॥ गायत्री गीता ॥

ओमित्येव सुनामधेयमनघं विश्वात्मनो ब्रह्मणः सर्वेष्वेव हि तस्य नामसु वसोरेतत्प्रधानं मतम् ॥ यं वेदा निगदन्ति न्यायनिरतं श्रीसच्चिदानन्दकं लोकेशं समदर्शिनं नियमनं चाकारहीनं प्रभुम् ॥ १॥ भूर्वै प्राण इति ब्रुवन्ति मुनयो वेदान्तपारं गताः प्राणः सर्वविचेतनेषु प्रसृतः सामान्यरूपेण च । एतेनैव विसिद्ध्यते हि सकलं नूनं समानं जगत् । द्रष्टव्यः सकलेषु जन्तुषु जनैर्नित्यं ह्यसुश्चात्मवत् ॥ २॥ भुवर्नाशो लोके सकलविपदां वै निगदितः कृतं कार्यं कर्तव्यमिति मनसा चास्य करणं । फलाशां मर्त्या ये विदधति न वै कर्मनिरताः लभन्ते नित्यं ते जगति हि प्रसादं सुमनसाम् ॥ ३॥ स्वरेषो वै शब्दो निगदति मनःस्थैर्यकरणं तथा सौख्यं स्वास्थ्यं ह्युपदिशति चित्तस्य चलतः । निमग्नत्वं सत्यव्रतसरसि चाचक्षति उत । त्रिधां शान्तिं ह्येतां भुवि च लभते संयमरतः ॥ ४॥ ततो वै निष्पत्तिः स भुवि मतिमान् पण्डितवरः विजानन् गुह्यं यो मरणजीवनयोस्तदखिलम् । अनन्ते संसारे विचरति भयासक्तिरहित- स्तथा निर्माणं वै निजगतिविधीनां प्रकुरुते ॥ ५॥ सवितुस्तु पदं वितनोति ध्रुवं मनुजो बलवान् सवितेव भवेत् । विषया अनुभूतिपरिस्थितय- स्तु सदात्मन एव गणेदिति सः ॥ ६॥ वरेण्यञ्चैतद्वै प्रकटयति श्रेष्ठत्वमनिशं सदा पश्येच्छ्रेष्ठं मननपि श्रेष्ठस्य विदधेत् । तथा लोके श्रेष्ठं सरलमनसा कर्म च भजेत् तदित्थं श्रेष्ठत्वं व्रजति मनुजः शोभितगुणैः ॥ ७॥ भर्गो व्याहरते पदं हि नितरां लोकः सुलोको भवेत् पापे पाप-विनाशने त्वविरतं दत्तावधानो वसेत् । दृष्ट्वा दुष्कृतिदुर्विपाक-निचयं तेभ्यो जुगुप्सेद्धि च तन्नाशाय विधीयतां च सततं सङ्घर्षमेभिः सह ॥ ८॥ देवस्येति तु व्याकरोत्यमरतां मर्त्योऽपि सम्प्राप्यते देवानामिव शुद्धदृष्टिकरणात् सेवोपचाराद् भुवि । निःस्वार्थं परमार्थ-कर्मकरणात् दीनाय दानात्तथा बाह्याभ्यन्तरमस्य देवभुवनं संसृज्यते चैव हि ॥ ९॥ धीमहि सर्वविधं शुचिमेव शक्तिचय वयमितुपदिष्टाः । नो मनुजो लभते सुखशान्ति- मनेन विनेति वदन्ति हि वेदाः ॥ १०॥ धियो मत्योन्मथ्यागमनिगममन्त्रान् सुमतिमान् विजानीयात्तत्त्वं विमलनवनीतं परमिव । यतोऽस्मिन् लोके वै संशयगत-विचार-स्थलशते मतिः शुद्धैवाच्छा प्रकटयति सत्यं सुमनसे ॥ ११॥ योनो वास्ति तु शक्तिसाधनचयो न्यूनाधिकश्चाथवा भागं न्यूनतमं हि तस्य विदधेमात्मप्रसादाय च । यत्पश्चादवशिष्टभागमखिलं त्यक्त्वा फलाशं हृदि तद्धीनेष्वभिलाषवत्सु वितरेद् ये शक्तिहीनाः स्वयम् ॥ १२॥ प्रचोदयात् स्वं त्वितरांश्च मानवान् नरः प्रयाणाय च सत्यवर्त्मनि । कृतं हि कर्माखिलमित्थमङ्गिना वदन्ति धर्मं इति हि विपश्चितः ॥ १३॥ गायत्री-गीतां ह्येतां यो नरो वेत्ति तत्त्वतः । स मुक्त्वा सर्वदुःखेभ्यः सदानन्दे निमज्जति ॥ १४॥ From the book Superscience of Gayatri : Gayatri Mahavigyan Pandit Sriram Sharma Acharya at www.awgp.org Translation (pages 103-111) http://literature.awgp.org/englishbook/GayatriYagya/SuperScienceofGayatri.103 Encoded and proofread by Sunder Hattangadi sunderh at hotmail.com

% Text title            : gAyatrI gItA
% File name             : gaayatrii_giitaa.itx
% itxtitle              : gAyatrIgItA
% engtitle              : Gayatri Gita
% Category              : gItA
% Location              : doc_giitaa
% Sublocation           : giitaa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi sunderh at hotmail dot com
% Proofread by          : Sunder Hattangadi sunderh at hotmail dot com
% Translated by         : Pages 103-111 of English translation
% Description-comments  : From the book Superscience of Gayatri
% Indexextra            : Translation 1, 2
% Latest update         : February 2, 2014
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP