भगवद्गीता भारतमञ्जर्यां क्षेमेन्द्रविरचिता
१
अथ प्रथमोऽध्यायः ।
शृणु राजन्हतानन्तसामन्तः शन्तनोः सुतः ।
विदधे पाण्डुपुत्राणां यथा विजयसंशयम् ॥ ६.२८॥
वज्रसूचीमुखाख्याभ्यां प्यूहाभ्यां राजकुञ्जरैः
मिथो व्यूढेष्वनीकेषु गाङ्गेयेनार्जुनेन च ॥ ६.२९॥
तस्मिन्क्षत्त्रक्षयक्षेत्रे सर्वक्षत्त्रसमागमे ।
दुर्योधनेऽतिसंरब्धे पृथुसैन्याभिमानिनि ॥ ६.३०॥
गाङ्गेयशङ्खनादेन समुद्भूते बलार्णवे ।
शङ्खशब्देन पार्थानां पाञ्चजन्यानुयायिना ॥ ६.३१॥
पूरिते भुवनाभोगे दिक्षु विस्फूर्जितास्विव ।
सर्वसेनाश्रयः श्रीमान्विजयोऽच्युतसारथिः ॥ ६.३२॥
ददर्श कुरुसेनासु गुरुसम्बन्धिबान्धवान् ।
निजप्रतापदहने स तेषां शलभायितम् ।
मत्वा जगाद गोविन्दं विषण्णः करुणानिधिः ॥ ६.३३॥
अहो वत विमूढानां राज्यलेशे सुखाय नः ।
कृष्ण बन्धुवधेऽप्यस्मिन्ससंरम्भोऽयमुद्यमः ॥ ६.३४॥
अवतीर्य सदाचारस्तुतिक्रम्यकुलस्थितिम् ।
कथं गुरुवधप्राप्यां भजेदस्मद्विधऋ श्रियम् ॥ ६.३५॥
इत्युक्त्वा सास्रुनयनो बीभत्सुः कृपया रथे ।
करादुत्सृज्य गाण्डीवं निषसाद विषादवान् ॥ ६.३६॥
इति श्रीमद्भगवद्गीतासु प्रथमोऽध्यायः ॥ १॥
२
तं दृष्ट्वा शोकविवशं जगाद मधुसूदनः ।
अकाण्डे धैर्यसारस्य केयं कातरता तव ॥ ६.३७॥
तरस्वी क्षत्रियो मानी प्राणैरपि यशःक्रयी ।
निजां कुलस्थितिं पार्थ न धर्म्यां हातुमर्हसि ॥ ६.३८॥
संयुक्तं वा वियुक्तं वा नित्यं देहेन देहिनम् ।
विश्वमायाप्रपञ्चेऽस्मन्कोऽनुशोचति तत्त्वधीः ॥ ६.३९॥
सुखाद्यवस्था देहस्य काले काले यथाविधाः ।
देहिनोऽस्य तथा देहाः सतः सत्ताविवर्जिताः ॥ ६.४०॥
विषयेन्द्रियसंयोगान्क्षयिनो हर्षशोकदान् ।
सहते यो विलुप्तात्मा निर्वाणं तस्य शाश्वतम् ॥ ६.४१॥
अजस्य पुराणस्य देहिनोऽस्याविनाशिनः ।
जीर्णपर्णपरावृत्तितुल्येयं देहकल्पना ॥ ६.४२॥
आदिमध्यावसानेषु व्यक्ताव्यक्तस्वरूपिणः ।
सत एवास्य सततं न विरामः शरीरिणः ॥ ६.४३॥
अयशस्यमतस्त्यक्त्वा सङ्कोचं विपुलाशयः ।
जयाजयौ समं मत्वा विश स्वर्गोन्मुखो रणम् ॥ ६.४४॥
आस्थाय यौगिकीं बुद्धिं कर्मबन्धविवर्जितः ।
शुष्कवेदक्रियाहीनं गुणातीतं पदं भुज ॥ ६.४५॥
सर्ववेदेषु विदुषामेतदेव प्रयोजनम् ।
जलाशयेषु पूर्णेषु यथा सलिलहारिणाम् ॥ ६.४६॥
निःसङ्गः फलसन्न्यासी कुरु कर्म सदोदितः ।
परमेश्वरमेवाहि(?)वाणिज्यं हि फलार्थिनाम् ॥ ६.४७॥
यदा ते वीतमोहस्य बुद्धिर्यास्यति निर्वृतिम् ।
कृती भविष्यसि तदा श्रुतेष्वर्थेष्वनादरः ॥ ६.४८॥
इति ब्रुवाणः पार्थेन स्थितप्रज्ञस्य लक्षणम् ।
पृष्टः समाधिसक्तस्य भगवानित्यभाषत ॥ ६.४९॥
ईश्वरादपरो नाहमिति स्वानन्दनिर्भरः ।
निरस्ताखिलसङ्कल्पः स्थितप्रज्ञोऽभिधीयते ॥ ६.५०॥
आस्ते कूर्म इवाङ्गानि कामान्संवृत्ययः श्रयम् ।
विषयाध्यानविरहात्स्थितधीर्न स नश्यति ॥ ६.५१॥
कष्टैस्तपोभिर्विषयाः शुष्यन्त्येव रसं विना ।
अनादरविरक्तानां सदाप्यध्यात्मदर्शिनाम् ॥ ६.५२॥
निद्रार्लुभूतकालेषु प्रबुद्धिस्तिमिरेषु यः ।
स महाब्धिरिवाक्षोभ्यः स्थितिं ब्राह्मीं प्रपद्यते ॥ ६.५३॥
इति श्रीगीतासु द्वितीयोऽध्यायः ॥ २॥
३
श्रुत्वैतदर्जुनः कृष्णमुवाचाकुलिताशयः ।
कथमेवं वदन्घोरे समरेऽस्मिन्युनक्षि माम् ॥ ६.५४॥
कर्मणः श्रेयसी बुद्धिरित्युक्त्वापि स्वयं विभो ।
कर्म दुर्मतियोग्यं मां प्रशंससि विमोहयन् ॥ ६.५५॥
श्रेयो वदेत्युक्तवति श्वेताश्वे केशवोऽब्रवीत् ।
निष्ठा प्रज्ञानकर्मभ्यां मयोक्ता साङ्ख्ययोगयोः ॥ ६.५६॥
अनारम्भान्न च त्यागात्कर्मणो मुच्यते जनः ।
श्रोत्रादयो बलादस्य धावन्त्येव स्वकर्मसु ॥ ६.५७॥
स्मरन्ति मनसा सर्वं रुद्धकर्मेन्द्रिया अपि ।
मिथ्याचारानत्वसक्ताः(?)कर्मिणो नियतान्तराः ॥ ६.५८॥
श्रेयो ह्यकर्मणः कर्म न यज्ञः कर्मणा विना ।
यज्ञशेषाशिनः पुण्यद्रुमाः केवलभोगिनः ॥ ६.५९॥
कर्मस्थितोऽपि निःसंज्ञो(सङ्गो) यदा प्राप्नोति मानवः ।
आत्मारामदशास्तुष्ठस्तदा कार्यान्निवर्तते ॥ ६.६०॥
कर्मणैव गताः सिद्धिं जनकप्रमुखाः पुरा ।
तन्मा कार्यान्निवर्तस्व लोकस्त्वामनुवर्तताम् ॥ ६.६१॥
ममापि कृतकृत्यस्य कर्मेदं स्थितिरक्षिणः ।
विनस्यत्यन्यथा लोको मत्प्रमाणविशृङ्खलः ॥ ६.६२॥
पात्रं सर्वज्ञयोग्येषु नादरेषु पृथग्जनः ।
तस्मान्नोत्साहयेदेतान्पङ्गून्वेगगतानिव ॥ ६.६३॥
युध्यस्व सर्वकर्माणि मयि सन्न्यस्य निर्वृतः ।
तरन्ति हि तमो घोरं नित्यं मन्मतवर्तिनः ॥ ६.६४॥
प्रकृतेरुचितं सर्वं स्वधर्मनिरतः कुरु ।
रागद्वेषौ परित्यज्य प्रियाप्रियसमुद्भवौ ॥ ६.६५॥
श्रुत्वैतदर्जुनोऽवादीत्प्रेरितः केन पातकम् ।
चरत्यनीश्वरः प्राणी बलादिव वशीकृतः ॥ ६.६६॥
इति पृष्टो हृषीकेशो जगाद जगतां पतिः ।
रजोगुणसमुत्थेन हर्षशोकादिदायिना ॥ ६.६७॥
लोकसंहारशीलेन कामेन क्रोधबन्धुना ।
अहङ्कारेण बलिना घोरेणानेन वैरिणा ॥ ६.६८॥
शेवालेनैव सलिलं रजसेवामलं नभः ।
आवृतो मलिनोनात्मा मेघेनैवोदितो रविः ॥ ६.६९॥
मनोबुद्धिसमायुक्तं स्थानमिन्द्रियपञ्जरम् ।
यस्य तं दुःसहं शत्रुं कामरूप विनाशय ॥ ६.७०॥
इति श्रीमद्भगवद्गीतासु तृतीयोऽध्यायः ॥ ३॥
४
सूर्येणाप्तः पुरा मत्तो योगोऽयं मनुना ततः ।
य एव कालेनोत्सन्नस्तुभ्यमद्य मयोदितः ॥ ६.७१॥
अनेकजन्मसाक्षी त्वं भक्तः सहचरोऽपि मे ।
न तत्स्मृतिपथं यातं किन्तु ते प्राक्तनं वपुः ॥ ६.७२॥
अहं तु नित्यधरमस्य स्थितये गुप्तये सताम् ।
युगे युगे भवाम्येष विनाशाय दृरात्मनाम् ॥ ६.७३॥
अकृतं धर्मकर्तारं कर्मैतन्नावृणोति माम् ।
त्वमप्यसक्तो निष्कामः कुरु कर्म कुलोचितम् ॥ ६.७४॥
दुर्ज्ञेयः प्रविभागस्तु कर्माकर्मविकर्मणाम् ।
स्वोचितं फलहीनं च विरुद्धं चेति भेदतः ॥ ६.७५॥
कर्मणः फलसन्न्यासाद्योऽनुपश्यत्यकर्मताम् ।
जानात्यकर्मणः पापात्कर्म यश्च स बुद्धिमान् ॥ ६.७६॥
ज्ञानाग्निना दग्धकर्मा नित्यानन्दो निराश्रयः ।
निराशीर्निरहङ्कारो यज्वा ब्रह्मणि लीयते ॥ ६.७७॥
ब्रह्मार्पणेन ब्रह्मग्नौ हुत्वा ब्रह्ममयं हविः ।
प्राणयज्ञरतो याति ब्रह्म ब्रह्मसमाधिना ॥ ६.७८॥
संयमाग्नाविन्द्रियाणि विषयानिन्द्रियानले ।
तत्कर्माण्यात्मयोगाग्नौ हुत्वा यान्ति परां गतिम् ॥ ६.७९॥
येऽपि द्रव्यतपोयोगस्वाध्यायज्ञानयाजिनः ।
प्राणापानादिह विषो धृत्वा नाडीषु धारणम् ॥ ६.८०॥
समर्पयन्ति निखिलं ज्ञानं विगतकल्मषाः ।
ते प्रयान्ति परं धाम यज्ञशिष्टामृताशिनः ॥ ६.८१॥
तद्विधाः प्रणिपातेन सेविता ज्ञानिनस्त्वया ।
अयत्नात्त्वां विधास्यन्ति स्वात्मन्यखिलदर्शिनम् ॥ ६.८२॥
ज्ञानाग्निना दग्धपापः पवित्रेण भविष्यसि ।
कालेन श्रद्दधानानां स्वयं ज्ञानं प्रसीदति ॥ ६.८३॥
नश्यन्ति संशयजुषो मूढा न त्वस्तसंशयाः ।
ज्ञानिनः संशयं त्वस्मात्स्थित्वोत्तिष्ठ विभूतये ॥ ६.८४॥
इति श्रीमद्भगवद्गीतासु चतुर्थोऽध्यायः ॥ ४॥
५
निशम्य तत्पुनः पार्थः पप्रच्छ मधुसूदनम् ।
सन्न्यासकर्मयोगाभ्यां श्रेयो ब्रूहि जनार्दन ॥ ६.८५॥
इति पृष्टोऽवदच्छौरिरुभावेतौ विमुक्तये ।
कर्मयोगस्तु सन्न्यासाद्विशिष्ट इति मे मतिः ॥ ६.८६॥
शृण्वन्तोऽपि वदन्तोऽपि स्पृशन्तोऽपि स्वकर्मणि ।
सक्ता अपि न सज्जन्ति पङ्के रविकरा इव ॥ ६.८७॥
तदेव विहितं किञ्चित्पुंसां सुकृतदुष्कृतम् ।
अज्ञानपिहिते ज्ञाने किं त्वेषा कर्मवासना ॥ ६.८८॥
ज्ञानेनोत्सारिता ज्ञानाः परां निष्ठामुपागताः ।
ब्राह्मणे वा श्वपाके वा विबुधाः समदृष्टयः ॥ ६.८९॥
बाह्ये सुखे विरक्तानां दुःखजन्मनि नश्वरे ।
अन्तःसुखारामतया परं ज्योतिः प्रसीदति ॥ ६.९०॥
बहिः स्पर्शान्समुत्सृज्य भ्रूमध्यनिहितेक्षणः ।
नासान्तरे समौ धृत्वा प्राणापानौ विमुक्तये ॥ ६.९१॥
कामरागमदद्वेषभयक्रोधविवर्जितः ।
अहन्ता ज्ञानतमसां शान्तिं विन्दत्यमत्सरः ॥ ६.९२॥
इति श्रीमद्भगवद्गीतासु पञ्चमोऽध्यायः ॥ ५॥
६
क्रियावानफलाकाङ्क्षी निजं कर्म करोति यः ।
आरुरुक्षुदशातीतो योगारूढो विमत्सरः ॥ ६.९३॥
कूटस्थो ज्ञानतृप्तश्च पश्यत्यात्मानमात्मना ।
समासनः समाकारो निस्तरङ्ग इवोदधिः ॥ ६.९४॥
घ्राणाग्रदर्शी शान्तात्मा मामुपैति समाधिना ।
युक्ताहारादिचेष्टस्य नित्यं निष्कम्पचेतसः ॥ ६.९५॥
आत्मलाभो भवत्येव त्यक्तकामस्य योगिनः ।
मनः संयम्य पश्यन्ति स्रवत्येतद्यतो यतः ॥ ६.९६॥
आत्मानं मां च सर्वत्र ममात्मनि तथाखिलम् ।
मनसश्चञ्चलस्यास्य वैराग्येणैव संयमः ॥ ६.९७॥
तथाभ्यासेन बलिना वातस्येव प्रमाथिनः ।
एतदाकर्ण्य कौन्तेयः पुनः पप्रच्छ केशवम् ॥ ६.९८॥
लोलत्वान्मनसो देव योगाद्भ्रष्टस्य का गतिः ।
अर्जुनेनेति भगवान्पुनः पृष्टोऽभ्यभाषत ॥ ६.९९॥
योगभ्रष्टोऽपि पुरुषः शुभकृत्तु भविष्यति ।
चिरं भुक्त्वा सुखं दिव्यं स कल्याणपुरः सरः ॥ ६.१००॥
भोगिनां योगिनां वापि सम्भूतो महतां कुले ।
पूर्वाभ्यस्तं पुनर्धीमाञ्जन्मभिः प्रतिपद्यते ।
तपो ज्ञानाधिकं योगं तस्माद्योगी भवार्जुन ॥ ६.१०१॥
इति श्रीमद्भगवद्गीतासु षष्ठोऽध्यायः ॥ ६॥
७
मयि न्यस्तमना नित्यं भक्त्या मां वेत्ति मानव ।
अष्टमूर्तिरहं सर्वं जीवभूतश्चराचरे ॥ ६.१०२॥
उत्पत्तिस्थितिसंहारकारणं मां विदुर्बुधाः ।
सर्वे मत्प्राणिता भावा मयि सर्वं प्रतिष्ठितम् ॥ ६.१०३॥
देवीं मायां दधानं मां न जानाति विमोहितः ।
ये तु जानन्ति मां मायां भवन्ति कृतिनः सदा ॥ ६.१०४॥
अर्थी जिज्ञासुरार्तो वा ज्ञानी वा मां प्रपद्यते ।
प्रियः प्रियस्य सततं ज्ञानिनस्त्वस्मि गोचरे ॥ ६.१०५॥
अनन्यदेवताभक्ताः श्रद्धावन्तो विसंशयाः ।
वासुदेवः सर्वमिति यजन्ते मां मुमुक्षवः ॥ ६.१०६॥
ते ब्रह्माध्यात्मकर्माख्यं साधिभूतं विदन्ति माम् ।
साधिदैवाधियज्ञं च देहव्युपरमेष्वपि ॥ ६.१०७॥
इति श्रीमद्भगवद्गीतासु सप्तमोऽध्यायः ॥ ७॥
८
अच्युतेनेत्यभिहिते शक्रसूनुरभाषत ।
किमेतद्ब्रह्म भगवन्नधियज्ञः किमुच्यते ॥ ६.१०८॥
इति पृष्टो हृषीकेशो बभाषे श्वेतवाहनम् ।
अनश्वरं परब्रह्म भावोऽध्यात्मा तथात्मनः ॥ ६.१०९॥
निःसङ्गो भवकृत्कर्म नश्वरेष्वधिभूतता ।
अधिदैवोऽहमेवात्र ह्यधियज्ञोऽप्यहं विभुः ॥ ६.११०॥
अन्तकाले स्मरन्तो मां प्रविशन्त्येव भाविताः ।
पर्यन्ते भावतुल्या हि नृणां जन्मान्तरस्थितिः ॥ ६.१११॥
कविं पुराणं शास्तारमणीयांसमणोरपि ।
परस्तात्तमसो नित्यं ये स्मरन्ति रविप्रभम् ॥ ६.११२॥
भ्रूमध्ये विहितप्राणा ब्रह्मरन्ध्रविभेदिनः ।
ओमित्येकाक्षरं ब्रह्म जपन्तो यान्ति ते परम् ॥ ६.११३॥
ब्रह्मादिभिर्भूतसर्गश्चक्रवत्परिवर्तते ।
परं मां प्रतिपन्नास्ते न भवन्ति भवे पुनः ॥ ६.११४॥
वैरञ्चेऽस्मिन्नहोरात्रे भवन्ति न भवन्ति च ।
भूतान्येकस्तु भगवानव्यक्तो न विनश्यति ।
तेजोमयमहः शुक्लो मोक्षायैवोत्तरायणम् ॥ ६.११५॥
इति श्रीमद्भगवद्गीतास्वष्टमोऽध्यायः ॥ ८॥
९
राजगुह्यमिदं चान्यत्पवित्रं शृणु फल्गुण ।
अश्रद्दधानो नाप्नोति मां संसारवशीकृतः ॥ ६.११६॥
सर्वकर्तरि भूतानि मयि सन्ति न तेष्वहम् ।
लोकाः स्थिता न स्थिताश्च मयि व्योम्नीव वायवः ॥ ६.११७॥
अधिष्ठितैषा प्रकृतिर्मया सूते चराचरम् ।
असक्तं मां न जानन्ति मलिनामोघदर्शिनः ॥ ६.११८॥
सर्वं सर्वगतं यज्ञं वेद्यं बीजं भवाभवम् ।
विदन्ति मां सुकुतिनः सर्वकारणकारणम् ॥ ६.११९॥
त्रयीधर्मजुषः स्वर्गभोगलाभक्षयाकुलाः ।
न प्राप्नुवन्ति मां शुष्कक्रियापाशवशीकृताः ॥ ६.१२०॥
मदेकशरणा नित्यं कृतिनोऽनन्ययाजिनः ।
अप्यन्ययोनिसम्भूताः स्वयमायान्ति यत्पदम् ॥ ६.१२१॥
इति श्रीमद्भगवद्गीतासु नवमोऽध्यायः ॥ ९॥
१०
भूयोऽपि मे शृणु सखे प्रीत्या यत्प्रतिबोध्यसे ।
न तत्त्वेनामरगणा मुनयो वा विदन्ति माम् ॥ ६.१२२॥
चराचरेऽस्मिन्प्रवरं यद्यत्पश्यसि भूतिमत् ।
तदहं सर्वभूतात्मा न हि किञ्चिन्मया विना ॥ ६.१२३॥
अहं विष्णुरहं सूर्यश्चन्द्रोऽहं मघवानहम् ।
शङ्करोऽहं धनेशश्च वह्निः सुरगुरुस्तथा ।
अक्षरोऽहमहं कालो जयोऽहं भूतिरप्यहम् ॥ ६.१२४॥
इति श्रीमद्भगवद्गीतासु दशमोऽध्यायः ॥ १०॥
११
श्रुत्वैतदवदत्पार्थो जाने त्वां सर्वमच्युत ।
किन्तु विश्वमयं रूपं द्रष्टुमिच्छमि ते विभो ॥ ६.१२५॥
इत्युक्तः पाण्डुपुत्रेण भगवान्कैटभान्तकः ।
विश्वाविष्कारकलया विश्वरूपमदर्शयत् । ६.१२६॥
तस्यानन्तशिरोनेत्रसहस्रभुजशालिनः ।
देहे जगन्निवासस्य लीनं विश्वमदृश्यत ॥ ६.१२७॥
अतिसूर्याग्निमहसा तेजसा पूरिताम्बरम् ।
दृष्ट्वा पुलकितः पार्थस्तमुवाच कृताञ्जलिः ॥ ६.१२८॥
पश्याम्युदग्रगीर्वाणग्रामव्याप्तोरुविग्रहम् ।
त्वां येन पूरितं सर्वमनवच्छिन्नवर्ष्मणा ॥ ६.१२९॥
ब्रह्मरुद्रमरुद्वह्निमुनीन्द्रभुजगाकुलम् ।
द्रष्टुं तदेव पर्यन्तरहितं नोत्सहे वपुः ॥ ६.१३०॥
भीष्मद्रोणमुखान्वीरान्प्रविष्टान्वदनानि ते ।
दंष्ट्रोत्कटानि पश्यामि कालस्येव युगक्षये ॥ ६.१३१॥
को भवान्सर्वसंहारारौद्रेण वपुषासूदनः ।
अकाण्डे दग्धुमखिलान्स्वयं लोकान्समुद्यतः ॥ ६.१३२॥
इत्युक्तवति कौन्तेये जगाद मधुसूदनः ।
अहं जगत्क्षयोत्क्षोपदीक्षितः क्षितिपान्तकः ॥ ६.१३३॥
कुरुसेनाग्रगान्वीरान्पूर्वं विनिहतान्मया ।
हत्वा यशःश्रिया जृष्टमवाप्नुहि कुलोचितम् ॥ ६.१३४॥
तच्छ्रुत्वा कालियारातेर्वचः पार्थः कृताञ्जलिः ।
उवाच कम्पितमनाः प्रणतो गद्गदस्वनः ॥ ६.१३५॥
कीर्त्या जगन्ति हृष्यन्ति स्तुतया सिद्धचारणैः ।
दीप्त्या द्रवन्ति रक्षांसि स्थाने तव जनार्दन ॥ ६.१३६॥
नौमि त्वां जगदावासं विश्वरूपमधोक्षजम् ।
अनन्तं शाश्वतं धाम सर्वात्मानं पुनः पुनः ॥ ६.१३७॥
क्षम्यतां तत्सुहृदिति स्वयं यत्प्रणतप्रियः ।
उक्तोऽसि कृष्ण गोविन्द यादवेति पुरा मया ॥ ६.१३८॥
उग्रं तदेवं भगवन्दृष्ट्वा रूपमहं महत् ।
चक्रारूढमिवाशेषं पश्यामि निखिलं जगत् । ६.१३९॥
प्रसीद दर्शय विभो वपुः सौम्यं तदेव मे ।
शान्तिं मे याति सहसा नान्यता व्यथितं मनः ॥ ६.१४०॥
इति प्रसादितः कृष्णः प्रणतेन किरीटिना ।
अदर्शयन्निजं रूपं तदेवाथ चतुर्भुजम् ॥ ६.१४१॥
देवा अपि न पश्यन्ति ममेदं सर्वगं वपुः ।
इत्युक्त्वाश्वासयामास कौन्तेयं कमलाधवः ॥ ६.१४२॥
इति श्रीमद्भगवद्गीतास्वेकादशोऽध्यायः ॥ ११॥
१२
अथार्जुनोऽवदत्कृष्णं ये भक्तास्त्वामुपासते ।
अव्यक्तमक्षरं ये च तेषां केऽधिकयोगिनः ॥ ६.१४३॥
पार्थेनेति हरिः पृष्टो विहितानुग्रहोऽवदत् ।
मद्भक्ताः श्रद्धयोपेताः सर्वथा योगिनोऽधिकाः ॥ ६.१४४॥
क्लेशेनैव तु मत्प्राप्तिरव्यक्ताक्षरसेवनात् ।
सूक्ष्मस्थूलगतिर्दुःखं तत्त्वज्ञैरप्यवाप्यते ॥ ६.१४५॥
मद्भक्तास्त्वचिरादेव प्राप्नुवन्ति परं पदम् ।
अतस्त्वं मन्मना नित्यमनन्यनिरतो भव ॥ ६.१४६॥
वशे यदि न ते चित्तमभ्यासेन गृहाण तत् ।
तत्राप्यशक्तो मत्कर्मा सततं श्रेयसे भव ॥ ६.१४७॥
अथवा फलसन्न्यासं कर्मणां कुरु मत्परः ।
ज्ञानं हि परमाभ्यासाज्ज्ञानाद्ध्यानमिहोत्तमम् ॥ ६.१४८॥
ध्यानाच्च फलसन्न्यासस्ततः शान्तिर्विशिष्यते ।
अद्वेष्टा करुणासिन्धुः सुखदुःखसमः शमी ॥ ६.१४९॥
उदासीनः शुचिर्दक्षः क्षमी भक्तः प्रियो मम ।
इति श्रीमद्भगवद्गीतासु द्वादशोऽध्यायः ॥ १२॥
१३
शरीरं क्षेत्रमित्याहुः क्षेत्रज्ञं मां विदुर्बुधाः ।
क्षेत्रं तत्सविकारं तु माया भूतादि च स्थितम् ॥ ६.१५०॥
शान्तानां दृष्टदोषाणां ज्ञानिनां न विमोहनम् ।
मानदम्भमदक्रोधत्यागो गुरुनिषेवणम् ॥ ६.१५१॥
असक्तिर्नश्वरे नित्यं ज्ञानमज्ञानमन्यथा ।
ज्ञेयं तु मन्मयं ब्रह्म शुद्धं सदसतोः परम् ॥ ६.१५२॥
सर्वतः पाणिवदनं सर्वाकारमनामयम् ।
प्रकृतिः पुरुषश्चेति क्षेत्रक्षेत्रज्ञसङ्गमः ॥ ६.१५३॥
प्रकृतिः करणे हेतुर्भोक्ता तु पुरुषः स्मृतः ।
एकस्थानं पृथग्भावं भूतानां योऽनुपश्यति ॥ ६.१५४॥
तत्सङ्गमाच्च विस्तारं स याति ब्रह्म शाश्वतम् ।
परमात्मा गुणातीतो नित्यत्वादयमव्ययः ।
भौतिकेऽपि स्थितः काये सर्वव्यापी न लिप्यते ॥ ६.१५५॥
इति श्रीमद्भगवद्गीतासु त्रयोदशोऽध्यायः ॥ १३॥
१४
सर्वज्ञानमिदं भूयः श्रूयतां सुरसेवितम् ।
यद्योगो ब्रह्मगर्भेऽस्मिन्सम्भवन्मूर्तिसम्भवः ॥ ६.१५६॥
सत्त्वादयस्तदुद्भूता विभान्त्येते गुणास्त्रयः ।
वैचित्र्यादनिशं येषां संसरन्ति शरीरिणः ॥ ६.१५७॥
सत्त्वं प्रकाशकं ज्ञेयं यदुत्थैः स्तम्भकं रजः ।
तमो ह्यावरणं मोहप्रमादाद्यस्य सम्भवः ॥ ६.१५८॥
सततं सङ्करेणैषां न्यूनाधिक्यविभेदतः ।
गुणदोषाश्च दृश्यन्ते ते ते किल शरीरिणाम् ॥ ६.१५९॥
मद्भक्ताः शान्तमनसो जीवन्मुक्तिदशां श्रिताः ।
गुणैरेतैः परित्यक्ता भजन्ते सुखमक्षयम् ॥ ६.१६०॥
इति श्रीमद्भगवद्गीतासु चतुर्दशोऽध्यायः ॥ १४॥
१५
ऊर्ध्वमूलं भवाश्वत्थमाब्रह्मसदनोदितम् ।
लोकान्तरानेकशाखं विचित्रविषयाङ्कुरम् ॥ ६.१६१॥
गुणकर्मप्रबुद्धानां शुभाशुभफलोदयम् ।
स्वभावभूमाववृतं जानीते यः स वेदवित् । ६.१६२॥
तमसङ्गकुठारेण च्छित्त्वा यान्ति पदं मम ।
निरस्तमोहं वैमल्यादतिसूर्येन्दुपावकम् ॥ ६.१६३॥
यदंशो जीवलोकेऽस्मिञ्जीवश्चरति सर्वगः ।
वायुर्गन्धमिवादाय यो यातीन्द्रियवासनाः ॥ ६.१६४॥
तद्विधं गुणयुक्तानां सर्वावस्थासु निर्गुणम् ।
पश्यन्ति ज्ञानिनः सर्वजगतां जीवनं परम् ॥ ६.१६५॥
भूतसर्गामिवागत्य अक्षरोऽहं सनातनः ।
मन्मया धृतिमन्तो मां भजन्ते पुरुषोत्तमम् ॥ ६.१६६॥
इति श्रीमद्भगवद्गीतासु पञ्चदशोऽध्यायः ॥ १५॥
१६
अभीः सत्त्वं शुचिर्ज्ञानं दमो दानं तपः क्रतुः ।
अहिंसाया गुणाश्चान्ये जायन्ते दिव्यसम्पदाम् ॥ ६.१६७॥
दम्भमानमदक्रोधपारुष्याज्ञानचापलैः ।
आसुरी सूच्यते सम्पन्मोहसोकविवर्धिनी ॥ ६.१६८॥
युक्तोऽपि सततं दिव्यसम्पदा मा शुचः सखे ।
आसुरं भावमापन्ना भजन्ते योनिमासुरीम् ॥ ६.१६९॥
सत्त्वादिभिर्गुणैर्बद्धो ज्ञायते चेष्टितैर्जनः ।
मनोभोजनमाचारो गुणतुल्यो हि देहिनाम् ॥ ६.१७०॥
इति श्रीमद्भगवद्गीतासु षोडशोऽध्यायः ॥ १६॥
१७
आकर्ण्यैतदथोवाच फल्गुनः पुनरच्युतम् ।
सन्न्यासत्यागयोस्तत्वं ज्ञातुमिच्छाम्यहं विभो ॥ ६.१७१॥
उक्ते पाण्डुसुतेनेति भगवानभ्यभाषत ।
काम्यकर्मफलत्यागं सन्न्यासं सम्प्रचक्षते ॥ ६.१७२॥
सर्वकर्मफलत्यागस्त्याग इत्यभिधीयते ।
म(स)त्कर्म न परित्याज्यं त्याज्यं तु विधिगर्हितम् ॥ ६.१७३॥
नित्यकर्मपरित्यागो मोहात्तामस उच्यते ।
क्लेशदुःखभयात्त्यागो राजसो निष्फलः स्मृतः ।
कुर्वतामप्यसक्तानां त्यागः सत्त्वोचितो मतः ॥ ६.१७४॥
इति श्रीमद्भगवद्गीतासु सप्तदशोऽध्यायः ॥ १७॥
१८
कर्म कर्ता च बुद्धिश्च त्रिविधा गुणभेदतः ।
धृतिः सुखं च त्रैगुण्यात्त्रिविधं देहिनां मतम् ॥ ६.१७५॥
यथोक्तसेवी निःसङ्गः कुरु कर्म निजं सखे ।
मद्भक्तो मत्स्तुतिपरः परं पदमवाप्स्यसि ॥ ६.१७६॥
इदं भक्ताय ते ज्ञानमुपदिष्टं मया स्वयम् ।
यः श्रोष्यति स संसारदुःखान्यतितरिष्यति ॥ ६.१७७॥
कच्चिन्मोहो विनष्टस्ते कच्चिदेतच्छ्रुतं त्वया ।
केशवेनेति कथिते बभाषे शक्रनन्दनः ॥ ६.१७८॥
भगवन्वीतमोहोऽहं करिष्ये तव शासनम् ।
उक्त्वेति वीरो गाण्डीवमाचकर्ष रणोत्सुकः ॥ ६.१७९॥
इति श्रीमद्भगवद्गीतास्वष्टादशोऽध्यायः ॥ १८॥
इति भारतमञ्जर्यां क्षेमेन्द्रविरचिता भगवद्गीता समाप्ता ।