॥ ब्रह्मगीता ॥

अध्यायः २० वासुदेव उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम् । दम्पत्योः पार्थ संवादमभयं नाम नामतः ॥ १॥ ब्राह्मणी ब्राह्मणं कं चिज्ज्ञानविज्ञानपारगम् । दृष्ट्वा विविक्त आसीनं भार्या भर्तारमब्रवीत् ॥ २॥ कं नु लोकं गमिष्यामि त्वामहं पतिमाश्रिता । न्यस्तकर्माणमासीनं कीनाशमविचक्षणम् ॥ ३॥ भार्याः पतिकृताँल्लोकानाप्नुवन्तीति नः श्रुतम् । त्वामहं पतिमासाद्य कां गमिष्यामि वै गतिम् ॥ ४॥ एवमुक्तः स शान्तात्मा तामुवाच हसन्निव । सुभगे नाभ्यसूयामि वाक्यस्यास्य तवानघे ॥ ५॥ ग्राह्यं दृश्यं च श्राव्यं च यदिदं कर्म विद्यते । एतदेव व्यवस्यन्ति कर्म कर्मेति कर्मिणः ॥ ६॥ मोहमेव नियच्छन्ति कर्मणा ज्ञानवर्जिताः । नैष्कर्म्यं न च लोकेऽस्मिन्मौर्तमित्युपलभ्यते ॥ ७॥ कर्मणा मनसा वाचा शुभं वा यदि वाशुभम् । जन्मादि मूर्ति भेदानां कर्म भूतेषु वर्तते ॥ ८॥ रक्षोभिर्वध्यमानेषु दृश्यद्रव्येषु कर्मसु । आत्मस्थमात्मना तेन दृष्टमायतनं मया ॥ ९॥ यत्र तद्ब्रह्म निर्द्वन्द्वं यत्र सोमः सहाग्निना । व्यवायं कुरुते नित्यं धीरो भूतानि धारयन् ॥ १०॥ यत्र ब्रह्मादयो युक्तास्तदक्षरमुपासते । विद्वांसः सुव्रता यत्र शान्तात्मानो जितेन्द्रियाः ॥ ११॥ घ्राणेन न तदाघ्रेयं न तदाद्यम्च जिह्वया । स्पर्शेन च न तत्स्पृश्यं मनसा त्वेव गम्यते ॥ १२॥ चक्षुषा न विषह्यं च यत्किं चिच्छ्रवणात्परम् । अगन्धमरस स्पर्शमरूपाशब्दमव्ययम् ॥ १३॥ यतः प्रवर्तते तन्त्रं यत्र च प्रतितिष्ठति । प्राणोऽपानः समानश्च व्यानश्चोदान एव च ॥ १४॥ तत एव प्रवर्तन्ते तमेव प्रविशन्ति च । समानव्यानयोर्मध्ये प्राणापानौ विचेरतुः ॥ १५॥ तस्मिन्सुप्ते प्रलीयेते समानो व्यान एव च । अपान प्राणयोर्मध्ये उदानो व्याप्य तिष्ठति । तस्माच्छयानं पुरुषं प्राणापानौ न मुञ्चतः ॥ १६॥ प्राणानायम्यते येन तदुदानं प्रचक्षते । तस्मात्तपो व्यवस्यन्ति तद्भवं ब्रह्मवादिनः ॥ १७॥ तेषामन्योन्यभक्षाणां सर्वेषां देव चारिणाम् । अग्निर्वैश्वानरो मध्ये सप्तधा विहितोऽन्तरा ॥ १८॥ घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पञ्चमम् । मनो बुद्धिश्च सप्तैता जिह्वा वैश्वानरार्चिषः ॥ १९॥ घ्रेयं पेयं च दृश्यं च स्पृश्यं श्रव्यं तथैव च । मन्तव्यमथ बोद्धव्यं ताः सप्त समिधो मम ॥ २०॥ घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः । मन्ता बोद्धा च सप्तैते भवन्ति परमर्त्विजः ॥ २१॥ घ्रेये पेये च देश्ये च स्पृश्ये श्रव्ये तथैव च । हवींष्यग्निषु होतारः सप्तधा सप्त सप्तसु । सम्यक्प्रक्षिप्य विद्वांसो जनयन्ति स्वयोनिषु ॥ २२॥ पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् । मनो बुद्धिश्च सप्तैत योनिरित्येव शब्दिताः ॥ २३॥ हविर्भूता गुणाः सर्वे प्रविशन्त्यग्निजं मुखम् । अन्तर्वासमुषित्वा च जायन्ते स्वासु योनिषु । तत्रैव च निरुध्यन्ते प्रलये भूतभावने ॥ २४॥ ततः सञ्जायते गन्धस्ततः सञ्जायते रसः । ततः सञ्जायते रूपं ततः स्पर्शोऽभिजायते ॥ २५॥ ततः सञ्जायते शब्दः संशयस्तत्र जायते । ततः सञ्जायते निष्ठा जन्मैतत्सप्तधा विदुः ॥ २६॥ अनेनैव प्रकारेण प्रगृहीतं पुरातनैः । पूर्णाहुतिभिरापूर्णास्तेऽभिपूर्यन्ति तेजसा ॥ २७॥ इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि विंशोऽध्यायः ॥ ॥ इति ब्रह्मगीता समाप्ता ॥ Adhyaya number 20 in Ashvamedhika, Mahabharata critical edition (Bhandarkar Oriental Research Institute BORI). In Kinjavadekar's edition it is 20. Proofread by Sunder Hattangadi (sunderh at hotmail.com)

% Text title            : brahmagItA
% File name             : brahmagiitaa.itx
% itxtitle              : brahmagItA
% engtitle              : brahmagItA
% Category              : gItA, giitaa
% Location              : doc_giitaa
% Sublocation           : giitaa
% Language              : Sanskrit
% Subject               : religion
% Transliterated by     : Professor Tokunaga in Kyoto system(?)
% Proofread by          : Sunder Hattangadi(sunderh at hotmail.com)
% Description-comments  : Adhyaya number 20 in Ashvamedhika, Mahabharata
% Indexextra            : scanned
% Latest update         : June 2, 1998, February 8, 2013
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP