॥ देवीगीता ॥

॥ श्री गणेशाय नमः ॥ ॥ ॐ नमः श्री देव्यै ॥ अथ श्रीमद्देवीगीता प्रारभ्यते । प्रथमोऽध्यायः । हिमालय उवाच - योगं च भक्तिसहितं ज्ञानं च श्रुतिसंमतम् । वदस्व परमेशानि त्वमेवाहं यतो भवेः ॥ व्यास उवाच - इति तस्य वचः श्रुत्वा प्रसन्नमुखपंकजा । वक्तुमारभताम्बा सा रहस्यं श्रुतिगूहितम्॥ शृण्वन्तु निर्जराः सर्वे व्याहरन्त्या वचो मम । यस्य श्रवणमात्रेण मद्रूपत्वं प्रपद्यते ॥ १॥ अहमेवास पूर्वं मे नान्यत्किंचिन्नगाधिप । तदात्मरूपं चित्संवित्परब्रह्मैकनामकम् ॥ २॥ अप्रतर्क्यमनिर्देश्यमनौपम्यमनामयम् । तस्य काचित्स्वतःसिद्धा शक्तिर्मायेति विश्रुता ॥ ३॥ न सती सा नासती सा नोभयात्मा विरोधतः । एतद्विलक्षणा काचिद्वस्तुभूताऽस्ति सर्वदा ॥ ४॥ पावकस्योष्णतेवेयमुष्णांशोरिव दीधितिः । चन्द्रस्य चन्द्रिकेवेयं ममेयं सहजा ध्रुवा ॥ ५॥ तस्यां कर्माणि जीवानां जीवाः कालाश्च संचरे । अभेदेन विलीनाः स्युः सुषुप्तौ व्यवहारवत् ॥ ६॥ स्वशक्तेश्च समायोगादहं बीजात्मतां गता । स्वधारावरणात्तस्या दोषत्वं च समागतम् ॥ ७॥ चैतन्यस्य समायोगान्निमित्तत्वं च कथ्यते । प्रपंचपरिणामाच्च समवायित्वमुच्यते ॥ ८॥ केचित्तां तप इत्याहुस्तमः केचिज्जडं परे । ज्ञानं माया प्रधानं च प्रकृतिं शक्तिमप्यजाम् ॥ ९॥ विमर्श इति तां प्राहुः शैवशास्त्रविशारदाः । अविद्यामितरे प्राहुर्वेदतत्त्वार्थचिन्तकाः ॥ १०॥ एवं नानाविधानि स्युर्नामानि निगमादिषु । तस्याजडत्वं दृश्यत्वाज्ज्ञाननाशात्ततोऽसती ॥११॥ चैतन्यस्य न दृश्यत्वं दृश्यत्वे जडमेव तत् । स्वप्रकाशं च चैतन्यं न परेण प्रकाशितम् ॥ १२॥ अनवस्थादोषसत्त्वान्न स्वेनापि प्रकाशितम् । कर्मकर्तृविरोधः स्यात्तस्मात्तद्दीपवत्स्वयम् ॥ १३॥ प्रकाशमानमन्येषां भासकं विद्धि पर्वत । अत एव च नित्यत्वं सिद्धं संवित्तनोर्मम ॥ १४॥ जाग्रत्स्वप्नसुषुप्त्यादौ दृश्यस्य व्यभिचारतः । संविदो व्यभिचारश्च नानुभूतोऽस्ति कर्हिचित् ॥ १५॥ यदि तस्याप्यनुभवतर्ह्ययं येन साक्षिणा । अनुभूतः स एवात्र शिष्टः संविद्वपुः पुरा ॥ १६॥ अत एव च नित्यत्वं प्रोक्तं सच्छास्त्रकोविदः । आनन्दरूपता चास्याः परप्रेमास्पदत्वतः ॥ १७॥ मा न भूवं हि भूयासमिति प्रेमात्मनि स्थितम् । सर्वस्यान्यस्य मिथ्यात्वादसंगत्वं स्फुटं मम ॥ १८॥ अपरिच्छिन्नताप्येवमत एव मता मम । तच्च ज्ञानं नात्मधर्मो धर्मत्वे जडताऽऽत्मनः ॥ १९॥ ज्ञानस्य जडशेषत्वं न दृष्टं न च संभवि । चिद्धर्मत्वं तथा नास्ति चितश्चिन्न हि भिद्यते ॥ २०॥ तस्मादात्मा ज्ञानरूपः सुखरूपश्च सर्वदा । सत्यः पूर्णोऽप्यसंगश्च द्वैतजालविवर्जितः ॥ २१॥ स पुनः कामकर्मादियुक्तया स्वीयमायया । पूर्वानुभूतसंस्कारात्कालकर्मविपाकतः ॥ २२॥ अविवेकाच्च तत्त्वस्य सिसृक्षावान्प्रजायते । अबुद्धिपूर्वः सर्गोऽयं कथितस्ते नगाधिप ॥ २३॥ एतद्धि यन्मया प्रोक्तं मम रूपमलौकिकम् । अव्याकृतं तदव्यक्तं मायाशबलमित्यपि ॥ २४॥ प्रोच्यते सर्वशास्त्रेषु सर्वकारणकारणम् । तत्त्वानामादिभूतं च सच्चिदानन्दविग्रहम् ॥ २५॥ सर्वकर्मघनीभूतमिच्छाज्ञानक्रियाश्रयम् । ह्रींकारमन्त्रवाच्यं तदादितत्त्वं तदुच्यते ॥ २६॥ तस्मादाकाश उत्पन्नः शब्दतन्मात्ररूपकः । भवेत्स्पर्शात्मको वायुस्तेजो रूपात्मकं पुनः ॥ २७॥ जलं रसात्मकं पश्चात्ततो गन्धात्मिका धरा । शब्दैकगुण आकाशो वायुः स्पर्शरवान्वितः ॥ २८॥ शब्दस्पर्शरूपगुणं तेज इत्युच्यते बुधैः । शब्दस्पर्शरूपरसैरापो वेदगुणाः स्मृताः ॥ २९॥ शब्दस्पर्शरूपरसगन्धैः पंचगुणा धरा । तेभ्योऽभवन्महत्सूत्रं यल्लिंगं परिचक्षते ॥ ३०॥ सर्वात्मकं तत्सम्प्रोक्तं सूक्ष्मदेहोऽयमात्मनः । अव्यक्तं कारणो देहः स चोक्तः पूर्वमेव हि ॥ ३१॥ यस्मिञ्जगद्बीजरूपं स्थितं लिंगोद्भवो यतः । ततः स्थूलानि भूतानि पंचीकरणमार्गतः ॥ ३२॥ पंच संख्यानि जायन्ते तत्प्रकारस्त्वथोच्यते । पूर्वोक्तानि च भूतानि प्रत्येकं विभजेद्द्विधा ॥ ३३॥ एकैकं भागमेकस्य चतुर्धा विभजेद्गिरे । स्वस्वेतरद्वितीयांशे योजनात्पंच पंच ते॥ ३४॥ तत्कार्यं च विराड् देहः स्थूलदेहोऽयमात्मनः । पंचभूतस्थसत्त्वांशैः श्रोत्रादीनां समुद्भवः ॥ ३५॥ ज्ञानेन्द्रियाणां राजेन्द्र प्रत्येकं मीलितैस्तु तैः । अन्तःकरणमेकं स्याद्वृत्तिभेदाच्चतुर्विधम् ॥ ३६॥ यदा तु संकल्पविकल्पकृत्यं तदा भवेत्तन्मन इत्यभिख्यम् । स्याद्बुद्धिसंज्ञं च यदा प्रवेत्ति सुनिश्चितं संशयहीनरूपम् ॥ ३७॥ अनुसन्धानरूपं तच्चित्तं च परिकीर्तितम् । अहंकृत्याऽऽत्मवृत्या तु तदहंकारतां गतम् ॥ ३८॥ तेषां रजोंऽशैर्जातानि क्रमात्कर्मेन्द्रियाणि च । प्रत्येकं मीलितैस्तैस्तु प्राणो भवति पंचधा ॥ ३९॥ हृदि प्राणो गुदेऽपानो नाभिस्थस्तु समानकः । कण्ठदेशेप्युदानः स्याद्व्यानः सर्वशरीरगः ॥ ४०॥ ज्ञानेन्द्रियाणि पंचैव पंच कर्मेन्द्रियाणि च । प्राणादि पंचकं चैव धिया च सहितं मनः ॥ ४१॥ एतत्सूक्ष्मशरीरं स्यान्मम लिंगं यदुच्यते । तत्र या प्रकृतिः प्रोक्ता सा राजन्विविधा स्मृता ॥ ४२॥ सत्त्वात्मिका तु माया स्यादविद्या गुणमिश्रिता । स्वाश्रयं या तु संरक्षेत्सा मायेति निगद्यते ॥ ४३॥ तस्यां यत्प्रतिबिम्बं स्याद्बिम्बभूतस्य चेशितुः । स ईश्वरः समाख्यातः स्वाश्रयज्ञानवान् परः ॥ ४४॥ सर्वज्ञः सर्वकर्ता च सर्वानुग्रहकारकः । अविद्यायां तु यत्किंचित्प्रतिबिंबं नगाधिप ॥ ४५॥ ज्ञानेन्द्रियाणि पंचैव पंच कर्मेन्द्रियाणि च । प्राणादि पंचकं चैव धिया च सहितं मनः ॥ ४१॥ एतत्सूक्ष्मशरीरं स्यान्मम लिंगं यदुच्यते । तत्र या प्रकृतिः प्रोक्ता सा राजन्विविधा स्मृता ॥ ४२॥ सत्त्वात्मिका तु माया स्यादविद्या गुणमिश्रिता । स्वाश्रयं या तु संरक्षेत्सा मायेति निगद्यते ॥ ४३॥ तस्यां यत्प्रतिबिम्बं स्याद्बिम्बभूतस्य चेशितुः । स ईश्वरः समाख्यातः स्वाश्रयज्ञानवान् परः ॥ ४४॥ सर्वज्ञः सर्वकर्ता च सर्वानुग्रहकारकः । अविद्यायां तु यत्किंचित्प्रतिबिंबं नगाधिप ॥ ४५॥ तदेव जीवसंज्ञं स्यात्सर्वदुःखाश्रयं पुनः । द्वयोरपीह सम्प्रोक्तं देहत्रयमविद्यया ॥ ४६॥ देहत्रयाभिमानाच्चाप्यभून्नामत्रयं पुनः । प्राज्ञस्तु कारणात्मा स्यात्सूक्ष्मधी तु तैजसः ॥ ४७॥ स्थूलदेही तु विश्वाख्यस्त्रिविधः परिकीर्तितः । एवमीशोऽपि सम्प्रोक्त ईशसूत्रविराट्पदैः ॥ ४८॥ प्रथमो व्यष्टिरूपस्तु समष्ट्यात्मा परः स्मृतः । स हि सर्वेश्वरः साक्षाज्जीवानुग्रहकाम्यया ॥ ४९॥ करोति विविधं विश्वं नानाभोगाश्रयं पुनः । मच्छक्तिप्रेरितो नित्यं मयि राजन्प्रकल्पितः ॥ ५०॥ इति श्रीदेवीभागवते देवीगीतायां प्रथमोऽध्यायः ॥
॥ अथ द्वितीयोऽध्यायः ॥ देव्युवाच - मन्मायाशक्तिसंक्लृप्तंजगत्सर्वं चराचरम् । सापि मत्तः पृथङ् माया नास्त्येव परमार्थतः ॥ १॥ व्यवहारदृशा सेयं मायाऽविद्येति विश्रुता । तत्त्वदृष्ट्या तु नास्त्येव तत्त्वमेवास्ति केवलम् ॥ २॥ साहं सर्वं जगत्सृष्ट्वा तदन्तः प्रविशाम्यहम् । माया कर्मादिसहिता गिरे प्राणपुरःसरा ॥ ३॥ लोकान्तरगतिर्नो चेत्कथं स्यादिति हेतुना । यथा यथा भवन्त्येव मायाभेदास्तथा तथा ॥ ४॥ उपाधिभेदाद्भिन्नाऽहं घटाकाशादयो यथा । उच्चनीचादि वस्तूनि भासयन्भास्करः सदा ॥ ५ ॥ न दुष्यति तथैवाहं दोषैर्लिप्ता कदापि न । मयि बुद्ध्यादिकर्तृत्वमध्यस्यैवापरे जनाः ॥ ६॥ वदन्ति चात्मा कर्तेति विमूढा न सुबुद्धयः । अज्ञानभेदतस्तद्वन्मायाया भेदतस्तथा ॥ ७॥ जीवेश्वरविभागश्च कल्पितो माययैव तु । घटाकाशमहाकाशविभागः कल्पितो यथा ॥ ८॥ तथैव कल्पितो भेदो जीवात्मपरमात्मनोः । यथा जीवबहुत्वं च माययैव न च स्वतः ॥ ९॥ तथेश्वरबहुत्वं च मायया न स्वभावतः । देहेन्द्रियादिसंघातवासनाभेदभेदिता ॥ १०॥ अविद्या जीवभेदस्य हेतुर्नान्यः प्रकीर्तितः । गुणानां वासनाभेदभेदिता या धराधर ॥ ११॥ माया सा परभेदस्य हेतुर्नान्यः कदाचन । मयि सर्वमिदं प्रोतमोतं च धरणीधर ॥ १२॥ ईश्वरोऽहं च सूत्रात्मा विराडात्माऽहमस्मि च । ब्रह्माऽहं विष्णुरुद्रौ च गौरी ब्राह्मी च वैष्णवी ॥ १३॥ सूर्योऽहं तारकाश्चाहं तारकेशस्तथास्म्यहम् । पशुपक्षिस्वरूपाऽहं चाण्डालोऽहं च तस्करः ॥ १४॥ व्याधोऽहं क्रूरकर्माऽहं सत्कर्मोऽहं महाजनः । स्त्रीपुन्नपुंसकाकारोऽप्यहमेव न संशयः ॥ १५॥ यच्च किंचित्क्वचिद्वस्तु दृश्यते श्रूयतेऽपि वा । अन्तर्बहिश्च तत्सर्वं व्याप्याहं सर्वदा स्थिता ॥ १६॥ न तदस्ति मया त्यक्तं वस्तु किंचिच्चराचरम् । यद्यस्ति चेत्तच्छून्यं स्याद्वन्ध्यापुत्रोपमं हि तत् ॥ १७॥ रज्जुर्यथा सर्पमालाभेदैरेका विभाति हि । तथैवेशादिरूपेण भाम्यहं नात्र संशयः ॥ १८॥ अधिष्ठानातिरेकेण कल्पितं तन्न भासते । तस्मान्मत्सत्तयैवैतत्सत्तावन्नान्यथा भवेत् ॥ १९॥ हिमालय उवाच - यथा वदसि देवेशि समष्ट्याऽऽत्मवपुस्त्विदम् । तथैव द्रष्टुमिच्छामि यदि देवि कृपा मयि ॥ २०॥ व्यास उवाच - इति तस्य वचः श्रुत्वा सर्वे देवाः सविष्णवः । ननन्दुर्मुदितात्मानः पूजयन्तश्च तद्वचः ॥ २१॥ अथ देवमतं ज्ञात्वा भक्तकामदुघा शिवा । अदर्शयन्निजं रूपं भक्तकामप्रपूरिणी ॥ २२॥ अपश्यंस्ते महादेव्या विराडरूपं परात्परम् । द्यौर्मस्तकं भवेद्यस्य चन्द्रसूर्यौ च चक्षुषी ॥ २३॥ दिशः श्रोत्रे वचो वेदाः प्राणो वायुः प्रकीर्तितः । विश्वं हृदयमित्याहुः पृथिवी जघनं स्मृतम् ॥ २४॥ नभस्तलं नाभिसरो ज्योतिश्चक्रमुरस्थलम् । महर्लोकस्तु ग्रीवा स्याज्जनो लोको मुखं स्मृतम् ॥ २५॥ तपो लोको रराटिस्तु सत्यलोकादधः स्थितः । इन्द्रादयो बाहवः स्युः शब्दः श्रोत्रं महेशितुः ॥ २६॥ नासत्यदस्रौ नासे स्तौ गन्धो घ्राणं स्मृतो बुधैः । मुखमग्निः समाख्यातो दिवारात्री च पक्ष्मणी ॥ २७॥ ब्रह्मस्थानं भ्रूविजृंभोऽप्यापस्तालुः प्रकीर्तिताः । रसो जिह्वा समाख्याता यमो दंष्ट्राः प्रकीर्तिताः ॥ २८॥ दन्ताः स्नेहकला यस्य हासो माया प्रकीर्तिता । सर्गस्त्वपांगमोक्षः स्याद्व्रीडोर्ध्वोष्ठो महेशितुः ॥ २९॥ लोभः स्यादधरोष्ठोऽस्या धर्ममार्गस्तु पृष्ठभूः । प्रजापतिश्च मेढ्रं स्याद्यः स्रष्टा जगतीतले ॥ ३०॥ कुक्षिः समुद्रा गिरयोऽस्थीनि देव्या महेशितुः । नद्यो नाड्यः समाख्याता वृक्षाः केशाः प्रकीर्तिताः ॥ ३१॥ कौमारयौवनजरावयोऽस्य गतिरुत्तमा । बलाहकास्तु केशाः स्युः सन्ध्ये ते वाससी विभोः ॥ ३२॥ राजञ्छ्रीजगदम्बायाश्चन्द्रमास्तु मनः स्मृतः । विज्ञानशक्तिस्तु हरी रुद्रोन्तःकरणं स्मृतम् ॥ ३३॥ अश्वादिजातयः सर्वाः श्रोणिदेशे स्थिता विभोः । अतलादिमहालोकाः कट्यधोभागतां गताः ॥ ३४॥ एतादृशं महारूपं ददृशुः सुरपुंगवाः । ज्वालामालासहस्राढ्यं लेलिहानं च जिह्वया ॥ ३५॥ दंष्ट्राकटकटारावं वमन्तं वह्निमक्षिभिः । नानायुधधरं वीरं ब्रह्मक्षत्रौदनं च यत् ॥ ३६॥ सहस्रशीर्षनयनं सहस्रचरणं तथा । कोटिसूर्यप्रतीकाशं विद्युत्कोटिसमप्रभम् ॥ ३७॥ भयंकरं महाघोरं हृदक्ष्णोस्त्रासकारकम् । ददृशुस्ते सुराः सर्वे हाहाकारं च चक्रिरे ॥ ३८॥ विकम्पमानहृदया मूर्च्छामापुर्दुरत्ययाम् । स्मरणं च गतं तेषां जगदम्बेयमित्यपि ॥ ३९॥ अथ ते ये स्थिता वेदाश्चतुर्दिक्षु महाविभोः । बोधयामासुरत्युग्रं मूर्च्छातो मूर्च्छितान्सुरान् ॥ ४०॥ अथ ते धैर्यमालम्ब्य लब्ध्वा च श्रुतिमुत्तमाम् । प्रेमाश्रुपूर्णनयना रुद्धकण्ठास्तु निर्जराः ॥ ४१॥ बाष्पगद्गददया वाचा स्तोतुं समुपचक्रिरे । देवा ऊचुः - अपराधं क्षमस्वाम्ब पाहि दीनांस्त्वदुद्भवान् ॥ ४२॥ कोपं संहर देवेशि सभया रूपदर्शनात् । का ते स्तुतिः प्रकर्तव्या पामरैर्निजरैरिह ॥ ४३॥ स्वस्याप्यज्ञेय एवासौ यावान्यश्च स्वविक्रमः । तदर्वाग्जायमानानां कथं स विषयो भवेत् ॥ ४४॥ नमस्ते भुवनेशानि नमस्ते प्रणवात्मके । सर्व वेदान्तसंसिद्धे नमो ह्रींकारमूर्तये ॥ ४५॥ यस्मादग्निः समुत्पन्नो यस्मात्सूर्यश्च चन्द्रमाः । यस्मादोषधयः सर्वास्तस्मै सर्वात्मने नमः ॥ ४६॥ यस्माच्च देवाः संभूताः साध्याः पक्षिण एव च । पशवश्च मनुष्याश्च तस्मै सर्वात्मने नमः ॥ ४७॥ प्राणापानौ व्रीहियवौ तपः श्रद्धा ऋतं तथा । ब्रह्मचर्यं विधिश्चैव यस्मात्तस्मै नमो नमः ॥ ४८॥ सप्त प्राणार्चिषो यस्मात्समिधः सप्त एव च । होमाः सप्त तथा लोकास्तस्मै सर्वात्मने नमः ॥ ४९॥ यस्मात्समुद्रा गिरयः सिन्धवः प्रचरन्ति च । यस्मादोषधयः सर्वा रसास्तस्मै नमो नमः ॥ ५०॥ यस्माद्यज्ञः समुद्भूतो दीक्षायूपश्च दक्षिणाः । ऋचो यजूंषि सामानि तस्मै सर्वात्मने नमः ॥ ५१॥ नमः पुरस्तात्पृष्ठे च नमस्ते पार्श्वयोर्द्वयोः । अध ऊर्ध्वं चतुर्दिक्षु मातर्भूयो नमो नमः ॥ ५२॥ उपसंहर देवेशि रूपमेतदलौकिकम् । तदेव दर्शयास्माकं रूपं सुन्दरसुन्दरम् ॥ ५३॥ व्यास उवाच - इति भीतान्सुरान्दृष्ट्वा जगदम्बा कृपार्णवा । संहृत्य रूपं घोरं तद्दर्शयामास सुन्दरम् ॥ ५४॥ पाशांकुशवराभीतिधरं सर्वांगकोमलम् । करुणापूर्णनयनं मन्दस्मितमुखाम्बुजम् ॥ ५५॥ दृष्ट्वा तत्सुन्दरं रूपं तदा भीतिविवर्जिताः । शान्तिचित्ता प्रणेमुस्ते हर्षगद्गदनिःस्वनाः ॥ ५६॥ ॥ इति श्रीदेवीभागवते देवीगीतायां द्वितीयोऽध्यायः ॥
॥ अथ तृतीयोऽध्यायः ॥ श्रीदेव्युवाच - क्व यूयं मंदभाग्या वै क्वेदं रूपं महाद्भुतम् । तथापि भक्तवात्सल्यादीदृशं दर्शितं मया ॥ १॥ न वेदाध्ययनैर्योगैर्न दानैस्तपसेज्यया । रूपं द्रष्टुमिदं शक्यं केवलं मत्कृपां विना ॥ २॥ प्रकृतं शृणु राजेन्द्र परमात्मात्र जीवताम् । उपाधियोगात्सम्प्राप्तः कर्तृत्वादिकमप्युत ॥ ३॥ क्रियाः करोति विविधा धर्माधर्मैकहेतवः । नानायोनीस्ततः प्राप्य सुखदुःखैश्च युज्यते ॥ ४॥ पुनस्तत्संस्कृतिवशान्नानाकर्मरतः सदा । नानादेहान्समाप्नोति सुखदुःखैश्च युज्यते ॥ ५॥ घटीयंत्रवदेतस्य न विरामः कदापि हि । अज्ञानमेव मूलं स्यात्ततः कामः क्रियास्ततः ॥ ६॥ तस्मादज्ञाननाशाय यतेत नियतं नरः । एतद्धि जन्मसाफल्यं यदज्ञानस्य नाशनम् ॥ ७॥ पुरुषार्थसमाप्तिश्च जीवन्मुक्तिदशाऽपि च । अज्ञाननाशने शक्ता विद्यैव तु पटीयसी ॥ ८॥ न कर्म तज्जं नोपास्तिर्विरोधाभावतो गिरे । प्रत्युताशाऽज्ञाननाशे कर्मणा नैव भाव्यताम् ॥ ९॥ अनर्थदानि कर्माणि पुनः पुनरुशन्ति हि । ततो रागस्ततो दोषस्ततोऽनर्थो महान्भवेत् ॥ १०॥ तस्मात्सर्वप्रयत्नेन ज्ञानं सम्पादयेन्नरः । कुर्वन्नेवेह कर्माणीत्यतः कर्माप्यवश्यकम् ॥ ११॥ ज्ञानादेव हि कैवल्यमतः स्यात्तत्समुच्चयः । सहायतां व्रजेत्कर्म ज्ञानस्य हितकारि च ॥ १२॥ इति केचिद्वदन्त्यत्र तद्विरोधान्न संभवेत् । ज्ञानाधृद्ग्रन्थिभेदः स्याधृद्ग्रन्थौ कर्मसंभवः ॥ १३॥ यौगपद्यं न संभाव्यं विरोधात्तु ततस्तयोः । तमःप्रकाशयोर्यद्वद्यौगपद्यं न संभवि ॥ १४॥ तस्मात्सर्वाणि कर्माणि वैदिकानि महामते । चित्तशुद्ध्यन्तमेव स्युस्तानि कुर्यात्प्रयत्नतः ॥ १५॥ शमो दमस्तितिक्षा च वैराग्यं सत्त्वसंभवः । तावत्पर्यन्तमेव स्युः कर्माणि न ततः परम् ॥ १६॥ तदन्ते चैव संन्यस्य सश्रयेद्गुरुमात्मवान् । श्रोत्रियं ब्रह्मनिष्ठं च भक्त्या निर्व्याजया पुनः ॥ १७॥ वेदान्तश्रवणं कुर्यान्नित्यमेवमतन्द्रितः । तत्त्वमस्यादिवाक्यस्य नित्यमर्थं विचारयेत् ॥ १८॥ तत्त्वमस्यादिवाक्यं तु जीवब्रह्मैक्यबोधकम् । ऐक्ये ज्ञाते निर्भयस्तु मद्रूपो हि प्रजायते ॥ १९॥ पदार्थावगतिः पूर्वं वाक्यार्थावगतिस्ततः । तत्पदस्य च वाच्यार्थो गिरेऽहं परिकीर्तितः ॥ २०॥ त्वंपदस्य च वाच्यार्थो जीव एव न संशयः । उभयोरैक्यमसिना पदेन प्रोच्यते बुधैः ॥ २१॥ वाच्यार्थयोर्विरुद्धत्वादैक्यं नैव घटेत ह । लक्षणाऽतः प्रकर्तव्या तत्त्वमोः श्रुतिसंस्थयोः ॥ २२॥ चिन्मात्रं तु तयोर्लक्ष्यं तयोरैक्यस्य संभवः । तयोरैक्यं तथा ज्ञात्वा स्वाभेदेनाद्वयो भवेत् ॥ २३॥ देवदत्तः स एवायमितिवल्लक्षणा स्मृता । स्थूलादिदेहरहितो ब्रह्मसम्पद्यते नरः ॥ २४ ॥ पंचीकृतमहाभूतसंभूतः स्थूलदेहकः । भोगालयो जराव्याधिसंयुतः सर्वकर्मणाम् ॥ २५॥ मिथ्याभूतोऽयमाभाति स्फुटं मायामयत्वतः । सोऽयं स्थूल उपाधिः स्यादात्मनो मे नगेश्वर ॥ २६॥ ज्ञानकर्मेंद्रिययुतं प्राणपंचकसंयुतम् । मनोबुद्धियुतं चैतत्सूक्ष्मं तत्कवयो विदुः ॥ २७॥ अपंचीकृतभूतोत्थं सूक्ष्मदेहोऽयमात्मनः । द्वितीयोऽयमुपाधिः स्यात्सुखादेरवबोधकः ॥ २८॥ अनाद्यनिर्वाच्यमिदमज्ञानं तु तृतीयकः । देहोऽयमात्मनो भाति कारणात्मा नगेश्वर ॥ २९॥ उपाधिविलये जाते केवलात्माऽवशिष्यते । देहत्रये पंचकोशा अन्तस्थाः सन्ति सर्वदा ॥ ३०॥ पंचकोशपरित्यागे ब्रह्मपुच्छं हि लभ्यते । नेति नेतीत्यादिवाक्यैर्मम रूपं यदुच्यते ॥ ३१॥ न जायते म्रियते वा कदाचि- न्नायं भूत्वा न बभूव कश्चित् । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ ३२॥ हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ ३३॥ अणोरणीयान्महतो महीया- नात्माऽस्य जन्तोर्निहितो गुहायाम् । तमक्रतुः पश्यति वीतशोको धातुप्रसादान्महिमानमस्य ॥ ३४॥ आत्मानं रथिनं विद्धि शरीरं रथमेव तु । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ ३५॥ इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् । आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥ ३६॥ यस्त्वविद्वान्भवति चामनस्कः सदाऽशुचिः । स तु तत्पदमवाप्नोति संसारं चाधिगच्छति ॥ ३७॥ यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः । स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ॥ ३८॥ विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः । सोऽध्वनः पारमाप्नोति मदीयं यत्परं पदम् ॥ ३९॥ इत्थं श्रुत्या च मत्या च निश्चित्यात्मानमात्मना । भावयेन्मामात्मरूपां निदिध्यासनतोऽपि च ॥ ४०॥ योगवृत्तेः पुरा स्वामिन्भावयेदक्षरत्रयम् । देवीप्रणवसंज्ञस्य ध्यानार्थं मंत्रवाच्ययोः ॥ ४१॥ हकारः स्थूलदेहः स्याद्रकारः सूक्ष्मदेहकः । ईकारः काराणात्माऽसौ ह्रींकारोऽहं तुरीयकम् ॥ ४२॥ एवं समष्टिदेहेऽपि ज्ञात्वा बीजत्रयं क्रमात् । समष्टिव्यष्ट्योरेकत्वं भावयेन्मतिमान्नरः ॥ ४३॥ समाधिकालात्पूर्वं तु भावयित्वैवमादृतः । ततो ध्यायेन्निलीनाक्षो देवीं मां जगदीश्वरीम् ॥ ४४॥ प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ । निवृत्तविषयाकांक्षो वीतदोषो विमत्सरः ॥ ४५॥ भक्त्या निर्व्याजया युक्तो गुहायां निःस्वने स्थले । हकारं विश्वमात्मानं रकारे प्रविलापयेत् ॥ ४६॥ रकारं तैजसं देवमीकारे प्रविलापयेत् । ईकारं प्राज्ञयात्मानं ह्रींकारे प्रविलापयेत् ॥ ४७॥ वाच्यवाचकताहीनं द्वैतभावविवर्जितम् । अखण्डं सच्चिदानन्दं भावयेत्तच्छिखान्तरे ॥ ४८॥ इति ध्यानेन मां राजन्साक्षात्कृत्य नरोत्तमः । मद्रूप एव भवति द्वयोरप्येकता यतः ॥ ४९॥ योगयुक्त्याऽनया द्रष्टा मामात्मानं परात्परम् । अज्ञानस्य सकार्यस्य तत्क्षणे नाशको भवेत् ॥ ५०॥ ॥ इति श्रीदेवीभागवते देवीगीतायां तृतीयोऽध्यायः ॥
॥ अथ चतुर्तोऽध्यायः ॥ हिमालय उवाच - योगं वद महेशानि सांग संवित्प्रदायकम् । कृतेन येन योग्योऽहं भवेयं तत्त्वदर्शने ॥ १॥ श्रीदेव्युवाच - न योगो नभसः पृष्ठे न भूमौ न रसातले । ऐक्यं जीवात्मनोराहुर्योगं योगविशारदाः ॥ २॥ तत्प्रत्यूहाः षडाख्याता योगविघ्नकरानघ । कामक्रोधौ लोभमोहौ मदमात्सर्यसंज्ञकौ ॥ ३॥ योगांगैरेव भित्त्वा तान्योगिनो योगमाप्नुयुः । यमं नियममासनप्राणायामौ ततःपरम् ॥ ४॥ प्रत्याहारं धारणाख्यं ध्यानं सार्धं समाधिना । अष्टाङ्गान्याहुरेतानि योगिनां योगसाधने ॥ ५॥ अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयाऽऽर्जवम् । क्षमा धृतिर्मिताहारः शौचं चेति यमा दश ॥ ६॥ तपः संतोष आस्तिक्यं दानं देवस्य पूजनम् । सिद्धान्तश्रवणं चैव ह्रीर्मतिश्च जपो हुतम् ॥ ७॥ दशैते नियमाः प्रोक्ता मया पर्वतनायक । पद्मासनं स्वस्तिकं च भद्रं वज्रासनं तथा ॥ ८॥ वीरासनमिति प्रोक्तं क्रमादासनपंचकम् । ऊर्वोरुपरि विन्यस्य सम्यक्पादतले शुभे ॥ ९॥ अंगिष्ठौ च निबध्नीयाद्धस्ताभ्यां व्युत्क्रमात्ततः । पद्मासनमिति प्रोक्तं योगिनां हृदयंगमम् ॥ १०॥ जानूर्वोरन्तरे सम्यक्कृत्वा पादतले शुभे । ऋजुकायो विशेद्योगी स्वस्तिकं तत्प्रचक्षते ॥ ११॥ सीवन्याः पार्श्वयोर्न्यस्य गुल्फयुग्मं सुनिश्चितम् । वृषणाधः पादपार्ष्णी पाणिभ्यां परिबन्धयेत् ॥ १२॥ भद्रासनमिति प्रोक्तं योगिभिः परिपूजितम् । ऊर्वोः पादौ क्रमान्न्यस्य जान्वोःप्रत्यङ्मुखांगुली ॥ १३॥ करौ विदध्यादाख्यातं वज्रासनमनुत्तमम् । एकं पादमधः कृत्वा विन्यस्योरुं तथोत्तरे ॥ १४॥ ऋजुकायो विशेद्योगी वीरासनमितीरितम् । ईडयाकर्षयेद्वायुं बाह्यं षोडशमात्रया धारयेत्पूरितं योगी चतुःषष्ट्या तु मात्रया ॥ १५॥ सुषुम्नामध्यगं सम्य द्वात्रिंशन्मात्रया शनैः ॥ १६॥ नाड्या पिंगलया चैव रेचयेद्योगवित्तमः । प्राणायाममिमं प्राहुर्योगशास्त्रविशारदाः ॥ १७॥ भूयो भूयः क्रमात्तस्य बाह्यमेवं समाचरेत् । मात्रावृद्धिः क्रमेणैव सम्यग्द्वादश षोडश ॥ १८॥ जपध्यानादिभिः सार्थं सगर्भं तं विदुर्बुधाः । तदपेतं विगर्भं च प्राणायामं परे विदुः ॥ १९॥ क्रमादभ्यस्यतः पुंसो देहे स्वेदोद्गमोऽधमः । मध्यमः कंपसंयुक्तो भूमित्यागः परो मतः ॥ २०॥ उत्तमस्य गुणावाप्तिर्यावच्छीलनमिष्यते । इन्द्रियाणां विचरतां विषयेषु निरर्गलम् ॥ २१॥ बलादाहरणं तेभ्यः प्रत्याहारोऽभिधीयते । अंगुष्ठगुल्फजानूरुमूलाधारलिंगनाभिषु ॥ २२॥ हृद्ग्रीवाकंठदेशेषु लंबिकायां ततो नसि । भ्रूमध्ये मस्तके मूर्ध्नि द्वादशान्ते यथाविधि ॥ २३॥ धारणं प्राणमरुतो धारणेति निगद्यते । समाहितेन मनसा चैतन्यान्तरवर्तिना ॥ २४॥ आत्मन्यभीष्टदेवानां ध्यानं ध्यानमिहोच्यते । समत्वभावना नित्यं जीवात्मपरमात्मनोः ॥ २५॥ समाधिर्माहुर्मुनयः प्रोक्तमष्टांगलक्षणम् । इदानीं कथये तेऽहं मंत्रयोगमनुत्तमम् ॥ २६॥ विश्वं शरीरमित्युक्तं पंचभूतात्मकं नग । चन्द्रसूर्याग्नितेजोभिर्जीवब्रह्मैक्यरूपकम् ॥ २७॥ तिस्रः कोट्यस्तदर्धेन शरीरे नाडयो मताः । तासु मुख्या दश प्रोक्तास्ताभ्यस्तिस्रो व्यवस्थिताः ॥ २८॥ प्रधाना मेरुदंडेऽत्र चन्द्रसूर्याग्निरूपिणी । इडा वामे स्थिता नाडी शुभ्रा तु चन्द्ररूपिणी ॥ २९॥ शक्तिरूपा तु सा नाडी साक्षादमृतविग्रहा । दक्षिणे या पिंगलाख्या पुंरूपा सूर्यविग्रहा ॥ ३०॥ सर्वतेजोमयी सा तु सुषुम्ना वह्निरूपिणी । तस्या मध्ये विचित्राख्ये इच्छाज्ञानक्रियात्मकम् ॥ ३१॥ मध्ये स्वयंभूलिंगं तु कोटिसूर्यसमप्रभम् । तदूर्ध्वं मायाबीजं तु हरात्माबिन्दुनादकम् ॥ ३२॥ तदूर्ध्वं तु शिखाकारा कुण्डली रक्तविग्रहा । देव्यात्मिका तु सा प्रोक्ता मदभिन्ना नगाधिप ॥ ३३॥ तद्बाह्ये हेमरूपाभं वादिसान्तचतुर्दलम् । द्रुतहेमसमप्रख्यं पद्मं तत्र विचिन्तयेत् ॥ ३४॥ तदूर्ध्वं त्वनलप्रख्यं षड्दलं हीरकप्रभम् । वादिलान्तषड्वर्णेन स्वाधिष्ठानमनुत्तमम् ॥ ३५॥ मूलाधार षट्कोणं मूलाधारं ततो विदुः । स्वशब्देन परं लिंगं स्वाधिष्ठानं ततो विदुः ॥ ३६॥ तदूर्ध्वं नाभिदेशे तु मणिपूरं महाप्रभम् । मेघाभं विद्युदाभं च बहुतेजोमयं ततः ॥ ३७॥ मणिवद्भिन्नं तत्पद्मं मणिपद्मं तथोच्यते । दशभिश्च दलैर्युक्तं डादिफान्ताक्षरान्वितम् ॥ ३८॥ विष्णुनाऽधिष्ठितं पत्रं विष्ण्वालोकनकारणम् । तदूर्ध्वेऽनाहतं पद्ममुद्यदादित्यसंनिभम् ॥ ३९॥ कादिठान्तदलैरर्कपत्रैश्च समधिष्ठितम् । तन्मध्ये बाणलिंगं तु सूर्यायुतसमप्रभम् ॥ ४०॥ शब्दब्रह्ममयं शब्दानाहतं तत्र दृश्यते । अनाहताख्यं तत्पद्मं मुनिभिः परिकीर्तितम् ॥ ४१॥ आनन्दसदनं तत्तु पुरुषाधिष्ठितं परम् । तदूर्ध्वं तु विशुद्धाख्यं दलषोडशपंकजम् ॥ ४२॥ स्वरैः षोडशभिर्युक्तं धूम्रवर्णं महाप्रभम् । विशुद्धं तनुते यस्माज्जीवस्य हंसलोकनात् ॥ ४३॥ विशुद्धं पद्ममाख्यातमाकाशाख्यं महाद्भुतम् । आज्ञाचक्रं तदूर्ध्वे तु आत्मनाऽधिष्ठितं परम् ॥ ४४॥ आज्ञासंक्रमणं तत्र तेनाज्ञेति प्रकीर्तितम् । द्विदलं हक्षसंयुक्तं पद्मं तत्सुमनोहरम् ॥ ४५॥ कैलासाख्यं तदूर्ध्वं तु रोधिनी तु तदूर्ध्वतः । एवं त्वाधारचक्राणि प्रोक्तानि तव सुव्रत ॥ ४६॥ सहस्रारयुतं बिंदुस्थानं तदूर्ध्वमीरितम् । इत्येतत्कथितं सर्वं योगमार्गमनुत्तमम् ॥ ४७॥ आदौ पूरकयोगेनाप्याधारे योजयेन्मनः । गुदमेढ्रान्तरे शक्तिस्तामाकुंच्य प्रबोधयेत् ॥ ४८॥ लिंगभेदक्रमेणैव बिंदुचक्रं च प्रापयेत् । शंभुना तां पराशक्तिमेकीभूतां विचिंतयेत् ॥ ४९॥ तत्रोत्थितामृतं यत्तु द्रुतलाक्षारसोपमम् । पाययित्वा तु तां शक्तिं मायख्यां योगसिद्धिदाम् ॥ ५०॥ षट्चक्रदेवतास्तत्र संतर्प्यामृतधारया । आनयेत्तेन मार्गेण मूलाधारं ततः सुधीः ॥ ५१॥ एवमभ्यस्यमानस्याप्यहन्यहनि निश्चितम् । पूर्वोक्तदूषिता मंत्राः सर्वे सिध्यन्ति नान्यथा ॥ ५२॥ जरामरणदुःखाद्यैर्मुच्यते भवबंधनात् । ये गुणाः सन्ति देव्या मे जगन्मातुर्यथा तथा ॥ ५३॥ ते गुणाः साधकवरे भवन्त्येव चान्यथा । इत्येवं कथितं तात वायुधारणमुत्तमम् ॥ ५४॥ इदानीं धारणाख्यं तु शृणुष्वावहितो मम । दिक्कालाद्यनवच्छिन्नदेव्यां चेतो विधाय च ॥ ५५॥ तन्मयो भवति क्षिप्रं जीवब्रह्मैक्ययोजनात् । अथवा समलं चेतो यदि क्षिप्रं न सिध्यति ॥ ५६॥ तदावयवयोगेन योगी योगान्समभ्यसेत् । मदीयहस्तपादादावंगे तु मधुरे नग ॥ ५७॥ चित्तं संस्थापयेन्मंत्री स्थानस्थानजयात्पुनः । विशुद्धचित्तः सर्वस्मिन्रूपे संस्थापयेन्मनः ॥ ५८॥ यावन्मनोलयं याति देव्यां संविदि पर्वत । तावदिष्टमिदं मंत्री जपहोमैः समभ्यसेत् ॥ ५९॥ मन्त्राभ्यासेन योगेन ज्ञेयज्ञानाय कल्पते । न योगेन विना मन्त्रो न मन्त्रेण विना हि सः ॥ ६०॥ द्वयोरभ्यासयोगो हि ब्रह्मसंसिद्धिकारणम् । तमःपरिवृते गेहे घटो दीपेन दृश्यते ॥ ६१॥ एवं मायावृतो ह्यात्मा मनुना गोचरीकृतः । इति योगविधिः कृत्स्नः साङ्गः प्रोक्तो मयाऽधुना ॥ ६२॥ ॥ इति श्रीदेवीभागवते देवीगीतायां चतुर्थोऽध्यायः ॥
॥ अथ पंचमोऽध्यायः ॥ श्रीदेव्युवाच - इत्यादि योगयुक्तात्मा ध्यायेन्मां ब्रह्मरूपिणीम् । भक्त्या निर्व्याजया राजन्नासने समुपस्थितः ॥ १॥ आविः सन्निहितं गुहाचरं नाम महत्परम् । अत्रैतत्सर्वमर्पितमेजत्प्राणनिमिषच्च यत् ॥ २॥ एतज्जानथ सदसद्वरेण्यं विज्ञानाद्यद्वरिष्ठं प्रजानाम् । यदर्चिमद्यदणुभ्योऽणु च यस्मिंल्लोका निहिता लोकिनश्च ॥ ३॥ तदेतदक्षरं ब्रह्म स प्राणस्तदु वाङ् मनः । तदेतत्सत्यममृतं तद्वेद्धव्यं सौम्य विद्धि ॥ ४॥ धनुर्गॄत्वौपनिषदं महास्त्रं शरं ह्युपासानिशितं सन्धयीत । आयम्य तद्भावगतेन चेतसा लक्ष्यं तदेवाक्षरं सौम्य विद्धि ॥ ५॥ प्रणवो धनुः शरो ह्यात्मा ब्रह्मतल्लक्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥ ६॥ यस्मिन्द्यौश्च पृथिवी चान्तरिक्ष- मोतं मनः सह प्राणैश्च सर्वैः । तमेवैकं जानथात्मानमन्या वाचो विमुंचथा अमृतस्यैष सेतुः ॥ ७॥ अरा इव रथनाभौ संहता यत्र नाड्यः । स एषोन्तश्चरते बहुधा जायमानः ॥ ८॥ ओमित्येवं ध्यायथात्मानं स्वस्ति वः पाराय तमसः परस्तात् । दिव्ये ब्रह्मपुरे व्योम्नि आत्मा सम्प्रतिष्ठितः ॥ ९॥ मनोमयः प्राणशरीरनेता प्रतिष्ठितोऽन्ने हृदयं संनिधाय । तद्विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद्विभाति ॥ १०॥ भिद्यते हृदयग्रन्थिश्च्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ ११॥ हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् । तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः ॥ १२॥ न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ १३॥ ब्रह्मैवेदममृतं पुरस्ताद् ब्रह्म पश्चाद् ब्रह्म दक्षिणश्चोत्तरेण । अधश्चोर्ध्वं प्रसृतं ब्रह्म एवेदं विश्वं वरिष्ठम् ॥ १४॥ एतादृगनुभवो यस्य स कृतार्थो नरोत्तमः । ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति ॥ १५॥ द्वितीयाद्वै भयं रजंस्तदभावाद्बिभेति न । न तद्वियोगो मेऽप्यस्ति मद्वियोगोऽपि तस्य न ॥ १६॥ अहमेव स सोऽहं वै निश्चितं विद्धि पर्वत । मद्दर्शनं तु तत्र स्याद्यत्र ज्ञानी स्थितो मम ॥ १७॥ नाहं तीर्थे न कैलासे वैकुण्ठे वा न कर्हिचित् । वसामि किंतु मज्ज्ञानिहृदयांभोजमध्यमे ॥ १८॥ मत्पूजाकोटिफलदं सकृन्मज्ज्ञानिनोऽर्चनम् । कुलं पवित्रं तस्यास्ति जननी कृतकृत्यका ॥ १९॥ विश्वंभरा पुण्यवती चिल्लयो यस्य चेतसः । ब्रह्मज्ञानं तु यत्पृष्टं त्वया पर्वतसत्तम ॥ २०॥ कथितं तन्मया सर्वं नातो वक्तव्यमस्ति हि । इदं ज्येष्ठाय पुत्राय भक्तियुक्ताय शीलिने ॥ २१॥ शिष्याय च यथोक्ताय वक्तव्यं नान्यथा क्वचित् । यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ॥ २२॥ तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः । येनोपदिष्टा विद्येयं स एव परमेश्वरः ॥ २३॥ यस्यायं सुकृतं कर्तुमसमर्थस्ततो ऋणी । पित्रोरप्यधिकः प्रोक्तो ब्रह्मजन्मप्रदायकः ॥ २४॥ पितृजातं जन्म नष्टं नेत्थं जातं कदाचन । तस्मै न द्रुह्येदित्यादि निगमोऽप्यवदन्नग ॥ २५॥ तस्माच्छास्त्रस्य सिद्धान्तो ब्रह्मदाता गुरुः परः । शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न शंकरः ॥ २६॥ तस्मात्सर्वप्रयत्नेन श्रीगुरुं तोषयेन्नग । कायेन मनसा वाचा सर्वदा तत्परो भवेत् ॥ २७॥ अन्यथा तु कृतघ्नः स्यात्कृतघ्ने नास्ति निष्कृतिः । इन्द्रेणाथर्वणायोक्ता शिरश्छेदप्रतिज्ञया ॥ २८॥ अश्विभ्यां कथने तस्य शिरश्छिन्नं च वज्रिणा । अश्वीयं तच्छिरो नष्टं दृष्ट्वा वैद्यो सुरोत्तमौ ॥ २९॥ पुनः संयोजितं स्वीयं ताभ्यां मुनिशिरस्तदा । इति संकटसम्पाद्या ब्रह्मविद्या नगाधिप । लब्धा येन स धन्यः स्यात्कृतकृत्यश्च भूधर ॥ ३०॥ ॥ इति श्रीदेवीभागवते देवीगीतायां पंचमोऽध्यायः ॥
॥ अथ षष्ठोऽध्यायः ॥ हिमालय उवाच - स्वीयां भक्तिं वदस्वाम्ब येन ज्ञातं सुखेन हि । जायते मनुजस्यास्य मध्यमस्यविरागिणः ॥ १॥ देव्युवाच - मार्गास्त्रयो मे विख्याता मोक्षप्राप्तौ नगाधिप । कर्मयोगो ज्ञानयोगो भक्तियोगश्च सत्तम ॥ २॥ त्रयाणामप्ययं योग्यः कर्तुं शक्योऽस्ति सर्वथा । सुलभत्वान्मानसत्वात्कायचित्ताद्यपीडनात् ॥ ३॥ गुणभेदान्मनुष्याणां सा भक्तिस्त्रिविधा मता । परपीडां समुद्दिश्य दंभं कृत्वा पुरःसरम् ॥ ३॥ मात्सर्यक्रोधयुक्तो यस्तस्य भक्तिस्तु तामसी । परपीडादिरहितः स्वकल्याणार्थमेव च ॥ ५॥ नित्यं सकामो हृदये यशोर्थी भोगलोलुपः । तत्तत्फलसमावाप्त्यै मामुपास्तेऽतिभक्तितः ॥ ६॥ भेदबुद्ध्या तु मां स्वस्मादन्यां जानाति पामरः । तस्य भक्तिः समाख्याता नगाधिप तु राजसी ॥ ७॥ परमेशार्पणं कर्म पापसंक्षालनाय च । वेदोक्तत्वादवश्यं तत्कर्तव्यं तु मयानिशम् ॥ ८॥ इति निश्चितबुद्धिस्तु भेदबुद्धिमुपाश्रितः । करोति प्रीयते कर्म भक्तिः सा नग सात्त्विकी ॥ ९॥ परभक्तेः प्रापिकेयं भेदबुद्ध्यवलम्बनात् । पूर्वप्रोक्तेत्युभे भक्ती न परप्रापिके मते ॥ १०॥ अधुना परभक्तिं तु प्रोच्यमानां निबोध मे । मद्गुणश्रवणं नित्यं मम नामानुकीर्तनम् ॥ ११॥ कल्याणगुणरत्नानामाकरायां मयि स्थिरम् । चेतसो वर्तनं चैव तैलधारासमं सदा ॥ १२॥ हेतुस्तु तत्र को वापि न कदाचिद्भवेदपि । सामीप्यसार्ष्टिसायुज्यसलोक्यानां न चएषणा ॥ १३॥ मत्सेवातोऽधिकं किंचिन्नैव जानाति कर्हिचित् । सेव्यसेवकताभावातत्र मोक्षं न वांछति ॥ १४॥ परानुरक्त्या मामेव चिन्तयेद्यो ह्यतन्द्रितः । स्वाभेदेनैव मां नित्यं जानाति न विभेदतः ॥ १५॥ मद्रूपत्वेन जीवानां चिन्तनं कुरुते तु यः । यथा स्वस्यात्मनि प्रीतिस्तथैव च परात्मनि ॥ १६॥ चैतन्यस्य समानत्वान्न भेदं कुरुते तु यः । सर्वत्र वर्तमानां मां सर्वरूपां च सर्वदा ॥ १७॥ नमते यजते चैवाप्याचांडालान्तमीश्वरम् । न कुत्रापि द्रोहबुद्धिं कुरुते भेदवर्जनात् ॥ १८॥ मत्स्थानदर्शने श्रद्धा मद्भक्तदर्शने तथा । मच्छास्त्रश्रवणे श्रद्धा मंत्रतंत्रादिषु प्रभो ॥ १९॥ मयि प्रेमाकुलमती रोमांचिततनुः सदा । प्रेमाश्रुजलपूर्णाक्षः कंठगद्गदनिस्वनः ॥ २०॥ अनन्येनैव भावेन पूजयेद्यो नगाधिप । मामीश्वरीं जगद्योनिं सर्वकारणकारणम् ॥ २१॥ व्रतानि मम दिव्यानि नित्यनैमित्तिकान्यपि । नित्यं यः कुरुते भक्त्या वित्तशाठ्यविवर्जितः ॥ २२॥ मदुत्स्वदिदृक्षा च मदुत्स्वकृतिस्तथा । जायते यस्य नियतं स्वभावादेव भूधर ॥ २३॥ उच्चैर्गायंश्च नामानि ममैव खलु नृत्यति । अहंकारादिरहितो देहतादात्म्यवर्जितः ॥ २४॥ प्रारब्धेन यथा यच्च क्रियते तत्तथा भवेत् । न मे चिन्तास्ति तत्रापि देहसंरक्षणादिषु ॥ २५॥ इति भक्तिस्तु या प्रोक्ता परभक्तिस्तु सा स्मृता । यस्यां देव्यतिरिक्तं तु न किंचिदपि भाव्यते ॥ २६॥ इत्थं जाता परा भक्तिर्यस्य भूधर तत्त्वतः । तदैव तस्य चिन्मात्रे मद्रूपे विलयो भवेत् ॥ २७॥ भक्तेस्तु या परा काष्ठा सैव ज्ञानं प्रकीर्तितम् । वैराग्यस्य च सीमा सा ज्ञाने तदुभयं यतः ॥ २८॥ भक्तौ कृतायां यस्यापि प्रारब्धवशतो नग । न जायते मम ज्ञानं मणिद्वीपं स गच्छति ॥ २९॥ तत्र गत्वाऽखिलान्भोगाननिच्छन्नपि चर्च्छति । तदन्ते मम चिद्रूपज्ञानं सम्यग्भवेन्नग ॥ ३०॥ तेन युक्तः सदैव स्याज्ज्ञानान्मुक्तिर्न चान्यथा । इहैव यस्य ज्ञानं स्याधृद्गतप्रत्यगात्मनः ॥ ३१॥ मम संवित्परतनोस्तस्य प्राणा व्रजन्ति न । ब्रह्मैव संस्तदाप्नोति ब्रह्मैव ब्रह्म वेद यः ॥ ३२॥ कंठचामीकरसममज्ञानात्तु तिरोहितम् । ज्ञानादज्ञाननाशेन लब्धमेव हि लभ्यते ॥ ३३॥ विदिताविदितादन्यन्नगोत्तम वपुर्मम । यथाऽऽदर्शे यथाऽऽत्मनि यथा जले तथा पितृलोके ॥ ३४॥ छायातपौ तथा स्वच्छौ विविक्तौ तद्वदेव हि । मम लोके भवेज्ज्ञानं द्वैतभानविवर्जितम् ॥ ३५॥ यस्तु वैराग्यवानेव ज्ञानहीनो म्रियेत चेत् । ब्रह्मलोके वसेन्नित्यं यावत्कल्पं ततःपरम् ॥ ३६॥ शुचीनां श्रीमतां गेहे भवेत्तस्या जनिः पुनः । करोति साधनं पश्चात्ततो ज्ञानं हि जायते ॥ ३७॥ अनेकजन्मभी राजञ्ज्ञानं स्यान्नैकजन्मना । ततः सर्वप्रयत्नेन ज्ञानार्थं यत्नमाश्रयेत् ॥ ३८॥ नोचेन्महाविनाशः स्याज्जन्मेतद्दुर्लभं पुनः । तत्रापि प्रथमे वर्णे वेदे प्राप्तिश्च दुर्लभा ॥ ३९॥ शमादिषट्कसम्पत्तिर्योगसिद्धिस्तथैव च । तथोत्तमगुरुप्राप्तिः सर्वमेवात्र दुर्लभम् ॥ ४०॥ तथेन्द्रियाणां पटुता संस्कृतत्वं तनोस्तथा । अनेकजन्मपुण्यैस्तु मोक्षेच्छा जायते ततः ॥ ४१॥ साधने सफलेऽप्येवं जायमानेऽपि यो नरः । ज्ञानार्थं नैव यतते तस्य जन्म निरर्थकम् ॥ ४२॥ तस्माद्राजन्यथाशक्त्या ज्ञानार्थं यत्नमाश्रयेत् । पदे पदेऽश्वमेधस्य फलमाप्नोति निश्चितम् ॥ ४३॥ घृतमिव पयसि निगूढं भूते च वसति विज्ञानम् । सततं मन्थयितव्यं मनसा मन्थानभूतेन ॥ ४४॥ ज्ञानं लब्ध्वा कृतार्थः स्यादिति वेदान्तदिण्डिमः । सर्वमुक्तं समासेन किं भूयः श्रोतुमिच्छसि ॥ ४५॥ ॥ इति श्रीदेवीभागवते देवीगीतायां षष्ठोऽध्यायः ॥
॥ अथ सप्तमोऽध्यायः ॥ हिमालय उवाच - कति स्थानानि देवेशि द्रष्टव्यानि महीतले । मुख्यानि च पवित्राणि देवीप्रियतमानि च ॥ १॥ व्रतान्यपि तथा यानि तुष्टिदान्युत्सवा अपि । तत्सर्वं वद मे मातः कृतकृत्यो यतो नरः ॥ २॥ श्रीदेव्युवाच - सर्वं दृश्यं मम स्थानं सर्वे काला व्रतात्मकाः । उत्सवाः सर्वकालेषु यतोऽहं सर्वरूपिणी ॥ ३॥ तथापि भक्तवात्सल्यात्किंचित्किंचिदथोच्यते । शृणुष्वावहितो भूत्वा नगराज वचो मम ॥ ४॥ कोलापुरं महास्थानं यत्र लक्ष्मीः सदा स्थिता । मातुःपुरं द्वितीयं च रेणुकाधिष्ठितं परम् ॥ ५॥ तुलजापुरं तृतीयं स्यात्सप्तशृंगं तथैव च । हिंगुलायां महास्थानं ज्वालामुख्यास्तथैव च ॥ ६॥ शाकंभर्याः परं स्थानं भ्रामर्याः स्थानमुत्तमम् । श्रीरक्तदंतिकास्थानं दुर्गास्थानं तथैव च ॥ ७॥ विंध्याचलनिवासिन्याः स्थानं सर्वोत्तमोत्तमम् । अन्नपूर्णामहास्थानं कांचीपुरमनुत्तमम् ॥ ८॥ भीमादेव्याः परं स्थानं विमलास्थानमेव च । श्रीचंद्रलामहास्थानं कौशिकीस्थानमेव च ॥ ९॥ नीलांबायाः परं स्थानं नीलपर्वतमस्तके । जांबूनदेश्वरीस्थानं तथा श्रीनगरं शुभम् ॥ १०॥ गुह्यकाल्या महास्थानं नेपाले यत्प्रतिष्ठितम् । मीनाक्ष्याः परमं स्थानं यच्च प्रोक्तं चिदंबरे ॥ ११॥ वेदारण्यं महास्थानं सुन्दर्या समधिष्ठितम् । एकांबरं महास्थानं परशक्त्या प्रतिष्ठितम् ॥ १२॥ महालसा परं स्थानं योगेश्वर्यास्तथैव च । तथा नीलसरस्वत्याः स्थानं चीनेषु विश्रुतम् ॥ १३॥ वैद्यनाथे तु बगलास्थानं सर्वोत्तमं मतम् । श्रीमच्छ्रीभुवनेश्वर्या मणिद्वीपं मम स्मृतम् ॥ १४॥ श्रीमत्त्रिपुरभैरव्याः कामाख्यायोनिमण्डलम् । भूमण्डले क्षेत्ररत्नं महामायाधिवासितम् ॥ १५॥ नातः परतरं स्थानं क्वचिदस्ति धरातले । प्रतिमासं भवेद्देवी यत्र साक्षाद्रजस्वला ॥ १६॥ तत्रत्या देवताः सर्वाः पर्वतात्मकतां गताः । पर्वतेषु वसन्त्येव महत्यो देवता अपि ॥ १७॥ तत्रत्या पृथिवी सर्वा देवीरूपा स्मृता बुधैः । नातः परतरं स्थानं कामाख्यायोनिमण्डलात् ॥ १८॥ गायत्र्याश्च परं स्थानं श्रीमत्पुष्करमीरितम् । अमरेशे चंडिका स्यात्प्रभासे पुष्करेक्षिणी ॥ १९॥ नैमिषे तु महास्थाने देवी सा लिंगधारिणी । पुरुहूता पुष्कराक्षे आषाढौ च रतिस्तथा ॥ २०॥ चण्डमुण्डी महास्थाने दण्डिनी परमेश्वरी । भारभूतौ भवेद्भूतिर्नाकुले नकुलेश्वरी ॥ २१॥ चंद्रिका तु हरिश्चन्द्रे श्रीगिरौ शांकरी स्मृता । जप्येश्वरे त्रिशूला स्यात्सूक्ष्मा चाम्रातकेश्वरे ॥ २२॥ शांकरी तु महाकाले शर्वाणी मध्यमाभिधे । केदाराख्ये महाक्षेत्रे देवी सा मार्गदायिनी ॥ २३॥ भैरवाख्ये भैरवी सा गयायां मंगला स्मृता । स्थाणुप्रिया कुरुक्षेत्रे स्वायंभुव्यपि नाकुले ॥ २४॥ कनखले भवेदुग्रा विश्वेशा विमलेश्वरे । अट्टहासे महानन्दा महेन्द्रे तु महान्तका ॥ २५॥ भीमे भीमेश्वरी प्रोक्ता रुद्राणी त्वर्धकोटिके ॥ २६॥ अविमुक्ते विशालाक्षी महाभागा महालये । गोकर्णे भद्रकर्णी स्याद्भद्रा स्याद्भद्रकर्णके ॥ २७॥ उत्पलाक्षी सुवर्णाक्षे स्थाण्वीशा स्थाणुसंज्ञके । कमलालये तु कमला प्रचण्डा छगलण्डके ॥ २८॥ कुरण्डले त्रिसन्ध्या स्यान्माकोटे मुकुटेश्वरी । मण्डलेशे शाण्डकी स्यात्काली कालंजरे पुनः ॥ २९॥ शंकुकर्णे ध्वनिः प्रोक्ता स्थूला स्यात्स्थूलकेश्वरे । ज्ञानिनां हृदयांभोजे हृल्लेखा परमेश्वरी ॥ ३०॥ प्रोक्तानीमानि स्थानानि देव्याः प्रियतमानि च । तत्तत्क्षेत्रस्य माहात्म्यं श्रुत्वा पूर्वं नगोत्तम ॥ ३१॥ तदुक्तेन विधानेन पश्चाद्देवीं प्रपूजयेत् । अथवा सर्वक्षेत्राणि काश्यां सन्ति नगोत्तम ॥ ३२॥ तत्र नित्यं वसेन्नित्यं देवीभक्तिपरायणः । तानि स्थानानि सम्पश्यञ्जपन्देवीं निरन्तरम् ॥ ३३॥ ध्यायंस्तच्चरणांभोजं मुक्तो भवति बंधनात् । इअमानि देवीनामानि प्रातरुत्थाय यः पठेत् ॥ ३४॥ भस्मीभवन्ति पापानि तत्क्षणान्नग सत्वरम् । श्राद्धकाले पठेदेतान्यमलानि द्विजाग्रतः ॥ ३५॥ प्रतिपक्षं विशेषेण तद्देवीप्रीतिकारकम् । सोमवारव्रतं चैव ममातिप्रियकृन्नग ॥ ४१॥ तत्रापि देवीं सम्पूज्य रात्रौ भोजनमाचरेत् । नवरात्रद्वयं चैव व्रतं प्रीतिकरं मम ॥ ४२॥ एवमन्यान्यपि विभो नित्यनैमित्तिकानि च । व्रतानि कुरुते यो वै मत्प्रीत्यर्थं विमत्सरः ॥ ४३॥ प्राप्नोति मम सायुज्यं स मे भक्तः स मे प्रियः । उत्सवानपि कुर्वीत दोलोत्सवमुखान्विभो ॥ ४४॥ शयनोत्सवं तथा कुर्यात्तथा जागरणोत्सवम् । रथोत्सवं च मे कुर्याद्दमनोत्सवमेव च ॥ ४५॥ पवित्रोत्सवमेवापि श्रावणे प्रीतिकारकम् । मम भक्तः सदा कुर्यादेवमन्यान्महोत्सवान् ॥ ४६॥ मद्भक्तान्भोजयेत्प्रीत्या तथा चैव सुवासिनीः । कुमारीबटुकांश्चापि मद्बुद्ध्या तद्गतान्तरः ॥ ४७॥ वित्तशाठ्येन रहितो यजेदेतान्सुमादिभिः । य एवं कुरुते भक्त्या प्रतिवर्षमतन्द्रितः ॥ ४८॥ स धन्यः कृतकृत्योऽसौ मत्प्रीतेः पात्रमंजसा । सर्वमुक्तं समासेन मम प्रीतिप्रदायकम् । नाशिष्याय प्रदातव्यं नाभक्ताय कदाचन ॥ ४९ ॥ ॥ इति श्रीदेवीभागवते देवीगीतायां सप्तमोऽध्यायः ॥
॥ अथ अष्टमोऽध्यायः ॥ हिमालय उवाच - देवदेवि महेशानि करुणासागरेऽम्बिके । ब्रूहि पूजाविधिं सम्यग्यथावदधुना निजम् ॥ १॥ श्रीदेव्युवाच - वक्ष्ये पूजाविधिं राजन्नम्बिकाया यथाप्रियम् । अत्यन्तश्रद्धया सार्धं शृणु पर्वतपुंगव ॥ २॥ द्विविधा मम पूजा स्याद्बाह्या चाभ्यान्तरापि च । बाह्यापि द्विविधा प्रोक्ता वैदिकी तान्त्रिकी तथा ॥ ३॥ वैदिक्यर्चापि द्विविधा मूर्तिभेदेन भूधर । वैदिकी वैदिकैः कार्या वेददीक्षा समन्वितैः ॥ ४॥ तन्त्रोक्तदीक्षावद्भिस्तु तान्त्रिकी संश्रिता भवेत् । इत्थं पूजारहस्यं च न ज्ञात्वा विपरीतकम् ॥ ५॥ करोति यो नरो मूढः स पतत्येव सर्वथा । तत्र या वैदिकी प्रोक्ता प्रथमा तां वदाम्यहम् ॥ ६॥ यन्मे साक्षात्परं रूपं दृष्टवानसि भूधर । अनन्तशीर्षनयनमनन्तचरणं महत् ॥ ७॥ सर्वशक्तिसमायुक्तं प्रेरकं यत्परात्परम् । तदेव पूजयेन्नित्यं नमेद्ध्यायेत्स्मरेदपि ॥ ८॥ इत्येतत्प्रथमाचार्याः स्वरूपं कथितं नग । शान्तः समाहितमना दंभाहंकारवर्जितः ॥ ९॥ तत्परो भव तद्याजी तदेव शरणं व्रज । तदेव चेतसा पश्य जप ध्यायस्व सर्वदा ॥ १०॥ अनन्यया प्रेमयुक्तभक्त्या मद्भावमाश्रितः । यज्ञैर्यज तपोदानैर्मामेव परितोषय ॥ ११॥ इत्थं ममानुग्रहतो मोक्ष्यसे भवबन्धनात् । मत्परा ये मदासक्तचित्ता भक्तपरा मताः ॥ १२॥ प्रतिजाने भवादस्मादुद्धाराम्यचिरेण तु । ध्यानेन कर्मयुक्तेन भक्तिज्ञानेन वा पुनः ॥ १३॥ प्राप्याहं सर्वथा राजन्न तु केवलकर्मभिः । धर्मात्संजायते भक्तिर्भक्त्या संजायते परम् ॥ १४॥ श्रुतिस्मृतिभ्यामुदितं यत्स धर्मः प्रकीर्तितः । अन्यशास्त्रेण यः प्रोक्तो धर्माभासः स उच्यते ॥ १५॥ सर्वज्ञात्सर्वशक्तेश्च मत्तो वेदः समुत्थितः । अज्ञानस्य ममाभावादप्रमाणा न च श्रुतिः ॥ १६॥ स्मृतयश्च श्रुतेरर्थं गृहीत्वैव च निर्गताः । मन्वादीनां स्मृतीनां च ततः प्रामाण्यमिष्यते ॥ १७॥ क्वचित्कदाचित्तन्त्रार्थकटाक्षेण परोदितम् । धर्मं वदन्ति सोंऽशस्तु नैव ग्राह्योऽस्ति वैदिकैः ॥ १८॥ अन्येषां शास्त्रकर्तॄणामज्ञानप्रभवत्वतः । अज्ञानदोषदुष्टत्वात्तदुक्तेर्न प्रमाणता ॥ १९॥ तस्मान्मुमुक्षुर्धर्मार्थं सर्वथा वेदमाश्रयेत् । राजाज्ञा च यथा लोके हन्यते न कदाचन ॥ २०॥ सर्वेशाया ममाज्ञा सा श्रुतिस्त्याज्या कथं नृभिः । मदाज्ञारक्षणार्थं तु ब्रह्मक्षत्रियजातयः ॥ २१॥ मया सृष्टास्ततो ज्ञेयं रहस्यं मे श्रुतेर्वचः । यदा यदा हि धर्मस्य ग्लानिर्भवति भूधर ॥ २२॥ अभ्युत्थानमधर्मस्य तदा वेषान्बिभर्म्यहम् । देवदैत्यविभागश्चाप्यत एवाभवन्नृप ॥ २३॥ ये न कुर्वन्ति तद्धर्मं तच्छिक्षार्थं मया सदा । सम्पादितास्तु नरकास्रासो यच्छ्रवणाद्भवेत् ॥ २४॥ यो वेदधर्ममुज्झित्य धर्ममन्यं समाश्रयेत् । राजा प्रवासयेद्देशान्निजादेतानधर्मिणः ॥ २५॥ ब्राह्मणैर्न च संभाष्याः पंक्तिग्राह्या न च द्विजैः । अन्यानि यानि शास्त्राणि लोकेऽस्मिन्विविधानि च ॥ २६॥ श्रुतिस्मृतिविरुद्धानि तामसान्येव सर्वशः । वामं कापालकं चैव कौलकं भैरवागमः ॥ २७॥ शिवेन मोहनार्थाय प्रणीतो नान्यहेतुकः । यक्षशापाद् भृगोः शापाद्दधीचस्य च शापतः ॥ २८॥ दग्धा ये ब्राह्मणवरा वेदमार्गबहिष्कृताः । तेषामुद्धरणार्थाय सोपानक्रमतः सदा ॥ २९॥ शैवाश्च वैष्णवाश्चैव सौराः शाक्तास्तथैव च । गाणपत्या आगमाश्च प्रणीताः शंकरेण तु ॥ ३०॥ तत्र वेदाविरुद्धोंऽशोऽप्युक्त एव क्वचित्क्वचित् । वैदिकस्तद्ग्रहे दोषो न भवत्येव कर्हिचित् ॥ ३१॥ सर्वथा वेदभिन्नार्थे नाधिकारी द्विजो भवेत् । वेदाधिकारहीनस्तु भवेत्तत्राधिकारवान् ॥ ३२॥ तस्मात्सर्वप्रयत्नेन वैदिको वेदमाश्रयेत् । धर्मेण सहितं ज्ञानं परं ब्रह्म प्रकाशयेत् ॥ ३३॥ सर्वैषणाः परित्यज्य मामेव शरणं गताः । सर्वभूतदयावन्तो मानाहंकारवर्जिताः ॥ ३४॥ मच्चित्ता मद्गतप्राणा मत्स्थानकथने रताः । संन्यासिनो वनस्थाश्च गृहस्था ब्रह्मचारिणः ॥ ३५॥ उपासन्ते सदा भक्त्या योगमैश्वरसंज्ञितम् । तेषां नित्याभियुक्तानामहमज्ञानजं तमः ॥ ३६॥ ज्ञानसूर्यप्रकाशेन नाशयामि न संशयः । इत्थं वैदिकपूजायाः प्रथमाया नगाधिप ॥ ३७॥ स्वरूपमुक्तं संक्षेपाद्द्वितीयाया अथो ब्रुवे । मूर्तौ वा स्थण्डिले वापि तथा सूर्येन्दुमण्डले ॥ ३८॥ जलेऽथवा बाणलिंगे यन्त्रे वापि महापटे । तथा श्रीहृदयांभोजे ध्यात्वा देवीं परात्पराम् ॥ ३९॥ सगुणां करुणापूर्णां तरुणीमरुणारुणाम् । सौन्दर्यसारसीमान्तां सर्वावयवसुंदराम् ॥ ४०॥ शृंगाररससम्पूर्णां सदा भक्तार्तिकातराम् । प्रसादसुमुखीमम्बां चन्द्रखण्डाशिखण्डिनीम् ॥ ४१॥ पाशांकुशवराभीतिधरामानन्दरूपिणीम् । पूजयेदुपचारैश्च यथावित्तानुसारतः ॥ ४२॥ यावदान्तरपूजायामधिकारो भवेन्न हि । तावद्बाह्यामिमां पूजां श्रयेज्जाते तु तां त्यजेत् ॥ ४३॥ आभ्यन्तरा तु या पूजा सा तु संविल्लयः स्मृतः । संविदेवपरं रूपमुपाधिरहितं मम ॥ ४४॥ अतः संविदि मद्रूपे चेतः स्थाप्यं निराश्रयम् । संविद्रूपातिरिक्तं तु मिथ्या मायामयं जगत् ॥ ४५॥ अतः संसारनाशाय साक्षिणीमात्मरूपिणीम् । भावयन्निर्मनस्केन योगयुक्तेन चेतसा ॥ ४६॥ अतःपरं बाह्यपूजाविस्तारः कथ्यते मया । सावधानेन मनसा शृणु पर्वतसत्तम ॥ ४७॥ ॥ इति श्रीदेवीभागवते देवीगीतायां अष्टमोऽध्यायः ॥
अथ नवमोऽध्यायः ॥ श्रीदेव्युवाच - प्रातरुत्थाय शिरसि संस्मरेत्पद्ममुज्ज्वलम् । कर्पूराभं स्मरेत्तत्र श्रीगुरुं निजरूपिणम् ॥ १॥ सुप्रसन्नं लसद्भूषाभूषितं शक्तिसंयुतम् । नमस्कृत्य ततो देवीं कुण्डलीं संस्मरेद्बुधः ॥ २॥ प्रकाशमानां प्रथमे प्रयाणे प्रतिप्रयाणेऽप्यमृतायमानाम् । अन्तःपदव्यामनुसंचरन्ती- मानन्दरूपामबलां प्रपद्ये ॥ ३॥ ध्यात्वैवं तच्छिखामध्ये सच्चिदानन्दरूपिणीम् । मां ध्यायेदथ शौचादिक्रियाः सर्वाः समापयेत् ॥ ४॥ अग्निहोत्रं ततो हुत्वा मत्प्रीत्यर्थं द्विजोत्तमः । होमान्ते स्वासने स्थित्वा पूजासंकल्पमाचरेत् ॥ ५॥ भूतशुद्धिं पुरा कृत्वा मातृकान्यासमेव च । हृल्लेखामातृकान्यासं नित्यमेव समाचरेत् ॥ ६॥ मूलाधारे हकारं च हृदये च रकारकम् । भ्रूमध्ये तद्वदीकारं ह्रींकारं मस्तके न्यसेत् ॥ ७॥ तत्तन्मन्त्रोदितानन्यान्न्यासान्सर्वान्समाचरेत् । कल्पयेत्स्वात्मनो देहे पीठं धर्मादिभिः पुनः ॥ ८॥ ततो ध्यायेन्महादेवीं प्राणायामैर्विजृम्भिते । हृदम्भोजे मम स्थाने पंचप्रेतासने बुधः ॥ ९॥ ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः । एते पंच महाप्रेताः पादमूले मम स्थिताः ॥ १०॥ पंचभूतात्मका ह्येते पंचावस्थात्मका अपि । अहं त्वव्यक्तचिद्रूपा तदतीताऽस्मि सर्वथा ॥ ११॥ ततो विष्टरतां याताः शक्तितन्त्रेषु सर्वदा । ध्यात्वैवं मानसैर्भोगैः पूजयेन्मां जपेदपि ॥ १२॥ जपं समर्प्य श्रीदेव्यै ततोऽर्घ्यस्थापनं चरेत् । पात्रासादनकं कृत्वा पूजाद्रव्याणि शोधयेत् ॥ १३॥ जलेन तेन मनुना चास्त्रमन्त्रेण देशिकः । दिग्बन्धं च पुरा कृत्वा गुरून्नत्वा ततः परम् ॥ १४॥ तदनुज्ञां समादाय बाह्यपीठे ततः परम् । हृदिस्थां भावितां मूर्तिं मम दिव्यां मनोहराम् ॥ १५॥ आवाहयेत्ततः पीठे प्राणस्थापनविद्यया । आसनावाहने चार्घ्यं पाद्याद्याचमनं तथा ॥ १६॥ स्नानं वासोद्वयं चैव भूषणानि च सर्वशः । गन्धपुष्पं यथायोग्यं दत्त्वा देव्यै स्वभक्तितः ॥ १७॥ यंत्रस्थानामावृतीनां पूजनं सम्यगाचरेत् । प्रतिवारमशक्तानां शुक्रवारो नियम्यते ॥ १८॥ मूलदेवीप्रभारूपाः स्मर्तव्या अंगदेवताः । तत्प्रभापटलव्याप्तं त्रैलोक्यं च विचिंतयेत् ॥ १९॥ पुनरावृत्तिसहितां मूलदेवीं च पूजयेत् । गन्धादिभिः सुगन्धैस्तु तथा पुष्पैः सुवासितैः ॥ २०॥ नैवेद्यैस्तर्पणैश्चैव तांबूलैर्दक्षिणादिभिः । तोषयेन्मां त्वत्कृतेन नाम्नां साहस्रकेण च ॥ २१॥ कवचेन च सूक्तेनाहं रुद्रेभिरिति प्रभो । देव्यथर्वशिरोमन्त्रैर्हृल्लेखोपनिषद्भवैः ॥ २२॥ महाविद्यामहामन्त्रैस्तोषयेन्मां मुहुर्मुहुः । क्षमापयेज्जगद्धात्रीं प्रेमार्द्रहृदयो नरः ॥ २३॥ पुलकांकितसर्वांगैर्बाल्यरुद्धाक्षिनिःस्वनः । नृत्यगीतादिघोषेण तोषयेन्मां मुहुर्मुहुः ॥ २४॥ वेदपारायणैश्चैव पुराणैः सकलैरपि । प्रतिपाद्या यतोऽहं वै तस्मात्तैस्तोषयेत्तु माम् ॥ २५॥ निज सर्वस्वमपि मे सदेहं नित्यशोऽर्पयेत् । नित्यहोमं ततः कुर्याद्ब्राह्मणांश्च सुवासिनीः ॥ २६॥ बटुकान्पामराननन्यान्देवीबुद्ध्या तु भोजयेत् । नत्वा पुनः स्वहृदये व्युत्क्रमेण विसर्जयेत् ॥ २७॥ सर्वं हृल्लेखया कुर्यात्पूजनं मम सुव्रत । हृल्लेखा सर्वमंत्राणां नायिका परमा स्मृता ॥ २८ ॥ हृल्लेखादर्पणे नित्यमहं तु प्रतिबिम्बिता । तस्माधृल्लेखया दत्तं सर्वमन्त्रैः समर्पितम् ॥ २९॥ गुरुं सम्पूज्य भृषाद्यैः कृतकृत्यत्वमावहेत् । य एवं पूजयेद्देवीं श्रीमद्भुवनसुन्दरीम् ॥ ३०॥ न तस्य दुर्लभं किंचित्कदाव्हित्क्वचिदस्ति हि । देहान्ते तु मणिद्वीपं माम यात्येव सर्वथा ॥ ३१॥ ज्ञेयो देवीस्वरूपोऽसौ देवा नित्यं नमन्ति तम् । इति ते कथितं राजन्महादेव्याः प्रपूजनम् ॥ ३२॥ विमृश्यैतदशेषेणाप्यधिकारानुरूपतः । कुरु मे पूजनं तेन कृतार्थस्त्वं भविष्यसि ॥ ३३॥ इदं तु गीताशास्त्रं मे नाशिष्याय वदेत्क्वचित् । नाभक्ताय प्रदातव्यं न धूर्ताय च दुर्हृदे ॥ ३४॥ एतत्प्रकाशनं मातुरुद्धाटनमुरोजयोः । तस्मादवश्यं यत्नेन गोपनीयमिदं सदा ॥ ३५॥ देयं भक्ताय शिष्याय ज्येष्ठपुत्राय चैव हि । सुशीलाय सुवेषाय देवीभक्तियुताय च ॥ ३६॥ श्राद्धकाले पठेदेतद् ब्राह्मणानां समीपतः । तृप्तास्तत्पितरः सर्वे प्रयान्ति परमं पदम् ॥ ३७॥ व्यास उवाच - इत्युक्त्वा सा भगवती तत्रैवान्तरधीयत । देवाश्च मुदिताः सर्वे देवीदर्शनतोऽभवन् ॥ ३८॥ तता हिमालये जज्ञे देवी हैमवती तु सा । या गौरीति प्रसिद्धासीद्दत्ता सा शंकराय च ॥ ३९॥ ततः स्कन्दः समुद्भूतस्तारकस्तेन पातितः । समुद्रमन्थने पूर्वं रत्नान्यासुर्नराधिप ॥ ४०॥ तत्र देवैस्तुता देवी लक्ष्मीप्राप्त्यर्थमादरात् । तेषामनुग्रहार्थाय निर्गता तु रमा ततः ॥ ४१॥ वैकुंठाय सुरैर्दत्ता तेन तस्य शमाभवत् । इति ते कथितं राजन्देवीमाहात्म्यमुत्तमम् ॥ ४२॥ गौरीलक्ष्म्योः समुद्भूतिविषयं सर्वकामदम् । न वाच्यं त्वेतदन्यस्मै रहस्यं कथितं यतः ॥ ४३॥ गीता रहस्यभूतेयं गोपनीया प्रयत्नतः । सर्वमुक्तं समासेन यत्पृष्टं तत्वयानघ । पवित्रं पावनं दिव्यं किं भूयः श्रोतुमिच्छसि ॥ ४४ ॥ ॥इति श्रीदेवीभागवते देवीगीतायां नवमोऽध्यायः ॥ ॥ इति श्रीमद्देवीगीता समाप्ता॥ Encoded and proofread by Sunder Hattangadi sunderh at hotmail.com

% Text title            : devIgItA
% File name             : deviigiitaa.itx
% itxtitle              : devIgItA
% engtitle              : Devi Gita
% Category              : gItA, giitaa
% Location              : doc_giitaa
% Sublocation           : giitaa
% Language              : Sanskrit
% Subject               : Hinduism/religion/traditional
% Transliterated by     : Sunder Hattangadi sunderh at hotmail.com
% Proofread by          : Sunder Hattangadi sunderh at hotmail.com
% Description-comments  : deviibhAgavate
% Indexextra            : scanned, scanned bengali
% Latest update         : October 12, 2008
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP