अश्मकगीता भारतमञ्जर्यां क्षेमेन्द्रविरचिता
तस्मात्पालय भूपाल क्षत्त्रधर्मे स्थितः प्रजाः ।
क्षयं कालकृतं वीक्ष्य मा च शोके मनः कृथाः ॥ १३.१०७॥
भूत्वा भूत्वा प्रलीयन्ते कालेन कलिताः किल ।
लोकाः कालकलाजलैश्चित्रश्चायं भवश्रमः ॥ १३.१०८॥
उक्तं सेनजिता राज्ञा पुरा राजन्विवेकिना ।
दुःखे दृढं मनः कुर्यान्नर्तिशोकगदौषधम् ॥ १३.१०९॥
शोचतां धृतिहीनानां न शान्तिर्जायते क्वचित् ।
दुःखैरायान्ति दुःखानि धनानीव धनैर्नृणाम् ॥ १३.११०॥
दृष्ट्वा जगति जन्तूनां काले काले भवाभवम् ।
फलानामिव कालज्ञः कोऽनुशोचति तत्त्वधीः ॥ १३.१११॥
जनकेन पुरा पृष्टो जगाद ब्राह्मणोऽश्मकः ।
स्वभावनश्वरान्भावान्न शोचन्ति विवेकिनः ॥ १३.११२॥
न कश्चिद्दृश्यतेऽत्येतुं स्थावरेषु चरेषु च ।
शक्तो ह्यायुषि मर्यादां यः कालविहितां भवेत् ॥ १३.११३॥
धनमायुः शरीरं च जातिस्तरुणता तथा ।
भजन्ते कालवैचित्र्यान्नानारूपविपर्ययम् ॥ १३.११४॥
उच्चा नीचत्वमायान्ति विशीर्यन्ते च संहताः ।
भवन्ति किल कालेन निम्नान्युच्छ्रायवन्ति च ॥ १३.११५॥
हीनवंशाः कुलीनत्वं धनिनश्च दरिद्रताम् ।
यान्ति मूर्खाश्च वैदुष्यं दौर्भाग्यं सुभगास्तथा ॥ १३.११६॥
स्वल्पायुषश्च राजानो दरिद्राश्च शतायुषः ।
जराभग्नाश्च दृश्यन्ते रसायनविचक्षणाः ॥ १३.११७॥
धनिनो व्याधिसन्तप्ता दरिद्राश्च निरामयाः ।
आयुर्वेदविदो यान्ति तरुणा एव पञ्चताम् ॥ १३.११८॥
मूर्खाः सदाचाररताः पण्डिता धर्मवर्जिताः ।
भवन्ति कालविहतैस्तैस्तैः किल विपर्ययैः ॥ १३.११९॥
अपि त्रैलोक्यकर्तारस्चतुर्मुखमुखाः सुराः ।
न हि कालकटाक्षेण लक्षितं रक्षितुं क्षमाः ॥ १३.१२०॥
श्रीमतां हीनवित्तानां धीमतां जडचेतसाम् ।
तुल्यं निरनुरक्तो हि कालपण्यगृहे क्रयः ॥ १३.१२१॥
कालानिलविलोलानां देहिनां भवकानने ।
द्रुमाणामिव जायन्ते मिथो नित्यं गमागमाः ॥ १३.१२२॥
अकस्मात्सङ्गतो नाम यद्यकस्माद्विनश्यन्ति ।
शोकः किं तत्र जन्तूनां सततं हि गतागतम् ॥ १३.१२३॥
न वियोगेषु सन्तापः कार्यः किल विवेकिभिः ।
अभावानुभवे भावा भवे हि क्षणभङ्गिनः ॥ १३.१२४॥
अश्मकेनेति कथितं कथयित्वा मुनीश्वरः ।
विरराम समालोक्य गाढशोक युधिष्ठिरम् ॥ १३.१२५॥
इति भारतमञ्जर्यां क्षेमेन्द्रविरचिता अश्मकगीता समाप्ता ।