमिदं न हि । ब्रह्मैवाहं तु यन्मिथ्या ब्रह्मैवाहमियं भ्रमा ॥ २०.९॥ ब्रह्मैव सर्वसिद्धान्तो ब्रह्मैव मनसास्पदम् । ब्रह्मैव सर्वभवनं ब्रह्मैव मुनिमण्डलम् ॥ २०.१०॥ ब्रह्मैवाहं तु नास्त्यन्यद् ब्रह्मैव गुरुपूजनम् । ब्रह्मैव नान्यत् किञ्चित्तु ब्रह्मैव सकलं सदा ॥ २०.११॥ ब्रह्मैव त्रिगुणाकारं ब्रह्मैव हरिरूपकम् । ब्रह्मणोऽन्यत् पदं नास्ति ब्रह्मणोऽन्यत् क्षणं न मे ॥ २०.१२॥ ब्रह्मैवाहं नान्यवार्ता ब्रह्मैवाहं न च श्रुतम् । ब्रह्मैवाहं समं नास्ति सर्वं ब्रह्मैव केवलम् ॥ २०.१३॥ ब्रह्मैवाहं न मे भोगो ब्रह्मैवाहं न मे पृथक् । ब्रह्मैवाहं सतं नास्ति ब्रह्मैव ब्रह्मरूपकः ॥ २०.१४॥ ब्रह्मैव सर्वदा भाति ब्रह्मैव सुखमुत्तमम् । ब्रह्मैव नानाकारत्वात् ब्रह्मैवाहं प्रियं महत् ॥ २०.१५॥ ब्रह्मैव ब्रह्मणः पूज्यं ब्रह्मैव ब्रह्मणो गुरुः । ब्रह्मैव ब्रह्ममाता तु ब्रह्मैवाहं पिता सुतः ॥ २०.१६॥ ब्रह्मैव ब्रह्म देवं च ब्रह्मैव ब्रह्म तज्जयः । ब्रह्मैव ध्यानरूपात्मा ब्रह्मैव ब्रह्मणो गुणः ॥ २०.१७॥ आत्मैव सर्वनित्यात्मा आत्मनोऽन्यन्न किञ्चन । आत्मैव सततं ह्यात्मा आत्मैव गुरुरात्मनः ॥ २०.१८॥ आत्मज्योतिरहंभूतमात्मैवास्ति सदा स्वयम् । स्वयं तत्त्वमसि ब्रह्म स्वयं भामि प्रकाशकः ॥ २०.१९॥ स्वयं जीवत्वसंशान्तिः स्वयमीश्वररूपवान् । स्वयं ब्रह्म परं ब्रह्म स्वयं केवलमव्ययम् ॥ २०.२०॥ स्वयं नाशं च सिद्धान्तं स्वयमात्मा प्रकाशकः । स्वयं प्रकाशरूपात्मा स्वयमत्यन्तनिर्मलः ॥ २०.२१॥ स्वयमेव हि नित्यात्मा स्वयं शुद्धः प्रियाप्रियः । स्वयमेव स्वयं छन्दः स्वयं देहादिवर्जितः ॥ २०.२२॥ स्वयं दोषविहीनात्मा स्वयमाकाशवत् स्थितः । अयं चेदं च नास्त्येव अयं भेदविवर्जितः ॥ २०.२३॥ ब्रह्मैव चित्तवद्भाति ब्रह्मैव शिववत् सदा । ब्रह्मैव बुद्धिवद्भाति ब्रह्मैव शिववत् सदा ॥ २०.२४॥ ब्रह्मैव शशवद्भाति ब्रह्मैव स्थूलवत् स्वयम् । ब्रह्मैव सततं नान्यत् ब्रह्मैव गुरुरात्मनः ॥ २०.२५॥ आत्मज्योतिरहं भूतमहं नास्ति सदा स्वयम् । स्वयमेव परं ब्रह्म स्वयमेव चिदव्ययः ॥ २०.२६॥ स्वयमेव स्वयं ज्योतिः स्वयं सर्वत्र भासते । स्वयं ब्रह्म स्वयं देहः स्वयं पूर्णः परः पुमान् ॥ २०.२७॥ स्वयं तत्त्वमसि ब्रह्म स्वयं भाति प्रकाशकः । स्वयं जीवत्वसंशान्तः स्वयमीश्वररूपवान् ॥ २०.२८॥ स्वयमेव परं ब्रह्म स्वयं केवलमव्ययः । स्वयं राद्धान्तसिद्धान्तः स्वयमात्मा प्रकाशकः ॥ २०.२९॥ स्वयं प्रकाशरूपात्मा स्वयमत्यन्तनिर्मलः । स्वयमेव हि नित्यात्मा स्वयं शुद्धः प्रियाप्रियः ॥ २०.३०॥ स्वयमेव स्वयं स्वस्थः स्वयं देहविवर्जितः । स्वयं दोषविहीनात्मा स्वयमाकाशवत् स्थितः ॥ २०.३१॥ अखण्डः परिपूर्णोऽहमखण्डरसपूरणः । अखण्डानन्द एवाहमपरिच्छिन्नविग्रहः ॥ २०.३२॥ इति निश्चित्य पूर्णात्मा ब्रह्मैव न पृथक् स्वयम् । अहमेव हि नित्यात्मा अहमेव हि शाश्वतः ॥ २०.३३॥ अहमेव हि तद्ब्रह्म ब्रह्मैवाहं जगत्प्रभुः । ब्रह्मैवाहं निराभासो ब्रह्मैवाहं निरामयः ॥ २०.३४॥ ब्रह्मैवाहं चिदाकाशो ब्रह्मैवाहं निरन्तरः । ब्रह्मैवाहं महानन्दो ब्रह्मैवाहं सदात्मवान् ॥ २०.३५॥ ब्रह्मैवाहमनन्तात्मा ब्रह्मैवाहं सुखं परम् । ब्रह्मैवाहं महामौनी सर्ववृत्तान्तवर्जितः ॥ २०.३६॥ ब्रह्मैवाहमिदं मिथ्या ब्रह्मैवाहं जगन्न हि । ब्रह्मैवाहं न देहोऽस्मि ब्रह्मैवाहं महाद्वयः ॥ २०.३७॥ ब्रह्मैव चित्तवद्भाति ब्रह्मैव शिववत् सदा । ब्रह्मैव बुद्धिवद्भाति ब्रह्मैव फलवत् स्वयम् ॥ २०.३८॥ ब्रह्मैव मूर्तिवद्भाति तद्ब्रह्मासि न संशयः । ब्रह्मैव कालवद्भाति ब्रह्मैव सकलादिवत् ॥ २०.३९॥ ब्रह्मैव भूतिवद्भाति ब्रह्मैव जडवत् स्वयम् । ब्रह्मैवौंकारवत् सर्वं ब्रह्मैवौंकाररूपवत् ॥ २०.४०॥ ब्रह्मैव नादवद्ब्रह्म नास्ति भेदो न चाद्वयम् । सत्यं सत्यं पुनः सत्यं ब्रह्मणोऽन्यन्न किञ्चन ॥ २०.४१॥ ब्रह्मैव सर्वमात्मैव ब्रह्मणोऽन्यन्न किञ्चन । सर्वं मिथ्या जगन्मिथ्या दृश्यत्वाद्घटवत् सदा ॥ २०.४२॥ ब्रह्मैवाहं न सन्देहश्चिन्मात्रत्वादहं सदा । ब्रह्मैव शुद्धरूपत्वात् दृग्रूपत्वात् स्वयं महत् ॥ २०.४३॥ अहमेव परं ब्रह्म अहमेव परात् परः । अहमेव मनोतीत अहमेव जगत्परः ॥ २०.४४॥ अहमेव हि नित्यात्मा अहं मिथ्या स्वभावतः । आनन्दोऽहं निराधारो ब्रह्मैव न च किञ्चन ॥ २०.४५॥ नान्यत् किञ्चिदहं ब्रह्म नान्यत् किञ्चिच्चिदव्ययः । आत्मनोऽन्यत् परं तुच्छमात्मनोऽन्यदहं नहि ॥ २०.४६॥ आत्मनोऽन्यन्न मे देहः आत्मैवाहं न मे मलम् । आत्मन्येवात्मना चित्तमात्मैवाहं न तत् पृथक् ॥ २०.४७॥ आत्मैवाहमहं शून्यमात्मैवाहं सदा न मे । आत्मैवाहं गुणो नास्ति आत्मैव न पृथक् क्वचित् ॥ २०.४८॥ अत्यन्ताभाव एव त्वं अत्यन्ताभावमीदृशम् । अत्यन्ताभाव एवेदमत्यन्ताभावमण्वपि ॥ २०.४९॥ आत्मैवाहं परं ब्रह्म सर्वं मिथ्या जगत्त्रयम् । अहमेव परं ब्रह्म अहमेव परो गुरुः ॥ २०.५०॥ जीवभावं सदासत्यं शिवसद्भावमीदृशम् । विष्णुवद्भावनाभ्रान्तिः सर्वं शशविषाणवत् ॥ २०.५१॥ अहमेव सदा पूर्णं अहमेव निरन्तरम् । नित्यतृप्तो निराकारो ब्रह्मैवाहं न संशयः ॥ २०.५२॥ अहमेव परानन्द अहमेव क्षणान्तिकः । अहमेव त्वमेवाहं त्वं चाहं नास्ति नास्ति हि ॥ २०.५३॥ वाचामगोचरोऽहं वै वाङ्मनो नास्ति कल्पितम् । अहं ब्रह्मैव सर्वात्मा अहं ब्रह्मैव निर्मलः ॥ २०.५४॥ अहं ब्रह्मैव चिन्मात्रं अहं ब्रह्मैव नित्यशः । इदं च सर्वदा नास्ति अहमेव सदा स्थिरः ॥ २०.५५॥ इदं सुखमहं ब्रह्म इदं सुखमहं जडम् । इदं ब्रह्म न सन्देहः सत्यं सत्यं पुनः पुनः ॥ २०.५६॥ इत्यात्मवैभवं प्रोक्तं सर्वलोकेषु दुर्लभम् । सकृच्छ्रवणमात्रेण ब्रह्मैव भवति स्वयम् ॥ २०.५७॥ शान्तिदान्तिपरमा भवतान्ताः स्वान्तभान्तमनिशं शशिकान्तम् । अन्तकान्तकमहो कलयन्तः वेदमौलिवचनैः किल शान्ताः ॥ २०.५८॥ ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे आत्मवैभवप्रकरणं नाम विंशोऽध्यायः ॥
२१ ॥ एकविंशोऽध्यायः ॥ ऋभुः - महारहस्यं वक्ष्यामि वेदान्तेषु च गोपितम् । यस्य श्रवणमात्रेण ब्रह्मैव भवति स्वयम् ॥ २१.१॥ सच्चिदानन्दमात्रोऽहं सर्वं सच्चिन्मयं ततम् । तदेव ब्रह्म सम्पश्यत् ब्रह्मैव भवति स्वयम् ॥ २१.२॥ अहं ब्रह्म इदं ब्रह्म नाना ब्रह्म न संशयः । सत्यं ब्रह्म सदा ब्रह्माप्यहं ब्रह्मैव केवलम् ॥ २१.३॥ गुरुर्ब्रह्म गुणो ब्रह्म सर्वं ब्रह्मपरोऽस्म्यहम् । नान्तं ब्रह्म अहं ब्रह्म सर्वं ब्रह्मापरोऽस्म्यहम् ॥ २१.४॥ वेदवेद्यं परं ब्रह्म विद्या ब्रह्म विशेषतः । आत्मा ब्रह्म अहं ब्रह्म आद्यन्तं ब्रह्म सोऽस्म्यहम् ॥ २१.५॥ सत्यं ब्रह्म सदा ब्रह्म अन्यन्नास्ति सदा परम् । अहं ब्रह्म त्वहं नास्ति अहंकारपरं नहि ॥ २१.६॥ अहं ब्रह्म इदं नास्ति अयमात्मा महान् सदा । वेदान्तवेद्यो ब्रह्मात्मा अपरं शशशृङ्गवत् ॥ २१.७॥ भूतं नास्ति भविष्यं न ब्रह्मैव स्थिरतां गतः । चिन्मयोऽहं जडं तुच्छं चिन्मात्रं देहनाशनम् ॥ २१.८॥ चित्तं किञ्चित् क्वचिच्चापि चित्तं दूरोऽहमात्मकः ।var was हरोऽहमात्मकः सत्यं ज्ञानमनन्तं यन्नानृतं जडदुःखकम् ॥ २१.९॥ आत्मा सत्यमनन्तात्मा देहमेव न संशयः । वार्ताप्यसच्छ्रुतं तन्न अहमेव महोमहः ॥ २१.१०॥ एकसंख्याप्यसद्ब्रह्म सत्यमेव सदाऽप्यहम् । सर्वमेवमसत्यं च उत्पन्नत्वात् परात् सदा ॥ २१.११॥ सर्वावयवहीनोऽपि नित्यत्वात् परमो ह्यहम् । सर्वं दृश्यं न मे किञ्चित् चिन्मयत्वाद्वदाम्यहम् ॥ २१.१२॥ आग्रहं च न मे किञ्चित् चिन्मयत्वाद्वदाम्यहम् । इदमित्यपि निर्देशो न क्वचिन्न क्वचित् सदा ॥ २१.१३॥ निर्गुणब्रह्म एवाहं सुगुरोरुपदेशतः । विज्ञानं सगुणो ब्रह्म अहं विज्ञानविग्रहः ॥ २१.१४॥ निर्गुणोऽस्मि निरंशोऽस्मि भवोऽस्मि भरणोऽस्म्यहम् । देवोऽस्मि द्रव्यपूर्णोऽस्मि शुद्धोऽस्मि रहितोऽस्म्यहम् ॥ २१.१५॥ रसोऽस्मि रसहीनोऽस्मि तुर्योऽस्मि शुभभावनः । कामोऽस्मि कार्यहीनोऽस्मि नित्यनिर्मलविग्रहः ॥ २१.१६॥ आचारफलहीनोऽस्मि अहं ब्रह्मास्मि केवलम् । इदं सर्वं परं ब्रह्म अयमात्मा न विस्मयः ॥ २१.१७॥ पूर्णापूर्णस्वरूपात्मा नित्यं सर्वात्मविग्रहः । परमानन्दतत्त्वात्मा परिच्छिन्नं न हि क्वचित् ॥ २१.१८॥ एकात्मा निर्मलाकार अहमेवेति भावय । अहंभावनया युक्त अहंभावेन संयुतः ॥ २१.१९॥ शान्तं भावय सर्वात्मा शाम्यतत्त्वं मनोमलः । देहोऽहमिति सन्त्यज्य ब्रह्माहमिति निश्चिनु ॥ २१.२०॥ ब्रह्मैवाहं ब्रह्ममात्रं ब्रह्मणोऽन्यन्न किञ्चन । इदं नाहमिदं नाहमिदं नाहं सदा स्मर ॥ २१.२१॥ अहं सोऽहमहं सोऽहमहं ब्रह्मेति भावय । चिदहं चिदहं ब्रह्म चिदहं चिदहं वद ॥ २१.२२॥ नेदं नेदं सदा नेदं न त्वं नाहं च भावय । सर्वं ब्रह्म न सन्देहः सर्वं वेदं न किञ्चन ॥ २१.२३॥ सर्वं शब्दार्थभवनं सर्वलोकभयं न च । सर्वतीर्थं न सत्यं हि सर्वदेवालयं न हि ॥ २१.२४॥ सर्वचैतन्यमात्रत्वात् सर्वं नाम सदा न हि । सर्वरूपं परित्यज्य सर्वं ब्रह्मेति निश्चिनु ॥ २१.२५॥ ब्रह्मैव सर्वं तत्सत्यं प्रपञ्चं प्रकृतिर्नहि । प्राकृतं स्मरणं त्यज्य ब्रह्मस्मरणमाहर ॥ २१.२६॥ ततस्तदपि सन्त्यज्य निजरूपे स्थिरो भव । स्थिररूपं परित्यज्य आत्ममात्रं भवत्यसौ ॥ २१.२७॥ त्यागत्वमपि सन्त्यज्य भेदमात्रं सदा त्यज । स्वयं निजं समावृत्य स्वयमेव स्वयं भज ॥ २१.२८॥ इदमित्यङ्गुलीदृष्टमिदमस्तमचेतनम् । इदं वाक्यं च वाक्येन वाचाऽपि परिवेदनम् ॥ २१.२९॥ सर्वभावं न सन्देहः सर्वं नास्ति न संशयः । सर्वं तुच्छं न सन्देहः सर्वं माया न संशयः ॥ २१.३०॥ त्वं ब्रह्माहं न सन्देहो ब्रह्मैवेदं न संशयः । सर्वं चित्तं न सन्देहः सर्वं ब्रह्म न संशयः ॥ २१.३१॥ ब्रह्मान्यद्भाति चेन्मिथ्या सर्वं मिथ्या परावरा । न देहं पञ्चभूतं वा न चित्तं भ्रान्तिमात्रकम् ॥ २१.३२॥ न च बुद्धीन्द्रियाभावो न मुक्तिर्ब्रह्ममात्रकम् । निमिषं च न शङ्कापि न सङ्कल्पं तदस्ति चेत् ॥ २१.३३॥ अहङ्कारमसद्विद्धि अभिमानं तदस्ति चेत् । न चित्तस्मरणं तच्चेन्न सन्देहो जरा यदि ॥ २१.३४॥ प्राणो???दीयते शास्ति घ्राणो यदिह गन्धकम् । चक्षुर्यदिह भूतस्य श्रोत्रं श्रवणभावनम् ॥ २१.३५॥ त्वगस्ति चेत् स्पर्शसत्ता जिह्वा चेद्रससङ्ग्रहः । जीवोऽस्ति चेज्जीवनं च पादश्चेत् पादचारणम् ॥ २१.३६॥ हस्तौ यदि क्रियासत्ता स्रष्टा चेत् सृष्टिसंभवः । रक्ष्यं चेद्रक्षको विष्णुर्भक्ष्यं चेद्भक्षकः शिवः ॥ २१.३७॥ सर्वं ब्रह्म न सन्देहः सर्वं ब्रह्मैव केवलम् । पूज्यं चेत् पूजनं चास्ति भास्यं चेद्भासकः शिवः ॥ २१.३८॥ सर्वं मिथ्या न सन्देहः सर्वं चिन्मात्रमेव हि । अस्ति चेत् कारणं सत्यं कार्यं चैव भविष्यति ॥ २१.३९॥ नास्ति चेन्नास्ति हीनोऽहं ब्रह्मैवाहं परायणम् । अत्यन्तदुःखमेतद्धि अत्यन्तसुखमव्ययम् ॥ २१.४०॥ अत्यन्तं जन्ममात्रं च अत्यन्तं रणसंभवम् । अत्यन्तं मलिनं सर्वमत्यन्तं निर्मलं परम् ॥ २१.४१॥ अत्यन्तं कल्पनं दुष्टं अत्यन्तं निर्मलं त्वहम् । अत्यन्तं सर्वदा दोषमत्यन्तं सर्वदा गुणम् ॥ २१.४२॥ अत्यन्तं सर्वदा शुभ्रमत्यन्तं सर्वदा मलम् । अत्यन्तं सर्वदा चाहमत्यन्तं सर्वदा इदम् ॥ २१.४३॥ अत्यन्तं सर्वदा ब्रह्म अत्यन्तं सर्वदा जगत् । एतावदुक्तमभयमहं भेदं न किञ्चन ॥ २१.४४॥ सदसद्वापि नास्त्येव सदसद्वापि वाक्यकम् । नास्ति नास्ति न सन्देहो ब्रह्मैवाहं न संशयः ॥ २१.४५॥ कारणं कार्यरूपं वा सर्वं नास्ति न संशयः । कर्ता भोक्ता क्रिया वापि न भोज्यं भोगतृप्तता ॥ २१.४६॥ सर्वं ब्रह्म न सन्देहः सर्व शब्दो न वास्तवम् । भूतं भविष्यं वार्तं तु कार्यं वा नास्ति सर्वदा ॥ २१.४७॥ सदसद्भेद्यभेदं वा न गुणा गुणभागिनः । निर्मलं वा मलं वापि नास्ति नास्ति न किञ्चन ॥ २१.४८॥ भाष्यं वा भाषणं वाऽपि नास्ति नास्ति न किञ्चन । प्रबलं दुर्बलं वापि अहं च त्वं च वा क्वचित् ॥ २१.४९॥ ग्राह्यं च ग्राहकं वापि उपेक्ष्यं नात्मनः क्वचित् । तीर्थं वा स्नानरूपं वा देवो वा देव पूजनम् ॥ २१.५०॥ जन्म वा मरणं हेतुर्नास्ति नास्ति न किञ्चन । सत्यं वा सत्यरूपं वा नास्ति नास्ति न किञ्चन ॥ २१.५१॥ मातरः पितरो वापि देहो वा नास्ति किञ्चन । दृग्रूपं दृश्यरूपं वा नास्ति नास्तीह किञ्चन ॥ २१.५२॥ मायाकार्यं च माया वा नास्ति नास्तीह किञ्चन । ज्ञानं वा ज्ञानभेदो वा नास्ति नास्तीह किञ्चन ॥ २१.५३॥ सर्वप्रपञ्चहेयत्वं प्रोक्तं प्रकरणं च ते । यः शृणोति सकृद्वापि आत्माकारं प्रपद्यते ॥ २१.५४॥ स्कन्दः - माया सा त्रिगुणा गणाधिपगुरोरेणाङ्कचूडामणेः पादाम्भोजसमर्चनेन विलयं यात्येव नास्त्यन्यथा । विद्या हृद्यतमा सुविद्युदिव सा भात्येव हृत्पङ्कजे यस्यानल्पतपोभिरुग्रकरणादृक् तस्य मुक्तिः स्थिरा ॥ २१.५५॥ ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे सर्वप्रपञ्चहेयत्वप्रकरणवर्णनं नाम एकविंशोऽध्यायः ॥
२२ ॥ द्वाविंशोऽध्यायः ॥ ऋभुः - वक्ष्ये ब्रह्ममयं सर्वं नास्ति सर्वं जगन्मृषा । अहं ब्रह्म न मे चिन्ता अहं ब्रह्म न मे जडम् ॥ २२.१॥ अहं ब्रह्म न मे दोषः अहं ब्रह्म न मे फलम् । अहं ब्रह्म न मे वार्ता अहं ब्रह्म न मे द्वयम् ॥ २२.२॥ अहं ब्रह्म न मे नित्यमहं ब्रह्म न मे गतिः । अहं ब्रह्म न मे माता अहं ब्रह्म न मे पिता ॥ २२.३॥ अहं ब्रह्म न मे सोऽयमहं वैश्वानरो न हि । अहं ब्रह्म चिदाकाशमहं ब्रह्म न संशयः ॥ २२.४॥ सर्वान्तरोऽहं पूर्णात्मा सर्वान्तरमनोऽन्तरः । अहमेव शरीरान्तरहमेव स्थिरः सदा ॥ २२.५॥ एवं विज्ञानवान् मुक्त एवं ज्ञानं सुदुर्लभम् । अनेकशतसाहस्त्रेष्वेक एव विवेकवान् ॥ २२.६॥ तस्य दर्शनमात्रेण पितरस्तृप्तिमागताः । ज्ञानिनो दर्शनं पुण्यं सर्वतीर्थावगाहनम् ॥ २२.७॥ ज्ञानिनः चार्चनेनैव जीवन्मुक्तो भवेन्नरः । ज्ञानिनो भोजने दाने सद्यो मुक्तो भवेन्नरः ॥ २२.८॥ अहं ब्रह्म न सन्देहः अहमेव गुरुः परः । अहं शान्तोऽस्मि शुद्धोऽस्मि अहमेव गुणान्तरः ॥ २२.९॥ गुणातीतो जनातीतः परातीतो मनः परः । परतः परतोऽतीतो बुद्ध्यातीतो रसात् परः ॥ २२.१०॥ भावातीतो मनातीतो वेदातीतो विदः परः । शरीरादेश्च परतो जाग्रत्स्वप्नसुषुप्तितः ॥ २२.११॥ अव्यक्तात् परतोऽतीत इत्येवं ज्ञाननिश्चयः । क्वचिदेतत्परित्यज्य सर्वं संत्यज्य मूकवत् ॥ २२.१२॥ तूष्णीं ब्रह्म परं ब्रह्म शाश्वतब्रह्मवान् स्वयम् । ज्ञानिनो महिमा किञ्चिदणुमात्रमपि स्फुटम् ॥ २२.१३॥ हरिणापि हरेणापि ब्रह्मणापि सुरैरपि । न शक्यते वर्णयितुं कल्पकोटिशतैरपि ॥ २२.१४॥ अहं ब्रह्मेति विज्ञानं त्रिषु लोकेषु दुर्लभम् । विवेकिनं महात्मानं ब्रह्ममात्रेणावस्थितम् ॥ २२.१५॥ द्रष्टुं च भाषितुं वापि दुर्लभं पादसेवनम् । कदाचित् पादतीर्थेन स्नातश्चेत् ब्रह्म एव सः ॥ २२.१६॥ सर्वं मिथ्या न सन्देहः सर्वं ब्रह्मैव केवलम् । एतत् प्रकरणं प्रोक्तं सर्वसिद्धान्तसंग्रहः ॥ २२.१७॥ दुर्लभं यः पठेद्भक्त्या ब्रह्म सम्पद्यते नरः । वक्ष्ये ब्रह्ममयं सर्वं नान्यत् सर्वं जगन्मृषा ॥ २२.१८॥ ब्रह्मैव जगदाकारं ब्रह्मैव परमं पदम् । अहमेव परं ब्रह्म अहमित्यपि वर्जितः ॥ २२.१९॥ सर्ववर्जितचिन्मात्रं सर्ववर्जितचेतनः । सर्ववर्जितशान्तात्मा सर्वमङ्गलविग्रहः ॥ २२.२०॥ अहं ब्रह्म परं ब्रह्म असन्नेदं न मे न मे । न मे भूतं भविष्यच्च न मे वर्णं न संशयः ॥ २२.२१॥ ब्रह्मैवाहं न मे तुच्छं अहं ब्रह्म परं तपः । ब्रह्मरूपमिदं सर्वं ब्रह्मरूपमनामयम् ॥ २२.२२॥ ब्रह्मैव भाति भेदेन ब्रह्मैव न परः परः । आत्मैव द्वैतवद्भाति आत्मैव परमं पदम् ॥ २२.२३॥ ब्रह्मैवं भेदरहितं भेदमेव महद्भयम् । आत्मैवाहं निर्मलोऽहमात्मैव भुवनत्रयम् ॥ २२.२४॥ आत्मैव नान्यत् सर्वत्र सर्वं ब्रह्मैव नान्यकः । अहमेव सदा भामि ब्रह्मैवास्मि परोऽस्म्यहम् ॥ २२.२५॥ निर्मलोऽस्मि परं ब्रह्म कार्याकार्यविवर्जितः । सदा शुद्धैकरूपोऽस्मि सदा चैतन्यमात्रकः ॥ २२.२६॥ निश्चयोऽस्मि परं ब्रह्म सत्योऽस्मि सकलोऽस्म्यहम् । अक्षरोऽस्मि परं ब्रह्म शिवोऽस्मि शिखरोऽस्म्यहम् ॥ २२.२७॥ समरूपोऽस्मि शान्तोऽस्मि तत्परोऽस्मि चिदव्ययः । सदा ब्रह्म हि नित्योऽस्मि सदा चिन्मात्रलक्षणः ॥ २२.२८॥ सदाऽखण्डैकरूपोऽस्मि सदामानविवर्जितः । सदा शुद्धैकरूपोऽस्मि सदा चैतन्यमात्रकः ॥ २२.२९॥ सदा सन्मानरूपोऽस्मि सदा सत्ताप्रकाशकः । सदा सिद्धान्तरूपोऽस्मि सदा पावनमङ्गलः ॥ २२.३०॥ एवं निश्चितवान् मुक्तः एवं नित्यपरो वरः । एवं भावनया युक्तः परं ब्रह्मैव सर्वदा ॥ २२.३१॥ एवं ब्रह्मात्मवान् ज्ञानी ब्रह्माहमिति निश्चयः । स एव पुरुषो लोके ब्रह्माहमिति निश्चितः ॥ २२.३२॥ स एव पुरुषो ज्ञानी जीवन्मुक्तः स आत्मवान् । ब्रह्मैवाहं महानात्मा सच्चिदानन्दविग्रहः ॥ २२.३३॥ नाहं जीवो न मे भेदो नाहं चिन्ता न मे मनः । नाहं मांसं न मेऽस्थीनि नाहंकारकलेवरः ॥ २२.३४॥ न प्रमाता न मेयं वा नाहं सर्वं परोऽस्म्यहम् । सर्वविज्ञानरूपोऽस्मि नाहं सर्वं कदाचन ॥ २२.३५॥ नाहं मृतो जन्मनान्यो न चिन्मात्रोऽस्मि नास्म्यहम् । न वाच्योऽहं न मुक्तोऽहं न बुद्धोऽहं कदाचन ॥ २२.३६॥ न शून्योऽहं न मूढोऽहं न सर्वोऽहं परोऽस्म्यहम् । सर्वदा ब्रह्ममात्रोऽहं न रसोऽहं सदाशिवः ॥ २२.३७॥ न घ्राणोऽहं न गन्धोऽहं न चिह्नोऽयं न मे प्रियः । नाहं जीवो रसो नाहं वरुणो न च गोलकः ॥ २२.३८॥ ब्रह्मैवाहं न सन्देहो नामरूपं न किञ्चन । न श्रोत्रोऽहं न शब्दोऽहं न दिशोऽहं न साक्षिकः ॥ २२.३९॥ नाहं न त्वं न च स्वर्गो नाहं वायुर्न साक्षिकः । पायुर्नाहं विसर्गो न न मृत्युर्न च साक्षिकः ॥ २२.४०॥ गुह्यं नाहं न चानन्दो न प्रजापतिदेवता । सर्वं ब्रह्म न सन्देहः सर्वं ब्रह्मैव केवलम् ॥ २२.४१॥ नाहं मनो न सङ्कल्पो न चन्द्रो न च साक्षिकः । नाहं बुद्धीन्द्रियो ब्रह्मा नाहं निश्चयरूपवान् ॥ २२.४२॥ नाहंकारमहं रुद्रो नाभिमानो न साक्षिकः । चित्तं नाहं वासुदेवो धारणा नायमीश्वरः ॥ २२.४३॥ नाहं विश्वो न जाग्रद्वा स्थूलदेहो न मे क्वचित् । न प्रातिभासिको जीवो न चाहं व्यावहारिकः ॥ २२.४४॥ न पारमार्थिको देवो नाहमन्नमयो जडः । न प्राणमयकोशोऽहं न मनोमयकोशवान् ॥ २२.४५॥ न विज्ञानमयः कोशो नानन्दमयकोशवान् । ब्रह्मैवाहं न सन्देहो नामरूपे न किञ्चन ॥ २२.४६॥ एतावदुक्त्वा सकलं नामरूपद्वयात्मकम् । सर्वं क्षणेन विस्मृत्य काष्ठलोष्टादिवत् त्यजेत् ॥ २२.४७॥ एतत्सर्वमसन्नित्यं सदा वन्ध्याकुमारवत् । शशशृङ्गवदेवेदं नरशृङ्गवदेव तत् ॥ २२.४८॥ आकाशपुष्पसदृशं यथा मरुमरीचिका । गन्धर्वनगरं यद्वदिन्द्रजालवदेव हि ॥ २२.४९॥ असत्यमेव सततं पञ्चरूपकमिष्यते । शिष्योपदेशकालो हि द्वैतं न परमार्थतः ॥ २२.५०॥ माता मृते रोदनाय द्रव्यं दत्वाऽऽह्वयेज्जनान् । तेषां रोदनमात्रं यत् केवलं द्रव्यपञ्चकम् ॥ २२.५१॥ तदद्वैतं मया प्रोक्तं सर्वं विस्मृत्य कुड्यवत् । अहं ब्रह्मेति निश्चित्य अहमेवेति भावय ॥ २२.५२॥ अहमेव सुखं चेति अहमेव न चापरः । अहं चिन्मात्रमेवेति ब्रह्मैवेति विनिश्चिनु ॥ २२.५३॥ अहं निर्मलशुद्धेति अहं जीवविलक्षणः । अहं ब्रह्मैव सर्वात्मा अहमित्यवभासकः ॥ २२.५४॥ अहमेव हि चिन्मात्रमहमेव हि निर्गुणः । सर्वान्तर्याम्यहं ब्रह्म चिन्मात्रोऽहं सदाशिवः ॥ २२.५५॥ नित्यमङ्गलरूपात्मा नित्यमोक्षमयः पुमान् । एवं निश्चित्य सततं स्वात्मानं स्वयमास्थितः ॥ २२.५६॥ ब्रह्मैवाहं न सन्देहो नामरूपे न किञ्चन । एतद्रूपप्रकरणं सर्ववेदेषु दुर्लभम् । यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥ २२.५७॥ तं वेदादिवचोभिरीडितमहायागैश्च भोगैर्व्रतै- र्दानैश्चानशनैर्यमादिनियमैस्तं विद्विषन्ते द्विजाः । तस्यानङ्गरिपोरतीव सुमहाहृद्यं हि लिङ्गार्चनं तेनैवाशु विनाश्य मोहमखिलं ज्ञानं ददातीश्वरः ॥ २२.५८॥ ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे नामरूपनिषेधप्रकरणं नाम द्वाविंशोऽध्यायः ॥
२३ ॥ त्रयोविंशोऽध्यायः ॥ ऋभुः - निदाघ शृणु वक्ष्यामि सर्वलोकेषु दुर्लभम् । इदं ब्रह्म परं ब्रह्म सच्चिदानन्द एव हि ॥ २३.१॥ नानाविधजनं लोकं नाना कारणकार्यकम् । ब्रह्मैवान्यदसत् सर्वं सच्चिदानन्द एव हि ॥ २३.२॥ अहं ब्रह्म सदा ब्रह्म अस्मि ब्रह्माहमेव हि । कालो ब्रह्म क्षणो ब्रह्म अहं ब्रह्म न संशयः ॥ २३.३॥ वेदो ब्रह्म परं ब्रह्म सत्यं ब्रह्म परात् परः । हंसो ब्रह्म हरिर्ब्रह्म शिवो ब्रह्म चिदव्ययः ॥ २३.४॥ सर्वोपनिषदो ब्रह्म साम्यं ब्रह्म समोऽस्म्यहम् । अजो ब्रह्म रसो ब्रह्म वियद्ब्रह्म परात्परः ॥ २३.५॥ त्रुटिर्ब्रह्म मनो ब्रह्म व्यष्टिर्ब्रह्म सदामुदः । इदं ब्रह्म परं ब्रह्म तत्त्वं ब्रह्म सदा जपः ॥ २३.६॥ अकारो ब्रह्म एवाहमुकारोऽहं न संशयः । मकारब्रह्ममात्रोऽहं मन्त्रब्रह्ममनुः परम् ॥ २३.७॥ शिकारब्रह्ममात्रोऽहं वाकारं ब्रह्म केवलम् । यकारं ब्रह्म नित्यं च पञ्चाक्षरमहं परम् ॥ २३.८॥ रेचकं ब्रह्म सद्ब्रह्म पूरकं ब्रह्म सर्वतः । कुंभकं ब्रह्म सर्वोऽहं धारणं ब्रह्म सर्वतः ॥ २३.९॥ ब्रह्मैव नान्यत् तत्सर्वं सच्चिदानन्द एव हि । एवं च निश्चितो मुक्तः सद्य एव न संशयः ॥ २३.१०॥ केचिदेव महामूढाः द्वैतमेवं वदन्ति हि । न संभाष्याः सदानर्हा नमस्कारे न योग्यता ॥ २३.११॥ मूढा मूढतरास्तुच्छास्तथा मूढतमाः परे । एते न सन्ति मे नित्यं अहंविज्ञानमात्रतः ॥ २३.१२॥ सर्वं चिन्मात्ररूपत्वादानन्दत्वान्न मे भयम् । अहमित्यपि नास्त्येव परमित्यपि न क्वचित् ॥ २३.१३॥ ब्रह्मैव नान्यत् तत्सर्वं सच्चिदानन्द एव हि । कालातीतं सुखातीतं सर्वातीतमतीतकम् ॥ २३.१४॥ नित्यातीतमनित्यानाममितं ब्रह्म केवलम् । ब्रह्मैव नान्यद्यत्सर्वं सच्चिदानन्दमात्रकम् ॥ २३.१५॥ द्वैतसत्यत्वबुद्धिश्च द्वैतबुद्ध्या न तत् स्मर । सर्वं ब्रह्मैव नान्योऽस्ति सर्वं ब्रह्मैव केवलम् ॥ २३.१६॥ बुद्ध्यातीतं मनोऽतीतं वेदातीतमतः परम् । आत्मातीतं जनातीतं जीवातीतं च निर्गुणम् ॥ २३.१७॥ काष्ठातीतं कलातीतं नाट्यातीतं परं सुखम् । ब्रह्ममात्रेण सम्पश्यन् ब्रह्ममात्रपरो भव ॥ २३.१८॥ ब्रह्ममात्रपरो नित्यं चिन्मात्रोऽहं न संशयः । ज्योतिरानन्दमात्रोऽहं निजानन्दात्ममात्रकः ॥ २३.१९॥ शून्यानन्दात्ममात्रोऽहं चिन्मात्रोऽहमिति स्मर । सत्तामात्रोऽहमेवात्र सदा कालगुणान्तरः ॥ २३.२०॥ नित्यसन्मात्ररूपोऽहं शुद्धानन्दात्ममात्रकम् । प्रपञ्चहीनरूपोऽहं सच्चिदानन्दमात्रकः ॥ २३.२१॥ निश्चयानन्दमात्रोऽहं केवलानन्दमात्रकः । परमानन्दमात्रोऽहं पूर्णानन्दोऽहमेव हि ॥ २३.२२॥ द्वैतस्यमात्रसिद्धोऽहं साम्राज्यपदलक्षणम् । इत्येवं निश्चयं कुर्वन् सदा त्रिषु यथासुखम् ॥ २३.२३॥ दृढनिश्चयरूपात्मा दृढनिश्चयसन्मयः । दृढनिश्चयशान्तात्मा दृढनिश्चयमानसः ॥ २३.२४॥ दृढनिश्चयपूर्णात्मा दृढनिश्चयनिर्मलः । दृढनिश्चयजीवात्मा दृढनिश्चयमङ्गलः ॥ २३.२५॥ दृढनिश्चयजीवात्मा संशयं नाशमेष्यति । दृढनिश्चयमेवात्र ब्रह्मज्ञानस्य लक्षणम् ॥ २३.२६॥ दृढनिश्चयमेवात्र वाक्यज्ञानस्य लक्षणम् । दृढनिश्चयमेवात्र कारणं मोक्षसम्पदः ॥ २३.२७॥ एवमेव सदा कार्यं ब्रह्मैवाहमिति स्थिरम् । ब्रह्मैवाहं न सन्देहः सच्चिदानन्द एव हि ॥ २३.२८॥ आत्मानन्दस्वरूपोऽहं नान्यदस्तीति भावय । ततस्तदपि सन्त्यज्य एक एव स्थिरो भव ॥ २३.२९॥ ततस्तदपि सन्त्यज्य निर्गुणो भव सर्वदा । निर्गुणत्वं च सन्त्यज्य वाचातीतो भवेत् ततः ॥ २३.३०॥ वाचातीतं च सन्त्यज्य चिन्मात्रत्वपरो भव । आत्मातीतं च सन्त्यज्य ब्रह्ममात्रपरो भव ॥ २३.३१॥ चिन्मात्रत्वं च सन्त्यज्य सर्वतूष्णींपरो भव । सर्वतूष्णीं च सन्त्यज्य महातूष्णींपरो भव ॥ २३.३२॥ महातूष्णीं च सन्त्यज्य चित्ततूष्णीं समाश्रय । चित्ततूष्णीं च सन्त्यज्य जीवतूष्णीं समाहर ॥ २३.३३॥ जीवतूष्णीं परित्यज्य जीवशून्यपरो भव । शून्यत्यागं परित्यज्य यथा तिष्ठ तथासि भो ॥ २३.३४॥ तिष्ठत्वमपि सन्त्यज्य अवाङ्मानसगोचरः । ततः परं न वक्तव्यं ततः पश्येन्न किञ्चन ॥ २३.३५॥ नो चेत् सर्वपरित्यागो ब्रह्मैवाहमितीरय । सदा स्मरन् सदा चिन्त्यं सदा भावय निर्गुणम् ॥ २३.३६॥ सदा तिष्ठस्व तत्त्वज्ञ सदा ज्ञानी सदा परः । सदानन्दः सदातीतः सदादोषविवर्जितः ॥ २३.३७॥ सदा शान्तः सदा तृप्तः सदा ज्योतिः सदा रसः । सदा नित्यः सदा शुद्धः सदा बुद्धः सदा लयः ॥ २३.३८॥ सदा ब्रह्म सदा मोदः सदानन्दः सदा परः । सदा स्वयं सदा शून्यः सदा मौनी सदा शिवः ॥ २३.३९॥ सदा सर्वं सदा मित्रः सदा स्नानं सदा जपः । सदा सर्वं च विस्मृत्य सदा मौनं परित्यज ॥ २३.४०॥ देहाभिमानं सन्त्यज्य चित्तसत्तां परित्यज । आत्मैवाहं स्वयं चाहं इत्येवं सर्वदा भव ॥ २३.४१॥ एवं स्थिते त्वं मुक्तोऽसि न तु कार्या विचारणा । ब्रह्मैव सर्वं यत्किञ्चित् सच्चिदानन्द एव हि ॥ २३.४२॥ अहं ब्रह्म इदं ब्रह्म त्वं ब्रह्मासि निरन्तरः । प्रज्ञानं ब्रह्म एवासि त्वं ब्रह्मासि न संशयः ॥ २३.४३॥ दृढनिश्चयमेव त्वं कुरु कल्याणमात्मनः । मनसो भूषणं ब्रह्म मनसो भूषणं परः ॥ २३.४४॥ मनसो भूषणं कर्ता ब्रह्मैवाहमवेक्षतः । ब्रह्मैव सच्चिदानदः सच्चिदानन्दविग्रहः ॥ २३.४५॥ सच्चिदानन्दमखिलं सच्चिदानन्द एव हि । सच्चिदानन्दजीवात्मा सच्चिदानन्दविग्रहः ॥ २३.४६॥ सच्चिदानन्दमद्वैतं सच्चिदानन्दशङ्करः । सच्चिदानन्दविज्ञानं सच्चिदानन्दभोजनः ॥ २३.४७॥ सच्चिदानन्दपूर्णात्मा सच्चिदानन्दकारणः । सच्चिदानन्दलीलात्मा सच्चिदानन्दशेवधिः ॥ २३.४८॥ सच्चिदानन्दसर्वाङ्गः सच्चिदानन्दचन्दनः । सच्चिदानन्दसिद्धान्तः सच्चिदानन्दवेदकः ॥ २३.४९॥ सच्चिदानन्दशास्त्रार्थः सच्चिदानन्दवाचकः । सच्चिदानन्दहोमश्च सच्चिदानन्दराज्यकः ॥ २३.५०॥ सच्चिदानन्दपूर्णात्मा सच्चिदानन्दपूर्णकः । सच्चिदानन्दसन्मात्रं मूढेषु पठितं च यत् ॥ २३.५१॥ शुद्धं मूढेषु यद्दत्तं सुबद्धं मार्गचारिणा । विषयासक्तचित्तेषु न संभाष्यं विवेकिना ॥ २३.५२॥ सकृच्छ्रवणमात्रेण ब्रह्मैव भवति स्वयम् । इच्छा चेद्यदि नारीणां मुखं ब्राह्मण एव हि ॥ २३.५३॥ सर्वं चैतन्यमात्रत्वात् स्त्रीभेदं च न विद्यते । वेदशास्त्रेण युक्तोऽपि ज्ञानाभावाद् द्विजोऽद्विजः ॥ २३.५४॥ ब्रह्मैव तन्तुना तेन बद्धास्ते मुक्तिचिन्तकाः । सर्वमुक्तं भगवता रहस्यं शङ्करेण हि ॥ २३.५५॥ सोमापीडपदांबुजार्चनफलैर्भुक्त्यै भवान् मानसं नान्यद्योगपथा श्रुतिश्रवणतः किं कर्मभिर्भूयते । युक्त्या शिक्षितमानसानुभवतोऽप्यश्माप्यसङ्गो वचां किं ग्राह्यं भवतीन्द्रियार्थरहितानन्दैकसान्द्रः शिवः ॥ २३.५६॥ ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे रहस्योपदेशप्रकरणं नाम त्रयोविंशोऽध्यायः ॥
२४ ॥ चतुर्विंशोऽध्यायः ॥ ऋभुः - पुनः पुनः परं वक्ष्ये आत्मनोऽन्यदसत् स्वतः । असतो वचनं नास्ति सतो नास्ति सदा स्थिते ॥ २४.१॥ ब्रह्माभ्यास परस्याहं वक्ष्ये निर्णयमात्मनः । तस्यापि सकृदेवाहं वक्ष्ये मङ्गलपूर्वकम् ॥ २४.२॥ सर्वं ब्रह्माहमेवास्मि चिन्मात्रो नास्ति किञ्चन । अहमेव परं ब्रह्म अहमेव चिदात्मकम् ॥ २४.३॥ अहं ममेति नास्त्येव अहं ज्ञानीति नास्ति च । शुद्धोऽहं ब्रह्मरूपोऽहमानन्दोऽहमजो नरः ॥ २४.४॥var was नजः देवोऽहं दिव्यभानोऽहं तुर्योऽहं भवभाव्यहम् । अण्डजोऽहमशेषोऽहमन्तरादन्तरोऽस्म्यहम् ॥ २४.५॥ अमरोऽहमजस्रोऽहमत्यन्तपरमोऽस्म्यहम् । परापरस्वरूपोऽहं नित्यानित्यरसोऽस्म्यहम् ॥ २४.६॥ गुणागुणविहीनोऽहं तुर्यातुर्यरसोऽस्म्यहम् । शान्ताशान्तविहीनोऽहं ज्ञानाज्ञानरसोऽस्म्यहम् ॥ २४.७॥ कालाकालविहीनोऽहमात्मानात्मविवर्जितः । लब्धालब्धादिहीनोऽहं सर्वशून्योऽहमव्ययः ॥ २४.८॥ अहमेवाहमेवाहमनन्तरनिरन्तरम् । शाश्वतोऽहमलक्ष्योऽहमात्मा न परिपूर्णतः ॥ २४.९॥ इत्यादिशब्दमुक्तोऽहं इत्याद्यं च न चास्म्यहम् । इत्यादिवाक्यमुक्तोऽहं सर्ववर्जितदुर्जयः ॥ २४.१०॥ निरन्तरोऽहं भूतोऽहं भव्योऽहं भववर्जितः । लक्ष्यलक्षणहीनोऽहं कार्यहीनोऽहमाशुगः ॥ २४.११॥ व्योमादिरूपहीनोऽहं व्योमरूपोऽहमच्युतः । अन्तरान्तरभावोऽहमन्तरान्तरवर्जितः ॥ २४.१२॥ सर्वसिद्धान्तरूपोऽहं सर्वदोषविवर्जितः । न कदाचन मुक्तोऽहं न बद्धोऽहं कदाचन ॥ २४.१३॥ एवमेव सदा कृत्वा ब्रह्मैवाहमिति स्मर । एतावदेव मात्रं तु मुक्तो भवतु निश्चयः ॥ २४.१४॥ चिन्मात्रोऽहं शिवोऽहं वै शुभमात्रमहं सदा । सदाकारोऽहं मुक्तोऽहं सदा वाचामगोचरः ॥ २४.१५॥ सर्वदा परिपूर्णोऽहं वेदोपाधिविवर्जितः । चित्तकार्यविहीनोऽहं चित्तमस्तीति मे न हि ॥ २४.१६॥ यत् किञ्चिदपि नास्त्येव नास्त्येव प्रियभाषणम् । आत्मप्रियमनात्मा हि इदं मे वस्तुतो न हि ॥ २४.१७॥ इदं दुःखमिदं सौख्यमिदं भाति अहं न हि । सर्ववर्जितरूपोऽहं सर्ववर्जितचेतनः ॥ २४.१८॥ अनिर्वाच्यमनिर्वाच्यं परं ब्रह्म रसोऽस्म्यहम् । अहं ब्रह्म न सन्देह अहमेव परात् परः ॥ २४.१९॥ अहं चैतन्यभूतात्मा देहो नास्ति कदाचन । लिङ्गदेहं च नास्त्येव कारणं देहमेव न ॥ २४.२०॥ अहं त्यक्त्वा परं चाहं अहं ब्रह्मस्वरूपतः । कामादिवर्जितोऽतीतः कालभेदपरात्परः ॥ २४.२१॥ ब्रह्मैवेदं न संवेद्यं नाहं भावं न वा नहि । सर्वसंशयसंशान्तो ब्रह्मैवाहमिति स्थितिः ॥ २४.२२॥ निश्चयं च न मे किञ्चित् चिन्ताभावात् सदाऽक्षरः । चिदहं चिदहं ब्रह्म चिदहं चिदहं सदा ॥ २४.२३॥ एवं भावनया युक्तस्त्यक्तशङ्कः सुखीभव । सर्वसङ्गं परित्यज्य आत्मैक्यैवं भवान्वहम् ॥ २४.२४॥ सङ्गं नाम प्रवक्ष्येऽहं ब्रह्माहमिति निश्चयः । सत्योऽहं परमात्माऽहं स्वयमेव स्वयं स्वयम् ॥ २४.२५॥ नाहं देहो न च प्राणो न द्वन्द्वो न च निर्मलः । एष एव हि सत्सङ्गः एष एव हि निर्मलः ॥ २४.२६॥ महत्सङ्गे महद्ब्रह्मभावनं परमं पदम् । अहं शान्तप्रभावोऽहं अहं ब्रह्म न संशयः ॥ २४.२७॥ अहं त्यक्तस्वरूपोऽहं अहं चिन्तादिवर्जितः । एष एव हि सत्सङ्गः एष नित्यं भवानहम् ॥ २४.२८॥ सर्वसङ्कल्पहीनोऽहं सर्ववृत्तिविवर्जितः । अमृतोऽहमजो नित्यं मृतिभीतिरतीतिकः ॥ २४.२९॥ सर्वकल्याणरूपोऽहं सर्वदा प्रियरूपवान् । समलाङ्गो मलातीतः सर्वदाहं सदानुगः ॥ २४.३०॥ अपरिच्छिन्नसन्मात्रं सत्यज्ञानस्वरूपवान् । नादान्तरोऽहं नादोऽहं नामरूपविवर्जितः ॥ २४.३१॥ अत्यन्ताभिन्नहीनोऽहमादिमध्यान्तवर्जितः । एवं नित्यं दृढाभ्यास एवं स्वानुभवेन च ॥ २४.३२॥ एवमेव हि नित्यात्मभावनेन सुखी भव । एवमात्मा सुखं प्राप्तः पुनर्जन्म न संभवेत् ॥ २४.३३॥ सद्यो मुक्तो भवेद्ब्रह्माकारेण परितिष्ठति । आत्माकारमिदं विश्वमात्माकारमहं महत् ॥ २४.३४॥ आत्मैव नान्यद्भूतं वा आत्मैव मन एव हि । आत्मैव चित्तवद्भाति आत्मैव स्मृतिवत् क्वचित् ॥ २४.३५॥ आत्मैव वृत्तिवद्भाति आत्मैव क्रोधवत् सदा ।var was वृत्तिमद्भाति आत्मैव श्रवणं तद्वदात्मैव मननं च तत् ॥ २४.३६॥ आत्मैवोपक्रमं नित्यमुपसंहारमात्मवत् । आत्मैवाभ्यां समं नित्यमात्मैवापूर्वताफलम् ॥ २४.३७॥ अर्थवादवदात्मा हि परमात्मोपपत्ति हि । इच्छा प्रारभ्यवद्ब्रह्म इच्छामारभ्यवत् परः ॥ २४.३८॥var was प्रारब्धवद् परेच्छारब्धवद्ब्रह्मा इच्छाशक्तिश्चिदेव हि । अनिच्छाशक्तिरात्मैव परेच्छाशक्तिरव्ययः ॥ २४.३९॥ परमात्मैवाधिकारो विषयं परमात्मनः । संबन्धं परमात्मैव प्रयोजनं परात्मकम् ॥ २४.४०॥ ब्रह्मैव परमं सङ्गं कर्मजं ब्रह्म सङ्गमम् । ब्रह्मैव भ्रान्तिजं भाति द्वन्द्वं ब्रह्मैव नान्यतः ॥ २४.४१॥ सर्वं ब्रह्मेति निश्चित्य सद्य एव विमोक्षदम् । सविकल्पसमाधिस्थं निर्विकल्पसमाधि हि ॥ २४.४२॥ शब्दानुविद्धं ब्रह्मैव ब्रह्म दृश्यानुविद्धकम् । ब्रह्मैवादिसमाधिश्च तन्मध्यमसमाधिकम् ॥ २४.४३॥ ब्रह्मैव निश्चयं शून्यं तदुक्तमसमाधिकम् । देहाभिमानरहितं तद्वैराग्यसमाधिकम् ॥ २४.४४॥ एतद्भावनया शान्तं जीवन्मुक्तसमाधिकः । अत्यन्तं सर्वशान्तत्वं देहो मुक्तसमाधिकम् ॥ २४.४५॥ एतदभ्यासिनां प्रोक्तं सर्वं चैतत्समन्वितम् । सर्वं विस्मृत्य विस्मृत्य त्यक्त्वा त्यक्त्वा पुनः पुनः ॥ २४.४६॥ सर्ववृत्तिं च शून्येन स्थास्यामीति विमुच्य हि । न स्थास्यामीति विस्मृत्य भास्यामीति च विस्मर ॥ २४.४७॥ चैतन्योऽहमिति त्यक्त्वा सन्मात्रोऽहमिति त्यज । त्यजनं च परित्यज्य भावनं च परित्यज ॥ २४.४८॥ सर्वं त्यक्त्वा मनः क्षिप्रं स्मरणं च परित्यज । स्मरणं किञ्चिदेवात्र महासंसारसागरम् ॥ २४.४९॥ स्मरणं किञ्चिदेवात्र महादुःखं भवेत् तदा । महादोषं भवं बन्धं चित्तजन्म शतं मनः ॥ २४.५०॥ प्रारब्धं हृदयग्रन्थि ब्रह्महत्यादि पातकम् । स्मरणं चैवमेवेह बन्धमोक्षस्य कारणम् ॥ २४.५१॥ अहं ब्रह्मप्रकरणं सर्वदुःखविनाशकम् । सर्वप्रपञ्चशमनं सद्यो मोक्षप्रदं सदा । एतच्छ्रवणमात्रेण ब्रह्मैव भवति स्वयम् ॥ २४.५२॥ भक्त्या पद्मदलाक्षपूजितपदध्यानानुवृत्त्या मनः स्वान्तानन्तपथप्रचारविधुरं मुक्त्यै भवेन्मानसम् । सङ्कल्पोज्झितमेतदल्पसुमहाशीलो दयाम्भोनिधौ कश्चित् स्याच्छिवभक्तधुर्यसुमहाशान्तः शिवप्रेमतः ॥ २४.५३॥ ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे अहं ब्रह्मप्रकरणनिरूपणं नाम चतुर्विंशोऽध्यायः ॥
२५ ॥ पञ्चविंशोऽध्यायः ॥ ऋभुः - वक्ष्ये प्रसिद्धमात्मानं सर्वलोकप्रकाशकम् । सर्वाकारं सदा सिद्धं सर्वत्र निबिडं महत् ॥ २५.१॥ तद्ब्रह्माहं न सन्देह इति निश्चित्य तिष्ठ भोः । चिदेवाहं चिदेवाहं चित्रं चेदहमेव हि ॥ २५.२॥ वाचावधिश्च देवोऽहं चिदेव मनसः परः । चिदेवाहं परं ब्रह्म चिदेव सकलं पदम् ॥ २५.३॥ स्थूलदेहं चिदेवेदं सूक्ष्मदेहं चिदेव हि । चिदेव करणं सोऽहं कायमेव चिदेव हि ॥ २५.४॥ अखण्डाकारवृत्तिश्च उत्तमाधममध्यमाः । देहहीनश्चिदेवाहं सूक्ष्मदेहश्चिदेव हि ॥ २५.५॥ चिदेव कारणं सोऽहं बुद्धिहीनश्चिदेव हि । भावहीनश्चिदेवाहं दोषहीनश्चिदेव हि ॥ २५.६॥ अस्तित्वं ब्रह्म नास्त्येव नास्ति ब्रह्मेति नास्ति हि । अस्ति नास्तीति नास्त्येव अहमेव चिदेव हि ॥ २५.७॥ सर्वं नास्त्येव नास्त्येव साकारं नास्ति नास्ति हि । यत्किञ्चिदपि नास्त्येव अहमेव चिदेव हि ॥ २५.८॥ अन्वयव्यतिरेकं च आदिमध्यान्तदूषणम् । सर्वं चिन्मात्ररूपत्वादहमेव चिदेव हि ॥ २५.९॥ सर्वापरं च सदसत् कार्यकारणकर्तृकम् । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१०॥ अशुद्धं शुद्धमद्वैतं द्वैतमेकमनेककम् । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.११॥ असत्यसत्यमद्वन्द्वं द्वन्द्वं च परतः परम् । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१२॥ भूतं भविष्यं वर्तं च मोहामोहौ समासमौ । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१३॥ क्षणं लवं त्रुटिर्ब्रह्म त्वंपदं तत्पदं तथा । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१४॥ त्वंपदं तत्पदं वापि ऐक्यं च ह्यहमेव हि । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१५॥ आनन्दं परमानन्दं सर्वानन्दं निजं महत् । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१६॥ अहं ब्रह्म इदं ब्रह्म कं ब्रह्म ह्यक्षरं परम् । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१७॥ विष्णुरेव परं ब्रह्म शिवो ब्रह्माहमेव हि । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१८॥ श्रोत्रं ब्रह्म परं ब्रह्म शब्दं ब्रह्म पदं शुभम् । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१९॥ स्पर्शो ब्रह्म पदं त्वक्च त्वक्च ब्रह्म परस्परम् । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.२०॥ परं रूपं चक्षुभिः एव तत्रैव योज्यताम् । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.२१॥ ब्रह्मैव सर्वं सततं सच्चिदानन्दमात्रकम् । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.२२॥ चिन्मयानन्दमात्रोऽहं इदं विश्वमिदं सदा । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.२३॥ ब्रह्मैव सर्वं यत्किञ्चित् तद्ब्रह्माहं न संशयः । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.२४॥ वाचा यत् प्रोच्यते नाम मनसा मनुते तु यत् । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.२५॥ कारणे कल्पिते यद्यत् तूष्णीं वा स्थीयते सदा । शरीरेण तु यद् भुङ्क्ते इन्द्रियैर्यत्तु भाव्यते । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.२६॥ वेदे यत् कर्म वेदोक्तं शास्त्रं शास्त्रोक्तनिर्णयम् । गुरूपदेशसिद्धान्तं शुद्धाशुद्धविभासकम् ॥ २५.२७॥ कामादिकलनं ब्रह्म देवादि कलनं पृथक् । जीवयुक्तेति कलनं विदेहो मुक्तिकल्पनम् ॥ २५.२८॥ ब्रह्म इत्यपि सङ्कल्पं ब्रह्मविद्वरकल्पनम् । वरीयानिति सङ्कल्पं वरिष्ठ इति कल्पनम् ॥ २५.२९॥ ब्रह्माहमिति सङ्कल्पं चिदहं चेति कल्पनम् । महाविद्येति सङ्कल्पं महामायेति कल्पनम् ॥ २५.३०॥ महाशून्येति सङ्कल्पं महाचिन्तेति कल्पनम् । महालोकेति सङ्कल्पं महासत्येति कल्पनम् ॥ २५.३१॥ महारूपेति सङ्कल्पं महारूपं च कल्पनम् । सर्वसङ्कल्पकं चित्तं सर्वसङ्कल्पकं मनः ॥ २५.३२॥ सर्वं नास्त्येव नास्त्येव सर्वं ब्रह्मैव केवलम् । सर्वं द्वैतं मनोरूपं सर्वं दुःखं मनोमयम् ॥ २५.३३॥ चिदेवाहं न सन्देहः चिदेवेदं जगत्त्रयम् । यत्किञ्चिद्भाषणं वापि यत्किञ्चिन्मनसो जपम् । यत्किञ्चिन्मानसं कर्म सर्वं ब्रह्मैव केवलम् ॥ २५.३४॥ सर्वं नास्तीति सन्मन्त्रं जीवब्रह्मस्वरूपकम् । ब्रह्मैव सर्वमित्येवं मन्त्रञ्चैवोत्तमोत्तमम् ॥ २५.३५॥ अनुक्तमन्त्रं सन्मन्त्रं वृत्तिशून्यं परं महत् । सर्वं ब्रह्मेति सङ्कल्पं तदेव परमं पदम् ॥ २५.३६॥ सर्वं ब्रह्मेति सङ्कल्पं महादेवेति कीर्तनम् । सर्वं ब्रह्मेति सङ्कल्पं शिवपूजासमं महत् ॥ २५.३७॥ सर्वं ब्रह्मेत्यनुभवः सर्वाकारो न संशयः । सर्वं ब्रह्मेति सङ्कल्पं सर्वत्यागमितीरितम् ॥ २५.३८॥ सर्वं ब्रह्मेति सङ्कल्पं भावाभावविनाशनम् । सर्वं ब्रह्मेति सङ्कल्पं महादेवेति निश्चयः ॥ २५.३९॥ सर्वं ब्रह्मेति सङ्कल्पं कालसत्ताविनिर्मुक्तः । सर्वं ब्रह्मेति सङ्कल्पः देहसत्ता विमुक्तिकः ॥ २५.४०॥ सर्वं ब्रह्मेति सङ्कल्पः सच्चिदानन्दरूपकः । सर्वोऽहं ब्रह्ममात्रैव सर्वं ब्रह्मैव केवलम् ॥ २५.४१॥ इदमित्येव यत्किञ्चित् तद्ब्रह्मैव न संशयः । भ्रान्तिश्च नरकं दुःखं स्वर्गभ्रान्तिरितीरिता ॥ २५.४२॥ ब्रह्मा विष्णुरिति भ्रान्तिर्भ्रान्तिश्च शिवरूपकम् । विराट् स्वराट् तथा सम्राट् सूत्रात्मा भ्रान्तिरेव च ॥ २५.४३॥ देवाश्च देवकार्याणि सूर्याचन्द्रमसोर्गतिः । मुनयो मनवः सिद्धा भ्रान्तिरेव न संशयः ॥ २५.४४॥ सर्वदेवासुरा भ्रान्तिस्तेषां युद्धादि जन्म च । विष्णोर्जन्मावताराणि चरितं शान्तिरेव हि ॥ २५.४५॥ ब्रह्मणः सृष्टिकृत्यानि रुद्रस्य चरितानि च । सर्वभ्रान्तिसमायुक्तं भ्रान्त्या लोकाश्चतुर्दश ॥ २५.४६॥ वर्णाश्रमविभागश्च भ्रान्तिरेव न संशयः । ब्रह्मविष्ण्वीशरुद्राणामुपासा भ्रान्तिरेव च ॥ २५.४७॥ तत्रापि यन्त्रमन्त्राभ्यां भ्रान्तिरेव न संशयः । वाचामगोचरं ब्रह्म सर्वं ब्रह्ममयं च हि ॥ २५.४८॥ सर्वं नास्त्येव नास्त्येव अहमेव चिदेव हि । एवं वद त्वं तिष्ठ त्वं सद्यो मुक्तो भविष्यसि ॥ २५.४९॥ एतावदुक्तं यत्किञ्चित् तन्नास्त्येव न संशयः । एवं यदान्तरं क्षिप्रं ब्रह्मैव दृढनिश्चयम् ॥ २५.५०॥ दृढनिश्चयमेवात्र प्रथमं कारणं भवेत् । निश्चयः खल्वयं पश्चात् स्वयमेव भविष्यति ॥ २५.५१॥ आर्तं यच्छिवपादतोऽन्यदितरं तज्जादिशब्दात्मकं चेतोवृत्तिपरं पराप्रमुदितं षड्भावसिद्धं जगत् । भूताक्षादिमनोवचोभिरनघे सान्द्रे महेशे घने सिन्धौ सैन्धवखण्डवज्जगदिदं लीयेत वृत्त्युज्झितम् ॥ २५.५२॥ ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे ब्रह्मणस्सर्वरूपत्वनिरूपणप्रकरणं नाम पञ्चविंशोऽध्यायः ॥
२६ ॥ षड्विंशोऽध्यायः ॥ ऋभुः - वक्ष्ये सच्चित्परानन्दं स्वभावं सर्वदा सुखम् । सर्ववेदपुराणानां सारात् सारतरं स्वयम् ॥ २६.१॥ न भेदं च द्वयं द्वन्द्वं न भेदं भेदवर्जितम् । इदमेव परं ब्रह्म ज्ञानाश्रयमनामयम् ॥ २६.२॥ न क्वचिन्नात एवाहं नाक्षरं न परात्परम् । इदमेव परं ब्रह्म ज्ञानाश्रयमनामयम् ॥ २६.३॥ न बहिर्नान्तरं नाहं न सङ्कल्पो न विग्रहः । इदमेव परं ब्रह्म ज्ञानाश्रयमनामयम् ॥ २६.४॥ न सत्यं च परित्यज्य न वार्ता नार्थदूषणम् । इदमेव परं ब्रह्म ज्ञानाश्रयमनामयम् ॥ २६.५॥ न गुणो गुणिवाक्यं वा न मनोवृत्तिनिश्चयः । न जपं न परिच्छिन्नं न व्यापकमसत् फलम् ॥ २६.६॥ न गुरुर्न च शिष्यो वा न स्थिरं न शुभाशुभम् । नैकरूपं नान्यरूपं न मोक्षो न च बन्धकम् ॥ २६.७॥ अहं पदार्थस्तत्पदं वा नेन्द्रियं विषयादिकम् । न संशयं न तुच्छं वा न निश्चयं न वा कृतम् ॥ २६.८॥ न शान्तिरूपमद्वैतं न चोर्ध्वं न च नीचकम् । न लक्षणं न दुःखाङ्गं न सुखं न च चञ्चलम् ॥ २६.९॥ न शरीरं न लिङ्गं वा न कारणमकारणम् । न दुःखं नान्तिकं नाहं न गूढं न परं पदम् ॥ २६.१०॥ न सञ्चितं च नागामि न सत्यं च त्वमाहकम् । नाज्ञानं न च विज्ञानं न मूढो न च विज्ञवान् ॥ २६.११॥ न नीचं नरकं नान्तं न मुक्तिर्न च पावनम् । न तृष्णा न च विद्यात्वं नाहं तत्त्वं न देवता ॥ २६.१२॥ न शुभाशुभसङ्केतो न मृत्युर्न च जीवनम् । न तृप्तिर्न च भोज्यं वा न खण्डैकरसोऽद्वयम् ॥ २६.१३॥ न सङ्कल्पं न प्रपञ्चं न जागरणराजकम् । न किञ्चित्समतादोषो न तुर्यगणना भ्रमः ॥ २६.१४॥ न सर्वं समलं नेष्टं न नीतिर्न च पूजनम् । न प्रपञ्चं न बहुना नान्यभाषणसङ्गमः ॥ २६.१५॥ न सत्सङ्गमसत्सङ्गः न ब्रह्म न विचारणम् । नाभ्यासं न च वक्ता च न स्नानं न च तीर्थकम् ॥ २६.१६॥ न पुण्यं न च वा पापं न क्रिया दोषकारणम् । न चाध्यात्मं नाधिभूतं न दैवतमसम्भवम् ॥ २६.१७॥ न जन्ममरणे क्वापि जाग्रत्स्वप्नसुषुप्तिकम् । न भूलोकं न पातालं न जयापजयाजयौ ॥ २६.१८॥ न हीनं न च वा भीतिर्न रतिर्न मृतिस्त्वरा । अचिन्त्यं नापराध्यात्मा निगमागमविभ्रमः ॥ २६.१९॥ न सात्त्विकं राजसं च न तामसगुणाधिकम् । न शैवं न च वेदान्तं न स्वाद्यं तन्न मानसम् ॥ २६.२०॥ न बन्धो न च मोक्षो वा न वाक्यं ऐक्यलक्षणम् । न स्त्रीरूपं न पुंभावः न षण्डो न स्थिरः पदम् ॥ २६.२१॥ न भूषणं न दूषणं न स्तोत्रं न स्तुतिर्न हि । न लौकिकं वैदिकं न शास्त्रं न च शासनम् ॥ २६.२२॥ न पानं न कृशं नेदं न मोदं न मदामदम् । न भावनमभावो वा न कुलं नामरूपकम् ॥ २६.२३॥ नोत्कृष्टं च निकृष्टं च न श्रेयोऽश्रेय एव हि । निर्मलत्वं मलोत्सर्गो न जीवो न मनोदमः ॥ २६.२४॥ न शान्तिकलना नागं न शान्तिर्न शमो दमः । न क्रीडा न च भावाङ्गं न विकारं न दोषकम् ॥ २६.२५॥ न यत्किञ्चिन्न यत्राहं न मायाख्या न मायिका । यत्किञ्चिन्न च धर्मादि न धर्मपरिपीडनम् ॥ २६.२६॥ न यौवनं न बाल्यं वा न जरामरणादिकम् । न बन्धुर्न च वाऽबन्धुर्न मित्रं न च सोदरः ॥ २६.२७॥ नापि सर्वं न चाकिञ्चिन्न विरिञ्चो न केशवः । न शिवो नाष्टदिक्पालो न विश्वो न च तैजसः ॥ २६.२८॥ न प्राज्ञो हि न तुर्यो वा न ब्रह्मक्षत्रविड्वरः । इदमेव परं ब्रह्म ज्ञानामृतमनामयम् ॥ २६.२९॥ न पुनर्भावि पश्चाद्वा न पुनर्भवसंभवः । न कालकलना नाहं न संभाषणकारणम् ॥ २६.३०॥ न चोर्ध्वमन्तःकरणं न च चिन्मात्रभाषणम् । न ब्रह्माहमिति द्वैतं न चिन्मात्रमिति द्वयम् ॥ २६.३१॥ नान्नकोशं न च प्राणमनोमयमकोशकम् । न विज्ञानमयः कोशः न चानन्दमयः पृथक् ॥ २६.३२॥ न बोधरूपं बोध्यं वा बोधकं नात्र यद्भ्रमः । न बाध्यं बाधकं मिथ्या त्रिपुटीज्ञाननिर्णयः ॥ २६.३३॥ न प्रमाता प्रमाणं वा न प्रमेयं फलोदयम् । इदमेव परं ब्रह्म ज्ञानामृतमनोमयम् ॥ २६.३४॥ न गुह्यं न प्रकाशं वा न महत्वं न चाणुता । न प्रपञ्चो विद्यमानं न प्रपञ्चः कदाचन ॥ २६.३५॥ नान्तःकरणसंसारो न मनो जगतां भ्रमः । न चित्तरूपसंसारो बुद्धिपूर्वं प्रपञ्चकम् ॥ २६.३६॥ न जीवरूपसंसारो वासनारूपसंसृतिः । न लिङ्गभेदसंसारो नाज्ञानमयसंस्मृतिः ॥ २६.३७॥var was संसृतिः न वेदरूपसंसारो न शास्त्रागमसंसृतिः । नान्यदस्तीति संसारमन्यदस्तीति भेदकम् ॥ २६.३८॥ न भेदाभेदकलनं न दोषादोषकल्पनम् । न शान्ताशान्तसंसारं न गुणागुणसंसृतिः ॥ २६.३९॥ न स्त्रीलिङ्गं न पुंलिङ्गं न नपुंसकसंसृतिः । न स्थावरं न जङ्गमं च न दुःखं न सुखं क्वचित् ॥ २६.४०॥ न शिष्टाशिष्टरूपं वा न योग्यायोग्यनिश्चयः । न द्वैतवृत्तिरूपं वा साक्षिवृत्तित्वलक्षणम् ॥ २६.४१॥ अखण्डाकारवृत्तित्वमखण्डैकरसं सुखम् । देहोऽहमिति या वृत्तिर्ब्रह्माहमिति शब्दकम् ॥ २६.४२॥ अखण्डनिश्चया वृत्तिर्नाखण्डैकरसं महत् । न सर्ववृत्तिभवनं सर्ववृत्तिविनाशकम् ॥ २६.४३॥ सर्ववृत्त्यनुसन्धानं सर्ववृत्तिविमोचनम् । सर्ववृत्तिविनाशान्तं सर्ववृत्तिविशून्यकम् ॥ २६.४४॥ न सर्ववृत्तिसाहस्रं क्षणक्षणविनाशनम् । न सर्ववृत्तिसाक्षित्वं न च ब्रह्मात्मभावनम् ॥ २६.४५॥ न जगन्न मनो नान्तो न कार्यकलनं क्वचित् । न दूषणं भूषणं वा न निरङ्कुशलक्षणम् ॥ २६.४६॥ न च धर्मात्मनो लिङ्गं गुणशालित्वलक्षणम् । न समाधिकलिङ्गं वा न प्रारब्धं प्रबन्धकम् ॥ २६.४७॥ ब्रह्मवित्तं आत्मसत्यो न परः स्वप्नलक्षणम् । न च वर्यपरो रोधो वरिष्ठो नार्थतत्परः ॥ २६.४८॥ आत्मज्ञानविहीनो यो महापातकिरेव सः । एतावद् ज्ञानहीनो यो महारोगी स एव हि ॥ २६.४९॥ अहं ब्रह्म न सन्देह अखण्डैकरसात्मकः । ब्रह्मैव सर्वमेवेति निश्चयानुभवात्मकः ॥ २६.५०॥ सद्यो मुक्तो न सन्देहः सद्यः प्रज्ञानविग्रहः । स एव ज्ञानवान् लोके स एव परमेश्वरः ॥ २६.५१॥ इदमेव परं ब्रह्म ज्ञानामृतमनोमयम् । एतत्प्रकरणं यस्तु शृणुते ब्रह्म एव सः ॥ २६.५२॥ एकत्वं न बहुत्वमप्यणुमहत् कार्यं न वै कारणं विश्वं विश्वपतित्वमप्यरसकं नो गन्धरूपं सदा । बद्धं मुक्तमनुत्तमोत्तममहानन्दैकमोदं सदा भूमानन्दसदाशिवं जनिजरारोगाद्यसङ्गं महः ॥ २६.५३॥ ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे ज्ञानामृतमनोमयप्रकरणवर्णनं नाम षड्विंशोऽध्यायः ॥
२७ ॥ सप्तविंशोऽध्यायः ॥ ऋभुः - वक्ष्ये प्रकरणं सत्यं ब्रह्मानन्दमनोमयम् । कार्यकारणनिर्मुक्तं नित्यानन्दमयं त्विदम् ॥ २७.१॥ अक्षयानन्द एवाहमात्मानन्दप्रकाशकम् । ज्ञानानन्दस्वरूपोऽहं लक्ष्यानन्दमयं सदा ॥ २७.२॥ विषयानन्दशून्योऽहं मिथ्यानन्दप्रकाशकः । वृत्तिशून्यसुखात्माहं वृत्तिशून्यसुखात्परम् ॥ २७.३॥ जडानन्दप्रकाशात्मा आत्मानन्दरसोऽस्म्यहम् । आत्मानन्दविहीनोऽहं नास्त्यानन्दात्मविग्रहः ॥ २७.४॥ कार्यानन्दविहीनोऽहं कार्यानन्दकलात्मकः । गुणानन्दविहीनोऽहं गुह्यानन्दस्वरूपवान् ॥ २७.५॥ गुप्तानन्दस्वरूपोऽहं कृत्यानन्दमहानहम् । ज्ञेयानन्दविहीनोऽहं गोप्यानन्दविवर्जितः ॥ २७.६॥ सदानन्दस्वरूपोऽहं मुदानन्दनिजात्मकः । लोकानन्दो महानन्दो लोकातीतमहानयम् ॥ २७.७॥ भेदानन्दश्चिदानन्दः सुखानन्दोऽहमद्वयः । क्रियानन्दोऽक्षयानन्दो वृत्त्यानन्दविवर्जितः ॥ २७.८॥ सर्वानन्दोऽक्षयानन्दश्चिदानन्दोऽहमव्ययः । सत्यानन्दः परानन्दः सद्योनन्दः परात्परः ॥ २७.९॥ वाक्यानन्दमहानन्दः शिवानन्दोऽहमद्वयः । शिवानन्दोत्तरानन्द आद्यानन्दविवर्जितः ॥ २७.१०॥ अमलात्मा परानन्दश्चिदानन्दोऽहमद्वयः । वृत्त्यानन्दपरानन्दो विद्यातीतो हि निर्मलः ॥ २७.११॥ कारणातीत आनन्दश्चिदानन्दोऽहमद्वयः । सर्वानन्दः परानन्दो ब्रह्मानन्दात्मभावनः ॥ २७.१२॥ जीवानन्दो लयानन्दश्चिदानन्दस्वरूपवान् । शुद्धानन्दस्वरूपात्मा बुद्ध्यानन्दो मनोमयः ॥ २७.१३॥ शब्दानन्दो महानन्दश्चिदानन्दोऽहमद्वयः । आनन्दानन्दशून्यात्मा भेदानन्दविशून्यकः ॥ २७.१४॥ द्वैतानन्दप्रभावात्मा चिदानन्दोऽहमद्वयः । एवमादिमहानन्द अहमेवेति भावय ॥ २७.१५॥ शान्तानन्दोऽहमेवेति चिदानन्दप्रभास्वरः । एकानन्दपरानन्द एक एव चिदव्ययः ॥ २७.१६॥ एक एव महानात्मा एकसंख्याविवर्जितः । एकतत्त्वमहानन्दस्तत्त्वभेदविवर्जितः ॥ २७.१७॥ विजितानन्दहीनोऽहं निर्जितानन्दहीनकः । हीनानन्दप्रशान्तोऽहं शान्तोऽहमिति शान्तकः ॥ २७.१८॥ ममतानन्दशान्तोऽहमहमादिप्रकाशकम् । सर्वदा देहशान्तोऽहं शान्तोऽहमिति वर्जितः ॥ २७.१९॥ ब्रह्मैवाहं न संसारी इत्येवमिति शान्तकः । अन्तरादन्तरोऽहं वै अन्तरादन्तरान्तरः ॥ २७.२०॥ एक एव महानन्द एक एवाहमक्षरः । एक एवाक्षरं ब्रह्म एक एवाक्षरोऽक्षरः ॥ २७.२१॥ एक एव महानात्मा एक एव मनोहरः । एक एवाद्वयोऽहं वै एक एव न चापरः ॥ २७.२२॥ एक एव न भूरादि एक एव न बुद्धयः । एक एव प्रशान्तोऽहं एक एव सुखात्मकः ॥ २७.२३॥ एक एव न कामात्मा एक एव न कोपकम् । एक एव न लोभात्मा एक एव न मोहकः ॥ २७.२४॥ एक एव मदो नाहं एक एव न मे रसः । एक एव न चित्तात्मा एक एव न चान्यकः ॥ २७.२५॥ एक एव न सत्तात्मा एक एव जरामरः । एक एव हि पूर्णात्मा एक एव हि निश्चलः ॥ २७.२६॥ एक एव महानन्द एक एवाहमेकवान् । देहोऽहमिति हीनोऽहं शान्तोऽहमिति शाश्वतः ॥ २७.२७॥ शिवोऽहमिति शान्तोऽहं आत्मैवाहमिति क्रमः । जीवोऽहमिति शान्तोऽहं नित्यशुद्धहृदन्तरः ॥ २७.२८॥ एवं भावय निःशङ्कं सद्यो मुक्तस्त्वमद्वये । एवमादि सुशब्दं वा नित्यं पठतु निश्चलः ॥ २७.२९॥ कालस्वभावो नियतैश्च भूतैः जगद्विजायेत इति श्रुतीरितम् । तद्वै मृषा स्याज्जगतो जडत्वतः इच्छाभवं चैतदथेस्वरस्य ॥ २७.३०॥ ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे आनन्दरूपत्वनिरूपणप्रकरणं नाम सप्तविंशोऽध्यायः ॥
२८ ॥ अष्टाविंशोऽध्यायः ॥ ऋभुः - ब्रह्मैवाहं चिदेवाहं निर्मलोऽहं निरन्तरः । शुद्धस्वरूप एवाहं नित्यरूपः परोऽस्म्यहम् ॥ २८.१॥ नित्यनिर्मलरूपोऽहं नित्यचैतन्यविग्रहः । आद्यन्तरूपहीनोऽहमाद्यन्तद्वैतहीनकः ॥ २८.२॥ अजस्रसुखरूपोऽहं अजस्रानन्दरूपवान् । अहमेवादिनिर्मुक्तः अहं कारणवर्जितः ॥ २८.३॥ अहमेव परं ब्रह्म अहमेवाहमेव हि । इत्येवं भावयन्नित्यं सुखमात्मनि निर्मलः ॥ २८.४॥ सुखं तिष्ठ सुखं तिष्ठ सुचिरं सुखमावह । सर्ववेदमनन्यस्त्वं सर्वदा नास्ति कल्पनम् ॥ २८.५॥ सर्वदा नास्ति चित्ताख्यं सर्वदा नास्ति संसृतिः । सर्वदा नास्ति नास्त्येव सर्वदा जगदेव न ॥ २८.६॥ जगत्प्रसङ्गो नास्त्येव देहवार्ता कुतस्ततः । ब्रह्मैव सर्वचिन्मात्रमहमेव हि केवलम् ॥ २८.७॥ चित्तमित्यपि नास्त्येव चित्तमस्ति हि नास्ति हि । अस्तित्वभावना निष्ठा जगदस्तित्ववाङ्मृषा ॥ २८.८॥ अस्तित्ववक्ता वार्ता हि जगदस्तीति भावना । स्वात्मनोऽन्यज्जगद्रक्षा देहोऽहमिति निश्चितः ॥ २८.९॥ महाचण्डाल एवासौ महाविप्रोऽपि निश्चयः । तस्मादिति जगन्नेति चित्तं वा बुद्धिरेव च ॥ २८.१०॥ नास्ति नास्तीति सहसा निश्चयं कुरु निर्मलः । दृश्यं नास्त्येव नास्त्येव नास्ति नास्तीति भावय ॥ २८.११॥ अहमेव परं ब्रह्म अहमेव हि निष्कलः । अहमेव न सन्देहः अहमेव सुखात् सुखम् ॥ २८.१२॥ अहमेव हि दिव्यात्मा अहमेव हि केवलः । वाचामगोचरोऽहं वै अहमेव न चापरः ॥ २८.१३॥ अहमेव हि सर्वात्मा अहमेव सदा प्रियः । अहमेव हि भावात्मा अहं वृत्तिविवर्जितः ॥ २८.१४॥ अहमेवापरिच्छिन्न अहमेव निरन्तरः । अहमेव हि निश्चिन्त अहमेव हि सद्गुरुः ॥ २८.१५॥ अहमेव सदा साक्षी अहमेवाहमेव हि । नाहं गुप्तो न वाऽगुप्तो न प्रकाशात्मकः सदा ॥ २८.१६॥ नाहं जडो न चिन्मात्रः क्वचित् किञ्चित् तदस्ति हि । नाहं प्राणो जडत्वं तदत्यन्तं सर्वदा भ्रमः ॥ २८.१७॥ अहमत्यन्तमानन्द अहमत्यन्तनिर्मलः । अहमत्यन्तवेदात्मा अहमत्यन्तशाङ्करः ॥ २८.१८॥ अहमित्यपि मे किञ्चिदहमित्यपि न स्मृतिः । सर्वहीनोऽहमेवाग्रे सर्वहीनः सुखाच्छुभात् ॥ २८.१९॥ परात् परतरं ब्रह्म परात् परतरः पुमान् । परात् परतरोऽहं वै सर्वस्यात् परतः परः ॥ २८.२०॥ सर्वदेहविहीनोऽहं सर्वकर्मविवर्जितः । सर्वमन्त्रः प्रशान्तात्मा सर्वान्तःकरणात् परः ॥ २८.२१॥ सर्वस्तोत्रविहीनोऽहं सर्वदेवप्रकाशकः । सर्वस्नानविहीनात्मा एकमग्नोऽहमद्वयः ॥ २८.२२॥ आत्मतीर्थे ह्यात्मजले आत्मानन्दमनोहरे । आत्मैवाहमिति ज्ञात्वा आत्मारामोवसाम्यहम् ॥ २८.२३॥ आत्मैव भोजनं ह्यात्मा तृप्तिरात्मसुखात्मकः । आत्मैव ह्यात्मनो ह्यात्मा आत्मैव परमो ह्यहम् ॥ २८.२४॥ अहमात्माऽहमात्माहमहमात्मा न लौकिकः । सर्वात्माहं सदात्माहं नित्यात्माहं गुणान्तरः ॥ २८.२५॥ एवं नित्यं भावयित्वा सदा भावय सिद्धये । सिद्धं तिष्ठति चिन्मात्रो निश्चयं मात्रमेव सा । निश्चयं च लयं याति स्वयमेव सुखी भव ॥ २८.२६॥ शाखादिभिश्च श्रुतयो ह्यनन्ता- स्त्वामेकमेव भगवन् बहुधा वदन्ति । विष्ण्विन्द्रधातृरविसून्वनलानिलादि भूतात्मनाथ गणनाथललाम शम्भो ॥ २८.२७॥ ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे आत्मवैलक्षण्यप्रकरणं नाम अष्टाविंशोऽध्यायः ॥
२९ ॥ एकोनत्रिंशोऽध्यायः ॥ ऋभुः - अत्यन्तं तन्मयं वक्ष्ये दुर्लभं योगिनामपि । वेदशास्त्रेषु देवेषु रहस्यमतिदुर्लभम् ॥ २९.१॥ यः परं ब्रह्म सर्वात्मा सच्चिदानन्दविग्रहः । सर्वात्मा परमात्मा हि तन्मयो भव सर्वदा ॥ २९.२॥ आत्मरूपमिदं सर्वमाद्यन्तरहितोऽजयः । कार्याकार्यमिदं नास्ति तन्मयो भव सर्वदा ॥ २९.३॥ यत्र द्वैतभयं नास्ति यत्राद्वैतप्रबोधनम् । शान्ताशान्तद्वयं नास्ति तन्मयो भव सर्वदा ॥ २९.४॥ यत्र सङ्कल्पकं नास्ति यत्र भ्रान्तिर्न विद्यते । तदेव हि मतिर्नास्ति तन्मयो भव सर्वदा ॥ २९.५॥ यत्र ब्रह्मणि नास्त्येव यत्र भावि विकल्पनम् । यत्र सर्वं जगन्नास्ति तन्मयो भव सर्वदा ॥ २९.६॥ यत्र भावमभावं वा मनोभ्रान्ति विकल्पनम् । यत्र भ्रान्तेर्न वार्ता वा तन्मयो भव सर्वदा ॥ २९.७॥ यत्र नास्ति सुखं नास्ति देहोऽहमिति रूपकम् । सर्वसङ्कल्पनिर्मुक्तं तन्मयो भव सर्वदा ॥ २९.८॥ यत्र ब्रह्म विना भावो यत्र दोषो न विद्यते । यत्र द्वन्द्वभयं नास्ति तन्मयो भव सर्वदा ॥ २९.९॥ यत्र वाक्कायकार्यं वा यत्र कल्पो लयं गतः । यत्र प्रपञ्चं नोत्पन्नं तन्मयो भव सर्वदा ॥ २९.१०॥ यत्र माया प्रकाशो न माया कार्यं न किञ्चन । यत्र दृश्यमदृश्यं वा तन्मयो भव सर्वदा ॥ २९.११॥ विद्वान् विद्यापि नास्त्येव यत्र पक्षविपक्षकौ । न यत्र दोषादोषौ वा तन्मयो भव सर्वदा ॥ २९.१२॥ यत्र विष्णुत्वभेदो न यत्र ब्रह्मा न विद्यते । यत्र शङ्करभेदो न तन्मयो भव सर्वदा ॥ २९.१३॥ न यत्र सदसद्भेदो न यत्र कलनापदम् । न यत्र जीवकलना तन्मयो भव सर्वदा ॥ २९.१४॥ न यत्र शङ्करध्यानं न यत्र परमं पदम् । न यत्र कलनाकारं तन्मयो भव सर्वदा ॥ २९.१५॥ न यत्राणुर्महत्त्वं च यत्र सन्तोषकल्पनम् । यत्र प्रपञ्चमाभासं तन्मयो भव सर्वदा ॥ २९.१६॥ न यत्र देहकलनं न यत्र हि कुतूहलम् । न यत्र चित्तकलनं तन्मयो भव सर्वदा ॥ २९.१७॥ न यत्र बुद्धिविज्ञानं न यत्रात्मा मनोमयः । न यत्र कामकलनं तन्मयो भव सर्वदा ॥ २९.१८॥ न यत्र मोक्षविश्रान्तिर्यत्र बन्धत्वविग्रहः । न यत्र शाश्वतं ज्ञानं तन्मयो भव सर्वदा ॥ २९.१९॥ न यत्र कालकलनं यत्र दुःखत्वभावनम् । न यत्र देहकलनं तन्मयो भव सर्वदा ॥ २९.२०॥ न यत्र जीववैराग्यं यत्र शास्त्रविकल्पनम् । यत्राहमहमात्मत्वं तन्मयो भव सर्वदा ॥ २९.२१॥ न यत्र जीवन्मुक्तिर्वा यत्र देहविमोचनम् । यत्र सङ्कल्पितं कार्यं तन्मयो भव सर्वदा ॥ २९.२२॥ न यत्र भूतकलनं यत्रान्यत्वप्रभावनम् । न यत्र जीवभेदो वा तन्मयो भव सर्वदा ॥ २९.२३॥ यत्रानन्दपदं ब्रह्म यत्रानन्दपदं सुखम् । यत्रानन्दगुणं नित्यं तन्मयो भव सर्वदा ॥ २९.२४॥ न यत्र वस्तुप्रभवं न यत्रापजयोजयः । न यत्र वाक्यकथनं तन्मयो भव सर्वदा ॥ २९.२५॥ न यत्रात्मविचाराङ्गं न यत्र श्रवणाकुलम् । न यत्र च महानन्दं तन्मयो भव सर्वदा ॥ २९.२६॥ न यत्र हि सजातीयं विजातीयं न यत्र हि । न यत्र स्वगतं भेदं तन्मयो भव सर्वदा ॥ २९.२७॥ न यत्र नरको घोरो न यत्र स्वर्गसम्पदः । न यत्र ब्रह्मलोको वा तन्मयो भव सर्वदा ॥ २९.२८॥ न यत्र विष्णुसायुज्यं यत्र कैलासपर्वतः । ब्रह्माण्डमण्डलं यत्र तन्मयो भव सर्वदा ॥ २९.२९॥ न यत्र भूषणं यत्र दूषणं वा न विद्यते । न यत्र समता दोषं तन्मयो भव सर्वदा ॥ २९.३०॥ न यत्र मनसा भावो न यत्र सविकल्पनम् । न यत्रानुभवं दुःखं तन्मयो भव सर्वदा ॥ २९.३१॥ यत्र पापभयं नास्ति पञ्चपापादपि क्वचित् । न यत्र सङ्गदोषं वा तन्मयो भव सर्वदा ॥ २९.३२॥ यत्र तापत्रयं नास्ति यत्र जीवत्रयं क्वचित् । यत्र विश्वविकल्पाख्यं तन्मयो भव सर्वदा ॥ २९.३३॥ न यत्र बोधमुत्पन्नं न यत्र जगतां भ्रमः । न यत्र करणाकारं तन्मयो भव सर्वदा ॥ २९.३४॥ न यत्र हि मनो राज्यं यत्रैव परमं सुखम् । यत्र वै शाश्वतं स्थानं तन्मयो भव सर्वदा ॥ २९.३५॥ यत्र वै कारणं शान्तं यत्रैव सकलं सुखम् । यद्गत्वा न निवर्तन्ते तन्मयो भव सर्वदा ॥ २९.३६॥ यद् ज्ञात्वा मुच्यते सर्वं यद् ज्ञात्वाऽन्यन्न विद्यते । यद् ज्ञात्वा नान्यविज्ञानं तन्मयो भव सर्वदा ॥ २९.३७॥ यत्रैव दोषं नोत्पन्नं यत्रैव स्थाननिश्चलः । यत्रैव जीवसङ्घातः तन्मयो भव सर्वदा ॥ २९.३८॥ यत्रैव नित्यतृप्तात्मा यत्रैवानन्दनिश्चलम् । यत्रैव निश्चलं शान्तं तन्मयो भव सर्वदा ॥ २९.३९॥ यत्रैव सर्वसौख्यं वा यत्रैव सन्निरूपणम् । यत्रैव निश्चयाकारं तन्मयो भव सर्वदा ॥ २९.४०॥ न यत्राहं न यत्र त्वं न यत्र त्वं स्वयं स्वयम् । यत्रैव निश्चयं शान्तं तन्मयो भव सर्वदा ॥ २९.४१॥ यत्रैव मोदते नित्यं यत्रैव सुखमेधते । यत्र दुःखभयं नास्ति तन्मयो भव सर्वदा ॥ २९.४२॥ यत्रैव चिन्मयाकारं यत्रैवानन्दसागरः । यत्रैव परमं साक्षात् तन्मयो भव सर्वदा ॥ २९.४३॥ यत्रैव स्वयमेवात्र स्वयमेव तदेव हि । स्वस्वात्मनोक्तभेदोऽस्ति तन्मयो भव सर्वदा ॥ २९.४४॥ यत्रैव परमानन्दं स्वयमेव सुखं परम् । यत्रैवाभेदकलनं तन्मयो भव सर्वदा ॥ २९.४५॥ न यत्र चाणुमात्रं वा न यत्र मनसो मलम् । न यत्र च ददाम्येव तन्मयो भव सर्वदा ॥ २९.४६॥ यत्र चित्तं मृतं देहं मनो मरणमात्मनः । यत्र स्मृतिर्लयं याति तन्मयो भव सर्वदा ॥ २९.४७॥ यत्रैवाहं मृतो नूनं यत्र कामो लयं गतः । यत्रैव परमानन्दं तन्मयो भव सर्वदा ॥ २९.४८॥ यत्र देवास्त्रयो लीनं यत्र देहादयो मृताः । न यत्र व्यवहारोऽस्ति तन्मयो भव सर्वदा ॥ २९.४९॥ यत्र मग्नो निरायासो यत्र मग्नो न पश्यति । यत्र मग्नो न जन्मादिस्तन्मयो भव सर्वदा ॥ २९.५०॥ यत्र मग्नो न चाभाति यत्र जाग्रन्न विद्यते । यत्रैव मोहमरणं तन्मयो भव सर्वदा ॥ २९.५१॥ यत्रैव कालमरणं यत्र योगो लयं गतः । यत्र सत्सङ्गतिर्नष्टा तन्मयो भव सर्वदा ॥ २९.५२॥ यत्रैव ब्रह्मणो रूपं यत्रैवानन्दमात्रकम् । यत्रैव परमानन्दं तन्मयो भव सर्वदा ॥ २९.५३॥ यत्र विश्वं क्वचिन्नास्ति यत्र नास्ति ततो जगत् । यत्रान्तःकरणं नास्ति तन्मयो भव सर्वदा ॥ २९.५४॥ यत्रैव सुखमात्रं च यत्रैवानन्दमात्रकम् । यत्रैव परमानन्दं तन्मयो भव सर्वदा ॥ २९.५५॥ यत्र सन्मात्रचैतन्यं यत्र चिन्मात्रमात्रकम् । यत्रानन्दमयं भाति तन्मयो भव सर्वदा ॥ २९.५६॥ यत्र साक्षात् परं ब्रह्म यत्र साक्षात् स्वयं परम् । यत्र शान्तं परं लक्ष्यं तन्मयो भव सर्वदा ॥ २९.५७॥ यत्र साक्षादखण्डार्थं यत्र साक्षात् परायणम् । यत्र नाशादिकं नास्ति तन्मयो भव सर्वदा ॥ २९.५८॥ यत्र साक्षात् स्वयं मात्रं यत्र साक्षात्स्वयं जयम् । यत्र साक्षान्महानात्मा तन्मयो भव सर्वदा ॥ २९.५९॥ यत्र साक्षात् परं तत्त्वं यत्र साक्षात् स्वयं महत् । यत्र साक्षात्तु विज्ञानं तन्मयो भव सर्वदा ॥ २९.६०॥ यत्र साक्षाद्गुणातीतं यत्र साक्षाद्धि निर्मलम् । यत्र साक्षात् सदाशुद्धं तन्मयो भव सर्वदा ॥ २९.६१॥ यत्र साक्षान्महानात्मा यत्र साक्षात् सुखात् सुखम् । यत्रैव ज्ञानविज्ञानं तन्मयो भव सर्वदा ॥ २९.६२॥ यत्रैव हि स्वयं ज्योतिर्यत्रैव स्वयमद्वयम् । यत्रैव परमानन्दं तन्मयो भव सर्वदा ॥ २९.६३॥ एवं तन्मयभावोक्तं एवं नित्यशनित्यशः । ब्रह्माहं सच्चिदानन्दं अखण्डोऽहं सदा सुखम् ॥ २९.६४॥ विज्ञानं ब्रह्ममात्रोऽहं स शान्तं परमोऽस्म्यहम् । चिदहं चित्तहीनोऽहं नाहं सोऽहं भवाम्यहम् ॥ २९.६५॥ तदहं चिदहं सोऽहं निर्मलोऽहमहं परम् । परोऽहं परमोऽहं वै सर्वं त्यज्य सुखीभव ॥ २९.६६॥ इदं सर्वं चित्तशेषं शुद्धत्वकमलीकृतम् । एवं सर्वं परित्यज्य विस्मृत्वा शुद्धकाष्ठवत् ॥ २९.६७॥ प्रेतवद्देहं संत्यज्य काष्ठवल्लोष्ठवत् सदा । स्मरणं च परित्यज्य ब्रह्ममात्रपरो भव ॥ २९.६८॥ एतत् प्रकरणं यस्तु शृणोति सकृदस्ति वा । महापातकयुक्तोऽपि सर्वं त्यक्त्वा परं गतः ॥ २९.६९॥ अङ्गावबद्धाभिरुपासनाभि- र्वदन्ति वेदाः किल त्वामसङ्गम् । समस्तहृत्कोशविशेषसङ्गं भूमानमात्मानमखण्डरूपम् ॥ २९.७०॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे तन्मयभावोपदेशप्रकरणं नाम एकोनत्रिंशोऽध्यायः ॥
३० ॥ त्रिंशोऽध्यायः ॥ ऋभुः - वक्ष्ये परं ब्रह्ममात्रं जगत्सन्त्यागपूर्वकम् । सकृच्छ्रवणमात्रेण ब्रह्मभावं परं लभेत् ॥ ३०.१॥ ब्रह्म ब्रह्मपरं मात्रं निर्गुणं नित्यनिर्मलम् । शाश्वतं सममत्यन्तं ब्रह्मणोऽन्यन्न विद्यते ॥ ३०.२॥ अहं सत्यः परानन्दः शुद्धो नित्यो निरञ्जनः । सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.३॥ अखण्डैकरसैवास्मि परिपूर्णोऽस्मि सर्वदा । ब्रह्मैव सर्वं नान्योऽस्ति सर्वं ब्रह्म न संशयः ॥ ३०.४॥ सर्वदा केवलात्माहं सर्वं ब्रह्मेति नित्यशः । आनन्दरूपमेवाहं नान्यत् किञ्चिन्न शाश्वतम् ॥ ३०.५॥ शुद्धानन्दस्वरूपोऽहं शुद्धविज्ञानमात्मनः । एकाकारस्वरूपोऽहं नैकसत्ताविवर्जितः ॥ ३०.६॥ अन्तरज्ञानशुद्धोऽहमहमेव परायणम् । सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.७॥ अनेकतत्त्वहीनोऽहं एकत्वं च न विद्यते । सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.८॥ सर्वप्रकाररूपोऽस्मि सर्वं इत्यपि वर्जितः । सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.९॥ निर्मलज्ञानरूपोऽहमहमेव न विद्यते । शुद्धब्रह्मस्वरूपोऽहं विशुद्धपदवर्जितः ॥ ३०.१०॥ नित्यानन्दस्वरूपोऽहं ज्ञानानन्दमहं सदा । सूक्ष्मात् सूक्ष्मतरोऽहं वै सूक्ष्म इत्यादिवर्जितः ॥ ३०.११॥ अखण्डानन्दमात्रोऽहं अखण्डानन्दविग्रहः । सदाऽमृतस्वरूपोऽहं सदा कैवल्यविग्रहः ॥ ३०.१२॥ ब्रह्मानन्दमिदं सर्वं नास्ति नास्ति कदाचन । जीवत्वधर्महीनोऽहमीश्वरत्वविवर्जितः ॥ ३०.१३॥ वेदशास्त्रस्वरूपोऽहं शास्त्रस्मरणकारणम् । जगत्कारणकार्यं च ब्रह्मविष्णुमहेश्वराः ॥ ३०.१४॥ वाच्यवाचकभेदं च स्थूलसूक्ष्मशरीरकम् । जाग्रत्स्वप्नसुषुप्ताद्यप्राज्ञतैजसविश्वकाः ॥ ३०.१५॥ सर्वशास्त्रस्वरूपोऽहं सर्वानन्दमहं सदा । अतीतनामरूपार्थ अतीतः सर्वकल्पनात् ॥ ३०.१६॥ द्वैताद्वैतं सुखं दुःखं लाभालाभौ जयाजयौ । सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.१७॥ सात्त्विकं राजसं भेदं संशयं हृदयं फलम् । दृक् दृष्टं सर्वद्रष्टा च भूतभौतिकदैवतम् ॥ ३०.१८॥ सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः । तुर्यरूपमहं साक्षात् ज्ञानरूपमहं सदा ॥ ३०.१९॥ अज्ञानं चैव नास्त्येव तत्कार्यं कुत्र विद्यते । सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.२०॥ चित्तवृत्तिविलासं च बुद्धीनामपि नास्ति हि । देहसङ्कल्पहीनोऽहं बुद्धिसङ्कल्पकल्पना ॥ ३०.२१॥ सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः । बुद्धिनिश्चयरूपोऽहं निश्चयं च गलत्यहो ॥ ३०.२२॥ अहंकारं बहुविधं देहोऽहमिति भावनम् । सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.२३॥ ब्रह्माहमपि काणोऽहं बधिरोऽहं परोऽस्म्यहम् । सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.२४॥ देहोऽहमिति तादात्म्यं देहस्य परमात्मनः । सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.२५॥ सर्वोऽहमिति तादात्म्यं सर्वस्य परमात्मनः । इति भावय यत्नेन ब्रह्मैवाहमिति प्रभो ॥ ३०.२६॥ दृढनिश्चयमेवेदं सत्यं सत्यमहं परम् । दृढनिश्चयमेवात्र सद्गुरोर्वाक्यनिश्चयम् ॥ ३०.२७॥ दृढनिश्चयसाम्राज्ये तिष्ठ तिष्ठ सदा परः । अहमेव परं ब्रह्म आत्मानन्दप्रकाशकः ॥ ३०.२८॥ शिवपूजा शिवश्चाहं विष्णुर्विष्णुप्रपूजनम् । यद्यत् संवेद्यते किञ्चित् यद्यन्निश्चीयते क्वचित् ॥ ३०.२९॥ तदेव त्वं त्वमेवाहं इत्येवं नास्ति किञ्चन । इदं चित्तमिदं दृश्यं इत्येवमिति नास्ति हि ॥ ३०.३०॥ सदसद्भावशेषोऽपि तत्तद्भेदं न विद्यते । सुखरूपमिदं सर्वं सुखरूपमिदं न च ॥ ३०.३१॥ लक्षभेदं सकृद्भेदं सर्वभेदं न विद्यते । ब्रह्मानन्दो न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.३२॥ ब्रह्मभेदं तुर्यभेदं जीवभेदमभेदकम् । इदमेव हि नोत्पन्नं सर्वदा नास्ति किञ्चन ॥ ३०.३३॥ स देवमिति निर्देशो नास्ति नास्त्येव सर्वदा । अस्ति चेत् किल वक्तव्यं नास्ति चेत् कथमुच्यते ॥ ३०.३४॥ परं विशेषमेवेति नास्ति किञ्चित् सदा मयि । चञ्चलं मनश्चैव नास्ति नास्ति न संशयः ॥ ३०.३५॥ एवमेव सदा पूर्णो निरीहस्तिष्ठ शान्तधीः । सर्वं ब्रह्मास्मि पूर्णोऽस्मि एवं च न कदाचन ॥ ३०.३६॥ आनन्दोऽहं वरिष्ठोऽहं ब्रह्मास्मीत्यपि नास्ति हि । ब्रह्मानन्दमहानन्दमात्मानन्दमखण्डितम् ॥ ३०.३७॥ इदं परमहन्ता च सर्वदा नास्ति किञ्चन । इदं सर्वमिति ख्याति आनन्दं नेति नो भ्रमः ॥ ३०.३८॥ सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः । लक्ष्यलक्षणभावं च दृश्यदर्शनदृश्यता ॥ ३०.३९॥ अत्यन्ताभावमेवेति सर्वदानुभवं महत् । सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.४०॥ गुह्यं मन्त्रं गुणं शास्त्रं सत्यं श्रोत्रं कलेवरम् । मरणं जननं कार्यं कारणं पावनं शुभम् ॥ ३०.४१॥ कामक्रोधौ लोभमोहौ मदो मात्सर्यमेव हि । द्वैतदोषं भयं शोकं सर्वं नास्त्येव सर्वदा ॥ ३०.४२॥ इदं नास्त्येव नास्त्येव नास्त्येव सकलं सुखम् । इदं ब्रह्मेति मननमहं ब्रह्मेति चिन्तनम् ॥ ३०.४३॥ अहं ब्रह्मेति मननं त्वं ब्रह्मत्वविनाशनम् । सत्यत्वं ब्रह्मविज्ञानं असत्यत्वं न बाध्यते ॥ ३०.४४॥ एक एव परो ह्यात्मा एकत्वश्रान्तिवर्जितः । सर्वं ब्रह्म सदा ब्रह्म तद्ब्रह्माहं न संशयः ॥ ३०.४५॥ जीवरूपा जीवभावा जीवशब्दत्रयं न हि । ईशरूपं चेशभावं ईशशब्दं च कल्पितम् ॥ ३०.४६॥ नाक्षरं न च सर्वं वा न पदं वाच्यवाचकम् । हृदयं मन्त्रतन्त्रं च चित्तं बुद्धिर्न किञ्चन ॥ ३०.४७॥ मूढो ज्ञानी विवेकी वा शुद्ध इत्यपि नास्ति हि । निश्चयं प्रणवं तारं आत्मायं गुरुशिष्यकम् ॥ ३०.४८॥ तूष्णीं तूष्णीं महातूष्णीं मौनं वा मौनभावनम् । प्रकाशनं प्रकाशं च आत्मानात्मविवेचनम् ॥ ३०.४९॥ ध्यानयोगं राजयोगं भोगमष्टाङ्गलक्षणम् । सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.५०॥ अस्तित्वभाषणं चापि नास्तित्वस्य च भाषणम् । पञ्चाशद्वर्णरूपोऽहं चतुःषष्टिकलात्मकः ॥ ३०.५१॥ सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः । ब्रह्मैवाहं प्रसन्नात्मा ब्रह्मैवाहं चिदव्ययः ॥ ३०.५२॥ शास्त्रज्ञानविदूरोऽहं वेदज्ञानविदूरकः । उक्तं सर्वं परं ब्रह्म नास्ति सन्देहलेशतः ॥ ३०.५३॥ सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः । ब्रह्मैवाहं प्रसन्नात्मा ब्रह्मैवाहं चिदव्ययः ॥ ३०.५४॥ इत्येवं ब्रह्मतन्मात्रं तत्र तुभ्यं प्रियं ततः । यस्तु बुद्ध्येत सततं सर्वं ब्रह्म न संशयः । नित्यं शृण्वन्ति ये मर्त्यास्ते चिन्मात्रमयामलाः ॥ ३०.५५॥ सन्देहसन्देहकरोऽर्यकास्वकैः करादिसन्दोहजगद्विकारिभिः । यो वीतमोहं न करोति दुर्हृदं विदेहमुक्तिं शिवदृक्प्रभावतः ॥ ३०.५६॥ ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे ब्रह्मैकरूपत्वनिरूपणप्रकरणं नाम त्रिंशोऽध्यायः ॥
३१ ॥ एकत्रिंशोऽध्यायः ॥ ऋभुः - वक्ष्ये रहस्यमत्यन्तं साक्षाद्ब्रह्मप्रकाशकम् । सर्वोपनिषदामर्थं सर्वलोकेषु दुर्लभम् ॥ ३१.१॥ प्रज्ञानं ब्रह्म निश्चित्य पदद्वयसमन्वितम् । महावाक्यं चतुर्वाक्यं ऋग्यजुःसामसंभवम् ॥ ३१.२॥ मम प्रज्ञैव ब्रह्माहं ज्ञानमात्रमिदं जगत् । ज्ञानमेव जगत् सर्वं ज्ञानादन्यन्न विद्यते ॥ ३१.३॥ ज्ञानस्यानन्तरं सर्वं दृश्यते ज्ञानरूपतः । ज्ञानस्य ब्रह्मणश्चापि ममेव पृथङ् न हि ॥ ३१.४॥ जीवः प्रज्ञानशब्दस्य ब्रह्मशब्दस्य चेश्वरः । ऐक्यमस्मीत्यखण्डार्थमखण्डैकरसं ततम् ॥ ३१.५॥ अखण्डाकारवृत्तिस्तु जीवन्मुक्तिरितीरितम् । अखण्डैकरसं वस्तु विदेहो मुक्तिरुच्यते ॥ ३१.६॥ ब्रह्मैवाहं न संसारी सच्चिदानन्दमस्म्यहम् । निर्गुणोऽहं निरंशोऽहं परमानन्दवानहम् ॥ ३१.७॥ नित्योऽहं निर्विकल्पोऽहं चिदहं चिदहं सदा । अखण्डाकारवृत्त्याख्यं चित्तं ब्रह्मात्मना स्थितम् ॥ ३१.८॥ लवणं तोयमात्रेण यथैकत्वमखण्डितम् । अखण्डैकरसं वक्ष्ये विदेहो मुक्तिलक्षणम् ॥ ३१.९॥ प्रज्ञापदं परित्यज्य ब्रह्मैव पदमेव हि । अहमस्मि महानस्मि सिद्धोऽस्मीति परित्यजन् ॥ ३१.१०॥ स्मरणं च परित्यज्य भावनं चित्तकर्तृकम् । सर्वमन्तः परित्यज्य सर्वशून्यं परिस्थितिः ॥ ३१.११॥ तूष्णीं स्थितिं च सन्त्यज्य ततो मौनविकल्पनम् । यत्तच्चित्तं विकल्पांशं मनसा कल्पितं जगत् ॥ ३१.१२॥ देहोऽहमित्यहङ्कारं द्वैतवृत्तिरितीरितम् । सर्वं साक्षिरहं ब्रह्म इत्येवं दृढनिश्चयम् ॥ ३१.१३॥ सर्वदाऽसंशयं ब्रह्म साक्षिवृत्तिरितीरितम् । द्वैतवृत्तिः साक्षवृत्तिरखण्डाकारवृत्तिकम् ॥ ३१.१४॥ अखण्डैकरसं चेति लोके वृत्तित्रयं भवेत् । प्रथमे निश्चिते द्वैते द्वितीये साक्षिसंशयः ॥ ३१.१५॥ तृतीये पदभागे हि दृढनिश्चयमीरितम् । एतत्त्रयार्थं संशोध्य तं परित्यज्य निश्चिनु ॥ ३१.१६॥ अखण्डैकरसाकारो नित्यं तन्मयतां व्रज । अभ्यासवाक्यमेतत्तु सदाऽभ्यासस्य कारणम् ॥ ३१.१७॥ मननस्य परं वाक्यं योऽयं चन्दनवृक्षवत् । युक्तिभिश्चिन्तनं वृत्तं पदत्रयमुदाहृतम् ॥ ३१.१८॥ अहं पदस्य जीवोऽर्थ ईशो ब्रह्मपदस्य हि । अस्मीति पदभागस्य अखण्डाकारवृत्तिकम् ॥ ३१.१९॥ पदत्रयं परित्यज्य विचार्य मनसा सह । अखण्डैकरसं प्राप्य विदेहो मुक्तिलक्षणम् ॥ ३१.२०॥ अहं ब्रह्मास्मि चिन्मात्रं सच्चिदानन्दविग्रहः । अहं ब्रह्मास्मि वाक्यस्य श्रवणानन्तरं सदा ॥ ३१.२१॥ अहं ब्रह्मास्मि नित्योऽस्मि शान्तोऽस्मि परमोऽस्म्यहम् । निर्गुणोऽहं निरीहोऽहं निरंशोऽस्मि सदा स्मृतः ॥ ३१.२२॥var was निर्यशोऽस्मि आत्मैवास्मि न सन्देहः अखण्डैकरसोऽस्म्यहम् । एवं निरन्तरं तज्ज्ञो भावयेत् परमात्मनि ॥ ३१.२३॥ यथा चानुभवं वाक्यं तस्मादनुभवेत् सदा । आरंभाच्च द्वितीयात्तु स्मृतमभ्यासवाक्यतः ॥ ३१.२४॥ तृतीयान्तत्त्वमस्येति वाक्यसामान्यनिर्णयम् । तत्पदं त्वंपदं त्वस्य पदत्रयमुदाहृतम् ॥ ३१.२५॥ तत्पदस्येश्वरो ह्यर्थो जीवोऽर्थस्त्वंपदस्य हि । ऐक्यस्यापि पदस्यार्थमखण्डैकरसं पदम् ॥ ३१.२६॥ द्वैतवृत्तिः साक्षवृत्तिरखण्डाकारवृत्तिकः । अखण्डं सच्चिदानन्दं तत्त्वमेवासि निश्चयः ॥ ३१.२७॥ त्वं ब्रह्मासि न सन्देहस्त्वमेवासि चिदव्ययः । त्वमेव सच्चिदानन्दस्त्वमेवाखण्डनिश्चयः ॥ ३१.२८॥ इत्येवमुक्तो गुरुणा स एव परमो गुरुः । अहं ब्रह्मेति निश्चित्य सच्छिष्यः परमात्मवान् ॥ ३१.२९॥ नान्यो गुरुर्नान्यशिष्यस्त्वं ब्रह्मासि गुरुः परः । सर्वमन्त्रोपदेष्टारो गुरवः स गुरुः परः ॥ ३१.३०॥ त्वं ब्रह्मासीति वक्तारं गुरुरेवेति निश्चिनु । तथा तत्त्वमसि ब्रह्म त्वमेवासि च सद्गुरुः ॥ ३१.३१॥ सद्गुरोर्वचने यस्तु निश्चयं तत्त्वनिश्चयम् । करोति सततं मुक्तेर्नात्र कार्या विचारणा ॥ ३१.३२॥ महावाक्यं गुरोर्वाक्यं तत्त्वमस्यादिवाक्यकम् । शृणोतु श्रवणं चित्तं नान्यत् श्रवणमुच्यते ॥ ३१.३३॥ सर्ववेदान्तवाक्यानामद्वैते ब्रह्मणि स्थितिः । इत्येवं च गुरोर्वक्त्रात् श्रुतं ब्रह्मेति तच्छ्रवः ॥ ३१.३४॥ गुरोर्नान्यो मन्त्रवादी एक एव हि सद्गुरुः । त्वं ब्रह्मासीति येनोक्तं एष एव हि सद्गुरुः ॥ ३१.३५॥ वेदान्तश्रवणं चैतन्नान्यच्छ्रवणमीरितम् । युक्तिभिश्चिन्तनं चैव मननं परिकथ्यते ॥ ३१.३६॥ एवं चन्दनवृक्षोऽपि श्रुतोऽपि परिशोध्यते । त्वं ब्रह्मासीति चोक्तोऽपि संशयं परिपश्यति ॥ ३१.३७॥ संशोध्य निश्चिनोत्येवमात्मानं परिशोध्यते । युक्तिर्नाम वदाम्यत्र देहोनाहं विनाशतः ॥ ३१.३८॥ स्थूलदेहं सूक्ष्मदेहं स्थूलसूक्ष्मं च कारणम् । त्रयं चथुर्थे नास्तीति सर्वं चिन्मात्रमेव हि ॥ ३१.३९॥ एतत्सर्वं जडत्वाच्च दृश्यत्वाद्घटवन्नहि । अहं चैतन्यमेवात्र दृग्रूपत्वाल्लयं न हि ॥ ३१.४०॥ सत्यं ज्ञानमनन्तं यदात्मनः सहजा गुणाः । अन्ततं जडदुःखादि जगतः प्रथितो गुणः ॥ ३१.४१॥ तस्मादहं ब्रह्म एव इदं सर्वमसत्यकम् । एवं च मननं नित्यं करोति ब्रह्मवित्तमः ॥ ३१.४२॥ वक्ष्ये निदिध्यासनं च उभयत्यागलक्षणम् । त्वं ब्रह्मासीति श्रवणं मननं चाहमेव हि ॥ ३१.४३॥ एतत्त्यागं निदिध्यासं सजातीयत्वभावनम् । विजातीयपरित्यागं स्वगतत्वविभावनम् ॥ ३१.४४॥ सर्वत्यागं परित्यज्य तुरीयत्वं च वर्जनम् । ब्रह्मचिन्मात्रसारत्वं साक्षात्कारं प्रचक्षते ॥ ३१.४५॥ उपदेशे महावाक्यमस्तित्वमिति निर्णयः । तथैवानुभवं वाक्यमहं ब्रह्मास्मि निर्णयः ॥ ३१.४६॥ प्रज्ञानं ब्रह्मवाक्योत्थमभ्यासार्थमितीरितम् । अयमात्मेति वाक्योत्थदर्शनं वाक्यमीरितम् ॥ ३१.४७॥ अयमेकपदं चैक आत्मेति ब्रह्म च त्रयम् । अयंपदस्य जीवोऽर्थ आत्मनो ईश्वरः परः ॥ ३१.४८॥ तथा ब्रह्मपदस्यार्थ अखण्डाकारवृत्तिकम् । अखण्डैकरसं सर्वं पदत्रयलयं गतम् ॥ ३१.४९॥ अखण्डैकरसो ह्यात्मा नित्यशुद्धविमुक्तकः । तदेव सर्वमुद्भूतं भविष्यति न संशयः ॥ ३१.५०॥ अखण्डैकरसो देव अयमेकमुदीरितम् । आत्मेति पदमेकस्य ब्रह्मेति पदमेककम् ॥ ३१.५१॥ अयं पदस्य जीवोऽर्थ आत्मेतीश्वर ईरितः । अस्यार्थोऽस्मीत्यखण्डार्थमखण्डैकरसं पदम् ॥ ३१.५२॥ द्वैतवृत्तिः साक्षिवृत्तिरखण्डाकारवृत्तिकम् । अखण्डैकरसं पश्चात् सोऽहमस्मीति भावय ॥ ३१.५३॥ इत्येवं च चतुर्वाक्यतात्पर्यार्थं समीरितम् । उपाधिसहितं वाक्यं केवलं लक्ष्यमीरितम् ॥ ३१.५४॥ किञ्चिज्ज्ञत्वादि जीवस्य सर्व ज्ञत्वादि चेश्वरः । जीवोऽपरो सचैतन्यमीश्वरोऽहं परोक्षकः ॥ ३१.५५॥ सर्वशून्यमिति त्याज्यं ब्रह्मास्मीति विनिश्चयः । अहं ब्रह्म न सन्देहः सच्चिदानन्दविग्रहः ॥ ३१.५६॥ अहमैक्यं परं गत्वा स्वस्वभावो भवोत्तम । एतत्सर्वं महामिथ्या नास्ति नास्ति न संशयः ॥ ३१.५७॥ सर्वं नास्ति न सन्देहः सर्वं ब्रह्म न संशयः । एकाकारमखण्डार्थं तदेवाहं न संशयः । ब्रह्मेदं वितताकारं तद्ब्रह्माहं न संशयः ॥ ३१.५८॥ सूतः - भवोद्भवमुखोद्भवं भवहराद्यहृद्यं भुवि प्रकृष्टरसभावतः प्रथितबोधबुद्धं भव । भजन्ति भसिताङ्गका भरितमोदभारादरा भुजङ्गवरभूषणं भुवनमध्यवृन्दावनम् ॥ ३१.५९॥ ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे महावाक्यार्थनिरूपणप्रकरणं नाम एकत्रिंशोऽध्यायः ॥
३२ ॥ द्वात्रिंशोऽध्यायः ॥ ऋभुः - वक्ष्ये पुनरसत्त्यागं ब्रह्मनिश्चयमेव च । यस्य श्रवणमात्रेण सद्यो मुक्तो भवेन्नरः ॥ ३२.१॥ चित्तसत्ता मनःसत्ता ब्रह्मसत्ताऽन्यथा स्थिता । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२॥ देहसत्ता लिङ्गसत्ता भावसत्ताऽक्षरा स्थिता । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.३॥ दृश्यं च दर्शनं दृष्टा कर्ता कारयिता क्रिया ।var was द्रष्टा सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.४॥ एकं द्वित्वं पृथग्भावं अस्ति नास्तीति निर्णयः । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.५॥ शास्त्रभेदं वेदभेदं मुक्तीनां भेदभावनम् । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.६॥ जातिभेदं वर्णभेदं शुद्धाशुद्धविनिर्णयः । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.७॥ अखण्डाकारवृत्तिश्च अखण्डैकरसं परम् । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.८॥ परापरविकल्पश्च पुण्यपापविकल्पनम् । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.९॥ कल्पनाकल्पनाद्वैतं मनोकल्पनभावनम् । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.१०॥ सिद्धं साध्यं साधनं च नाशनं ब्रह्मभावनम् । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.११॥ आत्मज्ञानं मनोधर्मं मनोऽभावे कुतो भवेत् । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.१२॥ अज्ञानं च मनोधर्मस्तदभावे च तत्कुतः । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.१३॥ शमो दमो मनोधर्मस्तदभावे च तत्कुतः । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.१४॥ बन्धमोक्षौ मनोधर्मौ तदभावे कुतो भवेत् । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.१५॥ सर्वं मिथ्या जगन्मिथ्या देहो मिथ्या जडत्वतः । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.१६॥ ब्रह्मलोकः सदा मिथ्या बुद्धिरूपं तदेव हि । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.१७॥ विष्णुलोकः सदा मिथ्या शिवमेव हि सर्वदा । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.१८॥ रुद्रलोकः सदा मिथ्या अहंकारस्वरूपतः । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.१९॥ चन्द्रलोकः सदा मिथ्या मनोरूपविकल्पनम् । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२०॥ दिशो लोकः सदा मिथ्या श्रोत्रशब्दसमन्वितः । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२१॥ सूर्यलोकः सदा मिथ्या नेत्ररूपसमन्वितः । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२२॥ वरुणस्य सदा लोको जिह्वारससमन्वितः । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२३॥ त्वचो लोकः सदा मिथ्या वायोः स्पर्शसमन्वितः । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२४॥ अश्विनोर्घ्राणलोकश्च गन्धद्वैतसमन्वितः । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२५॥ अग्नेर्लोकः सदा मिथ्या वागेव वचनेन तत् । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२६॥ इन्द्रलोकः सदा मिथ्या पाणिपादेन संयुतः । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२७॥ उपेन्द्रस्य महर्लोको गमनेन पदं युतम् । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२८॥ मृत्युरेव सदा नास्ति पायुरेव विसर्गकम् । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२९॥ प्रजापतेर्महर्लोको गुह्यमानन्दसंयुतम् । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.३०॥ सर्वं मिथ्या न सन्देहः सर्वमात्मेति निश्चितम् । तितिक्षोश्च समाधानं श्रद्धा चाचार्यभाषणे ॥ ३२.३१॥ मुमुक्षुत्वं च मोक्षश्च मोक्षार्थे मम जीवने । चतुःसाधनसम्पन्नः सोऽधिकारीति निश्चयः ॥ ३२.३२॥ जीवब्रह्मैक्यसद्भावं वियद्ब्रह्मेति निश्चयः । वेदान्तब्रह्मणो बोध्यं बोधकं बन्धमुच्यते ॥ ३२.३३॥ सर्वज्ञाननिर्वृत्तिश्चेदानन्दावाप्तिकं फलम् ।var was निवृत्ति इत्येवमादिभिः शब्दैः प्रोक्तं सर्वमसत् सदा ॥ ३२.३४॥ सर्वशब्दार्थरूपं च निश्चयं भावनं तथा । ब्रह्ममात्रं परं सत्यमन्यत् सर्वमसत् सदा ॥ ३२.३५॥ अनेकशब्दश्रवणमनेकार्थविचारणम् । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.३६॥ नानुध्यायाद्ब्रह्मशब्दान् इत्युक्त्वा ह महानसि । ब्रह्मोपदेशकाले तु सर्वं चोक्तं न संशयः ॥ ३२.३७॥ ब्रह्मैवाहमिदं द्वैतं चित्तसत्ताविभावनम् । चिन्मात्रोऽहमिदं द्वैतं जीवब्रह्मेति भावनम् ॥ ३२.३८॥ अहं चिन्मात्रमन्त्रं वा कार्यकारणचिन्तनम् । अक्षयानन्दविज्ञानमखण्डैकरसाद्वयम् ॥ ३२.३९॥ परं ब्रह्म इदं ब्रह्म शान्तं ब्रह्म स्वयं जगत् । अन्तरिन्द्रियविज्ञानं बाह्येन्द्रियनिरोधनम् ॥ ३२.४०॥ सर्वोपदेशकालं च साम्यं शेषं महोदयम् । भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ॥ ३२.४१॥ कारणं कार्यभेदं च शास्त्रमार्गैककल्पनम् । अहं ब्रह्म इदं ब्रह्म सर्वं ब्रह्मेति शब्दतः ॥ ३२.४२॥ सत्यरूपं क्वचिन्नास्ति सत्यं नाम कदा नहि । संशयं च विपर्यासं सङ्कल्पः कारणं भ्रमः ॥ ३२.४३॥ आत्मनोऽन्यत् क्वचिन्नास्ति सर्वं मिथ्या न संशयः । महतां ह्यद्यते मन्त्री मेधाशुद्धिशुभाशुभम् ॥ ३२.४४॥ देशभेदं वस्तुभेदं न च चैतन्यभेदकम् । आत्मनोऽन्यत् पृथग्भावमात्मनोऽन्यन्निरूपणम् ॥ ३२.४५॥ आत्मनोऽन्यन्नामरूपमात्मनोऽन्यच्छुभाशुभम् । आत्मनोऽन्यद्वस्तुसत्ता आत्मनोऽन्यज्जगत्त्रयम् ॥ ३२.४६॥ आत्मनोऽन्यत् सुःखं दुःखमात्मनोऽन्यद्विचिन्तनम् । आत्मनोऽन्यत्प्रपञ्चं वा आत्मनोऽन्यज्जयाजयौ ॥ ३२.४७॥ आत्मनोऽन्यद्देवपूजा आत्मनोऽन्यच्छिवार्चनम् । आत्मनोऽन्यन्महाध्यानमात्मनोऽन्यत् कलाक्रमम् ॥ ३२.४८॥ सर्वं मिथ्या न सन्देहो ब्रह्म सर्वं न संशयः । सर्वमुक्तं भगवता निदिध्यासस्तु सर्वदा ॥ ३२.४९॥ सकृच्छ्रवणमात्रेण हृदयग्रन्थिरन्तिमम् । कर्मनाशं च मूढानां महतां मुक्तिरेव हि ॥ ३२.५०॥ अनेककोटिजननपातकं भस्मसाद्भवेत् । सत्यं सत्यं पुनः सत्यं सत्यं सर्वं विनश्यति । सद्यो मुक्तिर्न सन्देहो नास्ति मङ्गलमङ्गलम् ॥ ३२.५१॥ क्व भेदभावदर्शनं न चैव शोकमोहहृत् प्रपश्यतां श्रुते शिखाविशेषमैक्यभावनात् । यतो भवेज्जगाद तं महेश येन जीवितं यदन्तराऽविशत् सदा यथोर्णनाभतन्तुवत् ॥ ३२.५२॥ ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे सर्वमिथ्यात्वनिरूपणप्रकरणं नाम द्वात्रिंशोऽध्यायः ॥
३३ ॥ त्रयस्त्रिंशोऽध्यायः ॥ ऋभुः - वक्ष्ये परं ब्रह्ममात्रमनुत्पन्नमिदं जगत् । सत्पदानन्दमात्रोऽहमनुत्पन्नमिदं जगत् ॥ ३३.१॥ आत्मैवाहं परं ब्रह्म नान्यत् संसारदृष्टयः । सत्पदानन्दमात्रोऽहमनुत्पन्नमिदं जगत् ॥ ३३.२॥ सत्पदानन्दमात्रोऽहं चित्पदानन्दविग्रहम् । अहमेवाहमेवैकमहमेव परात् परः ॥ ३३.३॥ सच्चिदानदमेवैकमहं ब्रह्मैव केवलम् । अहमस्मि सदा भामि एवं रूपं कुतोऽप्यसत् ॥ ३३.४॥ त्वमित्येवं परं ब्रह्म चिन्मयानन्दरूपवान् । चिदाकारं चिदाकाशं चिदेव परमं सुखम् ॥ ३३.५॥ आत्मैवाहमसन्नाहं कूटस्थोऽहं गुरुः परः । कालं नास्ति जगन्नास्ति कल्मषत्वानुभावनम् ॥ ३३.६॥ अहमेव परं ब्रह्म अहमेव सदा शिवः । शुद्धचैतन्य एवाहं शुद्धसत्वानुभावनः ॥ ३३.७॥ अद्वयानन्दमात्रोऽहमव्ययोऽहं महानहम् । सर्वं ब्रह्मैव सततं सर्वं ब्रह्मैव निर्मलः ॥ ३३.८॥ सर्वं ब्रह्मैव नान्योऽस्ति सर्वं ब्रह्मैव चेतनः । सर्वप्रकाशरूपोऽहं सर्वप्रियमनो ह्यहम् ॥ ३३.९॥ एकान्तैकप्रकाशोऽहं सिद्धासिद्धविवर्जितः । सर्वान्तर्यामिरूपोऽहं सर्वसाक्षित्वलक्षणम् ॥ ३३.१०॥ शमो विचारसन्तोषरूपोऽहमिति निश्चयः । परमात्मा परं ज्योतिः परं परविवर्जितः ॥ ३३.११॥ परिपूर्णस्वरूपोऽहं परमात्माऽहमच्युतः । सर्ववेदस्वरूपोऽहं सर्वशास्त्रस्य निर्णयः ॥ ३३.१२॥ लोकानन्दस्वरूपोऽहं मुख्यानन्दस्य निर्णयः । सर्वं ब्रह्मैव भूर्नास्ति सर्वं ब्रह्मैव कारणम् ॥ ३३.१३॥ सर्वं ब्रह्मैव नाकार्यं सर्वं ब्रह्म स्वयं वरः । नित्याक्षरोऽहं नित्योऽहं सर्वकल्याणकारकम् ॥ ३३.१४॥ सत्यज्ञानप्रकाशोऽहं मुख्यविज्ञानविग्रहः । तुर्यातुर्यप्रकाशोऽहं सिद्धासिद्धादिवर्जितः ॥ ३३.१५॥ सर्वं ब्रह्मैव सततं सर्वं ब्रह्म निरन्तरम् । सर्वं ब्रह्म चिदाकाशं नित्यब्रह्म निरञ्जनम् ॥ ३३.१६॥ सर्वं ब्रह्म गुणातीतं सर्वं ब्रह्मैव केवलम् । सर्वं ब्रह्मैव इत्येवं निश्चयं कुरु सर्वदा ॥ ३३.१७॥ ब्रह्मैव सर्वमित्येवं सर्वदा दृढनिश्चयः । सर्वं ब्रह्मैव इत्येवं निश्चयित्वा सुखी भव ॥ ३३.१८॥ सर्वं ब्रह्मैव सततं भावाभावौ चिदेव हि । द्वैताद्वैतविवादोऽयं नास्ति नास्ति न संशयः ॥ ३३.१९॥ सर्वविज्ञानमात्रोऽहं सर्वं ब्रह्मेति निश्चयः । गुह्याद्गुह्यतरं सोऽहं गुणातीतोऽहमद्वयः ॥ ३३.२०॥ अन्वयव्यतिरेकं च कार्याकार्यं विशोधय । सच्चिदानन्दरूपोऽहमनुत्पन्नमिदं जगत् ॥ ३३.२१॥ ब्रह्मैव सर्वमेवेदं चिदाकाशमिदं जगत् । ब्रह्मैव परमानन्दं आकाशसदृशं विभु ॥ ३३.२२॥ ब्रह्मैव सच्चिदानन्दं सदा वाचामगोचरम् । ब्रह्मैव सर्वमेवेदमस्ति नास्तीति केचन ॥ ३३.२३॥ आनन्दभावना किञ्चित् सदसन्मात्र एव हि । ब्रह्मैव सर्वमेवेदं सदा सन्मात्रमेव हि ॥ ३३.२४॥ ब्रह्मैव सर्वमेवदं चिद्घनानन्दविग्रहम् । ब्रह्मैव सच्च सत्यं च सनातनमहं महत् ॥ ३३.२५॥ ब्रह्मैव सच्चिदानन्दं ओतप्रोतेव तिष्ठति । ब्रह्मैव सच्चिदानन्दं सर्वाकारं सनातनम् ॥ ३३.२६॥ ब्रह्मैव सच्चिदानन्दं परमानदमव्ययम् । ब्रह्मैव सच्चिदानन्दं मायातीतं निरञ्जनम् ॥ ३३.२७॥ ब्रह्मैव सच्चिदानन्दं सत्तामात्रं सुखात् सुखम् । ब्रह्मैव सच्चिदानन्दं चिन्मात्रैकस्वरूपकम् ॥ ३३.२८॥ ब्रह्मैव सच्चिदानन्दं सर्वभेदविवर्जितम् । सच्चिदानन्दं ब्रह्मैव नानाकारमिव स्थितम् ॥ ३३.२९॥ ब्रह्मैव सच्चिदानन्दं कर्ता चावसरोऽस्ति हि । सच्चिदानदं ब्रह्मैव परं ज्योतिः स्वरूपकम् ॥ ३३.३०॥ ब्रह्मैव सच्चिदानन्दं नित्यनिश्चलमव्ययम् । ब्रह्मैव सच्चिदानन्दं वाचावधिरसावयम् ॥ ३३.३१॥ ब्रह्मैव सच्चिदानन्दं स्वयमेव स्वयं सदा । ब्रह्मैव सच्चिदानन्दं न करोति न तिष्ठति ॥ ३३.३२॥ ब्रह्मैव सच्चिदानन्दं न गच्छति न तिष्ठति । ब्रह्मैव सच्चिदानन्दं ब्रह्मणोऽन्यन्न किञ्चन ॥ ३३.३३॥ ब्रह्मैव सच्चिदानन्दं न शुक्लं न च कृष्णकम् । ब्रह्मैव सच्चिदानन्दं सर्वाधिष्ठानमव्ययम् ॥ ३३.३४॥ ब्रह्मैव सच्चिदानन्दं न तूष्णीं न विभाषणम् । ब्रह्मैव सच्चिदानन्दं सत्त्वं नाहं न किञ्चन ॥ ३३.३५॥ ब्रह्मैव सच्चिदानन्दं परात्परमनुद्भवम् । ब्रह्मैव सच्चिदानन्दं तत्त्वातीतं महोत्सवम् ॥ ३३.३६॥ ब्रह्मैव सच्चिदानन्दं परमाकाशमाततम् । ब्रह्मैव सच्चिदानन्दं सर्वदा गुरुरूपकम् ॥ ३३.३७॥ ब्रह्मैव सच्चिदानन्दं सदा निर्मलविग्रहम् । ब्रह्मैव सच्चिदानन्दं शुद्धचैतन्यमाततम् ॥ ३३.३८॥ ब्रह्मैव सच्चिदानन्दं स्वप्रकाशात्मरूपकम् । ब्रह्मैव सच्चिदानन्दं निश्चयं चात्मकारणम् ॥ ३३.३९॥ ब्रह्मैव सच्चिदानन्दं स्वयमेव प्रकाशते । ब्रह्मैव सच्चिदानन्दं नानाकार इति स्थितम् ॥ ३३.४०॥ ब्रह्मैव सच्चिदाकारं भ्रान्ताधिष्ठानरूपकम् । ब्रह्मैव सच्चिदानन्दं सर्वं नास्ति न मे स्थितम् ॥ ३३.४१॥ वाचामगोचरं ब्रह्म सच्चिदानदविग्रहम् । सच्चिदानन्दरूपोऽहमनुत्पन्नमिदम् जगत् ॥ ३३.४२॥ ब्रह्मैवेदं सदा सत्यं नित्यमुक्तं निरञ्जनम् । सच्चिदानन्दं ब्रह्मैव एकमेव सदा सुखम् ॥ ३३.४३॥ सच्चिदानन्दं ब्रह्मैव पूर्णात् पूर्णतरं महत् । सच्चिदानन्दं ब्रह्मैव सर्वव्यापकमीश्वरम् ॥ ३३.४४॥ सच्चिदानन्दं ब्रह्मैव नामरूपप्रभास्वरम् । सच्चिदानन्दं ब्रह्मैव अनन्तानन्दनिर्मलम् ॥ ३३.४५॥ सच्चिदानन्दं ब्रह्मैव परमानन्ददायकम् । सच्चिदानन्दं ब्रह्मैव सन्मात्रं सदसत्परम् ॥ ३३.४६॥ सच्चिदानन्दं ब्रह्मैव सर्वेषां परमव्ययम् । सच्चिदानन्दं ब्रह्मैव मोक्षरूपं शुभाशुभम् ॥ ३३.४७॥ सच्चिदानन्दं ब्रह्मैव परिच्छिन्नं न हि क्वचित् । ब्रह्मैव सर्वमेवेदं शुद्धबुद्धमलेपकम् ॥ ३३.४८॥ सच्चिदानन्दरूपोऽहमनुत्पन्नमिदं जगत् । एतत् प्रकरणं सत्यं सद्योमुक्तिप्रदायकम् ॥ ३३.४९॥ सर्वदुःखक्षयकरं सर्वविज्ञानदायकम् । नित्यानन्दकरं सत्यं शान्तिदान्तिप्रदायकम् ॥ ३३.५०॥ यस्त्वन्तकान्तकमहेश्वरपादपद्म- लोलम्बसप्रभहृदा परिशीलकश्च । वृन्दारवृन्दविनतामलदिव्यपादो भावो भवोद्भवकृपावशतो भवेच्च ॥ ३३.५१॥ ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे सच्चिदानन्दरूपताप्रकरणं नाम त्रयस्त्रिंशोऽध्यायः ॥
३४ ॥ चतुस्त्रिंशोऽध्यायः ॥ ऋभुः - शृणुष्व ब्रह्म विज्ञानमद्भुतं त्वतिदुर्लभम् । एकैकश्रवणेनैव कैवल्यं परमश्नुते ॥ ३४.१॥ सत्यं सत्यं जगन्नास्ति संकल्पकलनादिकम् । नित्यानन्दमयं ब्रह्मविज्ञानं सर्वदा स्वयम् ॥ ३४.२॥ आनन्दमव्ययं शान्तमेकरूपमनामयम् । चित्तप्रपञ्चं नैवास्ति नास्ति कार्यं च तत्त्वतः ॥ ३४.३॥ प्रपञ्चभावना नास्ति दृश्यरूपं न किञ्चन । असत्यरूपं सङ्कल्पं तत्कार्यं च जगन्न हि ॥ ३४.४॥ सर्वमित्येव नास्त्येव कालमित्येवमीश्वरः । वन्ध्याकुमारे भीतिश्च तदधीनमिदं जगत् ॥ ३४.५॥ गन्धर्वनगरे शृङ्गे मदग्रे दृश्यते जगत् । मृगतृष्णाजलं पीत्वा तृप्तिश्चेदस्त्विदं जगत् ॥ ३४.६॥ नगे शृङ्गे न बाणेन नष्टं पुरुषमस्त्विदम् । गन्धर्वनगरे सत्ये जगद्भवतु सर्वदा ॥ ३४.७॥ गगने नीलमासिन्धौ जगत् सत्यं भविष्यति । शुक्तिकारजतं सत्यं भूषणं चिज्जगद्भवेत् ॥ ३४.८॥ रज्जुसर्पेण नष्टश्चेत् नरो भवति संसृतिः । जातिरूपेण बाणेन ज्वालाग्नौ नाशिते सति ॥ ३४.९॥ रंभास्तम्भेन काष्ठेन पाकसिद्धिर्जगद्भवेत् । नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् ॥ ३४.१०॥ सद्यः कुमारिकारूपैः पाके सिद्धे जगद्भवेत् । नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् ॥ ३४.११॥ मित्याटव्यां वायसान्नं अस्ति चेज्जगदुद्भवम् । मूलारोपणमन्त्रस्य प्रीतिश्चेद्भाषणं जगत् ॥ ३४.१२॥ मासात् पूर्वं मृतो मर्त्य आगतश्चेज्जगद् भवेत् । तक्रं क्षीरस्वरूपं चेत् किञ्चित् किञ्चिज्जगद्भवेत् ॥ ३४.१३॥ गोस्तनादुद्भवं क्षीरं पुनरारोहणं जगत् । भूरजस्याअब्दमुत्पन्नं जगद्भवतु सर्वदा ॥ ३४.१४॥ कूर्मरोम्णा गजे बद्धे जगदस्तु मदोत्कटे । मृणालतन्तुना मेरुश्चलितश्चेज्जगद् भवेत् ॥ ३४.१५॥ तरङ्गमालया सिन्धुः बद्धश्चेदस्त्विदं जगत् । ज्वालाग्निमण्डले पद्मं वृद्धं चेत् तज्जगद्भवेत् ॥ ३४.१६॥ महच्छैलेन्द्रनिलयं संभवश्चेदिदं भवेत् । नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् ॥ ३४.१७॥ मीन आगत्य पद्माक्षे स्थितश्चेदस्त्विदं जगत् । निगीर्णश्चेद्भङ्गसूनुः मेरुपुच्छवदस्त्विदम् ॥ ३४.१८॥ मशकेनाशिते सिंहे हते भवतु कल्पनम् । अणुकोटरविस्तीर्णे त्रैलोक्ये चेज्जगद्भवेत् ॥ ३४.१९॥ स्वप्ने तिष्ठति यद्वस्तु जागरे चेज्जगद्भवेत् । नदीवेगो निश्चलश्चेत् जगद्भवतु सर्वदा ॥ ३४.२०॥ जात्यन्धै रत्नविषयः सुज्ञातश्चेज्जगद्भवेत् । चन्द्रसूर्यादिकं त्यक्त्वा राहुश्चेत् दृश्यते जगत् ॥ ३४.२१॥ भ्रष्टबीजेन उत्पन्ने वृद्धिश्चेच्चित्तसंभवः । महादरिद्रैराढ्यानां सुखे ज्ञाते जगद्भवेत् ॥ ३४.२२॥ दुग्धं दुग्धगतक्षीरं पुनरारोहणं पुनः । केवलं दर्पणे नास्ति प्रतिबिम्बं तदा जगत् ॥ ३४.२३॥ यथा शून्यगतं व्योम प्रतिबिम्बेन वै जगत् । अजकुक्षौ गजो नास्ति आत्मकुक्षौ जगन्न हि ॥ ३४.२४॥ यथा तान्त्रे समुत्पन्ने तथा ब्रह्ममयं जगत् । कार्पासकेऽग्निदग्धेन भस्म नास्ति तथा जगत् ॥ ३४.२५॥ परं ब्रह्म परं ज्योतिः परस्तात् परतः परः । सर्वदा भेदकलनं द्वैताद्वैतं न विद्यते ॥ ३४.२६॥ चित्तवृत्तिर्जगद्दुःखं अस्ति चेत् किल नाशनम् । मनःसंकल्पकं बन्ध अस्ति चेद्ब्रह्मभावना ॥ ३४.२७॥ अविद्या कार्यदेहादि अस्ति चेद्द्वैतभावनम् । चित्तमेव महारोगो व्याप्तश्चेद्ब्रह्मभेषजम् ॥ ३४.२८॥ अहं शत्रुर्यदि भवेदहं ब्रह्मैव भावनम् । देहोऽहमिति दुखं चेद्ब्रह्माहमिति निश्चिनु ॥ ३४.२९॥ संशयश्च पिशाचश्चेद्ब्रह्ममात्रेण नाशय । द्वैतभूताविष्टरेण अद्वैतं भस्म आश्रय ॥ ३४.३०॥ अनात्मत्वपिशाचश्चेदात्ममन्त्रेण बन्धय । नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् ॥ ३४.३१॥ चतुःषष्टिकदृष्टान्तैरेवं ब्रह्मैव साधितम् । यः शृणोति नरो नित्यं स मुक्तो नात्र संशयः ॥ ३४.३२॥ कृतार्थ एव सततं नात्र कार्या विचारणा ॥ ३४.३३॥ मनोवचोविदूरगं त्वरूपगन्धवर्जितं हृदर्भकोकसन्ततं विजानतां मुदे सदा । सदाप्रकाशदुज्वलप्रभाविकाससद्युति प्रकाशदं महेश्वर त्वदीयपादपङ्कजम् ॥ ३४.३४॥ ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे दृष्टान्तैर्ब्रह्मसाधनप्रकरणं नाम चतुस्त्रिंशोऽध्यायः ॥
३५ ॥ पञ्चत्रिंशोऽध्यायः ॥ ऋभुः - निदाघ शृणु गुह्यं मे सद्यो मुक्तिप्रदं नृणाम् । आत्मैव नान्यदेवेदं परमात्माहमक्षतः ॥ ३५.१॥ अहमेव परं ब्रह्म सच्चिदानन्दविग्रहः । अहमस्मि महानस्मि शिवोऽस्मि परमोऽस्म्यहम् ॥ ३५.२॥ अदृश्यं परमं ब्रह्म नान्यदस्ति स्वभावतः । सर्वं नास्त्येव नास्त्येव अहं ब्रह्मैव केवलम् ॥ ३५.३॥ शान्तं ब्रह्म परं चास्मि सर्वदा नित्यनिर्मलः । सर्वं नास्त्येव नास्त्येव अहं ब्रह्मैव केवलम् ॥ ३५.४॥ सर्वसङ्कल्पमुक्तोऽस्मि सर्वसन्तोषवर्जितः । कालकर्मजगद्द्वैतद्रष्टृदर्शनविग्रहः ॥ ३५.५॥ आनन्दोऽस्मि सदानन्दकेवलो जगतां प्रियम् । समरूपोऽस्मि नित्योऽस्मि भूतभव्यमजो जयः ॥ ३५.६॥ चिन्मात्रोऽस्मि सदा भुक्तो जीवो बन्धो न विद्यते ।var was मुक्तः श्रवणं षड्विधं लिङ्गं नैवास्ति जगदीदृशम् ॥ ३५.७॥ चित्तसंसारहीनोऽस्मि चिन्मात्रत्वं जगत् सदा । चित्तमेव हितं देह अविचारः परो रिपुः ॥ ३५.८॥ अविचारो जगद्दुःखमविचारो महद्भयम् । सद्योऽस्मि सर्वदा तृप्तः परिपूर्णः परो महान् ॥ ३५.९॥ नित्यशुद्धोऽस्मि बुद्धोऽस्मि चिदाकाशोऽस्मि चेतनः । आत्मैव नान्यदेवेदं परमात्माऽहमक्षतः ॥ ३५.१०॥ सर्वदोषविहीनोऽस्मि सर्वत्र विततोऽस्म्यहम् । वाचातीतस्वरूपोऽस्मि परमात्माऽहमक्षतः ॥ ३५.११॥ चित्रातीतं परं द्वन्द्वं सन्तोषः समभावनम् । अन्तर्बहिरनाद्यन्तं सर्वभेदविनिर्णयम् ॥ ३५.१२॥ अहंकारं बलं सर्वं कामं क्रोधं परिग्रहम् । ब्रह्मेन्द्रोविष्णुर्वरुणो भावाभावविनिश्चयः ॥ ३५.१३॥ जीवसत्ता जगत्सत्ता मायासत्ता न किञ्चन । गुरुशिष्यादिभेदं च कार्याकार्यविनिश्चयः ॥ ३५.१४॥ त्वं ब्रह्मासीति वक्ता च अहं ब्रह्मास्मि संभवः । सर्ववेदान्तविज्ञानं सर्वाम्नायविचारणम् ॥ ३५.१५॥ इदं पदार्थसद्भावमहं रूपेण संभवम् । वेदवेदान्तसिद्धान्तजगद्भेदं न विद्यते ॥ ३५.१६॥ सर्वं ब्रह्म न सन्देहः सर्वमित्येव नास्ति हि । केवलं ब्रह्मशान्तात्मा अहमेव निरन्तरम् ॥ ३५.१७॥ शुभाशुभविभेदं च दोषादोषं च मे न हि । चित्तसत्ता जगत्सत्ता बुद्धिवृत्तिविजृम्भणम् ॥ ३५.१८॥ ब्रह्मैव सर्वदा नान्यत् सत्यं सत्यं निजं पदम् । आत्माकारमिदं द्वैतं मिथ्यैव न परः पुमान् ॥ ३५.१९॥ सच्चिदानन्दमात्रोऽहं सर्वं केवलमव्ययम् । ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥ ३५.२०॥ मनो जगदहं भेदं चित्तवृत्तिजगद्भयम् । सर्वानन्दमहानन्दमात्मानन्दमनन्तकम् ॥ ३५.२१॥ अत्यन्तस्वल्पमल्पं वा प्रपञ्चं नास्ति किञ्चन । प्रपञ्चमिति शब्दो वा स्मरणं वा न विद्यते ॥ ३५.२२॥ अन्तरस्थप्रपञ्चं वा क्वचिन्नास्ति क्वचिद्बहिः । यत् किञ्चिदेवं तूष्णीं वा यच्च किञ्चित् सदा क्व वा ॥ ३५.२३॥ येन केन यदा किञ्चिद्यस्य कस्य न किञ्चन । शुद्धं मलिनरूपं वा ब्रह्मवाक्यमबोधकम् ॥ ३५.२४॥ ईदृषं तादृषं वेति न किञ्चित् वक्तुमर्हति । ब्रह्मैव सर्वं सततं ब्रह्मैव सकलं मनः ॥ ३५.२५॥ आनन्दं परमानदं नित्यानन्दं सदाऽद्वयम् । चिन्मात्रमेव सततं नास्ति नास्ति परोऽस्म्यहम् ॥ ३५.२६॥ प्रपञ्चं सर्वदा नास्ति प्रपञ्चं चित्रमेव च । चित्तमेव हि संसारं नान्यत् संसारमेव हि ॥ ३५.२७॥ मन एव हि संसारो देहोऽहमिति रूपकम् । सङ्कल्पमेव संसारं तन्नाशेऽसौ विनश्यति ॥ ३५.२८॥ सङ्कल्पमेव जननं तन्नाशेऽसौ विनश्यति । सङ्कल्पमेव दारिद्र्यं तन्नाशेऽसौ विनश्यति ॥ ३५.२९॥ सङ्कल्पमेव मननं तन्नाशेऽसौ विनश्यति । आत्मैव नान्यदेवेदं परमात्माऽहमक्षतः ॥ ३५.३०॥ नित्यमात्ममयं बोधमहमेव सदा महान् । आत्मैव नान्यदेवेदं परमात्माऽहमक्षतः ॥ ३५.३१॥ इत्येवं भावयेन्नित्यं क्षिप्रं मुक्तो भविष्यति । त्वमेव ब्रह्मरूपोऽसि त्वमेव ब्रह्मविग्रहः ॥ ३५.३२॥ एवं च परमानन्दं ध्यात्वा ध्यात्वा सुखीभव । सुखमात्रं जगत् सर्वं प्रियमात्रं प्रपञ्चकम् ॥ ३५.३३॥ जडमात्रमयं लोकं ब्रह्ममात्रमयं सदा । ब्रह्मैव नान्यदेवेदं परमात्माऽहमव्ययः ॥ ३५.३४॥ एक एव सदा एष एक एव निरन्तरम् । एक एव परं ब्रह्म एक एव चिदव्ययः ॥ ३५.३५॥ एक एव गुणातीत एक एव सुखावहः । एक एव महानात्मा एक एव निरन्तरम् ॥ ३५.३६॥ एक एव चिदाकार एक एवात्मनिर्णयः । ब्रह्मैव नान्यदेवेदं परमात्माऽहमक्षतः ॥ ३५.३७॥ परमात्माहमन्यन्न परमानन्दमन्दिरम् । इत्येवं भावयन्नित्यं सदा चिन्मय एव हि ॥ ३५.३८॥ सूतः - विरिञ्चिवञ्चनाततप्रपञ्चपञ्चबाणभित् सुकाञ्चनाद्रिधारिणं कुलुञ्चनां पतिं भजे । अकिञ्चनेऽपि सिञ्चके जलेन लिङ्गमस्तके विमुञ्चति क्षणादघं न किञ्चिदत्र शिष्यते ॥ ३५.३९॥ ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे ब्रह्मभावनोपदेशप्रकरणं नाम पञ्चत्रिंशोऽध्यायः ॥
३६ ॥ षट्त्रिंशोऽध्यायः ॥ ऋभुः - शृणु वक्ष्यामि विप्रेन्द्र सर्वं ब्रह्मैव निर्णयम् । यस्य श्रवणमात्रेण सद्यो मुक्तिमवाप्नुयात् ॥ ३६.१॥ इदमेव सदा नास्ति ह्यहमेव हि केवलम् । आत्मैव सर्वदा नास्ति आत्मैव सुखलक्षणम् ॥ ३६.२॥ आत्मैव परमं तत्त्वमात्मैव जगतां गणः । आत्मैव गगनाकारमात्मैव च निरन्तरम् ॥ ३६.३॥ आत्मैव सत्यं ब्रह्मैव आत्मैव गुरुलक्षणम् । आत्मैव चिन्मयं नित्यमात्मैवाक्षरमव्ययम् ॥ ३६.४॥ आत्मैव सिद्धरूपं वा आत्मैवात्मा न संशयः । आत्मैवजगदाकारं आत्मैवात्मा स्वयं स्वयम् ॥ ३६.५॥ आत्मैव शान्तिकलनमात्मैव मनसा वियत् । आत्मैव सर्वं यत् किञ्चिदात्मैव परमं पदम् ॥ ३६.६॥ आत्मैव भुवनाकारमात्मैव प्रियमव्ययम् । आत्मैवान्यन्न च क्वापि आत्मैवान्यं मनोमयम् ॥ ३६.७॥ आत्मैव सर्वविज्ञानमात्मैव परमं धनम् । आत्मैव भूतरूपं वा आत्मैव भ्रमणं महत् ॥ ३६.८॥ आत्मैव नित्यशुद्धं वा आत्मैव गुरुरात्मनः । आत्मैव ह्यात्मनः शिष्य आत्मैव लयमात्मनि ॥ ३६.९॥ आत्मैव ह्यात्मनो ध्यानमात्मैव गतिरात्मनः । आत्मैव ह्यात्मनो होम आत्मैव ह्यात्मनो जपः ॥ ३६.१०॥ आत्मैव तृप्तिरात्मैव आत्मनोऽन्यन्न किञ्चन । आत्मैव ह्यात्मनो मूलमात्मैव ह्यात्मनो व्रतम् ॥ ३६.११॥ आत्मज्ञानं व्रतं नित्यमात्मज्ञानं परं सुखम् । आत्मज्ञानं परानन्दमात्मज्ञानं परायणम् ॥ ३६.१२॥ आत्मज्ञानं परं ब्रह्म आत्मज्ञानं महाव्रतम् । आत्मज्ञानं स्वयं वेद्यमात्मज्ञानं महाधनम् ॥ ३६.१३॥ आत्मज्ञानं परं ब्रह्म आत्मज्ञानं महत् सुखम् । आत्मज्ञानं महानात्मा आत्मज्ञानं जनास्पदम् ॥ ३६.१४॥ आत्मज्ञानं महातीर्थमात्मज्ञानं जयप्रदम् । आत्मज्ञानं परं ब्रह्म आत्मज्ञानं चराचरम् ॥ ३६.१५॥ आत्मज्ञानं परं शास्त्रमात्मज्ञानमनूपमम् । आत्मज्ञानं परो योग आत्मज्ञानं परा गतिः ॥ ३६.१६॥ आत्मज्ञानं परं ब्रह्म इत्येवं दृढनिश्चयः । आत्मज्ञानं मनोनाशः आत्मज्ञानं परो गुरुः ॥ ३६.१७॥ आत्मज्ञानं चित्तनाशः आत्मज्ञानं विमुक्तिदम् । आत्मज्ञानं भयनाशमात्मज्ञानं सुखावहम् ॥ ३६.१८॥ आत्मज्ञानं महातेज आत्मज्ञानं महाशुभम् । आत्मज्ञानं सतां रूपमात्मज्ञानं सतां प्रियम् ॥ ३६.१९॥ आत्मज्ञानं सतां मोक्षमात्मज्ञानं विवेकजम् । आत्मज्ञानं परो धर्म आत्मज्ञानं सदा जपः ॥ ३६.२०॥ आत्मज्ञानस्य सदृशमात्मविज्ञानमेव हि । आत्मज्ञानेन सदृशं न भूतं न भविष्यति ॥ ३६.२१॥ आत्मज्ञानं परो मन्त्र आत्मज्ञानं परं तपः । आत्मज्ञानं हरिः साक्षादात्मज्ञानं शिवः परः ॥ ३६.२२॥ आत्मज्ञानं परो धाता आत्मज्ञानं स्वसंमतम् । आत्मज्ञानं स्वयं पुण्यमात्मज्ञानं विशोधनम् ॥ ३६.२३॥ आत्मज्ञानं महातीर्थमात्मज्ञानं शमादिकम् । आत्मज्ञानं प्रियं मन्त्रमात्मज्ञानं स्वपावनम् ॥ ३६.२४॥ आत्मज्ञानं च किन्नाम अहं ब्रह्मेति निश्चयः । अहं ब्रह्मेति विश्वासमात्मज्ञानं महोदयम् ॥ ३६.२५॥ अहं ब्रह्मास्मि नित्योऽस्मि सिद्धोऽस्मीति विभावनम् । आनन्दोऽहं परानन्दं शुद्धोऽहं नित्यमव्ययः ॥ ३६.२६॥ चिदाकाशस्वरूपोऽस्मि सच्चिदानन्दशाश्वतम् । निर्विकारोऽस्मि शान्तोऽहं सर्वतोऽहं निरन्तरः ॥ ३६.२७॥ सर्वदा सुखरूपोऽस्मि सर्वदोषविवर्जितः । सर्वसङ्कल्पहीनोऽस्मि सर्वदा स्वयमस्म्यहम् ॥ ३६.२८॥ सर्वं ब्रह्मेत्यनुभवं विना शब्दं पठ स्वयम् । कोट्यश्वमेधे यत् पुण्यं क्षणात् तत्पुण्यमाप्नुयात् ॥ ३६.२९॥ अहं ब्रह्मेति निश्चित्य मेरुदानफलं लभेत् । ब्रह्मैवाहमिति स्थित्वा सर्वभूदानमप्यणु ॥ ३६.३०॥ ब्रह्मैवाहमिति स्थित्वा कोटिशो दानमप्यणु । ब्रह्मैवाहमिति स्थित्वा सर्वानन्दं तृणायते ॥ ३६.३१॥ ब्रह्मैव सर्वमित्येव भावितस्य फलं स्वयम् । ब्रह्मैवाहमिति स्थित्वा समानं ब्रह्म एव हि ॥ ३६.३२॥ तस्मात् स्वप्नेऽपि नित्यं च सर्वं सन्त्यज्य यत्नतः । अहं ब्रह्म न सन्देहः अहमेव गतिर्मम ॥ ३६.३३॥ अहमेव सदा नान्यदहमेव सदा गुरुः । अहमेव परो ह्यात्मा अहमेव न चापरः ॥ ३६.३४॥ अहमेव गुरुः शिष्यः अहमेवेति निश्चिनु । इदमित्येव निर्देशः परिच्छिन्नो जगन्न हि ॥ ३६.३५॥ न भूमिर्न जलं नाग्निर्न वायुर्न च खं तथा । सर्वं चैतन्यमात्रत्वात् नान्यत् किञ्चन विद्यते ॥ ३६.३६॥ इत्येवं भावनपरो देहमुक्तः सुखीभव । अहमात्मा इदं नास्ति सर्वं चैतन्यमात्रतः ॥ ३६.३७॥ अहमेव हि पूर्णात्मा आनन्दाब्धिरनामयः । इदमेव सदा नास्ति जडत्वादसदेव हि । इदं ब्रह्म सदा ब्रह्म इदं नेति सुखी भव ॥ ३६.३८॥ तुरङ्गशृङ्गसन्निभा श्रुतिपरोचना ??? विशेषकामवासना विनिश्चितात्मवृत्तितः । नराः सुरा मुनीश्वरा असङ्गसङ्गमप्युमा- पतिं ??? न ते भजन्ति केचन ??? ॥ ३६.३९॥ ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे ब्रह्मभावनोपदेशप्रकरणं नाम षट्त्रिंशोऽध्यायः ॥
३७ ॥ सप्तत्रिंशोऽध्यायः ॥ ऋभुः - निदाघ शृणु वक्ष्यामि रहस्यं परमद्भुतम् । श्लोकैकश्रवणेनैव सद्यो मोक्षमवाप्नुयात् ॥ ३७.१॥ इदं दृष्टं परं ब्रह्म दृश्यवद्भाति चित्ततः । सर्वं चैतन्यमात्रत्वात् नान्यत् किञ्चिन्न विद्यते ॥ ३७.२॥ इदमेव हि नास्त्येव अयमित्यपि नास्ति हि । एक एवाप्यणुर्वापि नास्ति नास्ति न संशयः ॥ ३७.३॥ व्यवहारमिदं क्वापि वार्तामात्रमपि क्व वा । बन्धरूपं बन्धवार्ता बन्धकार्यं परं च वा ॥ ३७.४॥ सन्मात्रकार्यं सन्मात्रमहं ब्रह्मेति निश्चयम् । दुःखं सुखं वा बोधो वा साधकं साध्यनिर्णयः ॥ ३७.५॥ आत्मेति परमात्मेति जीवात्मेति पृथङ् न हि । देहोऽहमिति मूर्तोऽहं ज्ञानविज्ञानवानहम् ॥ ३७.६॥ कार्यकारणरूपोऽहमन्तःकरणकार्यकम् । एकमित्येकमात्रं वा नास्ति नास्तीति भावय ॥ ३७.७॥ सर्वसङ्कल्पमात्रेति सर्वं ब्रह्मेति वा जगत् । तत्त्वज्ञानं परं ब्रह्म ओङ्कारार्थं सुखं जपम् ॥ ३७.८॥ द्वैताद्वैतं सदाद्वैतं तथा मानावमानकम् । सर्वं चैतन्यमात्रत्वात् नान्यत् किञ्चिन्न विद्यते ॥ ३७.९॥ आत्मानन्दमहं ब्रह्म प्रज्ञानं ब्रह्म एव हि । इदं रूपमहं रूपं प्रियाप्रियविचारणम् ॥ ३७.१०॥ यद्यत् संभाव्यते लोके यद्यत् साधनकल्पनम् । यद्यन्तरहितं ब्रह्मभावनं चित्तनिर्मितम् ॥ ३७.११॥ स्थूलदेहोऽहमेवात्र सूक्ष्मदेहोऽहमेव हि । बुद्धेर्भेदं मनोभेदं अहंकारं जडं च तत् ॥ ३७.१२॥ सर्वं चैतन्यमात्रत्वात् नान्यत् किञ्चिन्न विद्यते । श्रवणं मननं चैव साक्षात्कारविचारणम् ॥ ३७.१३॥ आत्मैवाहं परं चैव नाहं मोहमयं स्वयम् । ब्रह्मैव सर्वमेवेदं ब्रह्मैव परमं पदम् ॥ ३७.१४॥ ब्रह्मैव कारणं कार्यं ब्रह्मैव जगतां जयः । ब्रह्मैव सर्वं चैतन्यं ब्रह्मैव मनसायते ॥ ३७.१५॥ ब्रह्मैव जीववद्भाति ब्रह्मैव च हरीयते । ब्रह्मैव शिववद्भाति ब्रह्मैव प्रियमात्मनः ॥ ३७.१६॥ ब्रह्मैव शान्तिवद्भाति ब्रह्मणोऽन्यन्न किञ्चन । नाहं न चायं नैवान्यन्नोत्पन्नं न परात् परम् ॥ ३७.१७॥ न चेदं न च शास्त्रार्थं न मीमांसं न चोद्भवम् । न लक्षणं न वेदादि नापि चित्तं न मे मनः ॥ ३७.१८॥ न मे नायं नेदमिदं न बुद्धिनिश्चयं सदा । कदाचिदपि नास्त्येव सत्यं सत्यं न किञ्चन ॥ ३७.१९॥ नैकमात्रं न चायं वा नान्तरं न बहिर्न हि । ईषण्मात्रं च न द्वैतं न जन्यं न च दृश्यकम् ॥ ३७.२०॥ न भावनं न स्मरणं न विस्मरणमण्वपि । न कालदेशकलनं न सङ्कल्पं न वेदनम् ॥ ३७.२१॥ न विज्ञानं न देहान्यं न वेदोऽहं न संसृतिः । न मे दुःखं न मे मोक्षं न गतिर्न च दुर्गतिः ॥ ३७.२२॥ नात्मा नाहं न जीवोऽहं न कूटस्थो न जायते । न देहोऽहं न च श्रोत्रं न त्वगिन्द्रियदेवता ॥ ३७.२३॥ सर्वं चैतन्यमात्रत्वात् सर्वं नास्त्येव सर्वदा । अखण्डाकाररूपत्वात् सर्वं नास्त्येव सर्वदा ॥ ३७.२४॥ हुंकारस्यावकाशो वा हुंकारजननं च वा । नास्त्येव नास्ति नास्त्येव नास्ति नास्ति कदाचन ॥ ३७.२५॥ अन्यत् पदार्थमल्पं वा अन्यदेवान्यभाषणम् । आत्मनोऽन्यदसत्यं वा सत्यं वा भ्रान्तिरेव च ॥ ३७.२६॥ नास्त्येव नास्ति नास्त्येव नास्ति शब्दोऽपि नास्ति हि । सर्वं चैतन्यमात्रत्वात् सर्वं नास्त्येव सर्वदा ॥ ३७.२७॥ सर्वं ब्रह्म न सन्देहो ब्रह्मैवाहं न संशयः । वाक्यं च वाचकं सर्वं वक्ता च त्रिपुटीद्वयम् ॥ ३७.२८॥ ज्ञाता ज्ञानं ज्ञेयभेदं मातृमानमिति प्रियम् । यद्यच्छास्त्रेषु निर्णीतं यद्यद्वेदेषु निश्चितम् ॥ ३७.२९॥ परापरमतीतं च अतीतोऽहमवेदनम् । गुरुर्गुरूपदेशश्च गुरुं वक्ष्ये न कस्यचित् ॥ ३७.३०॥ गुरुरूपा गुरुश्रद्धा सदा नास्ति गुरुः स्वयम् । आत्मैव गुरुरात्मैव अन्याभावान्न संशयः ॥ ३७.३१॥ आत्मनः शुभमात्मैव अन्याभावान्न संशयः । आत्मनो मोहमात्मैव आत्मनोऽस्ति न किञ्चन ॥ ३७.३२॥ आत्मनः सुखमात्मैव अन्यन्नास्ति न संशयः । आत्मन्येवात्मनः शक्तिः आत्मन्येवात्मनः प्रियम् ॥ ३७.३३॥ आत्मन्येवात्मनः स्नानं आत्मन्येवात्मनो रतिः । आत्मज्ञानं परं श्रेयः आत्मज्ञानं सुदुर्लभम् ॥ ३७.३४॥ आत्मज्ञानं परं ब्रह्म आत्मज्ञानं सुखात् सुखम् । आत्मज्ञानात् परं नास्ति आत्मज्ञानात् स्मृतिर्न हि ॥ ३७.३५॥ ब्रह्मैवात्मा न सन्देह आत्मैव ब्रह्मणः स्वयम् । स्वयमेव हि सर्वत्र स्वयमेव हि चिन्मयः ॥ ३७.३६॥ स्वयमेव चिदाकाशः स्वयमेव निरन्तरम् । स्वयमेव च नानात्मा स्वयमेव च नापरः ॥ ३७.३७॥ स्वयमेव गुणातीतः स्वयमेव महत् सुखम् । स्वयमेव हि शान्तात्मा स्वयमेव हि निष्कलः ॥ ३७.३८॥ स्वयमेव चिदानन्दः स्वयमेव महत्प्रभुः । स्वयमेव सदा साक्षी स्वयमेव सदाशिवः ॥ ३७.३९॥ स्वयमेव हरिः साक्षात् स्वयमेव प्रजापतिः । स्वयमेव परं ब्रह्म ब्रह्म एव स्वयं सदा ॥ ३७.४०॥ सर्वं ब्रह्म स्वयं ब्रह्म स्वयं ब्रह्म न संशयः । दृढनिश्चयमेव त्वं सर्वथा कुरु सर्वदा ॥ ३७.४१॥ विचारयन् स्वयं ब्रह्म ब्रह्ममात्रं स्वयं भवेत् । एतदेव परं ब्रह्म अहं ब्रह्मेति निश्चयः ॥ ३७.४२॥ एष एव परो मोक्ष अहं ब्रह्मेति निश्चयः । एष एव कृतार्थो हि एष एव सुखं सदा ॥ ३७.४३॥ एतदेव सदा ज्ञानं स्वयं ब्रह्म स्वयं महत् । अहं ब्रह्म एतदेव सदा ज्ञानं स्वयं महत् ॥ ३७.४४॥ अहं ब्रह्म एतदेव स्वभावं सततं निजम् । अहं ब्रह्म एतदेव सदा नित्यं स्वयं सदा ॥ ३७.४५॥ अहं ब्रह्म एतदेव बन्धनाशं न संशयः । अहं ब्रह्म एतदेव सर्वसिद्धान्तनिश्चयम् ॥ ३७.४६॥ एष वेदान्तसिद्धान्त अहं ब्रह्म न संशयः । सर्वोपनिषदामर्थः सर्वानन्दमयं जगत् ॥ ३७.४७॥ महावाक्यस्य सिद्धान्त अहं ब्रह्मेति निश्चयः । साक्षाच्छिवस्य सिद्धान्त अहं ब्रह्मेति निश्चयः ॥ ३७.४८॥ नारायणस्य सिद्धान्त अहं ब्रह्मेति निश्चयः । चतुर्मुखस्य सिद्धान्त अहं ब्रह्मेति निश्चयः ॥ ३७.४९॥ ऋषीणां हृदयं ह्येतत् देवानामुपदेशकम् । सर्वदेशिकसिद्धान्त अहं ब्रह्मेति निश्चयः ॥ ३७.५०॥ यच्च यावच्च भूतानां महोपदेश एव तत् । अहं ब्रह्म महामोक्षं परं चैतदहं स्वयम् ॥ ३७.५१॥ अहं चानुभवं चैतन्महागोप्यमिदं च तत् । अहं ब्रह्म एतदेव सदा ज्ञानं स्वयं महत् ॥ ३७.५२॥ महाप्रकाशमेवैतत् अहं ब्रह्म एव तत् । एतदेव महामन्त्रं एतदेव महाजपः ॥ ३७.५३॥ एतदेव महास्नानमहं ब्रह्मेति निश्चयः । एतदेव महातीर्थमहं ब्रह्मेति निश्चयः ॥ ३७.५४॥ एतदेव महागङ्गा अहं ब्रह्मेति निश्चयः । एष एव परो धर्म अहं ब्रह्मेति निश्चयः ॥ ३७.५५॥ एष एव महाकाश अहं ब्रह्मेति निश्चयः । एतदेव हि विज्ञानमहं ब्रह्मास्मि केवलम् । सर्वसिद्धान्तमेवैतदहं ब्रह्मेति निश्चयः ॥ ३७.५६॥ सव्यासव्यतयाद्यवज्ञहृदया गोपोदहार्यः स्रियः पश्यन्त्यम्बुजमित्रमण्डलगतं शंभुं हिरण्यात्मकम् । सर्वत्र प्रसृतैः करैर्जगदिदं पुष्णाति मुष्णन् धनैः घृष्टं चौषधिजालमम्बुनिकरैर्विश्वोत्थधूतं हरः ॥ ३७.५७॥ ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे सर्वसिद्धान्तप्रकरणं नाम सप्तत्रिंशोऽध्यायः ॥
३८ ॥ अष्टत्रिंशोऽध्यायः ॥ ऋभुः - वक्ष्ये अत्यद्भुतं व्यक्तं सच्चिदानन्दमात्रकम् । सर्वप्रपञ्चशून्यत्वं सर्वमात्मेति निश्चितम् ॥ ३८.१॥ आत्मरूपप्रपञ्चं वा आत्मरूपप्रपञ्चकम् । सर्वप्रपञ्चं नास्त्येव सर्वं ब्रह्मेति निश्चितम् ॥ ३८.२॥ नित्यानुभवमानन्दं नित्यं ब्रह्मेति भावनम् । चित्तरूपप्रपञ्चं वा चित्तसंसारमेव वा ॥ ३८.३॥ इदमस्तीति सत्तात्वमहमस्तीति वा जगत् । स्वान्तःकरणदोषं वा स्वान्तःकरणकार्यकम् ॥ ३८.४॥ स्वस्य जीवभ्रमः कश्चित् स्वस्य नाशं स्वजन्मना । ईश्वरः कश्चिदस्तीति जीवोऽहमिति वै जगत् ॥ ३८.५॥ माया सत्ता महा सत्ता चित्तसत्ता जगन्मयम् । यद्यच्च दृश्यते शास्त्रैर्यद्यद्वेदे च भाषणम् ॥ ३८.६॥ एकमित्येव निर्देशं द्वैतमित्येव भाषणम् । शिवोऽस्मीति भ्रमः कश्चित् ब्रह्मास्मीति विभ्रमः ॥ ३८.७॥ विष्णुरस्मीति विभ्रान्तिर्जगदस्तीति विभ्रमः ।var was जगदस्मीति ईषदस्तीति वा भेदं ईषदस्तीति वा द्वयम् ॥ ३८.८॥ सर्वमस्तीति नास्तीति सर्वं ब्रह्मेति निश्चयम् । आत्मध्यानप्रपञ्चं वा स्मरणादिप्रपञ्चकम् ॥ ३८.९॥ दुःखरूपप्रपञ्चं वा सुखरूपप्रपञ्चकम् । द्वैताद्वैतप्रपञ्चं वा सत्यासत्यप्रपञ्चकम् ॥ ३८.१०॥ जाग्रत्प्रपञ्चमेवापि तथा स्वप्नप्रपञ्चकम् । सुप्तिज्ञानप्रपञ्चं वा तुर्यज्ञानप्रपञ्चकम् ॥ ३८.११॥ वेदज्ञानप्रपञ्चं वा शास्त्रज्ञानप्रपञ्चकम् । पापबुद्धिप्रपञ्चं वा पुण्यभेदप्रपञ्चकम् ॥ ३८.१२॥ ज्ञानरूपप्रपञ्चं वा निर्गुणज्ञानप्रपञ्चकम् । गुणागुणप्रपञ्चं वा दोषादोषविनिर्णयम् ॥ ३८.१३॥ सत्यासत्यविचारं वा चराचरविचारणम् । एक आत्मेति सद्भावं मुख्य आत्मेति भावनम् ॥ ३८.१४॥ सर्वप्रपञ्चं नास्त्येव सर्वं ब्रह्मेति निश्चयम् । द्वैताद्वैतसमुद्भेदं नास्ति नास्तीति भाषणम् ॥ ३८.१५॥ असत्यं जगदेवेति सत्यं ब्रह्मेति निश्चयम् । कार्यरूपं कारणं च नानाभेदविजृम्भणम् ॥ ३८.१६॥ सर्वमन्त्रप्रदातारं दूरे दूरं तथा तथा । सर्वं सन्त्यज्य सततं स्वात्मन्येव स्थिरो भव ॥ ३८.१७॥ मौनभावं मौनकार्यं मौनयोगं मनःप्रियम् । पञ्चाक्षरोपदेष्टारं तथा चाष्टाक्षरप्रदम् ॥ ३८.१८॥ यद्यद्यद्यद्वेदशास्त्रं यद्यद्भेदो गुरोऽपि वा । सर्वदा सर्वलोकेषु सर्वसङ्कल्पकल्पनम् ॥ ३८.१९॥ सर्ववाक्यप्रपञ्चं हि सर्वचित्तप्रपञ्चकम् । सर्वाकारविकल्पं च सर्वकारणकल्पनम् ॥ ३८.२०॥ सर्वदोषप्रपञ्चं च सुखदुःखप्रपञ्चकम् । सहादेयमुपादेयं ग्राह्यं त्याज्यं च भाषणम् ॥ ३८.२१॥ विचार्य जन्ममरणं वासनाचित्तरूपकम् । कामक्रोधं लोभमोहं सर्वडम्भं च हुंकृतिम् ॥ ३८.२२॥ त्रैलोक्यसंभवं द्वैतं ब्रह्मेन्द्रवरुणादिकम् । ज्ञानेन्द्रियं च शब्दादि दिग्वाय्वर्कादिदैवतम् ॥ ३८.२३॥ कर्मेन्द्रियादिसद्भावं विषयं देवतागणम् । अन्तःकरणवृत्तिं च विषयं चाधिदैवतम् ॥ ३८.२४॥ चित्तवृत्तिं विभेदं च बुद्धिवृत्तिनिरूपणम् । मायामात्रमिदं द्वैतं सदसत्तादिनिर्णयम् ॥ ३८.२५॥ किञ्चिद् द्वैतं बहुद्वैतं जीवद्वैतं सदा ह्यसत् । जगदुत्पत्तिमोहं च गुरुशिष्यत्वनिर्णयम् ॥ ३८.२६॥ गोपनं तत्पदार्थस्य त्वंपदार्थस्य मेलनम् । तथा चासिपदार्थस्य ऐक्यबुद्ध्यानुभावनम् ॥ ३८.२७॥ भेदेषु भेदाभेदं च नान्यत् किञ्चिच्च विद्यते । एतत् प्रपञ्चं नास्त्येव सर्वं ब्रह्मेति निश्चयः ॥ ३८.२८॥ सर्वं चैतन्यमात्रत्वात् केवलं ब्रह्म एव सः । आत्माकारमिदं सर्वमात्मनोऽन्यन्न किञ्चन ॥ ३८.२९॥ तुर्यातीतं ब्रह्मणोऽन्यत् सत्यासत्यं न विद्यते । सर्वं त्यक्त्वा तु सततं स्वात्मन्येव स्थिरो भव ॥ ३८.३०॥ चित्तं कालं वस्तुभेदं सङ्कल्पं भावनं स्वयम् । सर्वं संत्यज्य सततं सर्वं ब्रह्मैव भावय ॥ ३८.३१॥ यद्यद्भेदपरं शास्त्रं यद्यद् भेदपरं मनः । सर्वं संत्यज्य सततं स्वात्मन्येव स्थिरो भव ॥ ३८.३२॥ मनः कल्पितकल्पं वा आत्माकल्पनविभ्रमम् । अहंकारपरिच्छेदं देहोऽहं देहभावना ॥ ३८.३३॥ सर्वं संत्यज्य सततमात्मन्येव स्थिरो भव । प्रपञ्चस्य च सद्भावं प्रपञ्चोद्भवमन्यकम् ॥ ३८.३४॥ बन्धसद्भावकलनं मोक्षसद्भावभाषणम् । देवताभावसद्भावं देवपूजाविनिर्णयम् ॥ ३८.३५॥ पञ्चाक्षरेति यद्द्वैतमष्टाक्षरस्य दैवतम् । प्राणादिपञ्चकास्तित्वमुपप्राणादिपञ्चकम् ॥ ३८.३६॥ पृथिवीभूतभेदं च गुणा यत् कुण्ठनादिकम् । वेदान्तशास्त्रसिद्धान्तं शैवागमनमेव च ॥ ३८.३७॥ लौकिकं वास्तवं दोषं प्रवृत्तिं च निवृत्तिकम् । सर्वं संत्यज्य सततमात्मन्येव स्थिरो भव ॥ ३८.३८॥ आत्मज्ञानसुखं ब्रह्म अनात्मज्ञानदूषणम् । रेचकं पूरकं कुम्भं षडाधारविशोधनम् ॥ ३८.३९॥ द्वैतवृत्तिश्च देहोऽहं साक्षिवृत्तिश्चिदंशकम् । अखण्डाकारवृत्तिश्च अखण्डाकारसंमतम् ॥ ३८.४०॥ अनन्तानुभवं चापि अहं ब्रह्मेति निश्चयम् । उत्तमं मध्यमं चापि तथा चैवाधमाधमम् ॥ ३८.४१॥ दूषणं भूषणं चैव सर्ववस्तुविनिन्दनम् । अहं ब्रह्म इदं ब्रह्म सर्वं ब्रह्मैव तत्त्वतः ॥ ३८.४२॥ अहं ब्रह्मास्मि मुग्धोऽस्मि वृद्धोऽस्मि सदसत्परः । वैश्वानरो विराट् स्थूलप्रपञ्चमिति भावनम् ॥ ३८.४३॥ आनन्दस्फारणेनाहं परापरविवर्जितः । नित्यानन्दमयं ब्रह्म सच्चिदानन्दविग्रहः ॥ ३८.४४॥ दृग्रूपं दृश्यरूपं च महासत्तास्वरूपकम् । कैवल्यं सर्वनिधनं सर्वभूतान्तरं गतम् ॥ ३८.४५॥ भूतभव्यं भविष्यच्च वर्तमानमसत् सदा । कालभावं देहभावं सत्यासत्यविनिर्णयम् ॥ ३८.४६॥ प्रज्ञानघन एवाहं शान्ताशान्तं निरञ्जनम् । प्रपञ्चवार्तास्मरणं द्वैताद्वैतविभावनम् ॥ ३८.४७॥ शिवागमसमाचारं वेदान्तश्रवणं पदम् । अहं ब्रह्मास्मि शुद्धोऽस्मि चिन्मात्रोऽस्मि सदाशिवः ॥ ३८.४८॥ सर्वं ब्रह्मेति सन्त्यज्य स्वात्मन्येव स्थिरो भव । अहं ब्रह्म न सन्देह इदं ब्रह्म न संशयः ॥ ३८.४९॥ स्थूलदेहं सूक्ष्मदेहं कारणं देहमेव च । एवं ज्ञातुं च सततं ब्रह्मैवेदं क्षणे क्षणे ॥ ३८.५०॥ शिवो ह्यात्मा शिवो जीवः शिवो ब्रह्म न संशयः । एतत् प्रकरणं यस्तु सकृद्वा सर्वदापि वा ॥ ३८.५१॥ पठेद्वा शृणुयाद्वापि स च मुक्तो न संशयः । निमिषं निमिषार्धं वा श्रुत्वैतब्रह्मभाग्भवेत् ॥ ३८.५२॥ लोकालोकजगत्स्थितिप्रविलयप्रोद्भावसत्तात्मिका भीतिः शङ्करनामरूपमस्कृद्व्याकुर्वते केवलम् । सत्यासत्यनिरङ्कुशश्रुतिवचोवीचीभिरामृश्यते यस्त्वेतत् सदितीव तत्त्ववचनैर्मीमांस्यतेऽयं शिवः ॥ ३८.५३॥ ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे प्रपञ्चशून्यत्वप्रकरणं नाम अष्टत्रिंशोऽध्यायः ॥
३९ ॥ एकोनचत्वारिंशोऽध्यायः ॥ ऋभुः - परं ब्रह्म प्रवक्ष्यामि निर्विकल्पं निरामयम् । तदेवाहं न सन्देहः सर्वं ब्रह्मैव केवलम् ॥ ३९.१॥ चिन्मात्रममलं शान्तं सच्चिदानन्दविग्रहम् । आनन्दं परमानन्दं निर्विकल्पं निरञ्जनम् ॥ ३९.२॥ गुणातीतं जनातीतमवस्थातीतमव्ययम् । एवं भावय चैतन्यमहं ब्रह्मास्मि सोऽस्म्यहम् ॥ ३९.३॥ सर्वातीतस्वरूपोऽस्मि सर्वशब्दार्थवर्जितः । सत्योऽहं सर्वहन्ताहं शुद्धोऽहं परमोऽस्म्यहम् ॥ ३९.४॥ अजोऽहं शान्तरूपोऽहं अशरीरोऽहमान्तरः । सर्वहीनोऽहमेवाहं स्वयमेव स्वयं महः ॥ ३९.५॥ आत्मैवाहं परात्माहं ब्रह्मैवाहं शिवोऽस्म्यहम् । चित्तहीनस्वरूपोऽहं बुद्धिहीनोऽहमस्म्यहम् ॥ ३९.६॥ व्यापकोऽहमहं साक्षी ब्रह्माहमिति निश्चयः । निष्प्रपञ्चगजारूढो निष्प्रपञ्चाश्ववाहनः ॥ ३९.७॥ निष्प्रपञ्चमहाराज्यो निष्प्रपञ्चायुधादिमान् । निष्प्रपञ्चमहावेदो निष्प्रपञ्चात्मभावनः ॥ ३९.८॥ निष्प्रपञ्चमहानिद्रो निष्प्रपञ्चस्वभावकः । निष्प्रपञ्चस्तु जीवात्मा निष्प्रपञ्चकलेवरः ॥ ३९.९॥ निष्प्रपञ्चपरीवारो निष्प्रपञ्चोत्सवो भवः । निष्प्रपञ्चस्तु कल्याणो निष्प्रपञ्चस्तु दर्पणः ॥ ३९.१०॥ निष्प्रपञ्चरथारूढो निष्प्रपञ्चविचारणम् । निष्प्रपञ्चगुहान्तस्थो निष्प्रपञ्चप्रदीपकम् ॥ ३९.११॥ निष्प्रपञ्चप्रपूर्णात्मा निष्प्रपञ्चोऽरिमर्दनः । चित्तमेव प्रपञ्चो हि चित्तमेव जगत्त्रयम् ॥ ३९.१२॥ चित्तमेव महामोहश्चित्तमेव हि संसृतिः । चित्तमेव महापापं चित्तमेव हि पुण्यकम् ॥ ३९.१३॥ चित्तमेव महाबन्धश्चित्तमेव विमोक्षदम् । ब्रह्मभावनया चित्तं नाशमेति न संशयः ॥ ३९.१४॥ ब्रह्मभावनया दुःखं नाशमेति न संशयः । ब्रह्मभावनया द्वैतं नाशमेति न संशयः ॥ ३९.१५॥ ब्रह्मभावनया कामः नाशमेति न संशयः । ब्रह्मभावनया क्रोधः नाशमेति न संशयः ॥ ३९.१६॥ ब्रह्मभावनया लोभः नाशमेति न संशयः । ब्रह्मभावनया ग्रन्थिः नाशमेति न संशयः ॥ ३९.१७॥ ब्रह्मभावनया सर्वं ब्रह्मभावनया मदः । ब्रह्मभावनया पूजा नाशमेति न संशयः ॥ ३९.१८॥ ब्रह्मभावनया ध्यानं नाशमेति न संशयः । ब्रह्मभावनया स्नानं नाशमेति न संशयः ॥ ३९.१९॥ ब्रह्मभावनया मन्त्रो नाशमेति न संशयः । ब्रह्मभावनया पापं नाशमेति न संशयः ॥ ३९.२०॥ ब्रह्मभावनया पुण्यं नाशमेति न संशयः । ब्रह्मभावनया दोषो नाशमेति न संशयः ॥ ३९.२१॥ ब्रह्मभावनया भ्रान्तिः नाशमेति न संशयः । ब्रह्मभावनया दृश्यं नाशमेति न संशयः ॥ ३९.२२॥ ब्रह्मभावनया सङ्गो नाशमेति न संशयः । ब्रह्मभावनया तेजो नाशमेति न संशयः ॥ ३९.२३॥ ब्रह्मभावनया प्रज्ञा नाशमेति न संशयः । ब्रह्मभावनया सत्ता नाशमेति न संशयः ॥ ३९.२४॥ ब्रह्मभावनया भीतिः नाशमेति न संशयः । ब्रह्मभावनया वेदः नाशमेति न संशयः ॥ ३९.२५॥ ब्रह्मभावनया शास्त्रं नाशमेति न संशयः । ब्रह्मभावनया निद्रा नाशमेति न संशयः ॥ ३९.२६॥ ब्रह्मभावनया कर्म नाशमेति न संशयः । ब्रह्मभावनया तुर्यं नाशमेति न संशयः ॥ ३९.२७॥ ब्रह्मभावनया द्वन्द्वं नाशमेति न संशयः । ब्रह्मभावनया पृच्छेदहं ब्रह्मेति निश्चयम् ॥ ३९.२८॥ निश्चयं चापि सन्त्यज्य स्वस्वरूपान्तरासनम् । अहं ब्रह्म परं ब्रह्म चिद्ब्रह्म ब्रह्ममात्रकम् ॥ ३९.२९॥ ज्ञानमेव परं ब्रह्म ज्ञानमेव परं पदम् । दिवि ब्रह्म दिशो ब्रह्म मनो ब्रह्म अहं स्वयम् ॥ ३९.३०॥ किञ्चिद्ब्रह्म ब्रह्म तत्त्वं तत्त्वं ब्रह्म तदेव हि । अजो ब्रह्म शुभं ब्रह्म आदिब्रह्म ब्रवीमि तम् ॥ ३९.३१॥ अहं ब्रह्म हविर्ब्रह्म कार्यब्रह्म त्वहं सदा । नादो ब्रह्म नदं ब्रह्म तत्त्वं ब्रह्म च नित्यशः ॥ ३९.३२॥ एतद्ब्रह्म शिखा ब्रह्म तद्ब्रह्म ब्रह्म शाश्वतम् । निजं ब्रह्म स्वतो ब्रह्म नित्यं ब्रह्म त्वमेव हि ॥ ३९.३३॥ सुखं ब्रह्म प्रियं ब्रह्म मित्रं ब्रह्म सदामृतम् । गुह्यं ब्रह्म गुरुर्ब्रह्म ऋतं ब्रह्म प्रकाशकम् ॥ ३९.३४॥ सत्यं ब्रह्म समं ब्रह्म सारं ब्रह्म निरञ्जनम् । एकं ब्रह्म हरिर्ब्रह्म शिवो ब्रह्म न संशयः ॥ ३९.३५॥ इदं ब्रह्म स्वयं ब्रह्म लोकं ब्रह्म सदा परः । आत्मब्रह्म परं ब्रह्म आत्मब्रह्म निरन्तरः ॥ ३९.३६॥ एकं ब्रह्म चिरं ब्रह्म सर्वं ब्रह्मात्मकं जगत् । ब्रह्मैव ब्रह्म सद्ब्रह्म तत्परं ब्रह्म एव हि ॥ ३९.३७॥ चिद्ब्रह्म शाश्वतं ब्रह्म ज्ञेयं ब्रह्म न चापरः । अहमेव हि सद्ब्रह्म अहमेव हि निर्गुणम् ॥ ३९.३८॥ अहमेव हि नित्यात्मा एवं भावय सुव्रत । अहमेव हि शास्त्रार्थ इति निश्चित्य सर्वदा ॥ ३९.३९॥ आत्मैव नान्यद्भेदोऽस्ति सर्वं मिथ्येति निश्चिनु । आत्मैवाहमहं चात्मा अनात्मा नास्ति नास्ति हि ॥ ३९.४०॥ विश्वं वस्तुतया विभाति हृदये मूढात्मनां बोधतो- ऽप्यज्ञानं न निवर्तते श्रुतिशिरोवार्तानुवृत्त्याऽपि च । विश्वेशस्य समर्चनेन सुमहालिङ्गार्चनाद्भस्मधृक् रुद्राक्षामलधारणेन भगवद्ध्यानेन भात्यात्मवत् ॥ ३९.४१॥ ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे सर्वलयप्रकरणं नाम एकोनचत्वारिंशोऽध्यायः ॥
४० ॥ चत्वारिंशोऽध्यायः ॥ ऋभुः - सर्वसारात् सारतरं ततः सारतरान्तरम् । इदमन्तिमत्यन्तं शृणु प्रकरणं मुदा ॥ ४०.१॥ ब्रह्मैव सर्वमेवेदं ब्रह्मैवान्यन्न किञ्चन । निश्चयं दृढमाश्रित्य सर्वत्र सुखमास्व ह ॥ ४०.२॥ ब्रह्मैव सर्वभुवनं भुवनं नाम सन्त्यज । अहं ब्रह्मेति निश्चित्य अहं भावं परित्यज ॥ ४०.३॥ सर्वमेवं लयं याति स्वयमेव पतत्रिवत् । स्वयमेव लयं याति सुप्तहस्तस्थपद्मवत् ॥ ४०.४॥ न त्वं नाहं न प्रपञ्चः सर्वं ब्रह्मैव केवलम् । न भूतं न च कार्यं च सर्वं ब्रह्मैव केवलम् ॥ ४०.५॥ न दैवं न च कार्याणि न देहं नेन्द्रियाणि च । न जाग्रन्न च वा स्वप्नो न सुषुप्तिर्न तुर्यकम् ॥ ४०.६॥ इदं प्रपञ्चं नास्त्येव सर्वं ब्रह्मेति निश्चिनु । सर्वं मिथ्या सदा मिथ्या सर्वं ब्रह्मेति निश्चिनु ॥ ४०.७॥ सदा ब्रह्म विचारं च सर्वं ब्रह्मेति निश्चिनु । तथा द्वैतप्रतीतिश्च सर्वं ब्रह्मेति निश्चिनु ॥ ४०.८॥ सदाहं भावरूपं च सर्वं ब्रह्मेति निश्चिनु । नित्यानित्यविवेकं च सर्वं ब्रह्मेति निश्चिनु ॥ ४०.९॥ भावाभावप्रतीतिं च सर्वं ब्रह्मेति निश्चिनु । गुणदोषविभागं च सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१०॥ कालाकालविभागं च सर्वं ब्रह्मेति निश्चिनु । अहं जीवेत्यनुभवं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.११॥ अहं मुक्तोऽस्म्यनुभवं सर्वं ब्रह्मेति निश्चिनु । सर्वं ब्रह्मेति कलनं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१२॥ सर्वं नास्तीति वार्ता च सर्वं ब्रह्मेति निश्चिनु । देवतान्तरसत्ताकं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१३॥ देवतान्तरपूजा च सर्वं ब्रह्मेति निश्चिनु । देहोऽहमिति सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१४॥ ब्रह्माहमिति सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु । गुरुशिष्यादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१५॥ तुल्यातुल्यादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु । वेदशास्त्रादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१६॥ चित्तसत्तादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु । बुद्धिनिश्चयसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१७॥ मनोविकल्पसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु । अहंकारादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१८॥ पञ्चभूतादिसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु । शब्दादिसत्तासङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१९॥ दृग्वार्तादिकसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु । कर्मेन्द्रियादिसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.२०॥ वचनादानसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु । मुनीन्द्रोपेन्द्रसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.२१॥ मनोबुद्ध्यादिसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु । सङ्कल्पाध्यास इत्यादि सर्वं ब्रह्मेति निश्चिनु ॥ ४०.२२॥ रुद्रक्षेत्रादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु । प्राणादिदशसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.२३॥ माया विद्या देहजीवाः सर्वं ब्रह्मेति निश्चिनु । स्थूलव्यष्टादिसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.२४॥ सूक्ष्मव्यष्टिसमष्ट्यादि सर्वं ब्रह्मेति निश्चिनु । व्यष्ट्यज्ञानादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.२५॥ विश्ववैश्वानरत्वं च सर्वं ब्रह्मेति निश्चिनु । तैजसप्राज्ञभेदं च सर्वं ब्रह्मेति निश्चिनु ॥ ४०.२६॥ वाच्यार्थं चापि लक्ष्यार्थं सर्वं ब्रह्मेति निश्चिनु । जहल्लक्षणयानैक्यं अजहल्लक्षणा ध्रुवम् ॥ ४०.२७॥ भागत्यागेन नित्यैक्यं सर्वं ब्रह्म उपाधिकम् । लक्ष्यं च निरुपाध्यैक्यं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.२८॥ एवमाहुर्महात्मानः सर्वं ब्रह्मेति केवलम् । सर्वमन्तः परित्यज्य अहं ब्रह्मेति भावय ॥ ४०.२९॥ असङ्कलितकापिलैर्मधुहराक्षिपूज्याम्बुज- प्रभाङ्घ्रिजनिमोत्तमो परिषिचेद्यदिन्दुप्रभम् । तं डिण्डीरनिभोत्तमोत्तम महाखण्डाज्यदध्ना परं क्षीराद्यैरभिषिच्य मुक्तिपरमानन्दं लभे शाम्भवम् ॥ ४०.३०॥ ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे चित्तवृत्तिनिरोधप्रकरणं नाम चत्वारिंशोऽध्यायः ॥
४१ ॥ एकचत्वारिंशोऽध्यायः ॥ ऋभुः - अहं ब्रह्म न सन्देहः अहं ब्रह्म न संशयः । अहं ब्रह्मैव नित्यात्मा अहमेव परात्परः ॥ ४१.१॥ चिन्मात्रोऽहं न सन्देह इति निश्चित्य तं त्यज । सत्यं सत्यं पुनः सत्यमात्मनोऽन्यन्न किञ्चन ॥ ४१.२॥ शिवपादद्वयं स्पृष्ट्वा वदामीदं न किञ्चन । गुरुपादद्वयं स्पृष्ट्वा वदामीदं न किञ्चन ॥ ४१.३॥ जिह्वया परशुं तप्तं धारयामि न संशयः । वेदशास्त्रादिकं स्पृष्ट्वा वदामीदं विनिश्चितम् ॥ ४१.४॥ निश्चयात्मन् निश्चयस्त्वं निश्चयेन सुखी भव । चिन्मयस्त्वं चिन्मयत्वं चिन्मयानन्द एव हि ॥ ४१.५॥ ब्रह्मैव ब्रह्मभूतात्मा ब्रह्मैव त्वं न संशयः । सर्वमुक्तं भगवता योगिनामपि दुर्लभम् ॥ ४१.६॥ देवानां च ऋषीणां च अत्यन्तं दुर्लभं सदा । ऐश्वरं परमं ज्ञानमुपदिष्टं शिवेन हि ॥ ४१.७॥ एतत् ज्ञानं समानीतं कैलासाच्छङ्करान्तिकात् । देवानां दक्षिणामूर्तिर्दशसाहस्रवत्सरान् ॥ ४१.८॥ विघ्नेशो बहुसाहस्रं वत्सरं चोपदिष्टवान् । साक्षाच्छिवोऽपि पार्वत्यै वत्सरं चोपदिष्टवान् ॥ ४१.९॥ क्षीराब्धौ च महाविष्णुर्ब्रह्मणे चोपदिष्टवान् । कदाचित्ब्रह्मलोके तु मत्पितुश्चोक्तवानहम् ॥ ४१.१०॥ नारदादि ऋषीणां च उपदिष्टं महद्बहु । अयातयामं विस्तारं गृहीत्वाऽहमिहागतः ॥ ४१.११॥ न समं पादमेकं च तीर्थकोटिफलं लभेत् । न समं ग्रन्थमेतस्य भूमिदानफलं लभेत् ॥ ४१.१२॥ एकानुभवमात्रस्य न सर्वं सर्वदानकम् । श्लोकार्धश्रवणस्यापि न समं किञ्चिदेव हि ॥ ४१.१३॥ तात्पर्यश्रवणाभावे पठंस्तूष्णीं स मुच्यते । सर्वं सन्त्यज्य सततमेतद्ग्रन्थं समभ्यसेत् ॥ ४१.१४॥ सर्वमन्त्रं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् । सर्वदेवांश्च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१.१५॥ सर्वस्नानं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् । सर्वभावं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१.१६॥ सर्वहोमं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् । सर्वदानं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१.१७॥ सर्वपूजां च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् । सर्वगुह्यं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१.१८॥ सर्वसेवां च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् । सर्वास्तित्वं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१.१९॥ सर्वपाठं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् । सर्वाभ्यासं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१.२०॥ देशिकं च परित्यज्य एतद्ग्रन्थं समभ्यसेत् । गुरुं वापि परित्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१.२१॥ सर्वलोकं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् । सर्वैश्वर्यं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१.२२॥ सर्वसङ्कल्पकं त्यज्य एतद्ग्रन्थं समभ्यसेत् । सर्वपुण्यं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१.२३॥ एतद्ग्रन्थं परं ब्रह्म एतद्ग्रन्थं समभ्यसेत् । अत्रैव सर्वविज्ञानं अत्रैव परमं पदम् ॥ ४१.२४॥ अत्रैव परमो मोक्ष अत्रैव परमं सुखम् । अत्रैव चित्तविश्रान्तिरत्रैव ग्रन्थिभेदनम् ॥ ४१.२५॥ अत्रैव जीवन्मुक्तिश्च अत्रैव सकलो जपः । एतद्ग्रन्थं पठंस्तूष्णीं सद्यो मुक्तिमवाप्नुयात् ॥ ४१.२६॥ सर्वशास्त्रं च सन्त्यज्य एतन्मात्रं सदाभ्यसेत् । दिने दिने चैकवारं पठेच्चेन्मुक्त एव सः ॥ ४१.२७॥ जन्ममध्ये सकृद्वापि श्रुतं चेत् सोऽपि मुच्यते । सर्वशास्त्रस्य सिद्धान्तं सर्ववेदस्य संग्रहम् ॥ ४१.२८॥ सारात् सारतरं सारं सारात् सारतरं महत् । एतद्ग्रन्थस्य न समं त्रैलोक्येऽपि भविष्यति ॥ ४१.२९ ॥ न प्रसिद्धिं गते लोके न स्वर्गेऽपि च दुर्लभम् । ब्रह्मलोकेषु सर्वेषु शास्त्रेष्वपि च दुर्लभम् ॥ ४१.३०॥ एतद्ग्रन्थं कदाचित्तु चौर्यं कृत्वा पितामहः । क्षीराब्धौ च परित्यज्य सर्वे मुञ्चन्तु नो इति ॥ ४१.३१॥ ज्ञात्वा क्षीरसमुद्रस्य तीरे प्राप्तं गृहीतवान् । गृहीतं चाप्यसौ दृष्ट्वा शपथं च प्रदत्तवान् ॥ ४१.३२॥ तत् आरभ्य तल्लोकं त्यक्त्वाहमिममागतः । अत्यद्भुतमिदं ज्ञानं ग्रन्थं चैव महाद्भुतम् ॥ ४१.३३॥ तद् ज्ञो वक्ता च नास्त्येव ग्रन्थश्रोता च दुर्लभः । आत्मनिष्ठैकलभ्योऽसौ सद्गुरुर्नैष लभ्यते ॥ ४१.३४॥ ग्रन्थवन्तो न लभ्यन्ते तेन न ख्यातिरागता । भवते दर्शितं ह्येतद्गमिष्यामि यथागतम् ॥ ४१.३५॥ एतावदुक्तमात्रेण निदाघ ऋषिसत्तमः । पतित्वा पादयोस्तस्य आनन्दाश्रुपरिप्लुतः ॥ ४१.३६॥ उवाच वाक्यं सानन्दं साष्टाङ्गं प्रणिपत्य च । निदाघः - अहो ब्रह्मन् कृतार्थोऽस्मि कृतार्थोऽस्मि न संशयः । भवतां दर्शनेनैव मज्जन्म सफलं कृतम् ॥ ४१.३७॥ एकवाक्यस्य मनने मुक्तोऽहं नात्र संशयः । नमस्करोमि ते पादौ सोपचारं न वास्तवौ ॥ ४१.३८॥ तस्यापि नावकाशोऽस्ति अहमेव न वास्तवम् । त्वमेव नास्ति मे नास्ति ब्रह्मेति वचनं न च ॥ ४१.३९॥ ब्रह्मेति वचनं नास्ति ब्रह्मभावं न किञ्चन । एतद्ग्रन्थं न मे नास्ति सर्वं ब्रह्मेति विद्यते ॥ ४१.४०॥ सर्वं ब्रह्मेति वाक्यं न सर्वं ब्रह्मेति तं न हि । तदिति द्वैतभिन्नं तु त्वमिति द्वैतमप्यलम् ॥ ४१.४१॥ एवं किञ्चित् क्वचिन्नास्ति सर्वं शान्तं निरामयम् । एकमेव द्वयं नास्ति एकत्वमपि नास्ति हि ॥ ४१.४२॥ भिन्नद्वन्द्वं जगद्दोषं संसारद्वैतवृत्तिकम् । साक्षिवृत्तिप्रपञ्चं वा अखण्डाकारवृत्तिकम् ॥ ४१.४३॥ अखण्डैकरसो नास्ति गुरुर्वा शिष्य एव वा । भवद्दर्शनमात्रेण सर्वमेवं न संशयः ॥ ४१.४४॥ ब्रह्मज्योतिरहं प्राप्तो ज्योतिषां ज्योतिरस्म्यहम् । नमस्ते सुगुरो ब्रह्मन् नमस्ते गुरुनन्दन । एवं कृत्य नमस्कारं तूष्णीमास्ते सुखी स्वयम् ॥ ४१.४५॥ किं चण्डभानुकरमण्डलदण्डितानि काष्ठामुखेषु गलितानि नमस्ततीति । यादृक्च तादृगथ शङ्करलिङ्गसङ्ग- भङ्गीनि पापकलशैलकुलानि सद्यः । श्रीमृत्युञ्जय रञ्जय त्रिभुवनाध्यक्ष प्रभो पाहि नः ॥ ४१.४६॥ ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे ग्रन्थप्रशस्तिनिरूपणं नाम एकचत्वारिंशोऽध्यायः ॥
४२ ॥ द्विचत्वारिंशोऽध्यायः ॥ ऋभुः - श्रुतं किञ्चिन्मया प्रोक्तं ब्रह्मज्ञानं सुदुर्लभम् । मनसा धारितं ब्रह्म चित्तं कीदृक् स्थितं वद ॥ ४२.१॥ निदाघः - शृणु त्वं सुगुरो ब्रह्मंस्त्वत्प्रसादाद्वदाम्यहम् । ममाज्ञानं महादोषं महाज्ञाननिरोधकम् ॥ ४२.२॥ सदा कर्मणि विश्वासं प्रपञ्चे सत्यभावनम् । नष्टं सर्वं क्षणादेव त्वत्प्रसादान्महद्भयम् ॥ ४२.३॥ एतावन्तमिमं कालमज्ञानरिपुणा हृतम् । महद्भयं च नष्टं मे कर्मतत्त्वं च नाशितम् ॥ ४२.४॥ अज्ञानं मनसा पूर्वमिदानीं ब्रह्मतां गतम् । पुराहं चित्तवद्भूतः इदानीं सन्मयोऽभवम् ॥ ४२.५॥ पूर्वमज्ञानवद्भावं इदानीं सन्मयं गतम् । अज्ञानवत् स्थितोऽहं वै ब्रह्मैवाहं परं गतः ॥ ४२.६॥ पुराऽहं चित्तवद्भ्रान्तो ब्रह्मैवाहं परं गतः । सर्वो विगलितो दोषः सर्वो भेदो लयं गतः ॥ ४२.७॥ सर्वः प्रपञ्चो गलितश्चित्तमेव हि सर्वगम् । सर्वान्तःकरणं लीनं ब्रह्मसद्भावभावनात् ॥ ४२.८॥ अहमेव चिदाकाश अहमेव हि चिन्मयः । अहमेव हि पूर्णात्मा अहमेव हि निर्मलः ॥ ४२.९॥ अहमेवाहमेवेति भावनापि विनिर्गता । अहमेव चिदाकाशो ब्राह्मणत्वं न किञ्चन ॥ ४२.१०॥ शूद्रोऽहं श्वपचोऽहं वै वर्णी चापि गृहस्थकः । वानप्रस्थो यतिरहमित्ययं चित्तविभ्रमः ॥ ४२.११॥ तत्तदाश्रमकर्माणि चित्तेन परिकल्पितम् । अहमेव हि लक्ष्यात्मा अहमेव हि पूर्णकः ॥ ४२.१२॥ अहमेवान्तरात्मा हि अहमेव परायणम् । अहमेव सदाधार अहमेव सुखात्मकः ॥ ४२.१३॥ त्वत्प्रसादादहं ब्रह्मा त्वत्प्रसादाज्जनार्दनः । त्वत्प्रसादाच्चिदाकाशः शिवोऽहं नात्र संशयः ॥ ४२.१४॥ त्वत्प्रसादादहं चिद्वै त्वत्प्रसादान्न मे जगत् । त्वत्प्रसादाद्विमुक्तोऽस्मि त्वत्प्रसादात् परं गतः ॥ ४२.१५॥ त्वत्प्रसादाद्व्यापकोऽहं त्वत्प्रसादान्निरङ्कुशः । त्वत्प्रसादेन तीर्णोऽहं त्वत्प्रसादान्महत्सुखम् ॥ ४२.१६॥ त्वत्प्रसादादहं ब्रह्म त्वत्प्रसादात् त्वमेव न । त्वत्प्रसादादिदं नास्ति त्वत्प्रसादान्न किञ्चन ॥ ४२.१७॥ त्वत्प्रसादान्न मे किञ्चित् त्वत्प्रसादान्न मे विपत् । त्वत्प्रसादान्न मे भेदस्त्वत्प्रसादान्न मे भयम् ॥ ४२.१८॥ त्वत्प्रसादान्नमे रोगस्त्वत्प्रसादान्न मे क्षतिः । यत्पादाम्बुजपूजया हरिरभूदर्च्यो यदंघ्र्यर्चना- दर्च्याऽभूत् कमला विधिप्रभृतयो ह्यर्च्या यदाज्ञावशात् । तं कालान्तकमन्तकान्तकमुमाकान्तं मुहुः सन्ततं सन्तः स्वान्तसरोजराजचरणाम्भोजं भजन्त्यादरात् ॥ ४२.१९॥ किं वा धर्मशतायुतार्जितमहासौख्यैकसीमायुतं नाकं पातमहोग्रदुःखनिकरं देवेषु तुष्टिप्रदम् । तस्माच्छङ्करलिङ्गपूजनमुमाकान्तप्रियं मुक्तिदं भूमानन्दघनैकमुक्तिपरमानन्दैकमोदं महः ॥ ४२.२०॥ ये शांभवाः शिवरताः शिवनाममात्र- शब्दाक्षरज्ञहृदया भसितत्रिपुण्ड्राः । यां प्राप्नुवन्ति गतिमीशपदांबुजोद्यद्- ध्यानानुरक्तहृदया न हि योगसांख्यैः ॥ ४२.२१॥ ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे निदाघानुभववर्णनप्रकरणं नाम द्विचत्वारिंशोऽध्यायः ॥
४३ ॥ त्रिचत्वारिंशोऽध्यायः ॥ निदाघः - न पश्यामि शरीरं वा लिङ्गं करणमेव वा । न पश्यामि मनो वापि न पश्यामि जडं ततः ॥ ४३.१॥ न पश्यामि चिदाकाशं न पश्यामि जगत् क्वचित् । न पश्यामि हरिं वापि न पश्यामि शिवं च वा ॥ ४३.२॥ आनन्दस्यान्तरे लग्नं तन्मयत्वान्न चोत्थितः । न पश्यामि सदा भेदं न जडं न जगत् क्वचित् ॥ ४३.३॥ न द्वैतं न सुखं दुःखं न गुरुर्न परापरम् । न गुणं वा न तुर्यं वा न बुद्धिर्न च संशयः ॥ ४३.४॥ न च कालं न च भयं न च शोकं शुभाशुभम् । न पश्यामि सन्दीनं न बन्धं न च संभवम् ॥ ४३.५॥ न देहेन्द्रियसद्भावो न च सद्वस्तु सन्मनः । न पश्यामि सदा स्थूलं न कृशं न च कुब्जकम् ॥ ४३.६॥ न भूमिर्न जलं नाग्निर्न मोहो न च मन्त्रकम् । न गुरुर्न च वाक्यं वा न दृढं न च सर्वकम् ॥ ४३.७॥ न जगच्छ्रवणं चैव निदिध्यासं न चापरः । आनन्दसागरे मग्नस्तन्मयत्वान्न चोत्थितः ॥ ४३.८॥ आनन्दोऽहमशेषोऽहमजोऽहममृतोस्म्यहम् । नित्योऽहमिति निश्चित्य सदा पूर्णोऽस्मि नित्यधीः ॥ ४३.९॥ पूर्णोऽहं पूर्णचित्तोऽहं पुण्योऽहं ज्ञानवानहम् । शुद्धोऽहं सर्वमुक्तोऽहं सर्वाकारोऽहमव्ययः ॥ ४३.१०॥ चिन्मात्रोऽहं स्वयं सोऽहं तत्त्वरूपोऽहमीश्वरः । परापरोऽहं तुर्योऽहं प्रसन्नोऽहं रसोऽस्म्यहम् ॥ ४३.११॥ ब्रह्माऽहं सर्वलक्ष्योऽहं सदा पूर्णोऽहमक्षरः । ममानुभवरूपं यत् सर्वमुक्तं च सद्गुरो ॥ ४३.१२॥ नमस्करोमि ते नाहं सर्वं च गुरुदक्षिणा । मद्देहं त्वत्पदे दत्तं त्वया भस्मीकृतं क्षणात् ॥ ४३.१३॥ ममात्मा च मया दत्तः स्वयमात्मनि पूरितः । त्वमेवाहमहं च त्वमहमेव त्वमेव हि ॥ ४३.१४॥ ऐक्यार्णवनिमग्नोऽस्मि ऐक्यज्ञानं त्वमेव हि । एकं चैतन्यमेवाहं त्वया गन्तुं न शक्यते ॥ ४३.१५॥ गन्तव्यदेशो नास्त्येव एकाकारं न चान्यतः । त्वया गन्तव्यदेशो न मया गन्तव्यमस्ति न ॥ ४३.१६॥ एकं कारणमेकं च एकमेव द्वयं न हि । त्वया वक्तव्यकं नास्ति मया श्रोतव्यमप्यलम् ॥ ४३.१७॥ त्वमेव सद्गुरुर्नासि अहं नास्मि सशिष्यकः । ब्रह्ममात्रमिदं सर्वमस्मिन्मानोऽस्मि तन्मयः ॥ ४३.१८॥ भेदाभेदं न पश्यामि कार्याकार्यं न किञ्चन । ममैव चेन्नमस्कारो निष्प्रयोजन एव हि ॥ ४३.१९॥ तवैव चेन्नमस्कारो भिन्नत्वान्न फलं भवेत् । तव चेन्मम चेद्भेदः फलाभावो न संशयः ॥ ४३.२०॥ नमस्कृतोऽहं युष्माकं भवानज्ञीति वक्ष्यति । ममैवापकरिष्यामि परिच्छिन्नो भवाम्यहम् ॥ ४३.२१॥ ममैव चेन्नमस्कारः फलं नास्ति स्वतः स्थिते । कस्यापि च नमस्कारः कदाचिदपि नास्ति हि ॥ ४३.२२॥ सदा चैतन्यमात्रत्वात् नाहं न त्वं न हि द्वयम् । न बन्धं न परो नान्ये नाहं नेदं न किञ्चन ॥ ४३.२३॥ न द्वयं नैकमद्वैतं निश्चितं न मनो न तत् । न बीजं न सुखं दुःखं नाशं निष्ठा न सत्सदा ॥ ४३.२४॥ नास्ति नास्ति न सन्देहः केवलात् परमात्मनि । न जीवो नेश्वरो नैको न चन्द्रो नाग्निलक्षणः ॥ ४३.२५॥ न वार्ता नेन्द्रियो नाहं न महत्त्वं गुणान्तरम् । न कालो न जगन्नान्यो न वा कारणमद्वयम् ॥ ४३.२६॥ नोन्नतोऽत्यन्तहीनोऽहं न मुक्तस्त्वत्प्रसादतः । सर्वं नास्त्येव नास्त्येव सर्वं ब्रह्मैव केवलम् ॥ ४३.२७॥ अहं ब्रह्म इदं ब्रह्म आत्म ब्रह्माहमेव हि । सर्वं ब्रह्म न सन्देहस्त्वत्प्रसादान्महेश्वरः ॥ ४३.२८॥ त्वमेव सद्गुरुर्ब्रह्म न हि सद्गुरुरन्यतः । आत्मैव सद्गुरुर्ब्रह्म शिष्यो ह्यात्मैव सद्गुरुः ॥ ४३.२९॥ गुरुः प्रकल्पते शिष्यो गुरुहीनो न शिष्यकः । शिष्ये सति गुरुः कल्प्यः शिष्याभावे गुरुर्न हि ॥ ४३.३०॥ गुरुशिष्यविहीनात्मा सर्वत्र स्वयमेव हि । चिन्मात्रात्मनि कल्प्योऽहं चिन्मात्रात्मा न चापरः ॥ ४३.३१॥ चिन्मात्रात्माहमेवैको नान्यत् किञ्चिन्न विद्यते । सर्वस्थितोऽहं सततं नान्यं पश्यामि सद्गुरोः ॥ ४३.३२॥ नान्यत् पश्यामि चित्तेन नान्यत् पश्यामि किञ्चन । सर्वाभावान्न पश्यामि सर्वं चेद् दृश्यतां पृथक् ॥ ४३.३३॥ एवं ब्रह्म प्रपश्यामि नान्यदस्तीति सर्वदा । अहो भेदं प्रकुपितं अहो माया न विद्यते ॥ ४३.३४॥ अहो सद्गुरुमाहात्म्यमहो ब्रह्मसुखं महत् । अहो विज्ञानमाहात्म्यमहो सज्जनवैभवः ॥ ४३.३५॥ अहो मोहविनाशश्च अहो पश्यामि सत्सुखम् । अहो चित्तं न पश्यामि अहो सर्वं न किञ्चन ॥ ४३.३६॥ अहमेव हि नान्यत्र अहमानन्द एव हि । ममान्तःकरणे यद्यन्निश्चितं भवदीरितम् ॥ ४३.३७॥ सर्वं ब्रह्म परं ब्रह्म न किञ्चिदन्यदैवतम् । एवं पश्यामि सततं नान्यत् पश्यामि सद्गुरो ॥ ४३.३८॥ एवं निश्चित्य तिष्ठामि स्वस्वरूपे ममात्मनि ॥ ४३.३९॥ अगाधवेदवाक्यतो न चाधिभेषजं भवे- दुमाधवाङ्घ्रिपङ्कजस्मृतिः प्रबोधमोक्षदा । प्रबुद्धभेदवासनानिरुद्धहृत्तमोभिदे महारुजाघवैद्यमीश्वरं हृदम्बुजे भजे ॥ ४३.४०॥ द्यतत्प्रदग्धकामदेह दुग्धसन्निभं प्रमुग्धसामि । सोमधारिणं श्रुतीड्यगद्यसंस्तुतं त्वभेद्यमेकशङ्करम् ॥ ४३.४१॥ वरः कङ्कः काको भवदुभयजातेषु नियतं महाशङ्कातङ्कैर्विधिविहितशान्तेन मनसा । यदि स्वैरं ध्यायन्नगपतिसुतानायकपदं स एवायं धुर्यो भवति मुनिजातेषु नियतम् ॥ ४३.४२॥ कः कालान्तकपादपद्मभजनादन्यद्धृदा कष्टदां धर्माभासपरंपरां प्रथयते मूर्खो खरीं तौरगीम् । कर्तुं यत्नशतैरशक्यकरणैर्विन्देत दुःखादिकंvar was दुःखाधिकम् तद्वत् सांबपदांबुजार्चनरतिं त्यक्त्वा वृथा दुःखभाक् ॥ ४३.४३॥ ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे निदाघानुभववर्णनप्रकरणं नाम त्रिचत्वारिंशोऽध्यायः ॥
४४ ॥ चतुश्चत्वारिंशोऽध्यायः ॥ निदाघः - शृणुश्व सद्गुरो ब्रह्मन् त्वत्प्रसादान्विनिश्चितम् । अहमेव हि तद्ब्रह्म अहमेव हि केवलम् ॥ ४४.१॥ अहमेव हि नित्यात्मा अहमेव सदाऽजरः । अहमेव हि शान्तात्मा अहमेव हि निष्कलः ॥ ४४.२॥ अहमेव हि निश्चिन्तः अहमेव सुखात्मकः । अहमेव गुरुस्त्वं हि अहं शिष्योऽस्मि केवलम् ॥ ४४.३॥ अहमानन्द एवात्मा अहमेव निरञ्जनः । अहं तुर्यातिगो ह्यात्मा अहमेव गुणोज्झितः ॥ ४४.४॥ अहं विदेह एवात्मा अहमेव हि शङ्करः । अहं वै परिपूर्णात्मा अहमेवेश्वरः परः ॥ ४४.५॥ अहमेव हि लक्ष्यात्मा अहमेव मनोमयः । अहमेव हि सर्वात्मा अहमेव सदाशिवः ॥ ४४.६॥ अहं विष्णुरहं ब्रह्मा अहमिन्द्रस्त्वहं सुराः । अहं वै यक्षरक्षांसि पिशाचा गुह्यकास्तथा ॥ ४४.७॥ अहं समुद्राः सरित अहमेव हि पर्वताः । अहं वनानि भुवनं अहमेवेदमेव हि ॥ ४४.८॥ नित्यतृप्तो ह्यहं शुद्धबुद्धोऽहं प्रकृतेः परः । अहमेव हि सर्वत्र अहमेव हि सर्वगः ॥ ४४.९॥ अहमेव महानात्मा सर्वमङ्गलविग्रहः । अहमेव हि मुक्तोऽस्मि शुद्धोऽस्मि परमः शिवः ॥ ४४.१०॥ अहं भूमिरहं वायुरहं तेजो ह्यहं नभः । अहं जलमहं सूर्यश्चन्द्रमा भगणा ह्यहम् ॥ ४४.११॥ अहं लोका अलोकाश्च अहं लोक्या अहं सदा । अहमात्मा पारदृश्य अहं प्रज्ञानविग्रहः ॥ ४४.१२॥ अहं शून्यो अशून्योऽहं सर्वानन्दमयोऽस्म्यहम् । शुभाशुभफलातीतो ह्यहमेव हि केवलम् ॥ ४४.१३॥ अहमेव ऋतं सत्यमहं सच्चित्सुखात्मकः । अहमानन्द एवात्मा बहुधा चैकधा स्थितः ॥ ४४.१४॥ अहं भूतभविष्यं च वर्तमानमहं सदा । अहमेको द्विधाहं च बहुधा चाहमेव हि ॥ ४४.१५॥ अहमेव परं ब्रह्म अहमेव प्रजापतिः । स्वराट् सम्राड् जगद्योनिरहमेव हि सर्वदा ॥ ४४.१६॥ अहं विश्वस्तैजसश्च प्राज्ञोऽहं तुर्य एव हि । अहं प्राणो मनश्चाहमहमिद्रियवर्गकः ॥ ४४.१७॥ अहं विश्वं हि भुवनं गगनात्माहमेव हि । अनुपाधि उपाध्यं यत्तत्सर्वमहमेव हि ॥ ४४.१८॥ उपाधिरहितश्चाहं नित्यानन्दोऽहमेव हि । एवं निश्चयवानन्तः सर्वदा सुखमश्नुते । एवं यः शृणुयान्नित्यं सर्वपापैः प्रमुच्यते ॥ ४४.१९॥ नित्योऽहं निर्विकल्पो जनवनभुवने पावनोऽहं मनीषी विश्वो विश्वातिगोऽहं प्रकृतिविनिकृतो एकधा संस्थितोऽहम् । नानाकारविनाशजन्मरहितस्वज्ञानकार्योज्झितैः भूमानन्दघनोऽस्म्यहं परशिवः सत्यस्वरूपोऽस्म्यहम् ॥ ४४.२०॥ ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे निदाघानुभववर्णनं नाम चतुश्चत्वारिंशोऽध्यायः ॥
४५ ॥ पञ्चचत्वारिंशोऽध्यायः ॥ निदाघः - पुण्ये शिवरहस्येऽस्मिन्नितिहासे शिवोदिते । देव्यै शिवेन कथिते देव्या स्कन्दाय मोदतः ॥ ४५.१॥ तदेतस्मिन् हि षष्ठांशे षडास्यकमलोदिते । पारमेश्वरविज्ञानं श्रुतमेतन्महाघभित् ॥ ४५.२॥ महामायातमस्तोमविनिवारणभास्करम् । अस्याध्यायैककथनाद् विज्ञानं महदश्नुते ॥ ४५.३॥ श्लोकस्य श्रवणेनापि जीवन्मुक्तो न संशयः । एतद्ग्रन्थप्रवक्ता हि षण्मुखः शिव एव हि ॥ ४५.४॥ जैगीषव्यो महायोगी स एव श्रवणेऽर्हति । भस्मरुद्राक्षधृङ् नित्यं सदा ह्यत्याश्रमी मुनिः ॥ ४५.५॥ एतद्ग्रन्थप्रवक्ता हि स गुरुर्नात्र संशयः । एतद्ग्रन्थप्रवक्ता हि परं ब्रह्म न संशयः ॥ ४५.६॥ एतद्ग्रन्थप्रवक्ता हि शिव एव न चापरः । एतद्ग्रन्थप्रवक्ता हि साक्षाद्देवी न संशयः ॥ ४५.७॥ एतद्ग्रन्थप्रवक्ता हि गणेशो नात्र संशयः । एतद्ग्रन्थप्रवक्ता हि स्कन्दः स्कन्दिततारकः ॥ ४५.८॥ एतद्ग्रन्थप्रवक्ता हि नन्दिकेशो न संशयः । एतद्ग्रन्थप्रवक्ता हि दत्तात्रेयो मुनिः स्वयम् ॥ ४५.९॥ एतद्ग्रन्थप्रवक्ता हि दक्षिणामूर्तिरेव हि । एतद्ग्रन्थार्थकथने भावने मुनयः सुराः ॥ ४५.१०॥ न शक्ता मुनिशार्दूल त्वदृतेऽहं शिवं शपे । एतद्ग्रन्थार्थवक्तारं गुरुं सर्वात्मना यजेत् ॥ ४५.११॥ एतद्ग्रन्थप्रवक्ता तु शिवो विघ्नेश्वरः स्वयम् । पिता हि जन्मदो दाता गुरुर्जन्मविनाशकः ॥ ४५.१२॥ एतद्ग्रन्थं समभ्यस्य गुरोर्वाक्याद्विशेषतः । न दुह्येत गुरुं शिष्यो मनसा किञ्च कायतः ॥ ४५.१३॥ गुरुरेव शिवः साक्षात् गुरुरेव शिवः स्वयम् । शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ॥ ४५.१४॥ एतद्ग्रन्थपदाभ्यासे श्रद्धा वै कारणं परम् । अश्रद्धधानः पुरुषो नैतल्लेशमिहार्हति ॥ ४५.१५॥ श्रद्धैव परमं श्रेयो जीवब्रह्मैक्यकारणम् । अस्ति ब्रह्मेति च श्रुत्वा भावयन् सन्त एव हि ॥ ४५.१६॥ शिवप्रसादहीनो यो नैतद्ग्रन्थार्थविद्भवेत् । भावग्राह्योऽयमात्मायं पर एकः शिवो ध्रुवः ॥ ४५.१७॥ सर्वमन्यत् परित्यज्य ध्यायीतेशानमव्ययम् । शिवज्ञानमिदं शुद्धं द्वैताद्वैतविनाशनम् ॥ ४५.१८॥ अन्येषु च पुराणेषु इतिहासेषु न क्वचित् । एतादृशं शिवज्ञानं श्रुतिसारमहोदयम् ॥ ४५.१९॥ उक्तं साक्षाच्छिवेनैतद् योगसांख्यविवर्जितम् । भावनामात्रसुलभं भक्तिगम्यमनामयम् ॥ ४५.२०॥ महानन्दप्रदं साक्षात् प्रसादेनैव लभ्यते । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ ४५.२१॥ एतद्ग्रन्थं गुरोः श्रुत्वा न पूजां कुरुते यदि । श्वानयोनिशतं प्राप्य चण्डालः कोटिजन्मसु ॥ ४५.२२॥ एतद्ग्रन्थस्य माहात्म्यं न यजन्तीश्वरं हृदा । स सूकरो भवत्येव सहस्रपरिवत्सरान् ॥ ४५.२३॥ एतद्ग्रन्थार्थवक्तारमभ्यसूयेत यो द्विजः । अनेकब्रह्मकल्पं च विष्ठायां जायते क्रिमिः ॥ ४५.२४॥ एतद्ग्रन्थार्थविद्ब्रह्मा स ब्रह्म भवति स्वयम् । किं पुनर्बहुनोक्तेन ज्ञानमेतद्विमुक्तिदम् ॥ ४५.२५॥ यस्त्वेतच्छृणुयाच्छिवोदिमहावेदान्तांबुधि (?) वीचिजातपुण्यं नापेक्षत्यनिशं न चाब्दकल्पैः । शब्दानां निखिलो रसो हि स शिवः किं वा तुषाद्रि परिखंडनतो भवेत् स्यात् तण्डुलोऽपि स मृषा भवमोहजालम् ॥ ४५.२६॥ तद्वत् सर्वमशास्त्रमित्येव हि सत्यं द्वैतोत्थं परिहाय वाक्यजालम् । एवं त्वं त्वनिशं भजस्व नित्यं शान्तोद्यखिलवाक् समूहभावना ॥ ४५.२७॥ सत्यत्वाभावभावितोऽनुरूपशीलः । सम्पश्यन् जगदिदमासमञ्जसं सदा हि ॥ ४५.२८॥ ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे निदाघकृतगुरुस्तुतिवर्णनं नाम पञ्चचत्वारिंशोऽध्यायः ॥
४६ ॥ षट्चत्वारिंशोऽध्यायः ॥ निदाघः - एतद्ग्रन्थं सदा श्रुत्वा चित्तजाड्यमकुर्वतः । यावद्देहं सदा वित्तैः शुश्रूषेत् पूजयेद्गुरुम् ॥ ४६.१॥ तत्पूजयैव सततं अहं ब्रह्मेति निश्चिनु । नित्यं पूर्णोऽस्मि नित्योऽस्मि सर्वदा शान्तविग्रहः ॥ ४६.२॥ एतदेवात्मविज्ञानं अहं ब्रह्मेति निर्णयः । निरङ्कुशस्वरूपोऽस्मि अतिवर्णाश्रमी भव ॥ ४६.३॥ अग्निरित्यादिभिर्मन्त्रैः सर्वदा भस्मधारणम् । त्रियायुषैस्त्र्यंबकैश्च कुर्वन्ति च त्रिपुण्ड्रकम् ॥ ४६.४॥ त्रिपुण्ड्रधारिणामेव सर्वदा भस्मधारणम् । शिवप्रसादसम्पत्तिर्भविष्यति न संशयः ॥ ४६.५॥ शिवप्रसादादेतद्वै ज्ञानं सम्प्राप्यते ध्रुवम् । शिरोव्रतमिदं प्रोक्तं केवलं भस्मधारणम् ॥ ४६.६॥ भस्मधारणमात्रेण ज्ञानमेतद्भविष्यति । अहं वत्सरपर्यन्तं कृत्वा वै भस्मधारणम् ॥ ४६.७॥ त्वत्पादाब्जं प्रपन्नोऽस्मि त्वत्तो लब्धात्म निर्वृतिः । सर्वाधारस्वरूपोऽहं सच्चिदानन्दमात्रकम् ॥ ४६.८॥ ब्रह्मात्माहं सुलक्षण्यो ब्रह्मलक्षणपूर्वकम् । आनन्दानुभवं प्राप्तः सच्चिदानन्दविग्रहः ॥ ४६.९॥ गुणरूपादिमुक्तोऽस्मि जीवन्मुक्तो न संशयः । मैत्र्यादिगुणसम्पन्नो ब्रह्मैवाहं परो महान् ॥ ४६.१०॥ समाधिमानहं नित्यं जीवन्मुक्तेषु सत्तमः । अहं ब्रह्मास्मि नित्योऽस्मि समाधिरिति कथ्यते ॥ ४६.११॥ प्रारब्धप्रतिबन्धश्च जीवन्मुक्तेषु विद्यते । प्रारब्धवशतो यद्यत् प्राप्यं भुञ्जे सुखं वस ॥ ४६.१२॥ दूषणं भूषणं चैव सदा सर्वत्र संभवेत् । स्वस्वनिश्चयतो बुद्ध्या मुक्तोऽहमिति मन्यते ॥ ४६.१३॥ अहमेव परं ब्रह्म अहमेव परा गतिः । एवं निश्चयवान् नित्यं जीवन्मुक्तेति कथ्यते ॥ ४६.१४॥ एतद्भेदं च सन्त्यज्य स्वरूपे तिष्ठति प्रभुः । इन्द्रियार्थविहीनोऽहमिन्द्रियार्थविवर्जितः ॥ ४६.१५॥ सर्वेन्द्रियगुणातीतः सर्वेन्द्रियविवर्जितः । सर्वस्य प्रभुरेवाहं सर्वं मय्येव तिष्ठति ॥ ४६.१६॥ अहं चिन्मात्र एवास्मि सच्चिदान्दविग्रहः । सर्वं भेदं सदा त्यक्त्वा ब्रह्मभेदमपि त्यजेत् ॥ ४६.१७॥ अजस्रं भावयन् नित्यं विदेहो मुक्त एव सः । अहं ब्रह्म परं ब्रह्म अहं ब्रह्म जगत्प्रभुः ॥ ४६.१८॥ अहमेव गुणातीतः अहमेव मनोमयः । अहं मय्यो मनोमेयः प्राणमेयः सदामयः ॥ ४६.१९॥ सदृङ्मयो ब्रह्ममयोऽमृतमयः सभूतोमृतमेव हि । अहं सदानन्दधनोऽव्ययः सदा । स वेदमय्यो प्रणवोऽहमीशः ॥ ४६.२०॥ अपाणिपादो जवनो गृहीता अपश्यः पश्याम्यात्मवत् सर्वमेव । यत्तद्भूतं यच्च भव्योऽहमात्मा सर्वातीतो वर्तमानोऽहमेव ॥ ४६.२२॥ ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे ज्ञानोपायभूतशिवव्रतनिरूपणं नाम षट्चत्वारिंशोऽध्यायः ॥
४७ ॥ सप्तचत्वारिंशोऽध्यायः ॥ ऋभुः - निदाघ शृणु वक्ष्यामि दृढीकरणमस्तु ते । शिवप्रसादपर्यन्तमेवं भावय नित्यशः ॥ ४७.१॥ अहमेव परं ब्रह्म अहमेव सदाशिवः । अहमेव हि चिन्मात्रमहमेव हि निर्गुणः ॥ ४७.२॥ अहमेव हि चैतन्यमहमेव हि निष्कलः । अहमेव हि शून्यात्मा अहमेव हि शाश्वतः ॥ ४७.३॥ अहमेव हि सर्वात्मा अहमेव हि चिन्मयः । अहमेव परं ब्रह्म अहमेव महेश्वरः ॥ ४७.४॥ अहमेव जगत्साक्षी अहमेव हि सद्गुरुः । अहमेव हि मुक्तात्मा अहमेव हि निर्मलः ॥ ४७.५॥ अहमेवाहमेवोक्तः अहमेव हि शङ्करः । अहमेव हि महाविष्णुरहमेव चतुर्मुखः ॥ ४७.६॥ अहमेव हि शुद्धात्मा ह्यहमेव ह्यहं सदा । अहमेव हि नित्यात्मा अहमेव हि मत्परः ॥ ४७.७॥ अहमेव मनोरूपं अहमेव हि शीतलः । अहमेवान्तर्यामी च अहमेव परेश्वरः ॥ ४७.८॥ एवमुक्तप्रकारेण भावयित्वा सदा स्वयम् । द्रव्योऽस्ति चेन्न कुर्यात्तु वंचकेन गुरुं परम् ॥ ४७.९॥ कुम्भीपाके सुघोरे तु तिष्ठत्येव हि कल्पकान् । श्रुत्वा निदाघश्चोथाय पुत्रदारान् प्रदत्तवान् ॥ ४७.१०॥ स्वशरीरं च पुत्रत्वे दत्वा सादरपूर्वकम् । धनधान्यं च वस्त्रादीन् दत्वाऽतिष्ठत् समीपतः ॥ ४७.११॥ गुरोस्तु दक्षिणां दत्वा निदाघस्तुष्टवानृभुम् । सन्तुष्टोऽस्मि महाभाग तव शुश्रूषया सदा ॥ ४७.१२॥ ब्रह्मविज्ञानमाप्तोऽसि सुकृतार्थो न संशयः । ब्रह्मरूपमिदं चेति निश्चयं कुरु सर्वदा ॥ ४७.१३॥ निश्चयादपरो मोक्षो नास्ति नास्तीति निश्चिनु । निश्चयं कारणं मोक्षो नान्यत् कारणमस्ति वै ॥ ४७.१४॥ सकलभुवनसारं सर्ववेदान्तसारं समरसगुरुसारं सर्ववेदार्थसारम् । सकलभुवनसारं सच्चिदानन्दसारं समरसजयसारं सर्वदा मोक्षसारम् ॥ ४७.१५॥ सकलजननमोक्षं सर्वदा तुर्यमोक्षं सकलसुलभमोक्षं सर्वसाम्राज्यमोक्षम् । विषयरहितमोक्षं वित्तसंशोषमोक्षं श्रवणमननमात्रादेतदत्यन्तमोक्षम् ॥ ४७.१६॥ तच्छुश्रूषा च भवतः तच्छ्रुत्वा च प्रपेदिरे । एवं सर्ववचः श्रुत्वा निदाघऋषिदर्शितम् । शुकादयो महान्तस्ते परं ब्रह्ममवाप्नुवन् ॥ ४७.१७॥ श्रुत्वा शिवज्ञानमिदं ऋभुस्तदा निदाघमाहेत्थं मुनीन्द्रमध्ये । मुदा हि तेऽपि श्रुतिशब्दसारं श्रुत्वा प्रणम्याहुरतीव हर्षात् ॥ ४७.१८॥ मुनयः - पिता माता भ्राता गुरुरसि वयस्योऽथ हितकृत् अविद्याब्धेः पारं गमयसि भवानेव शरणम् । बलेनास्मान् नीत्वा मम वचनबलेनैव सुगमं पथं प्राप्त्यैवार्थैः शिववचनतोऽस्मान् सुखयसि ॥ ४७.१९॥ ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे ऋभुकृतसंग्रहोपदेशवर्णनं नाम सप्तचत्वारिंशोऽध्यायः ॥
४८ ॥ अष्टचत्वारिंशोऽध्यायः ॥ स्कन्दः - ज्ञानाङ्गसाधनं वक्ष्ये शृणु वक्ष्यामि ते हितम् । यत् कृत्वा ज्ञानमाप्नोति तत् प्रादात् परमेष्ठिनः ॥ ४८.१॥ जैगीषव्य शृणुष्वैतत् सावधानेन चेतसा । प्रथमं वेदसम्प्रोक्तं कर्माचरणमिष्यते ॥ ४८.२॥ उपनीतो द्विजो वापि वैश्यः क्षत्रिय एव वा । अग्निरित्यादिभिर्मन्त्रैर्भस्मधृक् पूयते त्वघैः ॥ ४८.३॥ त्रियायुषैस्त्र्यम्बकैश्च त्रिपुण्ड्रं भस्मनाऽऽचरेत् । लिङ्गार्चनपरो नित्यं रुद्राक्षान् धारयन् क्रमैः ॥ ४८.४॥ कण्ठे बाह्वोर्वक्षसी च मालाभिः शिरसा तथा । त्रिपुण्ड्रवद्धारयेत रुद्राक्षान् क्रमशो मुने ॥ ४८.५॥ एकाननं द्विवक्त्रं वा त्रिवक्त्रं चतुरास्यकम् । पञ्चवक्त्रं च षट् सप्त तथाष्टदशकं नव ॥ ४८.६॥ एकादशं द्वादशं वा तथोर्ध्वं धारयेत् क्रमात् । भस्मधारणमात्रेण प्रसीदति महेश्वरः ॥ ४८.७॥ रुद्राक्षधारणादेव नरो रुद्रत्वमाप्नुयात् । भस्मरुद्राक्षधृङ्मर्त्यो ज्ञानाङ्गी भवति प्रियः ॥ ४८.८॥ रुद्राध्यायी भस्मनिष्ठः पञ्चाक्षरजपाधरः । भस्मोद्धूलितदेहोऽयं श्रीरुद्रं प्रजपन् द्विजः ॥ ४८.९॥ सर्वपापैर्विमुक्तश्च ज्ञाननिष्ठो भवेन्मुने । भस्मसंछन्नसर्वाङ्गो भस्मफालत्रिपुण्ड्रकः ॥ ४८.१०॥ वेदमौलिजवाक्येषु विचाराधिकृतो भवेत् । नान्यपुण्ड्रधरो विप्रो यतिर्वा विप्रसत्तम ॥ ४८.११॥ शमादिनियमोपेतः क्षमायुक्तोऽप्यसंस्कृतः । शिरोव्रतमिदं प्रोक्तं भस्मधारणमेव हि ॥ ४८.१२॥ शिरोव्रतं च विधिवद्यैश्चीर्णं मुनिसत्तम । तेषामेव ब्रह्मविद्यां वदेत गुरुरास्तिकः ॥ ४८.१३॥ शांभवा एव वेदेषु निष्ठा नष्टाशुभाः परम् । शिवप्रसादसम्पन्नो भस्मरुद्राक्षधारकः ॥ ४८.१४॥ रुद्राध्यायजपासक्तः पञ्चाक्षरपरायणः । स एव वेदवेदान्तश्रवणेऽधिकृतो भवेत् ॥ ४८.१५॥ नान्यपुण्ड्रधरो विप्रः कृत्वापि श्रवणं बहु । नैव लभ्येत तद्ज्ञानं प्रसादेन विनेशितुः ॥ ४८.१६॥ प्रसादजनकं शम्भोर्भस्मधारणमेव हि । शिवप्रसादहीनानां ज्ञानं नैवोपजायते ॥ ४८.१७॥ प्रसादे सति देवस्य विज्ञानस्फुरणं भवेत् । रुद्राध्यायजापिनां तु भस्मधारणपूर्वकम् ॥ ४८.१८॥ प्रसादो जायते शम्भोः पुनरावृत्तिवर्जितः । प्रसादे सति देवस्य वेदान्तस्फुरणं भवेत् ॥ ४८.१९॥ तस्यैवाकथिता ह्यर्थाः प्रकाशन्ते महात्मनः । पञ्चाक्षरजपादेव पञ्चास्यध्यानपूर्वकम् ॥ ४८.२०॥ तस्यैव भवति ज्ञानं शिवप्रोक्तमिदं ध्रुवम् । सर्वं शिवात्मकं भाति जगदेतत् चराचरम् ॥ ४८.२१॥ स प्रसादो महेशस्य विज्ञेयः शांभवोत्तमैः । शिवलिङ्गार्चनादेव प्रसादः शांभवोत्तमे ॥ ४८.२२॥ नियमाद्बिल्वपत्रैश्च भस्मधारणपूर्वकम् । प्रसादो जायते शम्भोः साक्षाद्ज्ञानप्रकाशकः ॥ ४८.२३॥ शिवक्षेत्रनिवासेन ज्ञानं सम्यक् दृढं भवेत् । शिवक्षेत्रनिवासे तु भस्मधार्यधिकारवान् ॥ ४८.२४॥ नक्ताशनार्चनादेव प्रीयेत भगवान् भवः । प्रदोषपूजनं शंभोः प्रसादजनकं परम् ॥ ४८.२५॥ सोमवारे निशीथेषु पूजनं प्रियमीशितुः । भूतायां भूतनाथस्य पूजनं परमं प्रियम् ॥ ४८.२६॥ शिवशब्दोच्चारणं च प्रसादजनकं महत् । ज्ञानाङ्गसाधनेष्वेवं शिवभक्तार्चनं महत् ॥ ४८.२७॥ भक्तानामर्चनादेव शिवः प्रीतो भविष्यति । इत्येतत्तं समासेन ज्ञानाङ्गं कथितं मया । अकैतवेन भावेन श्रवणीयो महेश्वरः ॥ ४८.२८॥ सूतः - यः कोऽपि प्रसभं प्रदोषसमये बिल्वीदलालङ्कृतं लिङ्गं तुङ्गमपारपुण्यविभवैः पश्येदथार्चेत वा । प्राप्तं राज्यमवाप्य कामहृदयस्तुष्येदकामो यदि मुक्तिद्वारमपावृतं स तु लभेत् शम्भोः कटाक्षाङ्कुरैः ॥ ४८.२९॥ अचलातुलराजकन्यकाकुचलीलामलबाहुजालमीशम् । भजतामनलाक्षिपादपद्मं भवलीलं न भवेत चित्तबालम् ॥ ४८.३०॥ भस्मत्रिपुण्ड्ररचिताङ्गकबाहुफाल- रुद्राक्षजालकवचाः श्रुतिसूक्तिमालाः । वेदोरुरत्नपदकाङ्कितशम्भुनाम- लोला हि शांभववराः परिशीलयन्ति ॥ ४८.३१॥ ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे स्कन्दकृतशिवव्रतोपदेशवर्णनं नाम अष्टचत्वारिंशोऽध्यायः ॥
४९ ॥ एकोनपञ्चाशोऽध्यायः ॥ स्कन्दः - पुरा मगधदेशीयो ब्राह्मणो वेदपारगः । उचथ्यतनयो वाग्मी वेदार्थप्रवणे धृतः ॥ ४९.१॥ नाम्ना सुदर्शनो विप्रान् पाठयन् शास्त्रमुत्तमम् । वेदान्तपरया भक्त्या वर्णाश्रमरतः सदा ॥ ४९.२॥ मोक्षमिच्छेदपि सदा विप्रोऽपि च जनार्दनात् । विष्णुपूजापरो नित्यं विष्णुक्षेत्रेषु संवसन् ॥ ४९.३॥ गोपीचन्दनफालोसौ तुलस्यैवार्चयद्धरिम् । उवास नियतं विप्रो विष्णुध्यानपरायणः ॥ ४९.४॥ दशवर्षमिदं तस्य कृत्यं दृष्ट्वा जनार्दनः । मोक्षेच्छोराजुहावैनं पुरतोद्भूय तं द्विजम् ॥ ४९.५॥ विष्णुः - औचथ्य मुनिशार्दूल तपस्यभिरतः सदा । वृणु कामं ददाम्येव विना ज्ञानं द्विजोत्तम ॥ ४९.६॥ सूतः - इति विष्णोर्गिरं श्रुत्वा विप्रः किञ्चिद्भयान्वितः । प्रणिपत्याह तं विष्णुं स्तुवन्नारायणेति तम् ॥ ४९.७॥ सुदर्शनः - विष्णो जिष्णो नमस्तेऽस्तु शङ्खचक्रगदाधर । त्वत्पादनलिनं प्राप्तो ज्ञानायानर्हणः किमु ॥ ४९.८॥ किमन्यैर्धर्मकामार्थैर्नश्वरैरिह शङ्खभृत् । इत्युक्तं तद्वचः श्रुत्वा विष्णु प्राह सुदर्शनम् ॥ ४९.९॥ विष्णुः - सुदर्शन शृणुष्वैतन्मत्तो नान्यमना द्विज । वदामि ते हितं सत्यं मया प्राप्तं यथा तव ॥ ४९.१०॥ मदर्चनेन ध्यानेन मोक्षेच्छा जायते नृणाम् । मोक्षदाता महादेवो ज्ञानविज्ञानदायकः ॥ ४९.११॥ तदर्चनेन सम्प्राप्तं मया पूर्वं सुदर्शनम् । सहस्रारं दैत्यहन्तृ साक्षात् त्र्यक्षप्रपूजया ॥ ४९.१२॥ तमाराधय यत्नेन भस्मधारणपूर्वकम् । अग्निरित्यादिभिर्मन्त्रैस्त्रियायुषत्रिपुण्ड्रकैः ॥ ४९.१३॥ रुद्राक्षधारको नित्यं रुद्रपञ्चाक्षरादरः । शिवलिङ्गं बिल्वपत्रैः पूजयन् ज्ञानवान् भव ॥ ४९.१४॥ वसन् क्षेत्रे महेशस्य स्नाहि तीर्थे च शाङ्करे । अहं ब्रह्मादयो देवाः पूजयैव पिनाकिनः ॥ ४९.१५॥ बलिनः शिवलिङ्गस्य पूजया विप्रसत्तम । यस्य फालतलं मेऽद्य त्रिपुण्ड्रपरिचिन्हितम् ॥ ४९.१६॥ ब्रह्मेन्द्रदेवमुनिभिस्त्रिपुण्ड्रं भस्मना धृतम् । पश्य वक्षसि बाह्वोर्मे रुद्राक्षाणां स्रजं शुभाम् ॥ ४९.१७॥ पञ्चाक्षरजपासक्तो रुद्राध्यायपरायणः । त्रिकालमर्चयामीशं बिल्वपत्रैरहं शिवम् ॥ ४९.१८॥ कमला विमला नित्यं कोमलैर्बिल्वपल्लवैः । पूजयत्यनिशं लिङ्गे तथा ब्रह्मादयः सुराः ॥ ४९.१९॥ मुनयो मनवोऽप्येवं तथान्ये द्विजसत्तमाः । नृपासुरास्तथा दैत्या बलिनः शिवपूजया ॥ ४९.२०॥ ज्ञानं मोक्षस्तथा भाग्यं लभ्यते शङ्करार्चनात् । तस्मात् त्वमपि भक्त्यैव समाराधय शङ्करम् ॥ ४९.२१॥ पशवो विष्णुविधयस्तथान्ये मुनयः सुराः । सर्वेषां पतिरीशानस्तत्प्रसादाद्विमुक्तिभाक् ॥ ४९.२२॥ प्रसादजनकं तस्य भस्मधारणमेव हि । प्रसादजनकं तस्य मुने रुद्राक्षधारणम् ॥ ४९.२३॥ प्रसादजनकस्तस्य रुद्राध्यायजपः सदा । प्रसादजनकस्तस्य पञ्चाक्षरजपो द्विज ॥ ४९.२४॥ प्रसादजनकं तस्य शिवलिङ्गैकपूजनम् । प्रसादे शांभवे जाते भुक्तिमुक्ती करे स्थिते ॥ ४९.२५॥ तस्य भक्त्यैव सर्वेषां मोचनं भवपाशतः । तस्य प्रीतिकरं साक्षाद्बिल्वैर्लिङ्गस्य पूजनम् ॥ ४९.२६॥ तस्य प्रीतिकरं साक्षाच्छिवक्षेत्रेषु वर्तनम् । तस्य प्रीतिकरं साक्षात् शिवतीर्थनिषेवणम् ॥ ४९.२७॥ तस्य प्रीतिकरं साक्षात् भस्मरुद्राक्षधारणम् । तस्य प्रीतिकरं साक्षात् प्रदोषे शिवपूजनम् ॥ ४९.२८॥ तस्य प्रीतिकरं साक्षाद् रुद्रपञ्चाक्षरावृतिः । तस्य प्रीतिकरं साक्षाच्छिवभक्तजनार्चनम् ॥ ४९.२९॥ तस्य प्रीतिकरं साक्षात् सोमे सायन्तनार्चनम् । तस्य प्रीतिकरं साक्षात् तन्निर्माल्यैकभोजनम् ॥ ४९.३०॥ तस्य प्रीतिकरं साक्षाद् अष्टमीष्वर्चनं निशि । तस्य प्रीतिकरं साक्षात् चतुर्दश्यर्चनं निशि ॥ ४९.३१॥ तस्य प्रीतिकरं साक्षात् तन्नाम्नां स्मृतिरेव हि । एतावानेन धर्मो हि शम्भोः प्रियकरो महान् ॥ ४९.३२॥ अन्यदभ्युदयं विप्र श्रुतिस्मृतिषु कीर्तितम् । धर्मो वर्णाश्रमप्रोक्तो मुनिभिः कथितो मुने ॥ ४९.३३॥ अविमुक्ते विशेषेण शिवो नित्यं प्रकाशते । तस्मात् काशीति तत् प्रोक्तं यतो हीशः प्रकाशते ॥ ४९.३४॥ तत्रैवामरणं तिष्ठेदिति जाबालिकी श्रुतिः । तत्र विश्वेश्वरे लिङ्गे नित्यं ब्रह्म प्रकाशते ॥ ४९.३५॥ तत्रान्नपूर्णा सर्वेषां भुक्त्यन्नं सम्प्रयच्छति । तत्रास्ति मणिकर्णाख्यं मणिकुण्डं विनिर्मितम् ॥ ४९.३६॥ ज्ञानोदयोऽपि तत्रास्ति सर्वेषां ज्ञानदायकः । तत्र याहि मया सार्धं तत्रैव वस वै मुने ॥ ४९.३७॥ तत्रान्ते मोक्षदं ज्ञानं ददातीश्वर एव हि । इत्युक्त्वा तेन विप्रेण ययौ काशीं हरिः स्वयम् ॥ ४९.३८॥ स्नात्वा तीर्थे चक्रसंज्ञे ज्ञानवाप्यां हरिद्विजः । तं द्विजं स्नापयामास भस्मनापादमस्तकम् ॥ ४९.३९॥ धृतत्रिपुण्ड्ररुद्राक्षं कृत्वा तं च सुदर्शनम् । पूजयच्चाथ विश्वेशं पूजयामास च द्विजान् ॥ ४९.४०॥ बिल्वैर्गन्धाक्षतैर्दीपैर्नैवेद्यैश्च मनोहरैः । तुष्टाव प्रणिपत्यैवं स द्विजो मधुसूदनः ॥ ४९.४१॥ सुदर्शनविष्णू - भज भज भसितानलोज्वलाक्षं भुजगाभोगभुजङ्गसङ्गहस्तम् । भवभीममहोग्ररुद्रमीड्यं भवभर्जकतर्जकं महैनसाम् ॥ ४९.४२॥ वेदघोषभटकाटकावधृक् देहदाहदहनामल काल । जूटकोटिसुजटातटिदुद्यद्रागरञ्जितटिनीशशिमौले ॥ ४९.४३॥ शंबराङ्कवरभूष पाहि मामम्बरान्तरचरस्फुटवाह । वारिजाद्यघनघोष शङ्कर त्राहि वारिजभवेड्य महेश ॥ ४९.४४॥ मदगजवरकृत्तिवास शंभो मधुमदनाक्षिसरोरुहार्च्यपाद । यममददमनान्धशिक्ष शंभो पुरहर पाहि दयाकटाक्षसारैः ॥ ४९.४५॥ अपां पुष्पं मौलौ हिमभयहरः फालनयनः जटाजूटे गङ्गाऽम्बुजविकसनः सव्यनयनः । गरं कण्ठे यस्य त्रिभुवनगुरोः शंबरहर मतङ्गोद्यत्कृत्तेर्भवहरणपादाब्जभजनम् ॥ ४९.४६॥ श्रीबिल्वमूलशितिकण्ठमहेशलिङ्गं बिल्वाम्बुजोत्तमवरैः परिपूज्य भक्त्या । स्तम्बेरमाङ्गवदनोत्तमसङ्गभङ्ग राजद्विषाङ्गपरिसङ्गमहेशशाङ्गम् ॥ ४९.४७॥ यो गौरीरमणार्चनोद्यतमतिर्भूयो भवेच्छांभवो भक्तो जन्मपरंपरासु तु भवेन्मुक्तोऽथ मुक्त्यङ्गना- कान्तस्वान्तनितान्तशान्तहृदये कार्तान्तवार्तोज्झितः । विष्णुब्रह्मसुरेन्द्ररञ्जितमुमाकान्तांघ्रिपङ्केरुह- ध्यानानन्दनिमग्नसर्वहृदयः किञ्चिन्न जानात्यपि ॥ ४९.४८॥ कामारातिपदाम्बुजार्चनरतः पापानुतापाधिक- व्यापारप्रवणप्रकीर्णमनसा पुण्यैरगण्यैरपि । नो दूयेत विशेषसन्ततिमहासारानुकारादरा- दाराग्राहकुमारमारसुशराद्याघातभीतैरपि ॥ ४९.४९॥ ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे विष्णूचथ्यसंवादे शिवस्य ज्ञानदातृत्वनिरूपणं नाम एकोनपञ्चाशोऽध्यायः ॥
५० ॥ पञ्चाशोऽध्यायः ॥ स्कन्दः - विष्णुस्तवान्ते विप्रोऽसौ सुदर्शनसमाह्वयः । स्नात्वाऽथ मणिकर्ण्यां स भस्मरुद्राक्षभूषणः ॥ ५०.१॥ सञ्जपन् शतरुद्रीयं पञ्चाक्षरपरायणः । सम्पाद्य बिल्वपत्राणि कमलान्यमलान्यपि ॥ ५०.२॥ गन्धाक्षतैर्धूपदीपैर्नैवेद्यैर्विविधैरपि । विष्णूपदिष्टमार्गेण नित्यमन्तर्गृहस्य हि ॥ ५०.३॥ प्रदक्षिणं चकारासौ लिङ्गान्यभ्यर्चयंस्तथा । विश्वेश्वराविमुक्तेशौ वीरेशं च त्रिलोचनम् ॥ ५०.४॥ कृत्तिवासं वृद्धकाले केदारं शूलटङ्ककम् । रत्नेशं भारभूतेशं चन्द्रेशं सिद्धकेश्वरम् ॥ ५०.५॥ घण्टाकर्णेश्वरं चैव नारदेशं यमेश्वरम् । पुलस्तिपुलहेशं च विकर्णेशं फलेश्वरम् ॥ ५०.६॥ कद्रुद्रेशमखण्डेशं केतुमालिं गभस्तिकम् । यमुनेशं वर्णकेशं भद्रेशं ज्येष्ठशङ्करम् ॥ ५०.७॥ नन्दिकेशं च रामेशं करमर्देश्वरं तथा । आवर्देशं मतङ्गेशं वासुकीशं द्रुतीश्वरम् ॥ ५०.८॥ सूर्येशमर्यमेशं च तूणीशं गालवेश्वरम् । कण्वकात्यायनेशं च चन्द्रचूडेश्वरं तथा ॥ ५०.९॥ उदावर्तेश्वरं चैव तृणज्योतीश्वरं सदा । कङ्कणेशं तङ्कणेशं स्कन्देशं तारकेश्वरम् ॥ ५०.१०॥ जम्बुकेशं च ज्ञानेशं नन्दीशं गणपेश्वरम् । एतान्यन्तर्गृहे विप्रः पूजयन् परया मुदा ॥ ५०.११॥ ढुण्ढ्यादिगणपांश्चैव भैरवं चापि नित्यशः । अन्नपूर्णामन्नदात्रीं साक्षाल्लोकैकमातरम् ॥ ५०.१२॥ दण्डपाणिं क्षेत्रपालं सम्यगभ्यर्च्य तस्थिवान् । तीर्थान्यन्यान्यपि मुनिर्मणिकर्ण्यादि सत्तम ॥ ५०.१३॥ ज्ञानोदं सिद्धकूपं च वृद्धकूपं पिशाचकम् । ऋणमोचनतीर्थं च गर्गतीर्थं महत्तरम् ॥ ५०.१४॥ स्नात्वा सनियमं विप्रो नित्यं पञ्चनदे हृदे । किरणां धूतपापां च पञ्चगङ्गामपि द्विजः ॥ ५०.१५॥ गङ्गां मनोरमां तुङ्गां सर्वपापप्रणाशिनीम् । मुक्तिमण्टपमास्थाय स जपन् शतरुद्रियम् ॥ ५०.१६॥ अष्टोत्तरसहस्रं वै जपन् पञ्चाक्षरं द्विजः । पक्षे पक्षे तथा कुर्वन् पञ्चक्रोशप्रदक्षिणम् ॥ ५०.१७॥ अन्तर्गृहाद्बहिर्देशे चकारावसथं तदा । एवं संवसतस्तस्य कालो भूयानवर्तत ॥ ५०.१८॥ तत्र दृष्ट्वा तपोनिष्ठं सुदर्शनसमाह्वयम् । विष्णुस्तदा वै तं विप्रं समाहूय शिवार्चकम् ॥ ५०.१९॥ पुनः प्राह प्रसन्नेन चेतसा मुनिसत्तमम् । विष्णुः - भोः सुदर्शनविप्रेन्द्र शिवार्चनपरायण । ज्ञानपात्रं भवानेव विश्वेशकृपयाऽधुना ॥ ५०.२०॥ त्वया तपांसि तप्तानि इष्टा यज्ञास्त्वयैव हि । अधीताश्च त्वया वेदाः काश्यां वासो यतस्तव ॥ ५०.२१॥ बहुभिर्जन्मभिर्येन कृतं क्षेत्रे महत्तपः । तस्यैव सिद्ध्यत्यमला काशीयं मुक्तिकाशिका ॥ ५०.२२॥ तव भाग्यस्य नान्तोऽस्ति मुने त्वं भाग्यवानसि । किञ्चैकं तव वक्ष्यामि हितमात्यन्तिकं शृणु ॥ ५०.२३॥ विश्वेशकृपया तेऽद्य मुक्तिरन्ते भविष्यति । रुद्राक्षनामपुण्यं यत् नाम्नां साहस्रमुत्तमम् ॥ ५०.२४॥ उपदेक्ष्यामि ते विप्र नामसाहस्रमीशितुः । तेनार्चयेशं विश्वेशं बिल्वपत्रैर्मनोहरैः ॥ ५०.२५॥ वर्षमेकं निराहारो विश्वेशं पूजयन् सदा । संवत्सरान्ते मुक्तस्त्वं भविष्यति न संशयः ॥ ५०.२६॥ त्वद्देहापगमे मन्त्रं पञ्चाक्षरमनुत्तमम् । ददाति देवो विश्वेशस्तेन मुक्तो भविष्यति ॥ ५०.२७॥ शैवेभ्यः सन्नजीवेभ्यो ददातीमं महामनुम् । स्कन्दः - इति विष्णुवचः श्रुत्वा प्रणम्याह हरिं तदा । सुदर्शनो ययाचेत्थं नाम्नां साहस्रमुत्तमम् ॥ ५०.२८॥ भगवन् दैत्यवृन्दघ्न विष्णो जिष्णो नमोऽस्तु ते । सहस्रनाम्नां यद्दिव्यं विश्वेशस्याशु तद्वद ॥ ५०.२९॥ येन जप्तेन देवेशः पूजितो बिल्वपत्रकैः । ददाति मोक्षसाम्राज्यं देहान्ते तद्वदाशु मे ॥ ५०.३०॥ तदा विप्रवचः श्रुत्वा तस्मै चोपादिशत् स्वयम् । सहस्रनाम्नां देवस्य हिरण्यस्येत्यादि सत्तम ॥ ५०.३१॥ तेन सम्पूज्य विश्वेशं वर्षमेकमतन्द्रितः । कोमलारक्तबिल्वैश्च स्तोत्रेणानेन तुष्टुवे ॥ ५०.३२॥ सुदर्शनः - आशीविषाङ्गपरिमण्डलकण्ठभाग- राजत्सुसागरभवोग्रविषोरुशोभ । फालस्फुरज्ज्वलनदीप्तिविदीपिताशा- शोकावकाश तपनाक्ष मृगाङ्कमौले ॥ ५०.३३॥ क्रुद्धोडुजायापतिधृतार्धशरीरशोभ पाह्याशु शासितमखान्धकदक्षशत्रो । सुत्रामवज्रकरदण्डविखण्डितोरु- पक्षाद्यघक्षितिधरोर्ध्वशयाव शंभो ॥ ५०.३४॥ उत्फुल्लहल्लकलसत्करवीरमाला- भ्राजत्सुकन्धरशरीर पिनाकपाणे । चञ्चत्सुचन्द्रकलिकोत्तमचारुमौलिं लिङ्गे कुलुञ्चपतिमम्बिकया समेतम् ॥ ५०.३५॥ छायाधवानुजलसच्छदनैः परिपूज्य भक्त्या मुक्तेन स्वस्य च विराजितवंशकोट्या । सायं सङ्गवपुङ्गवोरुवहनं श्रीतुङ्गलिङ्गार्चकः शाङ्गः पातकसङ्गभङ्गचतुरश्चासङ्गनित्यान्तरः ॥ ५०.३६॥ फालाक्षस्फुरदक्षिजस्फुरदुरुस्फूलिङ्गदग्धाङ्गका- नङ्गोत्तुङ्गमतङ्गकृत्तिवसनं लिङ्गं भजे शाङ्करम् । अच्छाच्छागवहां सुरतामीक्षाशिनान्ते विभो वृष्यं शाङ्करवाहनामनिरताः सोमं तथा वाजिनम् ॥ ५०.३७॥ त्यक्त्वा जन्मविनाशनं त्विति मुहुस्ते जिह्वया सत्तमाः ये शंभोः सकृदेव नामनिरताः शाङ्गाः स्वतः पावनाः ॥ ५०.३८॥ मृगाङ्क मौलिमीश्वरं मृगेन्द्रशत्रुजत्वचम् । वसानमिन्दुसप्रभं मृगाद्यबालसत्करम् । भजे मृगेन्द्रसप्रभं ??? ??? ॥ ५०.३९॥ स्कन्दः - एवं स्तुवन्तं विश्वेशं सुदर्शनमतन्द्रितम् । प्राहेत्थं शौरिमाभाष्य शंभोर्भक्तिविवर्धनम् ॥ ५०.४०॥ विष्णुः - अत्रैवामरणं विप्र वस त्वं नियताशनः । नाम्नां सहस्रं प्रजपन् शतरुद्रीयमेव च ॥ ५०.४१॥ अन्तर्गृहात् बहिः स्थित्वा पूजयाशु महेश्वरम् । तवान्ते भूरिकरुणो मोक्षं दास्यत्यसंशयम् ॥ ५०.४२॥ स प्रणम्याह विश्वेशं दृष्ट्वा प्राह सुदर्शनम् । धन्यस्त्वं लिङ्गेऽप्यनुदिनगलितस्वान्तरङ्गाघसङ्घः पुंसां वर्याद्यभक्त्या यमनियमवरैर्विश्ववन्द्यं प्रभाते । दत्वा बिल्ववरं सदंबुजदलं किञ्चिज्जलं वा मुहुः प्राप्नोतीश्वरपादपङ्कजमुमानाथाद्य मुक्तिप्रदम् ॥ ५०.४३॥ को वा त्वत्सदृशो भवेदगपतिप्रेमैकलिङ्गार्चको मुक्तानां प्रवरोर्ध्वकेशविलसच्छ्रीभक्तिबीजाङ्कुरैः । देवा वाप्यसुराः सुरा मुनिवरा भारा भुवः केवलं वीरा वा करवीरपुष्पविलसन्मालाप्रदे नो समः ॥ ५०.४४॥ वने वा राज्ये वाप्यगपतिसुतानायकमहो स्फुरल्लिङ्गार्चायां नियममतभावेन मनसा । हरं भक्त्या साध्य त्रिभुवनतृणाडम्बरवर- प्ररूढैर्भाग्यैर्वा न हि खलु स सज्जेत भुवने ॥ ५०.४५॥ न दानैर्योगैर्वा विधिविहितवर्णाश्रमभरैः अपारैर्वेदान्तप्रतिवचनवाक्यानुसरणैः । न मन्येऽहं स्वान्ते भवभजनभावेन मनसा मुहुर्लिङ्गं शाङ्गं भजति परमानन्दकुहरः ॥ ५०.४६॥ शर्वं परवतनन्दिनीपतिमहानन्दाम्बुधेः पारगा रागत्यागहृदा विरागपरमा भस्माङ्गरागादराः । मारापारशराभिघातरहिता धीरोरुधारारसैः पारावारमहाघसंसृतिभरं तीर्णाः शिवाभ्यर्चनात् ॥ ५०.४७॥ मार्कण्डेयसुतं पुराऽन्तकभयाद्योऽरक्षदीशो हरः तत्पादाम्बुजरागरञ्जितमना नाप्नोति किं वा फलम् । तं मृत्युञ्जयमञ्जसा प्रणमतामोजोजिमध्ये जयं जेतारोतपराजयो जनिजरारोगैर्विमुक्तिं लभेत् ॥ ५०.४८॥ भूतायां भूतनाथं त्वघमतितिलकाकारभिल्लोत्थशल्यैः धावन् भल्लूकपृष्ठे निशि किल सुमहद्व्याघ्रभीत्याऽरुरोह । बिल्वं नल्वप्रभं तच्छदघनमसकृत् पातयामास मूले निद्रातन्द्रोज्झितोऽसौ मृगगणकलने मूललिङ्गेऽथ शाङ्गे ॥ ५०.४९॥ तेनाभूद्भगवान् गणोत्तमवरो मुक्ताघसङ्घस्तदा चण्डांशोस्तनयेन पूजितपदः सारूप्यमापेशितुः । गङ्गाचन्द्रकलाकपर्दविलसत्फालस्फुलिङ्गोज्ज्वलद् वालन्यङ्कुकराग्रसंगतमहाशूलाहि टंकोद्यतः ॥ ५०.५०॥ चैत्रे चित्रैः पातकैर्विप्रमुक्तो वैशाखे वै दुःखशाखाविमुक्तः । ज्येष्ठे श्रेष्ठो भवतेषाढमासि पुत्रप्राप्तिः श्रावणे श्रान्तिनाशः ॥ ५०.५१॥ भाद्रे भद्रो भवते चाश्विने वै अश्वप्राप्तिः कार्तिके कीर्तिलाभः । मार्गे मुक्तेर्मार्गमेतल्लभेत पुष्ये पुण्यं माघके चाघनाशः ॥ ५०.५२॥ फल्गु त्वंहो फाल्गुने मासि नश्येदीशार्चातो बिल्वपत्रैश्चलिङ्गे । एवं तत्तन्मासि पूज्येशलिङ्गं चित्रैः पापैर्विप्रमुक्तो द्विजेन्द्रः ॥ ५०.५३॥ दूर्वाङ्कुरैरभिनवैः शशिधामचूड- लिङ्गार्चनेन परिशेषयदङ्कुराणि । संसारघोरतररूपकराणि सद्यः मुक्त्यङ्कुराणि परिवर्धयतीह धन्यः ॥ ५०.५४॥ गोक्षीरेक्षुक्षौद्रखण्डाज्यदध्ना सन्नारेलैः पानसाम्रादिसारैः । विश्वेशानं सत्सितारत्नतोयैः गन्धोदैर्वा सिञ्च्य दोषैर्विमुक्तः ॥ ५०.५५॥ लिङ्गं चन्दनलेपसङ्गतमुमाकान्तस्य पश्यन्ति ये ते संसारभुजङ्गभङ्गपतनानङ्गाङ्गसङ्गोज्झिताः । व्यङ्गं सर्वसमर्चनं भगवतः साङ्गं भवेच्छाङ्करं शङ्गापाङ्गकृपाकटाक्षलहरी तस्मिंश्चिरं तिष्ठति ॥ ५०.५६॥ मुरलिसरलिरागैर्मर्दलैस्तालशङ्खैः पटुपटहनिनादध्वान्तसन्धानघोषैः । दुन्दुभ्याघातवादैर्वरयुवतिमहानृत्तसंरंभरङ्गैः दर्शेष्वादर्शदर्शो भगवति गिरिजानायके मुक्तिहेतुः ॥ ५०.५७॥ स्वच्छच्छत्रछवीनां विविधजितमहाच्छायया छन्नमैशं शीर्षं विच्छिन्नपापो भवति भवहरः पूजकः शम्भुभक्त्या । चञ्चच्चन्द्राभकाण्डप्रविलसदमलस्वर्णरत्नाग्रभाभि- र्दीप्यच्चामरकोटिभिः स्फुटपटघटितैश्चाकचक्यैः पताकैः ॥ ५०.५८॥ सम्पश्यारुणभूरुहोत्तमशिखासंलेढितारागणं तारानाथकलाधरोरुसुमहालिङ्गौघसंसेवितम् । बिल्वानां कुलमेतदत्र सुमहापापौघसंहारकृत् वाराणां निखिलप्रमोदजनकं शम्भोः प्रियं केवलम् ॥ ५०.५९॥ अन्नं पोत्रिमलायते धनरसं कौलेयमूत्रायते संवेशो निगलायते मम सदानन्दो कन्दायते । शम्भो ते स्मरणान्तरायभरित प्राणः कृपाणायते ॥ ५०.६०॥ कः कल्पद्रुमुपेक्ष्य चित्तफलदं तूलादिदानक्षयं बब्बूलं परिसेवते क्षुदधिको वातूलदानक्षमम् । तद्वच्छङ्करकिङ्करो विधिहरिब्रह्मेन्द्रचन्द्रानलान् सेवेद्यो विधिवञ्चितः कलिबलप्राचुर्यतो मूढधीः ॥ ५०.६१॥ सुवर्णाण्डोद्भूतस्तुतिगतिसमर्च्याण्डजवर- प्रपादं त्वां कश्चिद् भजति भुवने भक्तिपरमः । महाचण्डोद्दण्डप्रकटितभुवं ताण्डवपरं विभुं सन्तं नित्यं भज भगणनाथामलजटम् ॥ ५०.६२॥ अजगवकर विष्णुबाण शम्भो दुरितहरान्तकनाश पाहि मामनाथम् । भवदभयपदाब्जवर्यमेत मम चित्तसरस्तटान्नयातु चाद्य ॥ ५०.६३॥ इत्थं विष्णुश्च काश्यां प्रमथपतिमगात् पूज्य विश्वेश्वरं तं क्षितिसुरवरवर्यं चानुशास्येत्थमिष्टम् । स च मुनिगणमध्ये प्राप्य मुक्तिं तथान्ते प्रमथपतिपदाब्जे लीनहीनाङ्गसङ्गः ॥ ५०.६४॥ सूतः - इत्थं श्रुत्वा मुनीन्द्रोऽसौ जैगीषव्योऽवदद्विभुम् । प्रणिपत्य प्रहृष्टात्मा षष्ठांशं वै षडास्यतः ॥ ५०.६५॥ जैगीषव्यः - मारमारकजानन्दवसतेर्महिमा कथम् । नाम्नां सहस्रमेतच्च वद मे करुणानिधे ॥ ५०.६६॥ क्षेत्राणां चाप्यथान्यानां महिमां वद सद्गुरो । शूरतारकसंहर्तस्त्वत्तो नान्यो गुरुर्मम ॥ ५०.६७॥ तच्छ्रुत्वा तु मुनेर्वाक्यं स्कन्दः प्राहाथ तं मुनिम् । स्कन्दः - आगामिन्यंशकेऽस्मिंस्तव हृदयमहानन्दसिन्धौ विधूत्थ- प्राचुर्यप्रकटैः करोपममहासप्तमांशे विशेषे । नाम्नां चापि सहस्रकं भगवतः शम्भोः प्रियं केवलं अस्यानन्दवनस्य चैव महिमा त्वं वै शृणुष्वादरात् ॥ ५०.६८॥ उग्रोंऽशः शशिशेखरेण कथितो वेदान्तसारात्मकः षष्ठः षण्मुखसत्तमाय स ददौ तद्ब्रह्मणे सोऽप्यदात् । पुत्रायात्मभवाय तद्भवहरं श्रुत्वा भवेद् ज्ञानवित् चोक्त्वा जन्मशतायुतार्जितमहापापैर्विमुक्तो भवेत् ॥ ५०.६९॥ श्रुत्वांशमेतद् भवतापपापहं शिवास्पदज्ञानदमुत्तमं महत् । ध्यानेन विज्ञानदमात्मदर्शनं ददाति शम्भोः पदभक्तिभावतः ॥ ५०.७०॥ सूतः - अध्यायपादाध्ययनेऽपि विद्या बुद्ध्या हृदि ध्यायति बन्धमुक्त्यै । स्वाध्यायतान्ताय शमान्विताय दद्याद्यदद्यान्न विभेद्यमेतत् ॥ ५०.७१॥ इत्थं सूतवचोद्यतमहानन्दैकमोदप्रभा भास्वद्भास्करसप्रभा मुनिवराः संतुष्टुवुस्तं तदा । वेदोद्यद्वचनाशिषा प्रहृषिताः सूतं जयेत्युच्चरन् प्याहो जग्मुरतीव हर्षितहृदा विश्वेश्वरं वीक्षितुम् ॥ ५०.७२॥ ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे सुदर्शनस्य मुक्तिलाभवर्णनं अंशश्रवणफलनिरूपणं च नाम पञ्चाशोऽध्यायः ॥ ॥ शङ्कराख्यः षष्ठांशः समाप्तः॥ ॥ सर्वं श्रीरमणार्पणमस्तु ॥
Encoded by Anil Sharma anilandvijaya at gmail.com Reproofread by Sunder Hattangadi sunderh at hotmail.com

% Text title            : RibhugItA shivarahasyAntargataM
% File name             : RGall.itx
% itxtitle              : RibhugItA (shivarahasyAntargatA)
% engtitle              : Ribhu Gita from Shiva Rahasya
% Category              : gItA, giitaa
% Location              : doc_giitaa
% Sublocation           : giitaa
% Language              : Sanskrit
% Subject               : religion
% Transliterated by     : Anil Sharma anilandvijaya at gmail.com
% Proofread by          : Sunder Hattangadi (sunderh at hotmail.com)
% Description-comments  : shivarahasyAntargatam
% Latest update         : February 24, 2013
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP