॥ ब्राह्मणगीता ॥

अध्यायः २१ ब्राह्मण उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम् । निबोध दश होतॄणां विधानमिह यादृशम् ॥ १॥ सर्वमेवात्र विज्ञेयं चित्तं ज्ञानमवेक्षते । रेतः शरीरभृत्काये विज्ञाता तु शरीरभृत् ॥ २॥ शरीरभृद्गार्हपत्यस्तस्मादन्यः प्रणीयते । ततश्चाहवनीयस्तु तस्मिन्सङ्क्षिप्यते हविः ॥ ३॥ ततो वाचस्पतिर्जज्ञे समानः पर्यवेक्षते । रूपं भवति वै व्यक्तं तदनुद्रवते मनः ॥ ४॥ ब्राह्मण्युवाच कस्माद्वागभवत्पूर्वं कस्मात्पश्चान्मनोऽभवत् । मनसा चिन्तितं वाक्यं यदा समभिपद्यते ॥ ५॥ केन विज्ञानयोगेन मतिश्चित्तं समास्थिता । समुन्नीता नाध्यगच्छत्को वैनां प्रतिषेधति ॥ ६॥ ब्राह्मण उवाच तामपानः पतिर्भूत्वा तस्मात्प्रेष्यत्यपानताम् । तां मतिं मनसः प्राहुर्मनस्तस्मादवेक्षते ॥ ७॥ प्रश्नं तु वान्मनसोर्मां यस्मात्त्वमनुपृच्छसि । तस्मात्ते वर्तयिष्यामि तयोरेव समाह्वयम् ॥ ८॥ उभे वान्मनसी गत्वा भूतात्मानमपृच्छताम् । आवयोः श्रेष्ठमाचक्ष्व छिन्धि नौ संशयं विभो ॥ ९॥ मन इत्येव भगवांस्तदा प्राह सरस्वतीम् । अहं वै कामधुक्तुभ्यमिति तं प्राह वागथ ॥ १०॥ स्थावरं जङ्गमं चैव विद्ध्युभे मनसी मम । स्थावरं मत्सकाशे वै जङ्गमं विषये तव ॥ ११॥ यस्तु ते विषयं गच्छेन्मन्त्रो वर्णः स्वरोऽपि वा । तन्मनो जङ्गमं नाम तस्मादसि गरीयसी ॥ १२॥ यस्मादसि च मा वोचः स्वयमभ्येत्य शोभने । तस्मादुच्छ्वासमासाद्य न वक्ष्यसि सरस्वति ॥ १३॥ प्राणापानान्तरे देवी वाग्वै नित्यं स्म तिष्ठति । प्रेर्यमाणा महाभागे विना प्राणमपानती । प्रजापतिमुपाधावत्प्रसीद भगवन्निति ॥ १४॥ ततः प्राणः प्रादुरभूद्वाचमाप्याययन्पुनः । तमादुच्छ्वासमासाद्य न वाग्वदति कर्हि चित् ॥ १५॥ घोषिणी जातनिर्घोषा नित्यमेव प्रवर्तते । तयोरपि च घोषिण्योर्निर्घोषैव गरीयसी ॥ १६॥ गौरिव प्रस्रवत्येषा रसमुत्तमशालिनी । सततं स्यन्दते ह्येषा शाश्वतं ब्रह्मवादिनी ॥ १७॥ दिव्यादिव्य प्रभावेन भारती गौः शुचिस्मिते । एतयोरन्तरं पश्य सूक्ष्मयोः स्यन्दमानयोः ॥ १८॥ अनुत्पन्नेषु वाक्येषु चोद्यमाना सिसृक्षया । किं नु पूर्वं ततो देवी व्याजहार सरस्वती ॥ १९॥ प्राणेन या सम्भवते शरीरे प्राणादपानम्प्रतिपद्यते च । उदान भूता च विसृज्य देहं व्यानेन सर्वं दिवमावृणोति ॥ २०॥ ततः समाने प्रतितिष्ठतीह इत्येव पूर्वं प्रजजल्प चापि । तस्मान्मनः स्थावरत्वाद्विशिष्टं तथा देवी जङ्गमत्वाद्विशिष्टा ॥ २१॥ इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि एकविंशोऽध्यायः ॥
अध्यायः २२ ब्राह्मण उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम् । सुभगे सप्त होतॄणां विधानमिह यादृशम् ॥ १॥ घ्राणं चक्षुश्च जिह्वा च त्वक्ष्रोत्रं चैव पञ्चमम् । मनो बुद्धिश्च सप्तैते होतारः पृथगाश्रिताः ॥ २॥ सूक्ष्मेऽवकाशे सन्तस्ते न पश्यन्तीतरेतरम् । एतान्वै सप्त होतॄंस्त्वं स्वभावाद्विद्धि शोभने ॥ ३॥ ब्राह्मण्युवाच सूक्ष्मेऽवकाशे सन्तस्ते कथं नान्योन्य दर्शिनः । कथं स्वभावा भगवन्नेतदाचक्ष्व मे विभो ॥ ४॥ ब्राह्मण उवाच गुणाज्ञानमविज्ञानं गुणि ज्ञानमभिज्ञता । परस्परगुणानेते न विजानन्ति कर्हि चित् ॥ ५॥ जिह्वा चक्षुस्तथा श्रोत्रं त्वन्मनो बुद्धिरेव च । न गन्धानधिगच्छन्ति घ्राणस्तानधिगच्छति ॥ ६॥ घ्राणं चक्षुस्तथा श्रोत्रं त्वन्मनो बुद्धिरेव च । न रसानधिगच्छन्ति जिह्वा तानदिघच्छति ॥ ७॥ घ्राणं जिह्वा तथा श्रोत्रं त्वन्मनो बुद्धिरेव च । न रूपाण्यधिगच्छन्ति चक्षुस्तान्यधिगच्छति ॥ ८॥ घ्राणं जिह्वा च चक्षुश्च श्रोत्रं बुद्धिर्मनस्तथा । न स्पर्शानधिगच्छन्ति त्वक्च तानधिगच्छति ॥ ९॥ घ्राणं जिह्वा च चक्षुश् च त्वन्मनो बुद्धिरेव च । न शब्दानधिगच्छन्ति श्रोत्रं तानधिगच्छति ॥ १०॥ घ्राणं जिह्वा च चक्षुश्च त्वक्ष्रोत्रं बुद्धिरेव च । संशयान्नाधिगच्छन्ति मनस्तानधिगच्छति ॥ ११॥ घ्राणं जिह्वा च चक्षुश्च त्वक्ष्रोत्रं मन एव च । न निष्ठामधिगच्छन्ति बुद्धिस्ताम् अधिगच्छति ॥ १२॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । इन्द्रियाणां च संवादं मनसश्चैव भामिनि ॥ १३॥ मन उवाच न घ्राति मामृते घ्राणं रसं जिह्वा न बुध्यते । रूपं चक्षुर्न गृह्णाति त्वक्स्पर्शं नावबुध्यते ॥ १४॥ न श्रोत्रं बुध्यते शब्दं मया हीनं कथं चन । प्रवरं सर्वभूतानामहमस्मि सनातनम् ॥ १५॥ अगाराणीव शून्यानि शान्तार्चिष इवाग्नयः । इन्द्रियाणि न भासन्ते मया हीनानि नित्यशः ॥ १६॥ काष्ठानीवार्द्र शुष्काणि यतमानैरपीन्द्रियैः । गुणार्थान्नाधिगच्छन्ति मामृते सर्वजन्तवः ॥ १७॥ इन्द्रियाण्यूचुः एवमेतद्भवेत्सत्यं यथैतन्मन्यते भवान् । ऋतेऽस्मानस्मदर्थांस्तु भोगान्भुङ्क्ते भवान्यदि ॥ १८॥ यद्यस्मासु प्रलीनेषु तर्पणं प्राणधारणम् । भोगान्भुङ्क्ते रसान्भुङ्क्ते यथैतन्मन्यते तथा ॥ १९॥ अथ वास्मासु लीनेषु तिष्ठत्सु विषयेषु च । यदि सङ्कल्पमात्रेण भुङ्क्ते भोगान्यथार्थवत् ॥ २०॥ अथ चेन्मन्यसे सिद्धिमस्मदर्थेषु नित्यदा । घ्राणेन रूपमादत्स्व रसमादत्स्व चक्षुषा ॥ २१॥ श्रोत्रेण गन्धमादत्स्व निष्ठामादत्स्व जिह्वया । त्वचा च शब्दमादत्स्व बुद्ध्या स्पर्शमथापि च ॥ २२॥ बलवन्तो ह्यनियमा नियमा दुर्बलीयसाम् । भोगानपूर्वानादत्स्व नोच्छिष्टं भोक्तुमर्हसि ॥ २३॥ यथा हि शिष्यः शास्तारं श्रुत्यर्थमभिधावति । ततः श्रुतमुपादाय श्रुतार्थमुपतिष्ठति ॥ २४॥ विषयानेवमस्माभिर्दर्शितानभिमन्यसे । अनागतानतीतांश्च स्वप्ने जागरणे तथा ॥ २५॥ वैमनस्यं गतानां च जन्तूनामल्पचेतसाम् । अस्मदर्थे कृते कार्ये दृश्यते प्राणधारणम् ॥ २६॥ बहूनपि हि सङ्कल्पान्मत्वा स्वप्नानुपास्य च । बुभुक्षया पीड्यमानो विषयानेव धावसि ॥ २७॥ अगारमद्वारमिव प्रविश्य सङ्कल्पभोगो विषयानविन्दन् । प्राणक्षये शान्तिमुपैति नित्यं दारु क्षयेऽग्निर्ज्वलितो यथैव ॥ २८॥ कामं तु नः स्वेषु गुणेषु सङ्गः कामच नान्योन्य गुणोपलब्धिः । अस्मानृते नास्ति तवोपलब्धिस् त्वामप्यृतेऽस्मान्न भजेत हर्षः ॥ २९॥ इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि द्वाविंशोऽध्यायः ॥
अध्यायः २३ ब्राह्मण उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम् । सुभगे पञ्च होतॄणां विधानमिह यादृशम् ॥ १॥ प्राणापानावुदानश्च समानो व्यान एव च । पञ्च होतॄनथैतान्वै परं भावं विदुर्बुधाः ॥ २॥ ब्राह्मण्युवाच स्वभावात्सप्त होतार इति ते पूर्विका मतिः । यथा वै पञ्च होतारः परो भावस्तथोच्यताम् ॥ ३॥ ब्राह्मण उवाच प्राणेन सम्भृतो वायुरपानो जायते ततः । अपाने सम्भृतो वायुस्ततो व्यानः प्रवर्तते ॥ ४॥ व्यानेन सम्भृतो वायुस्तदोदानः प्रवर्तते । उदाने सम्भृतो वायुः समानः सम्प्रवर्तते ॥ ५॥ तेऽपृच्छन्त पुरा गत्वा पूर्वजातं प्रजापतिम् । यो नो ज्येष्ठस्तमाचक्ष्व स नः श्रेष्ठो भविष्यति ॥ ६॥ ब्रह्मोवाच यस्मिन्प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे । यस्मिन्प्रचीर्णे च पुनश् चरन्ति स वै श्रेष्ठो गच्छत यत्र कामः ॥ ७॥ प्राण उवाच मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे । मयि प्रचीर्णे च पुनश् चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥ ८॥ ब्राह्मण उवाच प्राणः प्रलीयत ततः पुनश्च प्रचचार ह । समानश्चाप्युदानश्च वचोऽब्रूतां ततः शुभे ॥ ९॥ न त्वं सर्वमिदं व्याप्य तिष्ठसीह यथा वयम् । न त्वं श्रेष्ठोऽसि नः प्राण अपानो हि वशे तव । प्रचचार पुनः प्राणस्तमपानोऽभ्यभाषत ॥ १०॥ मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे । मयि प्रचीर्णे च पुनश् चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥ ११॥ व्यानश्च तमुदानश्च भाषमाणमथोचतुः । अपान न त्वं श्रेष्ठोऽसि प्राणो हि वशगस्तव ॥ १२॥ अपानः प्रचचाराथ व्यानस्तं पुनरब्रवीत् । श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना ॥ १३॥ मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे । मयि प्रचीर्णे च पुनश् चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥ १४॥ प्रालीयत ततो व्यानः पुनश्च प्रचचार ह । प्राणापानावुदानश्च समानश् च तमब्रुवन् । न त्वं श्रेष्ठोऽसि नो व्यान समानो हि वशे तव ॥ १५॥ प्रचचार पुनर्व्यानः समानः पुनरब्रवीत् । श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना ॥ १६॥ मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे । मयि प्रचीर्णे च पुनश् चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥ १७॥ ततः समानः प्रालिल्ये पुनश्च प्रचचार ह । प्राणापानावुदानश्च व्यानश् चैव तमब्रुवन् । समानन त्वं श्रेष्ठोऽसि व्यान एव वशे तव ॥ १८॥ समानः प्रचचाराथ उदानस्तमुवाच ह । श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना ॥ १९॥ मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे । मयि प्रचीर्णे च पुनश् चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥ २०॥ ततः प्रालीयतोदानः पुनश्च प्रचचार ह । प्राणापानौ समानश्च व्यानश् चैव तमब्रुवन् । उदान न त्वं श्रेष्ठोऽसि व्यान एव वशे तव ॥ २१॥ ततस्तानब्रवीद्ब्रह्मा समवेतान्प्रजापतिः । सर्वे श्रेष्ठा न वा श्रेष्ठाः सर्वे चान्योन्य धर्मिणः । सर्वे स्वविषये श्रेष्ठाः सर्वे चान्योन्य रक्षिणः ॥ २२॥ एकः स्थिरश्चास्थिरश्च विशेषात्पञ्च वायवः । एक एव ममैवात्मा बहुधाप्युपचीयते ॥ २३॥ परस्परस्य सुहृदो भावयन्तः परस्परम् । स्वस्ति व्रजत भद्रं वो धारयध्वं परस्परम् ॥ २४॥ इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि त्रयोविंशोऽध्यायः ॥
अध्यायः २४ ब्राह्मण उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम् । नारदस्य च संवादमृषेर्देवमतस्य च ॥ १॥ देवमत उवाच जन्तोः सञ्जायमानस्य किं नु पूर्वं प्रवर्तते । प्राणोऽपानः समानो वा व्यानो वोदान एव च ॥ २॥ नारद उवाच येनायं सृज्यते जन्तुस्ततोऽन्यः पूर्वमेति तम् । प्राणद्वन्द्वं च विज्ञेयं तिर्यगं चोर्ध्वगं च यत् ॥ ३॥ देवमत उवाच केनायं सृज्यते जन्तुः कश्चान्यः पूर्वमेति तम् । प्राणद्वन्द्वं च मे ब्रूहि तिर्यगूर्ध्वं च निश्चयात् ॥ ४॥ नारद उवाच सङ्कल्पाज्जायते हर्षः शब्दादपि च जायते । रसात्सञ्जायते चापि रूपादपि च जायते ॥ ५॥ स्पर्शात्सञ्जायते चापि गन्धादपि च जायते । एतद्रूपमुदानस्य हर्षो मिथुन सम्भवः ॥ ६॥ कामात्सञ्जायते शुक्रं कामात्सञ्जायते रसः । समानव्यान जनिते सामान्ये शुक्रशोणिते ॥ ७॥ शुक्राच्छोणित संसृष्टात्पूर्वं प्राणः प्रवर्तते । प्राणेन विकृते शुक्रे ततोऽपानः प्रवर्तते ॥ ८॥ प्राणापानाविदं द्वन्द्वमवाक्चोर्ध्वं च गच्छतः । व्यानः समानश्चैवोभौ तिर्यग्द्वन्द्वत्वमुच्यते ॥ ९॥ अग्निर्वै देवताः सर्वा इति वेदस्य शासनम् । सञ्जायते ब्राह्मणेषु ज्ञानं बुद्धिसमन्वितम् ॥ १०॥ तस्य धूमस्तमो रूपं रजो भस्म सुरेतसः । सत्त्वं सञ्जायते तस्य यत्र प्रक्षिप्यते हविः ॥ ११॥ आघारौ समानो व्यानश्चेति यज्ञविदो विदुः । प्राणापानावाज्यभागौ तयोर्मध्ये हुताशनः । एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ १२॥ निर्द्वन्द्वमिति यत्त्वेतत्तन्मे निगदतः शृणु ॥ १३॥ अहोरात्रमिदं द्वन्द्वं तयोर्मध्ये हुताशनः । एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ १४॥ उभे चैवायने द्वन्द्वं तयोर्मध्ये हुताशनः । एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ १५॥ उभे सत्यानृते द्वन्द्वं तयोर्मध्ये हुताशनः । एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ १६॥ उभे शुभाशुभे द्वन्द्वं तयोर्मध्ये हुताशनः । एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ १७॥ सच्चासच्चैव तद्द्वन्द्वं तयोर्मध्ये हुताशनः । एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ १८॥ प्रथमं समानो व्यानो व्यस्यते कर्म तेन तत् । तृतीयं तु समानेन पुनरेव व्यवस्यते ॥ १९॥ शान्त्यर्थं वामदेवं च शान्तिर्ब्रह्म सनातनम् । एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ २०॥ इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि चतुर्विंशोऽध्यायः ॥
अध्यायः २५ ब्राह्मण उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम् । चातुर्होत्र विधानस्य विधानमिह यादृशम् ॥ १॥ तस्य सर्वस्य विधिवद्विधानमुपदेक्ष्यते । शृणु मे गदतो भद्रे रहस्यमिदमुत्तमम् ॥ २॥ करणं कर्म कर्ता च मोक्ष इत्येव भामिनि । चत्वार एते होतारो यैरिदं जगदावृतम् ॥ ३॥ होतॄणां साधनं चैव शृणु सर्वमशेषतः । घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पञ्चमम् । मनो बुद्धिश्च सप्तैते विज्ञेया गुणहेतवः ॥ ४॥ गन्धो रसश्च रूपं च शब्दः स्पर्शश्च पञ्चमः । मन्तव्यमथ बोद्धव्यं सप्तैते कर्महेतवः ॥ ५॥ घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः । मन्ता बोद्धा च सप्तैते विज्ञेयाः कर्तृहेतवः ॥ ६॥ स्वगुणं भक्षयन्त्येते गुणवन्तः शुभाशुभम् । अहं च निर्गुणोऽत्रेति सप्तैते मोक्षहेतवः ॥ ७॥ विदुषां बुध्यमानानां स्वं स्वस्थानं यथाविधि । गुणास्ते देवता भूताः सततं भुञ्जते हविः ॥ ८॥ अदन्ह्यविद्वानन्नानि ममत्वेनोपपद्यते । आत्मार्थं पाचयन्नित्यं ममत्वेनोपहन्यते ॥ ९॥ अभक्ष्य भक्षणं चैव मद्य पानं च हन्ति तम् । स चान्नं हन्ति तच्चान्नं स हत्वा हन्यते बुधः ॥ १०॥ अत्ता ह्यन्नमिदं विद्वान्पुनर्जनयतीश्वरः । स चान्नाज्जायते तस्मिन्सूक्ष्मो नाम व्यतिक्रमः ॥ ११॥ मनसा गम्यते यच्च यच्च वाचा निरुध्यते । श्रोत्रेण श्रूयते यच्च चक्षुषा यच्च दृश्यते ॥ १२॥ स्पर्शेन स्पृश्यते यच्च घ्राणेन घ्रायते च यत् । मनःषष्ठानि संयम्य हवींष्येतानि सर्वशः ॥ १३॥ गुणवत्पावको मह्यं दीप्यते हव्यवाहनः । योगयज्ञः प्रवृत्तो मे ज्ञानब्रह्म मनोद्भवः । प्राणस्तोत्रोऽपान शस्त्रः सर्वत्यागसु दक्षिणः ॥ १४॥ कर्मानुमन्ता ब्रह्मा मे कर्ताध्वर्युः कृतस्तुतिः । कृतप्रशास्ता तच्छास्त्रमपवर्गोऽस्य दक्षिणा ॥ १५॥ ऋचश्चाप्यत्र शंसन्ति नारायण विदो जनाः । नारायणाय देवाय यदबध्नन्पशून्पुरा ॥ १६॥ तत्र सामानि गायन्ति तानि चाहुर्निदर्शनम् । देवं नारायणं भीरु सर्वात्मानं निबोध मे ॥ १७॥ इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि पञ्चविंशोऽध्यायः ॥
अध्यायः २६ ब्राह्मण उवाच एकः शास्ता न द्वितीयोऽस्ति शास्ता यथा नियुक्तोऽस्मि तथा चरामि । हृद्येष तिष्ठन्पुरुषः शास्ति शास्ता तेनैव युक्तः प्रवणादिवोदकम् ॥ १॥ एको गुरुर्नास्ति ततो द्वितीयो यो हृच्छयस्तमहमनुब्रवीमि । तेनानुशिष्टा गुरुणा सदैव पराभूता दानवाः सर्व एव ॥ २॥ एको बन्धुर्नास्ति ततो द्वितीयो यो हृच्छयस्तमहमनुब्रवीमि । तेनानुशिष्टा बान्धवा बन्धुमन्तः सप्तर्षयः सप्त दिवि प्रभान्ति ॥ ३॥ एकः श्रोता नास्ति ततो द्वितीयो यो हृच्छयस्तमहमनुब्रवीमि । तस्मिन्गुरौ गुरु वासं निरुष्य शक्रो गतः सर्वलोकामरत्वम् ॥ ४॥ एको द्वेष्टा नास्ति ततो द्वितीयो यो हृच्छयस्तमहमनुब्रवीमि । तेनानुशिष्टा गुरुणा सदैव लोकद्विष्टाः पन्नगाः सर्व एव ॥ ५॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । प्रजापतौ पन्नगानां देवर्षीणां च संविदम् ॥ ६॥ देवर्षयश्च नागाश्च असुराश्च प्रजापतिम् । पर्यपृच्छन्नुपासीनाः श्रेयो नः प्रोच्यताम् इति ॥ ७॥ तेषां प्रोवाच भगवाञ्श्रेयः समनुपृच्छताम् । ओमित्येकाक्षरं ब्रह्म ते श्रुत्वा प्राद्रवन्दिशः ॥ ८॥ तेषां प्राद्रवमाणानामुपदेशार्थमात्मनः । सर्पाणां दशने भावः प्रवृत्तः पूर्वमेव तु ॥ ९॥ असुराणां प्रवृत्तस्तु दम्भभावः स्वभावजः । दानं देवा व्यवसिता दममेव महर्षयः ॥ १०॥ एकं शास्तारमासाद्य शब्देनैकेन संस्कृताः । नाना व्यवसिताः सर्वे सर्पदेवर्षिदानवाः ॥ ११॥ शृणोत्ययं प्रोच्यमानं गृह्णाति च यथातथम् । पृच्छतस्तावतो भूयो गुरुरन्योऽनुमन्यते ॥ १२॥ तस्य चानुमते कर्म ततः पश्चात्प्रवर्तते । गुरुर्बोद्धा च शत्रुश्च द्वेष्टा च हृदि संश्रितः ॥ १३॥ पापेन विचरँल्लोके पापचारी भवत्ययम् । शुभेन विचरँल्लोके शुभचारी भवत्युत ॥ १४॥ कामचारी तु कामेन य इन्द्रियसुखे रतः । व्रतवारी सदैवैष य इन्द्रियजये रतः ॥ १५॥ अपेतव्रतकर्मा तु केवलं ब्रह्मणि श्रितः । ब्रह्मभूतश्चरँल्लोके ब्रह्म चारी भवत्ययम् ॥ १६॥ ब्रह्मैव समिधस्तस्य ब्रह्माग्निर्ब्रह्म संस्तरः । आपो ब्रह्म गुरुर्ब्रह्म स ब्रह्मणि समाहितः ॥ १७॥ एतदेतादृशं सूक्ष्मं ब्रह्मचर्यं विदुर्बुधाः । विदित्वा चान्वपद्यन्त क्षेत्रज्ञेनानुदर्शिनः ॥ १८॥ इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि षड्विंशोऽध्यायः ॥
अध्यायः २७ ब्राह्मण उवाच सङ्कल्पदंश मशकं शोकहर्षहिमातपम् । मोहान्ध कारतिमिरं लोभव्याल सरीसृपम् ॥ १॥ विषयैकात्ययाध्वानं कामक्रोधविरोधकम् । तदतीत्य महादुर्गं प्रविष्टोऽस्मि महद्वनम् ॥ २॥ ब्राह्मण्युवाच क्व तद्वनं महाप्राज्ञ के वृक्षाः सरितश्च काः । गिरयः पर्वताश् चैव कियत्यध्वनि तद्वनम् ॥ ३॥ न तदस्ति पृथग्भावे किं चिदन्यत्ततः समम् । न तदस्त्यपृथग्भावे किं चिद्दूरतरं ततः ॥ ४॥ तस्माद्ध्रस्वतरं नास्ति न ततोऽस्ति बृहत्तरम् । नास्ति तस्माद्दुःखतरं नास्त्यन्यत्तत्समं सुखम् ॥ ५॥ न तत्प्रविश्य शोचन्ति न प्रहृष्यन्ति च द्विजाः । न च बिभ्यति केषां चित्तेभ्यो बिभ्यति के च न ॥ ६॥ तस्मिन्वने सप्त महाद्रुमाश् च फलानि सप्तातिथयश् च सप्त । सप्ताश्रमाः सप्त समाधयश् च दीक्षाश्च सप्तैतदरण्यरूपम् ॥ ७॥ पञ्च वर्णानि दिव्यानि पुष्पाणि च फलानि च । सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥ ८॥ सुवर्णानि द्विवर्णानि पुष्पाणि च फलानि च । सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥ ९॥ चतुर्वर्णाणि दिव्यानि पुष्पाणि च फलानि च । सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥ १०॥ शङ्कराणित्रि वर्णानि पुष्पाणि च फलानि च । सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥ ११॥ सुरभीण्येकवर्णानि पुष्पाणि च फलानिच । सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥ १२॥ बहून्यव्यक्तवर्णानि पुष्पाणि च फलानिच । विसृजन्तौ महावृक्षौ तद्वनं व्याप्य तिष्ठतः ॥ १३॥ एको ह्यग्निः सुमना ब्राह्मणोऽत्र पञ्चेन्द्रियाणि समिधश्चात्र सन्ति । तेभ्यो मोक्षाः सप्त भवन्ति दीक्षा गुणाः फलान्यतिथयः फलाशाः ॥ १४॥ आतिथ्यं प्रतिगृह्णन्ति तत्र सप्तमहर्षयः । अर्चितेषु प्रलीनेषु तेष्वन्यद्रोचते वनम् ॥ १५॥ प्रतिज्ञा वृक्षमफलं शान्तिच्छाया समन्वितम् । ज्ञानाश्रयं तृप्तितोयमन्तः क्षेत्रज्ञभास्करम् ॥ १६॥ योऽधिगच्छन्ति तत्सन्तस्तेषां नास्ति भयं पुनः । ऊर्ध्वं चावाक्च तिर्यक्च तस्य नान्तोऽधिगम्यते ॥ १७॥ सप्त स्त्रियस्तत्र वसन्ति सद्यो अवाङ्मुखा भानुमत्यो जनित्र्यः । ऊर्ध्वं रसानां ददते प्रजाभ्यः सर्वान्यथा सर्वमनित्यतां च ॥ १८॥ तत्रैव प्रतितिष्ठन्ति पुनस्तत्रोदयन्ति च । सप्त सप्तर्षयः सिद्धा वसिष्ठप्रमुखाः सह ॥ १९॥ यशो वर्चो भगश्चैव विजयः सिद्धितेजसी । एवमेवानुवर्तन्ते सप्त ज्योतींषि भास्करम् ॥ २०॥ गिरयः पर्वताश्चैव सन्ति तत्र समासतः । नद्यश्च सरितो वारिवहन्त्यो ब्रह्म सम्भवम् ॥ २१॥ नदीनां सङ्गमस्तत्र वैतानः समुपह्वरे । स्वात्म तृप्ता यतो यान्ति साक्षाद्दान्ताः पितामहम् ॥ २२॥ कृशाशाः सुव्रताशाश्च तपसा दग्धकिल्बिषाः । आत्मन्यात्मानमावेश्य ब्रह्माणं समुपासते ॥ २३॥ ऋचमप्यत्र शंसन्ति विद्यारण्यविदो जनाः । तदरण्यमभिप्रेत्य यथा धीरमजायत ॥ २४॥ एतदेतादृशं दिव्यमरण्यं ब्राह्मणा विदुः । विदित्वा चान्वतिष्ठन्त क्षेत्रज्ञेनानुदर्शितम् ॥ २५॥ इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि सप्तविंशोऽध्यायः ॥
अध्यायः २८ ब्राह्मण उवाच गन्धान्न जिघ्रामि रसान्न वेद्मि रूपं न पश्यामि न च स्पृशामि । न चापि शब्दान्विविधाञ्शृणोमि न चापि सङ्कल्पमुपैमि किं चित् ॥ १॥ अर्थानिष्टान्कामयते स्वभावः सर्वान्द्वेष्यान्प्रद्विषते स्वभावः । कामद्वेषावुद्भवतः स्वभावात् प्राणापानौ जन्तु देहान्निवेश्य ॥ २॥ तेभ्यश्चान्यांस्तेष्वनित्यांश्च भावान् भूतात्मानं लक्षयेयं शरीरे । तस्मिंस्तिष्ठन्नास्मि शक्यः कथं चित् कामक्रोधाभ्यां जरया मृत्युना च ॥ ३॥ अकामयानस्य च सर्वकामान् अविद्विषाणस्य च सर्वदोषान् । न मे स्वभावेषु भवन्ति लेपास् तोयस्य बिन्दोरिव पुष्करेषु ॥ ४॥ नित्यस्य चैतस्य भवन्ति नित्या निरीक्षमाणस्य बहून्स्वभावान् । न सज्जते कर्मसु भोगजालं दिवीव सूर्यस्य मयूखजालम् ॥ ५॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । अध्वर्यु यति संवादं तं निबोध यशस्विनि ॥ ६॥ प्रोक्ष्यमाणं पशुं दृष्ट्वा यज्ञकर्मण्यथाब्रवीत् । यतिरध्वर्युमासीनो हिंसेयमिति कुत्सयन् ॥ ७॥ तमध्वर्युः प्रत्युवाच नायं छागो विनश्यति । श्रेयसा योक्ष्यते जन्तुर्यदि श्रुतिरियं तथा ॥ ८॥ यो ह्यस्य पार्थिवो भागः पृथिवीं स गमिष्यति । यदस्य वारिजं किं चिदपस्तत्प्रतिपद्यते ॥ ९॥ सूर्यं चक्षुर्दिशः श्रोत्रे प्राणोऽस्य दिवमेव च । आगमे वर्तमानस्य न मे दोषोऽस्ति कश् चन ॥ १०॥ यतिरुवाच प्राणैर्वियोगे छागस्य यदि श्रेयः प्रपश्यसि । छागार्थे वर्तते यज्ञो भवतः किं प्रयोजनम् ॥ ११॥ अनु त्वा मन्यतां माता पिता भ्राता सखापि च । मन्त्रयस्वैनमुन्नीय परवन्तं विशेषतः ॥ १२॥ य एवमनुमन्येरंस्तान्भवान्प्रष्टुमर्हति । तेषामनुमतं श्रुत्वा शक्या कर्तुं विचारणा ॥ १३॥ प्राणा अप्यस्य छागस्य प्रापितास्ते स्वयोनिषु । शरीरं केवलं शिष्टं निश्चेष्टमिति मे मतिः ॥ १४॥ इन्धनस्य तु तुल्येन शरीरेण विचेतसा । हिंसा निर्वेष्टु कामानामिन्धनं पशुसञ्ज्ञितम् ॥ १५॥ अहिंसा सर्वधर्माणामिति वृद्धानुशासनम् । यदहिंस्रं भवेत्कर्म तत्कार्यमिति विद्महे ॥ १६॥ अहिंसेति प्रतिज्ञेयं यदि वक्ष्याम्यतः परम् । शक्यं बहुविधं वक्तुं भवतः कार्यदूषणम् ॥ १७॥ अहिंसा सर्वभूतानां नित्यमस्मासु रोचते । प्रत्यक्षतः साधयामो न परोक्षमुपास्महे ॥ १८॥ अध्वर्युरुवाच भूमेर्गन्धगुणान्भुङ्क्ष्व पिबस्यापोमयान्रसान् । ज्योतिषां पश्यसे रूपं स्पृशस्यनिलजान्गुणान् ॥ १९॥ शृणोष्याकाशजं शब्दं मनसा मन्यसे मतिम् । सर्वाण्येतानि भूतानि प्राणा इति च मन्यसे ॥ २०॥ प्राणादाने च नित्योऽसि हिंसायां वर्तते भवान् । नास्ति चेष्टा विना हिंसां किं वा त्वं मन्यसे द्विज ॥ २१॥ यतिरुवाच अक्षरं च क्षरं चैव द्वैधी भावोऽयमात्मनः । अक्षरं तत्र सद्भावः स्वभावः क्षर उच्यते ॥ २२॥ प्राणो जिह्वा मनः सत्त्वं स्वभावो रजसा सह । भावैरेतैर्विमुक्तस्य निर्द्वन्द्वस्य निराशिषः ॥ २३॥ समस्य सर्वभूतेषु निर्ममस्य जितात्मनः । समन्तात्परिमुक्तस्य न भयं विद्यते क्व चित् ॥ २४॥ अध्वर्युरुवाच सद्भिरेवेह संवासः कार्यो मतिमतां वर । भवतो हि मतं श्रुत्वा प्रतिभाति मतिर्मम ॥ २५॥ भगवन्भगवद्बुद्ध्या प्रतिबुद्धो ब्रवीम्यहम् । मतं मन्तुं क्रतुं कर्तुं नापराधोऽस्ति मे द्विज ॥ २६॥ ब्राह्मण उवाच उपपत्त्या यतिस्तूष्णीं वर्तमानस्ततः परम् । अध्वर्युरपि निर्मोहः प्रचचार महामखे ॥ २७॥ एवमेतादृशं मोक्षं सुसूक्ष्मं ब्राह्मणा विदुः । विदित्वा चानुतिष्ठन्ति क्षेत्रज्ञेनानुदर्शिना ॥ २८॥ इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि अष्टाविंशोऽध्यायः ॥
अध्यायः २९ ब्राह्मण उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम् । कार्तवीर्यस्य संवादं समुद्रस्य च भामिनि ॥ १॥ कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् । येन सागरपर्यन्ता धनुषा निर्जिता मही ॥ २॥ स कदा चित्समुद्रान्ते विचरन्बलदर्पितः । अवाकिरच्छरशतैः समुद्रमिति नः श्रुतम् ॥ ३॥ तं समुद्रो नमस्कृत्य कृताञ्जलिरुवाच ह । मा मुञ्च वीर नाराचान्ब्रूहि किं करवाणि ते ॥ ४॥ मदाश्रयाणि भूतानि त्वद्विसृष्टैर्महेषुभिः । वध्यन्ते राजशार्दूल तेभ्यो देह्यभयं विभो ॥ ५॥ अर्जुव उवाच मत्समो यदि सङ्ग्रामे शरासनधरः क्व चित् । विद्यते तं ममाचक्ष्व यः समासीत मां मृधे ॥ ६॥ समुद्र उवाच महर्षिर्जमदग्निस्ते यदि राजन्परिश्रुतः । तस्य पुत्रस्तवातिथ्यं यथावत्कर्तुमर्हति ॥ ७॥ ततः स राजा प्रययौ क्रोधेन महता वृतः । स तमाश्रममागम्य रममेवान्वपद्यत ॥ ८॥ स राम प्रतिकूलानि चकार सह बन्धुभिः । आयासं जनयामास रामस्य च महात्मनः ॥ ९॥ ततस्तेजः प्रजज्वाल राजस्यामित तेजसः । प्रदहद्रिपुसैन्यानि तदा कमललोचने ॥ १०॥ ततः परशुमादाय स तं बाहुसहस्रिणम् । चिच्छेद सहसा रामो बाहुशाखमिव द्रुमम् ॥ ११॥ तं हतं पतितं दृष्ट्वा समेताः सर्वबान्धवाः । असीनादाय शक्तीश्च भार्गवं पर्यवारयन् ॥ १२॥ रामोऽपि धनुरादाय रथमारुह्य स त्वरः । विसृजञ्शरवर्षाणि व्यधमत्पार्थिवं बलम् ॥ १३॥ ततस्तु क्षत्रियाः के चिज्जमदग्निं निहत्य च । विविशुर्गिरिदुर्गाणि मृगाः सिंहार्दिता इव ॥ १४॥ तेषां स्वविहितं कर्म तद्भयान्नानुतिष्ठताम् । प्रजा वृषलतां प्राप्ता ब्राह्मणानामदर्शनात् ॥ १५॥ त एते द्रमिडाः काशाः पुण्ड्राश्च शबरैः सह । वृषलत्वं परिगता व्युत्थानात्क्षत्रधर्मतः ॥ १६॥ ततस्तु हतवीरासु क्षत्रियासु पुनः पुनः । द्विजैरुत्पादितं क्षत्रं जामदग्न्यो न्यकृन्तत ॥ १७॥ एव विंशतिमेधान्ते रामं वागशरीरिणी । दिव्या प्रोवाच मधुरा सर्वलोकपरिश्रुता ॥ १८॥ राम राम निवर्तस्व कं गुणं तात पश्यसि । क्षत्रबन्धूनिमान्प्राणैर्विप्रयोज्य पुनः पुनः ॥ १९॥ तथैव तं महात्मानमृचीकप्रमुखास्तदा । पितामहा महाभाग निवर्तस्वेत्यथाब्रुवन् ॥ २०॥ पितुर्वधममृष्यंस्तु रामः प्रोवाच तानृषीन् । नार्हन्तीह भवन्तो मां निवारयितुमित्युत ॥ २१॥ पितर ऊचुः नार्हसे क्षत्रबन्धूंस्त्वं निहन्तुं जयतां वर । न हि युक्तं त्वया हन्तुं ब्राह्मणेन सता नृपान् ॥ २२॥ इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि एकोनत्रिंशोऽध्यायः ॥
अध्यायः ३० पितर ऊचुः अत्राप्युदाहरन्तीममितिहासं पुरातनम् । श्रुत्वा च तत्तथा कार्यं भवता द्विजसत्तम ॥ १॥ अलर्को नाम राजर्षिरभवत्सुमहातपाः । धर्मज्ञः सत्यसन्धश्च महात्मा सुमहाव्रतः ॥ २॥ स सागरान्तां धनुषा विनिर्जित्य महीमिमाम् । कृत्वा सुदुष्करं कर्म मनः सूक्ष्मे समादधे ॥ ३॥ स्थितस्य वृक्षमूलेऽथ तस्य चिन्ता बभूव ह । उत्सृज्य सुमहद्राज्यं सूक्ष्मं प्रति महामते ॥ ४॥ अलर्क उवाच मनसो मे बलं जातं मनो जित्वा ध्रुवो जयः । अन्यत्र बाणानस्यामि शत्रुभिः परिवारितः ॥ ५॥ यदिदं चापलान्मूर्तेः सर्वमेतच्चिकीर्षति । मनः प्रति सुतीक्ष्णाग्रानहं मोक्ष्यामि सायकान् ॥ ६॥ मन उवाच नेमे बाणास्तरिष्यन्ति मामलर्क कथं चन । तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ ७॥ अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि । तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥ ८॥ अलक उवाच आघ्राय सुबहून्गन्धांस्तानेव प्रतिगृध्यति । तस्माद्घ्राणं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥ ९॥ घ्राण उवाच नेमे बाणास्तरिष्यन्ति मामलर्क कथं चन । तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ १०॥ अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि । तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥ ११॥ अलर्क उवाच इयं स्वादून्रसान्भुक्त्वा तानेव प्रतिगृध्यति । तस्माज्जिह्वां प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥ १२॥ जिव्हा उवाच नेमे बाणास्तरिष्यन्ति मामलर्क कथं चन । तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ १३॥ अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि । तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥ १४॥ अलर्क उवाच सृष्ट्वा त्वग्विविधान्स्पर्शांस्तानेव प्रतिगृध्यति । तस्मात्त्वचं पाटयिष्ये विविधैः कङ्कपत्रभिः ॥ १५॥ त्वगुवाच नेमे बाणास्तरिष्यन्ति मामलर्क कथं चन । तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ १६॥ अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि । तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥ १७॥ अलर्क उवाच श्रुत्वा वै विविधाञ्शब्दांस्तानेव प्रतिगृध्यति । तस्माच्छ्रोत्रं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥ १८॥ श्रोत्रमुवाच नेमे बाणास्तरिष्यन्ति मामलर्क कथं चन । तवैव मर्म भेत्स्यन्ति ततो हास्यसि जीवितम् ॥ १९॥ अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि । तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥ २०॥ अलर्क उवाच दृष्ट्वा वै विविधान्भावांस्तानेव प्रतिगृध्यति । तस्माच्चक्षुः प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥ २१॥ चक्षुरुवाच नेमे बाणास्तरिष्यन्ति मामालर्क कथं चन । तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ २२॥ अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यति । तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥ २३॥ अलर्क उवाच इयं निष्ठा बहुविधा प्रज्ञया त्वध्यवस्यति । तस्माद्बुद्धिं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥ २४॥ बुद्धिरुवाच नेमे बाणास्तरिष्यन्ति मामलर्क कथं चन । तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ २५॥ ब्राह्मण उवाच ततोऽलर्कस्तपो घोरमास्थायाथ सुदुष्करम् । नाध्यगच्छत्परं शक्त्या बाणमेतेषु सप्तसु । सुसमाहित चित्तास्तु ततोऽचिन्तयत प्रभुः ॥ २६॥ स विचिन्त्य चिरं कालमलर्को द्विजसत्तम । नाध्यगच्छत्परं श्रेयो योगान्मतिमतां वरः ॥ २७॥ स एकाग्रं मनः कृत्वा निश्चलो योगमास्थितः । इन्द्रियाणि जघानाशु बाणेनैकेन वीर्यवान् ॥ २८॥ योगेनात्मानमाविश्य संसिद्धिं परमां ययौ । विस्मितश्चापि राजर्षिरिमां गाथां जगाद ह । अहो कष्टं यदस्माभिः पूर्वं राज्यमनुष्ठितम् । इति पश्चान्मया ज्ञातं योगान्नास्ति परं सुखम् ॥ २९॥ इति त्वमपि जानीहि राम मा क्षत्रियाञ् जहि । तपो घोरमुपातिष्ठ ततः श्रेयोऽभिपत्स्यसे ॥ ३०॥ ब्राह्मण उवाच इत्युक्तः स तपो घोरं जामदग्न्यः पितामहैः । आस्थितः सुमहाभागो ययौ सिद्धिं च दुर्गमाम् ॥ ३१॥ इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि त्रिंशोऽध्यायः ॥
अध्यायः ३१ ब्राह्मण उवाच त्रयो वै रिपवो लोके नव वै गुणतः स्मृताः । हर्षः स्तम्भोऽभिमानश्च त्रयस्ते सात्त्विका गुणाः ॥ १॥ शोकः क्रोधोऽतिसंरम्भो राजसास्ते गुणाः स्मृताः । स्वप्नस्तन्द्री च मोहश्च त्रयस्ते तामसा गुणाः ॥ २॥ एतान्निकृत्य धृतिमान्बाणसन्धैरतन्द्रितः । जेतुं परानुत्सहते प्रशान्तात्मा जितेन्द्रियः ॥ ३॥ अत्र गाथाः कीर्तयन्ति पुराकल्पविदो जनाः । अम्बरीषेण या गीता राज्ञा राज्यं प्रशासता ॥ ४॥ समुदीर्णेषु दोषेषु वध्यमानेषु साधुषु । जग्राह तरसा राज्यमम्बरीष इति श्रुतिः ॥ ५॥ स निगृह्य महादोषान्साधून्समभिपूज्य च । जगाम महतीं सिद्धिं गाथां चेमां जगाद ह ॥ ६॥ भूयिष्ठं मे जिता दोषा निहताः सर्वशत्रवः । एको दोषोऽवशिष्टस्तु वध्यः स न हतो मया ॥ ७॥ येन युक्तो जन्तुरयं वैतृष्ण्यं नाधिगच्छति । तृष्णार्त इव निम्नानि धावमानो न बुध्यते ॥ ८॥ अकार्यमपि येनेह प्रयुक्तः सेवते नरः । तं लोभमसिभिस्तीक्ष्णैर्निकृन्तन्तं निकृन्तत ॥ ९॥ लोभाद्धि जायते तृष्णा ततश्चिन्ता प्रसज्यते । स लिप्समानो लभते भूयिष्ठं राजसान्गुणान् ॥ १०॥ स तैर्गुणैः संहतदेहबन्धनः पुनः पुनर्जायति कर्म चेहते । जन्म क्षये भिन्नविकीर्ण देहः पुनर्मृत्युं गच्छति जन्मनि स्वे ॥ ११॥ तस्मादेनं सम्यगवेक्ष्य लोभं निगृह्य धृत्यात्मनि राज्यमिच्छेत् । एतद्राज्यं नान्यदस्तीति विद्याद् यस्त्वत्र राजा विजितो ममैकः ॥ १२॥ इति राज्ञाम्बरीषेण गाथा गीता यशस्विना । आधिराज्यं पुरस्कृत्य लोभमेकं निकृन्तता ॥ १३॥ इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि एकत्रिंशोऽध्यायः ॥
अध्यायः ३२ ब्राह्मण उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम् । ब्राह्मणस्य च संवादं जनकस्य च भामिनि ॥ १॥ ब्राह्मणं जनको राजा सन्नं कस्मिंश्चिदागमे । विषये मे न वस्तव्यमिति शिष्ट्यर्थमब्रवीत् ॥ २॥ इत्युक्तः प्रत्युवाचाथ ब्राह्मणो राजसत्तमम् । आचक्ष्व विषयं राजन्यावांस्तव वशे स्थितः ॥ ३॥ सोऽन्यस्य विषये राज्ञो वस्तुमिच्छाम्यहं विभो । वचस्ते कर्तुमिच्छामि यथाशास्त्रं महीपते ॥ ४॥ इत्युक्तः स तदा राजा ब्राह्मणेन यशस्विना । मुहुरुष्णं च निःश्वस्य न स तं प्रत्यभाषत ॥ ५॥ तमासीनं ध्यायमानं राजानममितौजसम् । कश्मलं सहसागच्छद्भानुमन्तमिव ग्रहः ॥ ६॥ समाश्वास्य ततो राजा व्यपेते कश्मले तदा । ततो मुहूर्तादिव तं ब्राह्मणं वाक्यमब्रवीत् ॥ ७॥ जनक उवाच पितृपैतामहे राज्ये वश्ये जनपदे सति । विषयं नाधिगच्छामि विचिन्वन्पृथिवीमिमाम् ॥ ८॥ नाध्यगच्छं यदा पृथ्व्यां मिथिला मार्गिता मया । नाध्यगच्छं यदा तस्यां स्वप्रजा मार्गिता मया ॥ ९॥ नाध्यगच्छं यदा तासु तदा मे कश्मलोऽभवत् । ततो मे कश्मलस्यान्ते मतिः पुनरुपस्थिता ॥ १०॥ तया न विषयं मन्ये सर्वो वा विषयो मम ॥ ११॥ आत्मापि चायं न मम सर्वा वा पृथिवी मम । उष्यतां यावदुत्साहो भुज्यतां यावदिष्यते ॥ ११॥ ब्राह्मण उवाच पितृपैतामहे राज्ये वश्ये जनपदे सति । ब्रूहि कां बुद्धिमास्थाय ममत्वं वर्जितं त्वया ॥ १२॥ कां वा बुद्धिं विनिश्चित्य सर्वो वै विषयस्तव । नावैषि विषयं येन सर्वो वा विषयस्तव ॥ १३॥ जनक उवाच अन्तवन्त इहारम्भा विदिता सर्वकर्मसु । var इहावस्था नाध्यगच्छमहं यस्मान्ममेदमिति यद्भवेत् ॥ १४॥ कस्येदमिति कस्य स्वमिति वेद वचस्तथा । नाध्यगच्छमहं बुद्ध्या ममेदमिति यद्भवेत् ॥ १५॥ एतां बुद्धिं विनिश्चित्य ममत्वं वर्जितं मया । शृणु बुद्धिं तु यां ज्ञात्वा सर्वत्र विषयो मम ॥ १६॥ नाहमात्मार्थमिच्छामि गन्धान्घ्राणगतानपि । तस्मान्मे निर्जिता भूमिर्वशे तिष्ठति नित्यदा ॥ १७॥ नाहमात्मार्थमिच्छामि रसानास्येऽपि वर्ततः । आपो मे निर्जितास्तस्माद्वशे तिष्ठन्ति नित्यदा ॥ १८॥ नाहमात्मार्थमिच्छामि रूपं ज्योतिश्च चक्षुषा । तस्मान्मे निर्जितं ज्योतिर्वशे तिष्ठति नित्यदा ॥ १९॥ नाहमात्मार्थमिच्छामि स्पर्शांस्त्वचि गताश् च ये । तस्मान्मे निर्जितो वायुर्वशे तिष्ठति नित्यदा ॥ २०॥ नाहमात्मार्थमिच्छामि शब्दाञ्श्रोत्रगतानपि । तस्मान्मे निर्जिताः शब्दा वशे तिष्ठन्ति नित्यदा ॥ २१॥ नाहमात्मार्थमिच्छामि मनो नित्यं मनोऽन्तरे । मनो मे निर्जितं तस्माद्वशे तिष्ठति नित्यदा ॥ २२॥ देवेभ्यश्च पितृभ्यश्च भूतेभ्योऽतिथिभिः सह । इत्यर्थं सर्व एवेमे समारम्भा भवन्ति वै ॥ २३॥ ततः प्रहस्य जनकं ब्राह्मणः पुनरब्रवीत् । त्वज्जिज्ञासार्थमद्येह विद्धि मां धर्ममागतम् ॥ २४॥ त्वमस्य ब्रह्म नाभस्य बुद्ध्यारस्यानिवर्तिनः । सत्त्वनेमि निरुद्धस्य चक्रस्यैकः प्रवर्तकः ॥ २५॥ इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि द्वात्रिंशोऽध्यायः ॥
अध्यायः ३३ ब्राह्मण उवाच नाहं तथा भीरु चरामि लोके तथा त्वं मां तर्कयसे स्वबुद्ध्या । विप्रोऽस्मि मुक्तोऽस्मि वनेचरोऽस्मि गृहस्थ धर्मा ब्रह्म चारी तथास्मि ॥ १॥ नाहमस्मि यथा मां त्वं पश्यसे चक्षुषा शुभे । मया व्याप्तमिदं सर्वं यत्किं चिज्जगती गतम् ॥ २॥ ये के चिज्जन्तवो लोके जङ्गमाः स्थावराश् च ह । तेषां मामन्तकं विद्धि दारूणामिव पावकम् ॥ ३॥ राज्यं पृथिव्यां सर्वस्यामथ वापि त्रिविष्टपे । तथा बुद्धिरियं वेत्ति बुद्धिरेव धनं मम ॥ ४॥ एकः पन्था ब्राह्मणानां येन गच्छन्ति तद्विदः । गृहेषु वनवासेषु गुरु वासेषु भिक्षुषु । लिङ्गैर्बहुभिरव्यग्रैरेका बुद्धिरुपास्यते ॥ ५॥ नाना लिङ्गाश्रमस्थानां येषां बुद्धिः शमात्मिका । ते भावमेकमायान्ति सरितः सागरं यथा ॥ ६॥ बुद्ध्यायं गम्यते मार्गः शरीरेण न गम्यते । आद्यन्तवन्ति कर्माणि शरीरं कर्मबन्धनम् ॥ ७॥ तस्मात्ते सुभगे नास्ति परलोककृतं भयम् । मद्भावभावनिरता ममैवात्मानमेष्यसि ॥ ८॥ इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि त्रयस्त्रिंचोऽध्यायः ॥
अध्यायः ३४ ब्राह्मण्युवाच नेदमल्पात्मना शक्यं वेदितुं नाकृतात्मना । बहु चाल्पं च सङ्क्षिप्तं विप्लुतं च मतं मम ॥ १॥ उपायं तु मम ब्रूहि येनैषा लभ्यते मतिः । तन्मन्ये कारणतमं यत एषा प्रवर्तते ॥ २॥ ब्राह्मण उवाच अरणीं ब्राह्मणीं विद्धि गुरुरस्योत्तरारणिः । तपः श्रुतेऽभिमथ्नीतो ज्ञानाग्निर्जायते ततः ॥ ३॥ ब्राह्मण्युवाच यदिदं ब्रह्मणो लिङ्गं क्षेत्रज्ञमिति सञ्ज्ञितम् । ग्रहीतुं येन तच्छक्यं लक्षणं तस्य तत्क्व नु ॥ ४॥ ब्राह्मण्युवाच अलिङ्गो निर्गुणश्चैव कारणं नास्य विद्यते । उपायमेव वक्ष्यामि येन गृह्येत वा न वा ॥ ५॥ सम्यगप्युपदिष्टश्च भ्रमरैरिव लक्ष्यते । कर्म बुद्धिरबुद्धित्वाज्ज्ञानलिङ्गैरिवाश्रितम् ॥ ६॥ इदं कार्यमिदं नेति न मोक्षेषूपदिश्यते । पश्यतः शृण्वतो बुद्धिरात्मनो येषु जायते ॥ ७॥ यावन्त इह शक्येरंस्तावतोऽंशान्प्रकल्पयेत् । व्यक्तानव्यक्तरूपांश्च शतशोऽथ सहस्रशः ॥ ८॥ सर्वान्नानात्व युक्तांश्च सर्वान्प्रत्यक्षहेतुकान् । यतः परं न विद्येत ततोऽभ्यासे भविष्यति ॥ ९॥ वासुदेव उवाछ ततस्तु तस्या ब्राह्मण्या मतिः क्षेत्रज्ञसङ्क्षये । क्षेत्रज्ञादेव परतः क्षेत्रज्ञोऽन्यः प्रवर्तते ॥ १०॥ अर्जुन उवाच क्व नु सा ब्राह्मणी कृष्ण क्व चासौ ब्राह्मणर्षभः । याभ्यां सिद्धिरियं प्राप्ता तावुभौ वद मेऽच्युत ॥ ११॥ वासुदेव उवाच मनो मे ब्राह्मणं विद्धि बुद्धिं मे विद्धि ब्राह्मणीम् । क्षेत्रज्ञ इति यश्चोक्तः सोऽहमेव धनञ्जय ॥ १२॥ इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि चतुस्त्रिंशोऽध्यायः ॥ ॥ इति ब्राह्मणगीता समाप्ता ॥ Adhyaya numbers 21-34 in Ashvamedhika, Mahabharata critical edition (Bhandarkar Oriental Research Institute BORI). In Kinjavadekar's edition they are 21-34. Proofread by Sunder Hattangadi (sunderh at hotmail.com)

% Text title            : brAhmaNagItA
% File name             : braahmaNagiitaa.itx
% itxtitle              : brAhmaNagItA
% engtitle              : brAhmaNagItA
% Category              : gItA
% Location              : doc_giitaa
% Sublocation           : giitaa
% Language              : Sanskrit
% Subject               : religion
% Transliterated by     : Professor Tokunaga in Kyoto system(?)
% Proofread by          : Sunder Hattangadi(sunderh at hotmail.com)
% Description-comments  : Adhyaya numbers 21-34 in Ashvamedhika, Mahabharata
% Indexextra            : Adhyaya 21-34 Ashvamedhika, Mahabharata (scanned)
% Latest update         : June 2, 1998, February 8, 2013
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP