धर्मव्याधगीता

धर्मव्याधगीता

॥ अथ धर्मव्याधगीता ॥ व्याध उवाच - विज्ञानार्थं मनुष्याणां मनः पूर्व प्रवर्तते । तत्प्राप्य कामं भजते क्रोधं च द्विजसत्तम ॥ १॥ ततस्तदर्थं यतते कर्म चारभते महत् । इष्टानां रूपगन्धानामभ्यासं च निषेवते ॥ २॥ ततो रागः प्रभवति द्वेषश्च तदनन्तरम् । ततो लोभः प्रभवति मोहश्च तदनन्तरम् ॥ ३॥ ततो लोभाभिभूतस्य रागद्वेषहतस्य च । न धर्मे जायते बुद्धिर्व्याजाद्धर्म करोति च ॥ ४॥ व्याजेन चरते धर्ममर्थं व्याजेन रोचते । व्याजेन सिद्धमानेषु धनेषु द्विजसत्तम ॥ ५॥ तत्रैव रमते बुद्धिस्ततः पापं चिकीर्षति । सुत्दृद्भिःर्वार्यमाणश्च पण्डितैश्च द्विजोत्तम ॥ ६॥ उत्तरं श्रुतिसम्बद्धं ब्रवीत्यश्रुतियोजितम् । अधर्मस्त्रिविधस्तस्य वर्तते रागदोषजः ॥ ७॥ पापं चिन्तयते चैव बवीति च करोति च । तस्याधर्मप्रवृत्तस्य गुण नश्यन्ति साधवः ॥ ८॥ एकाशीलैश्च मित्रत्वं भजन्ते पापकर्मिणः । सतेन दुःखमाप्नोति परत्र च विपद्यते ॥ ९॥ पापात्मा भवति ह्येवं धर्मलाभं तु मे श्रुणु । यस्त्वेतान्प्रज्ञया दोषान्पूर्वमेवानुपश्यति ॥ १०॥ कुशलः सुखदुःखेषु साधूंश्चाप्युपसेवते । तस्य साधुसमारम्भाद्बुद्धिर्धर्मेषु राजते ॥ ११॥ इदं विश्वं जगत्सर्वमजय्यं चापि नित्यशः । महाभूतात्मकं ब्रह्म नातः परतरं भवेत् ॥ १२॥ ब्राह्मण उवाच - सत्त्वस्य रजसश्चैव तमसश्च यथातथम् । गुणांस्तत्त्वेन मे ब्रूहि यथावदिह पृच्छतः ॥ १३॥ व्याध उवाच - हन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि । एषां गुणान् पृथक्त्वेन निबोध गदतो मम ॥ १४॥ मोहात्मकं तमस्तेषां रज एषां प्रवर्तकम् । प्रकाशबहुलत्वाच्च सत्त्वं ज्याय इहोच्यते ॥ १५॥ अविद्याबहुलो मूढः स्वप्नशीलो विचेतनः । दुर्त्दृषीकस्ततोध्यस्तः सक्रोधस्तामसोऽलसः ॥ १६॥ प्रवृत्तवाक्यो मन्त्री च यो नराग्र्योऽनसूयकः । विधित्समानो विप्रर्षे स्तब्धो मानी स राजसः ॥ १७॥ प्रकाशबहुलो धीरो निर्विधित्सोऽनसूयकः । अक्रोधनो नरो धीमान् दान्त्रश्चैव स सात्त्विकः ॥ १८॥ इति धर्मव्याधगीता समाप्ता ॥ Vana Parva of Mahabharata, Ch. 198-207 in BORI edn., and Ch. 207-216 in Kinjawadekar edn., though the latter only has the ending as brAhmaNa-vyAdha sa.nvAda Encoded and Proofread by Sunder Hattangadi
% Text title            : dharmavyaadhagItA
% File name             : dharmavyaadhagiitaa.itx
% itxtitle              : dharmavyAdhagItA
% engtitle              : dharmavyAdhagItA
% Category              : gItA, giitaa
% Location              : doc_giitaa
% Sublocation           : giitaa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi sunder at hotmail.com
% Proofread by          : Sunder Hattangadi sunder at hotmail.com
% Description-comments  : Vana Parva of Mahabharata, Ch. 198-207 in BORI and Ch. 207-216 in Kinjawadekar edn., though the latter only has the ending as . brAhmaNa-vyAdha sa.nvAda. http://en.wikipedia.org/wiki/Vyadha_Gita
% Indexextra            : (scanned (Vana Parva of Mahabharata) (Wiki) or dharmavyAdhagItA)
% Latest update         : February 12, 2013
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org