॥ ऋषभगीता ॥

अध्यायः १२४ य् इमे जना नरश्रेष्ठ प्रशंसन्ति सदा भुवि । धर्मस्य शीलमेवादौ ततो मे संशयो महान् ॥ १॥ यदि तच्छक्यमस्माभिर्ज्ञातुं धर्मभृतां वर । श्रोतुमिच्छामि तत्सर्वं यथैतदुपलभ्यते ॥ २॥ कथं नु प्राप्यते शीलं श्रोतुमिच्छामि भारत । किं लक्षणं च तत्प्रोक्तं ब्रूहि मे वदतां वर ॥ ३॥ भ् पुरा दुर्योधनेनेह धृतराष्ट्राय मानद । आख्यातं तप्यमानेन श्रियं दृष्ट्वा तथागताम् ॥ ४॥ इन्द्रप्रस्थे महाराज तव स भ्रातृकस्य ह । सभायां चावहसनं तत्सर्वं शृणु भारत ॥ ५॥ भवतस्तां सभां दृष्ट्वा समृद्धिं चाप्यनुत्तमाम् । दुर्योधनस्तदासीनः सर्वं पित्रे न्यवेदयत् ॥ ६॥ श्रुत्वा च धृतराष्ट्रोऽपि दुर्योधन वचस्तदा । अब्रवीत्कर्ण सहितं दुर्योधनमिदं वचः ॥ ७॥ किमर्थं तप्यसे पुत्र श्रोतुमिच्छामि तत्त्वतः । श्रुत्वा त्वामनुनेष्यामि यदि सम्यग्भविष्यसि ॥ ८॥ यथा त्वं महदैश्वर्यं प्राप्तः परपुरञ्जय । किङ्करा भ्रातरः सर्वे मित्राः सम्बन्धिनस्तथा ॥ ९॥ आच्छादयसि प्रावारानश्नासि पिशितौदनम् । आजानेया वहन्ति त्वां कस्माच्छोचसि पुत्रक ॥ १०॥ द् दश तानि सहस्राणि स्नातकानां महात्मनाम् । भुञ्जते रुक्मपात्रीषु युधिष्ठिर निवेशने ॥ ११॥ दृष्ट्वा च तां सभां दिव्यां दिव्यपुष्पफलान्विताम् । अश्वांस्तित्तिर कल्माषान्रत्नानि विविधानि च ॥ १२॥ दृष्ट्वा तां पाण्डवेयानामृद्धिमिन्द्रोपमां शुभाम् । अमित्राणां सुमहतीमनुशोचामि मानद ॥ १३॥ ध् यदीच्छसि श्रियं तात यादृशीं तां युधिष्ठिरे । विशिष्टां वा नरव्याघ्र शीलवान्भव पुत्रक ॥ १४॥ शीलेन हि त्रयो लोकाः शक्या जेतुं न संशयः । न हि किं चिदसाध्यं वै लोके शीलवतां भवेत् ॥ १५॥ एकरात्रेण मान्धाता त्र्यहेण जनमेजयः । सप्तरात्रेण नाभागः पृथिवीं प्रतिपेदिवान् ॥ १६॥ एते हि पार्थिवाः सर्वे शीलवन्तो दमान्विताः । अतस्तेषां गुणक्रीता वसुधा स्वयमागमत् ॥ १७॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । नारदेन पुरा प्रोक्तं शीलमाश्रित्य भारत ॥ १८॥ प्रह्रादेन हृतं राज्यं महेन्द्रस्य महात्मनः । शीलमाश्रित्य दैत्येन त्रैलोक्यं च वशीकृतम् ॥ १९॥ ततो बृहस्पतिं शक्रः प्राञ्जलिः समुपस्थितः । उवाच च महाप्राज्ञः श्रेय इच्छामि वेदितुम् ॥ २०॥ ततो बृहस्पतिस्तस्मै ज्ञानं नैःश्रेयसं परम् । कथयामास भगवान्देवेन्द्राय कुरूद्वह ॥ २१॥ एतावच्छ्रेय इत्येव बृहस्पतिरभाषत । इन्द्रस्तु भूयः पप्रच्छ क्व विशेषो भवेदिति ॥ २२॥ ब् विशेषोऽस्ति महांस्तात भार्गवस्य महात्मनः । तत्रागमय भद्रं ते भूय एव पुरन्दर ॥ २३॥ ध् आत्मनस्तु ततः श्रेयो भार्गवात्सुमहायशाः । ज्ञानमागमयत्प्रीत्या पुनः स परमद्युतिः ॥ २४॥ तेनापि समनुज्ञातो भागवेण महात्मना । श्रेयोऽस्तीति पुनर्भूयः शुक्रमाह शतक्रतुः ॥ २५॥ भार्गवस्त्वाह धर्मज्ञः प्रह्रादस्य महात्मनः । ज्ञानमस्ति विशेषेण ततो हृष्टश् च सोऽभवत् ॥ २६॥ स ततो ब्राह्मणो भूत्वा प्रह्रादं पाकशासनः । सृत्वा प्रोवाच मेधावी श्रेय इच्छामि वेदितुम् ॥ २७॥ प्रह्रादस्त्वब्रवीद्विप्रं क्षणो नास्ति द्विजर्षभ । त्रैलोक्यराज्ये सक्तस्य ततो नोपदिशामि ते ॥ २८॥ ब्राह्मणस्त्वब्रवीद्वाक्यं कस्मिन्काले क्षणो भवेत् । ततोपदिष्टमिच्छामि यद्यत्कार्यान्तरं भवेत् ॥ २९॥ ततः प्रीतोऽभवद्राजा प्रह्रादो ब्रह्मवादिने । तथेत्युक्त्वा शुभे काले ज्ञानतत्त्वं ददौ तदा ॥ ३०॥ ब्राह्मणोऽपि यथान्यायं गुरुवृत्तिमनुत्तमाम् । चकार सर्वभावेन यद्वत्स मनसेच्छति ॥ ३१॥ पृष्ठश्च तेन बहुशः प्राप्तं कथमरिन्दम । त्रैलोक्यराज्यं धर्मज्ञ कारणं तद्ब्रवीहि मे ॥ ३२॥ प् नासूयामि द्विजश्रेष्ठ राजास्मीति कदा चन । कव्यानि वदतां तात संयच्छामि वहामि च ॥ ३३॥ ते विस्रब्धाः प्रभाषन्ते संयच्छन्ति च मां सदा । ते मा कव्य पदे सक्तं शुश्रूषुमनसूयकम् ॥ ३४॥ धर्मात्मानं जितक्रोधं संयतं संयतेन्द्रियम् । समाचिन्वन्ति शास्तारः क्षौद्रं मध्विव मक्षिकाः ॥ ३५॥ सोऽहं वागग्रपिष्टानां रसानामवलेहिता । स्वजात्यानधितिष्ठामि नक्षत्राणीव चन्द्रमाः ॥ ३६॥ एतत्पृथिव्याममृतमेतच्चक्षुरनुत्तमम् । यद्ब्राह्मण मुखे कव्यमेतच्छ्रुत्वा प्रवर्तते ॥ ३७॥ ध् एतावच्छ्रेय इत्याह प्रह्रादो ब्रह्मवादिनम् । शुश्रूषितस्तेन तदा दैत्येन्द्रो वाक्यमब्रवीत् ॥ ३८॥ यथावद्गुरुवृत्त्या ते प्रीतोऽस्मि द्विजसत्तम । वरं वृणीष्व भद्रं ते प्रदातास्मि न संशयः ॥ ३९॥ कृतमित्येव दैत्येन्द्रमुवाच स च वै द्विजः । प्रह्रादस्त्वब्रवीत्प्रीतो गृह्यतां वर इत्युत ॥ ४०॥ ब्र् यदि राजन्प्रसन्नस्त्वं मम चेच्छसि चेद्धितम् । भवतः शीलमिच्छामि प्राप्तुमेष वरो मम ॥ ४१॥ ध् ततः प्रीतश्च दैत्येन्द्रो भयं चास्याभवन्महत् । वरे प्रदिष्टे विप्रेण नाल्पतेजायमित्युत ॥ ४२॥ एवमस्त्विति तं प्राह प्रह्रादो विस्मितस्तदा । उपाकृत्य तु विप्राय वरं दुःखान्वितोऽभवत् ॥ ४३॥ दत्ते वरे गते विप्रे चिन्तासीन्महती ततः । प्रह्रादस्य महाराज निश्चयं न च जग्मिवान् ॥ ४४॥ तस्य चिन्तयतस्तात छाया भूतं महाद्युते । तेजो विग्रहवत्तात शरीरमजहात्तदा ॥ ४५॥ तमपृच्छन्महाकायं प्रह्रादः को भवानिति । प्रत्याह ननु शीलोऽस्मि त्यक्तो गच्छाम्यहं त्वया ॥ ४६॥ तस्मिन्द्विज वरे राजन्वत्स्याम्यहमनिन्दितम् । योऽसौ शिष्यत्वमागम्य त्वयि नित्यं समाहितः । इत्युक्त्वान्तर्हितं तद्वै शक्रं चान्वविशत्प्रभो ॥ ४७॥ तस्मिंस्तेजसि याते तु तादृग्रूपस्ततोऽपरः । शरीरान्निःसृतस्तस्य को भवानिति चाब्रवीत् ॥ ४८॥ धर्मं प्रह्राद मां विद्धि यत्रासौ द्विजसत्तमः । तत्र यास्यामि दैत्येन्द्र यतः शीलं ततो ह्यहम् ॥ ४९॥ ततोऽपरो महाराज प्रज्वजन्निव तेजसा । शरीरान्निःसृतस्तस्य प्रह्रादस्य महात्मनः ॥ ५०॥ को भवानिति पृष्टश्च तमाह स महाद्युतिः । सत्यमस्म्यसुरेन्द्राग्र्य यास्येऽहं धर्ममन्विह ॥ ५१॥ तस्मिन्ननुगते धर्मं पुरुषे पुरुषोऽपरः । निश्चक्राम ततस्तस्मात्पृष्ठश्चाह महात्मना । वृत्तं प्रह्राद मां विद्धि यतः सत्यं ततो ह्यहम् ॥ ५२॥ तस्मिन्गते महाश्वेतः शरीरात्तस्य निर्ययौ । पृष्टश्चाह बलं विद्धि यतो वृत्तमहं ततः । इत्युक्त्वा च ययौ तत्र यतो वृत्तं नराधिप ॥ ५३॥ ततः प्रभामयी देवी शरीरात्तस्य निर्ययौ । तामपृच्छत्स दैत्येन्द्रः सा श्रीरित्येवमब्रवीत् ॥ ५४॥ उषितास्मि सुखं वीर त्वयि सत्यपराक्रमे । त्वया त्यक्ता गमिष्यामि बलं यत्र ततो ह्यहम् ॥ ५५॥ ततो भयं प्रादुरासीत्प्रह्रादस्य महात्मनः । अपृच्छत च तां भूयः क्व यासि कमलालये ॥ ५६॥ त्वं हि सत्यव्रता देवी लोकस्य परमेश्वरी । कश्चासौ ब्राह्मणश्रेष्ठस्तत्त्वमिच्छामि वेदितुम् ॥ ५७॥ ज़्री स शक्रो ब्रह्म चारी च यस्त्वया चोपशिक्षितः । त्रैलोक्ये ते यदैश्वर्यं तत्तेनापहृतं प्रभो ॥ ५८॥ शीलेन हि त्वया लोकाः सर्वे धर्मज्ञ निर्जिताः । तद्विज्ञाय महेन्द्रेण तव शीलं हृतं प्रभो ॥ ५९॥ धर्मः सत्यं तथा वृत्तं बलं चैव तथा ह्यहम् । शीलमूला महाप्राज्ञ सदा नास्त्यत्र संशयः ॥ ६०॥ भ् एवमुक्त्वा गता तु श्रीस्ते च सर्वे युधिष्ठिर । दुर्योधनस्तु पितरं भूय एवाब्रवीदिदम् ॥ ६१॥ शीलस्य तत्त्वमिच्छामि वेत्तुं कौरवनन्दन । प्राप्यते च यथा शीलं तमुपायं वदस्व मे ॥ ६२॥ ध् सोपायं पूर्वमुद्दिष्टं प्रह्रादेन महात्मना । सङ्क्षेपतस्तु शीलस्य शृणु प्राप्तिं नराधिप ॥ ६३॥ अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा । अनुग्रहश्च दानं च शीलमेतत्प्रशस्यते ॥ ६४॥ यदन्येषां हितं न स्यादात्मनः कर्म पौरुषम् । अपत्रपेत वा येन न तत्कुर्यात्कथं चन ॥ ६५॥ तत्तु कर्म तथा कुर्याद्येन श्लाघेत संसदि । एतच्छीलं समासेन कथितं कुरुसत्तम ॥ ६६॥ यद्यप्यशीला नृपते प्राप्नुवन्ति क्व चिच्छ्रियम् । न भुञ्जते चिरं तात स मूलाश् च पतन्ति ते ॥ ६७॥ एतद्विदित्वा तत्त्वेन शीलवान्भव पुत्रक । यदीच्छसि श्रियं तात सुविशिष्टां युधिष्ठिरात् ॥ ६८॥ भ् एतत्कथितवान्पुत्रे धृतराष्ट्रो नराधिप । एतत्कुरुष्व कौन्तेय ततः प्राप्स्यसि तत्फलम् ॥ ६९॥
अध्यायः १२५ य् शीलं प्रधानं पुरुषे कथितं ते पितामह । कथमाशा समुत्पन्ना या च सा तद्वदस्व मे ॥ १॥ संशयो मे महानेष समुत्पन्नः पितामह । छेत्ता च तस्य नान्योऽस्ति त्वत्तः परपुरञ्जय ॥ २॥ पितामहाशा महती ममासीद्धि सुयोधने । प्राप्ते युद्धे तु यद्युक्तं तत्कर्तायमिति प्रभो ॥ ३॥ सर्वस्याशा सुमहती पुरुषस्योपजायते । तस्यां विहन्यमानायां दुःखो मृत्युरसंशयम् ॥ ४॥ सोऽहं हताशो दुर्बुद्धिः कृतस्तेन दुरात्मना । धार्तराष्ट्रेण राजेन्द्र पश्य मन्दात्मतां मम ॥ ५॥ आशां महत्तरां मन्ये पर्वतादपि स द्रुमात् । आकाशादपि वा राजन्नप्रमेयैव वा पुनः ॥ ६॥ एषा चैव कुरुश्रेष्ठ दुर्विचिन्त्या सुदुर्लभा । दुर्लभत्वाच्च पश्यामि किमन्यद्दुर्लभं ततः ॥ ७॥ भ् अत्र ते वर्तयिष्यामि युधिष्ठिर निबोध तत् । इतिहासं सुमित्रस्य निर्वृत्तमृषभस्य च ॥ ८॥ सुमित्रो नाम राजर्षिर्हैहयो मृगयां गतः । ससार स मृगं विद्ध्वा बाणेन नतपर्वणा ॥ ९॥ स मृगो बाणमादाय ययावमितविक्रमः । स च राजा बली तूर्णं ससार मृगमन्तिकात् ॥ १०॥ ततो निम्नं स्थलं चैव स मृगोऽद्रवदाशुगः । मुहूर्तमेव राजेन्द्र समेन स पथागमत् ॥ ११॥ ततः स राजा तारुण्यादौरसेन बलेन च । ससार बाणासनभृत्सखड्गो हंसवत्तदा ॥ १२॥ तीर्त्वा नदान्नदींश्चैव पल्वलानि वनानि च । अतिक्रम्याभ्यतिक्रम्य ससारैव वनेचरन् ॥ १३॥ स तु कामान्मृगो राजन्नासाद्यासाद्य तं नृपम् । पुनरभ्येति जवनो जवेन महता ततः ॥ १४॥ स तस्य बाणैर्बहुभिः समभ्यस्तो वनेचरः । प्रक्रीडन्निव राजेन्द्र पुनरभ्येति चान्तिकम् ॥ १५॥ पुनश्च जवमास्थाय जवनो मृगयूथपः । अतीत्यातीत्य राजेन्द्र पुनरभ्येति चान्तिकम् ॥ १६॥ तस्य मर्मच्छिदं घोरं सुमित्रोऽमित्रकर्शनः । समादाय शरश्रेष्ठं कार्मुकान्निरवासृजत् ॥ १७॥ ततो गव्यूति मात्रेण मृगयूथप यूथपः । तस्य बान पथं त्यक्त्वा तस्थिवान्प्रहसन्निव ॥ १८॥ तस्मिन्निपतिते बाणे भूमौ प्रजलिते ततः । प्रविवेश महारण्यं मृगो राजाप्यथाद्रवत् ॥ १९॥ प्रविश्य तु महारण्यं तापसानामथाश्रमम् । आससाद ततो राजा श्रान्तश्चोपाविशत्पुनः ॥ २०॥ तं कार्मुकधरं दृष्ट्वा श्रमार्तं क्षुधितं तदा । समेत्य ऋषयस्तस्मिन्पूजां चक्रुर्यथाविधि ॥ २१॥ ऋषयो राजशार्दूलमपृच्छन्स्वं प्रयोजनम् । केन भद्र मुखार्थेन सम्प्राप्तोऽसि तपोवनम् ॥ २२॥ पदातिर्बद्धनिस्त्रिंशो धन्वी बाणी नरेश्वर । एतदिच्छाम विज्ञातुं कुतः प्राप्तोऽसि मानद । कस्मिन्कुले हि जातस्त्वं किंनामासि ब्रवीहि नः ॥ २३॥ ततः स राजा सर्वेभ्यो द्विजेभ्यः पुरुषर्षभ । आचख्यौ तद्यथान्यायं परिचर्यां च भारत ॥ २४॥ हैहयानां कुले जातः सुमित्रो मित्रनन्दनः । चरामि मृगयूथानि निघ्नन्बाणैः सहस्रशः । बलेन महता गुप्तः सामात्यः सावरोधनः ॥ २५॥ मृगस्तु विद्धो बाणेन मया सरति शल्यवान् । तं द्रवन्तमनु प्राप्तो वनमेतद्यदृच्छया । भवत्सकाशे नष्टश्रीर्हताशः श्रमकर्शितः ॥ २६॥ किं नु दुःखमतोऽन्यद्वै यदहं श्रमकर्शितः । भवतामाश्रमं प्राप्तो हताशो नष्टलक्षणः ॥ २७॥ न राज्यलक्षणत्यागो न पुरस्य तपोधनाः । दुःखं करोति तत्तीव्रं यथाशा विहता मम ॥ २८॥ हिमवान्वा महाशैलः समुद्रो वा महोदधिः । महत्त्वान्नान्वपद्येतां रोदस्योरन्तरं यथा । आशायास्तपसि श्रेष्ठास्तथा नान्तमहं गतः ॥ २९॥ भवतां विदितं सर्वं सर्वज्ञा हि तपोधनाः । भवन्तः सुमहाभागास्तस्मात्प्रक्ष्यामि संशयम् ॥ ३०॥ आशावान्पुरुषो यः स्यादन्तरिक्षमथापि वा । किं नु ज्यायस्तरं लोके महत्त्वात्प्रतिभाति वः । एतदिच्छामि तत्त्वेन श्रोतुं किमिह दुर्लभम् ॥ ३१॥ यदि गुह्यं तपोनित्या न वो ब्रूतेह माचिरम् । न हि गुह्यमतः श्रोतुमिच्छामि द्विजपुङ्गवाः ॥ ३२॥ भवत्तपो विघातो वा येन स्याद्विरमे ततः । यदि वास्ति कथा योगो योऽयं प्रश्नो मयेरितः ॥ ३३॥ एतत्कारणसामग्र्यं श्रोतुमिच्छामि तत्त्वतः । भवन्तो हि तपोनित्या ब्रूयुरेतत्समाहिताः ॥ ३४॥
अध्यायः १२६ भ् ततस्तेषां समस्तानामृषीणामृषिसत्तमः । ऋषभो नाम विप्रर्षिः स्मयन्निव ततोऽब्रवीत् ॥ १॥ पुराहं राजशार्दूल तीर्थान्यनुचरन्प्रभो । समासादितवान्दिव्यं नरनारायणाश्रमम् ॥ २॥ यत्र सा बदरी रम्या ह्रदो वैहायसस्तथा । यत्र चाश्वशिरा राजन्वेदान्पठति शाश्वतान् ॥ ३॥ तस्मिन्सरसि कृत्वाहं विधिवत्तर्पणं पुरा । पितॄणां देवतानां च ततोऽऽश्रममियां तदा ॥ ४॥ रेमाते यत्र तौ नित्यं नरनारायणावृषी । अदूरादाश्रमं कं चिद्वासार्थमगमं ततः ॥ ५॥ ततश्चीराजिनधरं कृशमुच्चमतीव च । अद्राक्षमृषिमायान्तं तनुं नाम तपो निधिम् ॥ ६॥ अन्यैर्नरैर्महाबाहो वपुषाष्ट गुणान्वितम् । कृशता चापि राजर्षे न दृष्टा तादृशी क्व चित् ॥ ७॥ शरीरमपि राजेन्द्र तस्य कानिष्ठिका समम् । ग्रीवा बाहू तथा पादौ केशाश्चाद्भुतदर्शनाः ॥ ८॥ शिरः कायानुरूपं च कर्णौ नेते तथैव च । तस्य वाक्चैव चेष्टा च सामान्ये राजसत्तम ॥ ९॥ दृष्ट्वाहं तं कृशं विप्रं भीतः परमदुर्मनाः । पादौ तस्याभिवाद्याथ स्थितः प्राञ्जलिरग्रतः ॥ १०॥ निवेद्य नामगोत्रं च पितरं च नरर्षभ । प्रदिष्टे चासने तेन शनैरहमुपाविशम् ॥ ११॥ ततः स कथयामास कथा धर्मार्थसंहिताः । ऋषिमध्ये महाराज तत्र धर्मभृतां वरः ॥ १२॥ तस्मिंस्तु कथयत्येव राजा राजीवलोचनः । उपायाज्जवनैरश्वैः सबलः सावरोधनः ॥ १३॥ स्मरन्पुत्रमरण्ये वै नष्टं परमदुर्मनाः । भूरिद्युम्न पिता धीमान्रघुश्रेष्ठो महायशाः ॥ १४॥ इह द्रक्ष्यामि तं पुत्रं द्रक्ष्यामीहेति पार्थिवः । एवमाशाकृतो राजंश्चरन्वनमिदं पुरा ॥ १५॥ दुर्लभः स मया द्रष्टुं नूनं परमधार्मिकः । एकः पुत्रो महारण्ये नष्ट इत्यसकृत्तदा ॥ १६॥ दुर्लभः स मया द्रष्टुमाशा च महती मम । तया परीतगात्रोऽहं मुमूर्षुर्नात्र संशयः ॥ १७॥ एतच्छ्रुत्वा स भगवांस्तनुर्मुनिवरोत्तमः । अवाक्षिरा ध्यानपरो मुहूर्तमिव तस्थिवान् ॥ १८॥ तमनुध्यान्तमालक्ष्य राजा परमदुर्मनाः । उवाच वाक्यं दीनात्मा मन्दं मन्दमिवासकृत् ॥ १९॥ दुर्लभं किं नु विप्रर्षे आशायाश्चैव किं भवेत् । ब्रवीतु भगवानेतद्यदि गुह्यं न तन्मयि ॥ २०॥ महर्षिर्भगवांस्तेन पूर्वमासीद्विमानितः । बालिशां बुद्धिमास्थाय मन्दभाग्यतयात्मनः ॥ २१॥ अर्थयन्कलशं राजन्काञ्चनं वल्कलानि च । निर्विण्णः स तु विप्रर्षिर्निराशः समपद्यत ॥ २२॥ एवमुक्त्वाभिवाद्याथ तमृषिं लोकपूजितम् । श्रान्तो न्यषीदद्धर्मात्मा यथा त्वं नरसत्तम ॥ २३॥ अर्घ्यं ततः समानीय पाद्यं चैव महानृषिः । आरण्यकेन विधिना राज्ञे सर्वं न्यवेदयत् ॥ २४॥ ततस्ते मुनयः सर्वे परिवार्य नरर्षभम् । उपाविशन्पुरस्कृत्य सप्तर्षय इव ध्रुवम् ॥ २५॥ अपृच्छंश्चैव ते तत्र राजानमपराजितम् । प्रयोजनमिदं सर्वमाश्रमस्य प्रवेशनम् ॥ २६॥ राजा वीर द्युम्न इति ख्यातो राजाहं दिक्षु विश्रुतः । भूरि द्युम्नं सुतं नष्टमन्वेष्टुं वनमागतः ॥ २७॥ एकपुत्रः स विप्राग्र्य बाल एव च सोऽनघ । न दृश्यते वने चास्मिंस्तमन्वेष्टुं चराम्यहम् ॥ २८॥ र्सभ एवमुक्ते तु वचने राज्ञा मुनिरधोमुखः । तूष्णीमेवाभवत्तत्र न च प्रत्युक्तवान्नृपम् ॥ २९॥ स हि तेन पुरा विप्रो राज्ञा नात्यर्थ मानितः । आशा कृशं च राजेन्द्र तपो दीर्घं समास्थितः ॥ ३०॥ प्रतिग्रहमहं राज्ञां न करिष्ये कथं चन । अन्येषां चैव वर्णानामिति कृत्वा धियं तदा ॥ ३१॥ आशा हि पुरुषं बालं लालापयति तस्थुषी । तामहं व्यपनेष्यामि इति कृत्वा व्यवस्थितः ॥ ३२॥ र् आशायाः किं कृशत्वं च किं चेह भुवि दुर्लभम् । ब्रवीतु भगवानेतत्त्वं हि धर्मार्थदर्शिवान् ॥ ३३॥ र्सभ ततः संस्मृत्य तत्सर्वं स्मारयिष्यन्निवाब्रवीत् । राजानं भगवान्विप्रस्ततः कृश तनुस्तनुः ॥ ३४॥ कृशत्वे न समं राजन्नाशाया विद्यते नृप । तस्या वै दुर्लभत्वात्तु प्रार्थिताः पार्थिवा मया ॥ ३५॥ र् कृशाकृशे मया ब्रह्मन्गृहीते वचनात्तव । दुर्लभत्वं च तस्यैव वेद वाक्यमिव द्विज ॥ ३६॥ संशयस्तु महाप्राज्ञ सञ्जातो हृदये मम । तन्मे सत्तम तत्त्वेन वक्तुमर्हसि पृच्छतः ॥ ३७॥ त्वत्तः कृशतरं किं नु ब्रवीतु भगवानिदम् । यदि गुह्यं न ते विप्र लोकेऽस्मिन्किं नु दुर्लभम् ॥ ३८॥ क्र्ज़ातनु दुर्लभोऽप्यथ वा नास्ति योऽर्थी धृतिमिवाप्नुयात् । सुदुर्लभतरस्तात योऽर्थिनं नावमन्यते ॥ ३९॥ संश्रुत्य नोपक्रियते परं शक्त्या यथार्हतः । सक्ता या सर्वभूतेषु साशा कृशतरी मया ॥ ४०॥ एकपुत्रः पिता पुत्रे नष्टे वा प्रोषिते तथा । प्रवृत्तिं यो न जानाति साशा कृशतरी मया ॥ ४१॥ प्रसवे चैव नारीणां वृद्धानां पुत्र कारिता । तथा नरेन्द्र धनिनामाशा कृशतरी मया ॥ ४२॥ र्सभ एतच्छ्रुत्वा ततो राजन्स राजा सावरोधनः । संस्पृश्य पादौ शिरसा निपपात द्विजर्षभे ॥ ४३॥ राजा प्रसादये त्वा भगवन्पुत्रेणेच्छामि सङ्गतिम् । वृणीष्व च वरं विप्र यमिच्छसि यथाविधि ॥ ४४॥ र्सभ अब्रवीच्च हि तं वाक्यं राजा राजीवलोचनः । सत्यमेतद्यथा विप्र त्वयोक्तं नास्त्यतो मृषा ॥ ४५॥ ततः प्रहस्य भगवांस्तनुर्धर्मभृतां वरः । पुत्रमस्यानयत्क्षिप्रं तपसा च श्रुतेन च ॥ ४६॥ तं समानाय्य पुत्रं तु तदोपालभ्य पार्थिवम् । आत्मानं दर्शयामास धर्मं धर्मभृतां वरः ॥ ४७॥ सन्दर्शयित्वा चात्मानं दिव्यमद्भुतदर्शनम् । विपाप्मा विगतक्रोधश्चचार वनमन्तिकात् ॥ ४८॥ एतद्दृष्टं मया राजंस्ततश्च वचनं श्रुतम् । आशामपनयस्वाशु ततः कृशतरीमिमाम् ॥ ४९॥ भ् स तत्रोक्तो महाराज ऋषभेण महात्मना । सुमित्रोऽपनयत्क्षिप्रमाशां कृशतरीं तदा ॥ ५०॥ एवं त्वमपि कौन्तेय श्रुत्वा वाणीमिमां मम । स्थिरो भव यथा राजन्हिमवानचलोत्तमः ॥ ५१॥ त्वं हि द्रष्टा च श्रोता च कृच्छ्रेष्वर्थकृतेष्विह । श्रुत्वा मम महाराज न सन्तप्तुमिहार्हसि ॥ ५२॥ ॥ इति ऋषभगीता समाप्ता ॥ Adhyaya numbers 125, 127, 129 in shAntiparva, Mahabharata critical edition (Bhandarkar Oriental Research Institute BORI). In Kinjavadekar's edition they are 125-128. Sunder Hattangadi sunderh at hotmail.com

% Text title            : RiShabhagItA
% File name             : Rishhabhagiitaa.itx
% itxtitle              : RiShabhagItA
% engtitle              : RiShabhagItA
% Category              : gItA
% Location              : doc_giitaa
% Sublocation           : giitaa
% Language              : Sanskrit
% Subject               : religion
% Transliterated by     : Professor Tokunaga in Kyoto system(?)
% Proofread by          : Sunder Hattangadi(sunderh at hotmail.com)
% Indexextra            : mahAbhArata shAntiparva
% Latest update         : June 2, 1998
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP