॥ जायन्तेयगीता श्रीमद्भागवतान्तर्गतम् ॥

श्रीशुक उवाच । गोविन्दभुजगुप्तायां द्वारवत्यां कुरूद्वह । अवात्सीन्नारदोऽभीक्ष्णं कृष्णोपासनलालसः ॥ ११.२.१॥ को नु राजन्निन्द्रियवान्मुकुन्दचरणाम्बुजम् । न भजेत्सर्वतोमृत्युरुपास्यममरोत्तमैः ॥ ११.२.२॥ तमेकदा तु देवर्षिं वसुदेवो गृहागतम् । अर्चितं सुखमासीनमभिवाद्येदमब्रवीत् ॥ ११.२.३॥ श्रीवसुदेव उवाच । भगवन्भवतो यात्रा स्वस्तये सर्वदेहिनाम् । कृपणानां यथा पित्रोरुत्तमश्लोकवर्त्मनाम् ॥ ११.२.४॥ भूतानां देवचरितं दुःखाय च सुखाय च । सुखायैव हि साधूनां त्वादृशामच्युतात्मनाम् ॥ ११.२.५॥ भजन्ति ये यथा देवान्देवा अपि तथैव तान् । छायेव कर्मसचिवाः साधवो दीनवत्सलाः ॥ ११.२.६॥ ब्रह्मंस्तथापि पृच्छामो धर्मान्भागवतांस्तव । यान्श्रुत्वा श्रद्धया मर्त्यो मुच्यते सर्वतो भयात् ॥ ११.२.७॥ अहं किल पुरानन्तं प्रजार्थो भुवि मुक्तिदम् । अपूजयं न मोक्षाय मोहितो देवमायया ॥ ११.२.८॥ यथा विचित्रव्यसनाद्भवद्भिर्विश्वतोभयात् । मुच्येम ह्यञ्जसैवाद्धा तथा नः शाधि सुव्रत ॥ ११.२.९॥ श्रीशुक उवाच । राजन्नेवं कृतप्रश्नो वसुदेवेन धीमता । प्रीतस्तमाह देवर्षिर्हरेः संस्मारितो गुणैः ॥ ११.२.१०॥ श्रीनारद उवाच । सम्यगेतद्व्यवसितं भवता सात्वतर्षभ । यत्पृच्छसे भागवतान्धर्मांस्त्वं विश्वभावनान् ॥ ११.२.११॥ श्रुतोऽनुपठितो ध्यात आदृतो वानुमोदितः । सद्यः पुनाति सद्धर्मो देवविश्वद्रुहोऽपि हि ॥ ११.२.१२॥ त्वया परमकल्याणः पुण्यश्रवणकीर्तनः । स्मारितो भगवानद्य देवो नारायणो मम ॥ ११.२.१३॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । आर्षभाणां च संवादं विदेहस्य महात्मनः ॥ ११.२.१४॥ प्रियव्रतो नाम सुतो मनोः स्वायम्भुवस्य यः । तस्याग्नीध्रस्ततो नाभिरृषभस्तत्सुतः स्मृतः ॥ ११.२.१५॥ तमाहुर्वासुदेवांशं मोक्षधर्मविवक्षया । अवतीर्णं सुतशतं तस्यासीद्ब्रह्मपारगम् ॥ ११.२.१६॥ तेषां वै भरतो ज्येष्ठो नारायणपरायणः । विख्यातं वर्षमेतद्यन् नाम्ना भारतमद्भुतम् ॥ ११.२.१७॥ स भुक्तभोगां त्यक्त्वेमां निर्गतस्तपसा हरिम् । उपासीनस्तत्पदवीं लेभे वै जनृनभिस्त्रिभिः ॥ ११.२.१८॥ तेषां नव नवद्वीप पतयोऽस्य समन्ततः । कर्मतन्त्रप्रणेतार एकाशीतिर्द्विजातयः ॥ ११.२.१९॥ नवाभवन्महाभागा मुनयो ह्यर्थशंसिनः । श्रमणा वातरसना आत्मविद्याविशारदाः ॥ ११.२.२०॥ कविर्हविरन्तरीक्षः प्रबुद्धः पिप्पलायनः । आविर्होत्रोऽथ द्रुमिलश्चमसः करभाजनः ॥ ११.२.२१॥ त एते भगवद्रूपं विश्वं सदसदात्मकम् । आत्मनोऽव्यतिरेकेण पश्यन्तो व्यचरन्महीम् ॥ ११.२.२२॥ अव्याहतेष्टगतयः सुरसिद्धसाध्य गन्धर्वयक्षनरकिन्नरनागलोकान् । मुक्ताश्चरन्ति मुनिचारणभूतनाथ विद्याधरद्विजगवां भुवनानि कामम् ॥ ११.२.२३॥ त एकदा निमेः सत्रमुपजग्मुर्यदृच्छया । वितायमानमृषिभिरजनाभे महात्मनः ॥ ११.२.२४॥ तान्दृष्ट्वा सूर्यसङ्काशान्महाभागवतान्नृप । यजमानोऽग्नयो विप्राः सर्व एवोपतस्थिरे ॥ ११.२.२५॥ विदेहस्तानभिप्रेत्य नारायणपरायणान् । प्रीतः सम्पूजयां चक्रे आसनस्थान्यथार्हतः ॥ ११.२.२६॥ तान्रोचमानान्स्वरुचा ब्रह्मपुत्रोपमान्नव । पप्रच्छ परमप्रीतः प्रश्रयावनतो नृपः ॥ ११.२.२७॥ श्रीविदेह उवाच । मन्ये भगवतः साक्षात्पार्षदान्वो मधुद्विसः । विष्णोर्भूतानि लोकानां पावनाय चरन्ति हि ॥ ११.२.२८॥ दुर्लभो मानुषो देहो देहिनां क्षणभङ्गुरः । तत्रापि दुर्लभं मन्ये वैकुण्ठप्रियदर्शनम् ॥ ११.२.२९॥ अत आत्यन्तिकं क्षेमं पृच्छामो भवतोऽनघाः । संसारेऽस्मिन्क्षणार्धोऽपि सत्सङ्गः शेवधिर्नृणाम् ॥ ११.२.३०॥ धर्मान्भागवतान्ब्रूत यदि नः श्रुतये क्षमम् । यैः प्रसन्नः प्रपन्नाय दास्यत्यात्मानमप्यजः ॥ ११.२.३१॥ श्रीनारद उवाच । एवं ते निमिना पृष्टा वसुदेव महत्तमाः । प्रतिपूज्याब्रुवन्प्रीत्या ससदस्यर्त्विजं नृपम् ॥ ११.२.३२॥ श्रीकविरुवाच । मन्येऽकुतश्चिद्भयमच्युतस्य पादाम्बुजोपासनमत्र नित्यम् । उद्विग्नबुद्धेरसदात्मभावाद्विश्वात्मना यत्र निवर्तते भीः ॥ ११.२.३३॥ ये वै भगवता प्रोक्ता उपाया ह्यात्मलब्धये । अञ्जः पुंसामविदुषां विद्धि भागवतान्हि तान् ॥ ११.२.३४॥ यानास्थाय नरो राजन्न प्रमाद्येत कर्हिचित् । धावन्निमील्य वा नेत्रे न स्खलेन्न पतेदिह ॥ ११.२.३५॥ कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वानुसृतस्वभावात् । करोति यद्यत्सकलं परस्मै नारायणायेति समर्पयेत्तत् ॥ ११.२.३६॥ भयं द्वितीयाभिनिवेशतः स्यादीशादपेतस्य विपर्ययोऽस्मृतिः । तन्माययातो बुध आभजेत्तं भक्त्यैकयेशं गुरुदेवतात्मा ॥ ११.२.३७॥ अविद्यमानोऽप्यवभाति हि द्वयो ध्यातुर्धिया स्वप्नमनोरथौ यथा । तत्कर्मसङ्कल्पविकल्पकं मनो बुधो निरुन्ध्यादभयं ततः स्यात् ॥ ११.२.३८॥ शृण्वन्सुभद्राणि रथाङ्गपाणेर्जन्मानि कर्माणि च यानि लोके । गीतानि नामानि तदर्थकानि गायन्विलज्जो विचरेदसङ्गः ॥ ११.२.३९॥ एवंव्रतः स्वप्रियनामकीर्त्या जातानुरागो द्रुतचित्त उच्चैः । हसत्यथो रोदिति रौति गायत्युन्मादवन्नृत्यति लोकबाह्यः ॥ ११.२.४०॥ खं वायुमग्निं सलिलं महीं च ज्योतींषि सत्त्वानि दिशो द्रुमादीन् । सरित्समुद्रांश्च हरेः शरीरं यत्किं च भूतं प्रणमेदनन्यः ॥ ११.२.४१॥ भक्तिः परेशानुभवो विरक्तिरन्यत्र चैष त्रिक एककालः । प्रपद्यमानस्य यथाश्नतः स्युस्तुष्टिः पुष्टिः क्षुदपायोऽनुघासम् ॥ ११.२.४२॥ इत्यच्युताङ्घ्रिं भजतोऽनुवृत्त्या भक्तिर्विरक्तिर्भगवत्प्रबोधः । भवन्ति वै भागवतस्य राजंस्ततः परां शान्तिमुपैति साक्षात् ॥ ११.२.४३॥ श्रीराजोवाच । अथ भागवतं ब्रूत यद्धर्मो यादृशो नृणाम् । यथाचरति यद्ब्रूते यैर्लिङ्गैर्भगवत्प्रियः ॥ ११.२.४४॥ श्रीहविरुवाच । सर्वभूतेषु यः पश्येद्भगवद्भावमात्मनः । भूतानि भगवत्यात्मन्येष भागवतोत्तमः ॥ ११.२.४५॥ ईस्वरे तदधीनेषु बालिशेषु द्विषत्सु च । प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः ॥ ११.२.४६॥ अर्चायामेव हरये पूजां यः श्रद्धयेहते । न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥ ११.२.४७॥ गृहीत्वापीन्द्रियैरर्थान्यो न द्वेष्टि न हृष्यति । विष्णोर्मायामिदं पश्यन्स वै भागवतोत्तमः ॥ ११.२.४८॥ देहेन्द्रियप्राणमनोधियां यो जन्माप्ययक्षुद्भयतर्षकृच्छ्रैः । संसारधर्मैरविमुह्यमानः स्मृत्या हरेर्भागवतप्रधानः ॥ ११.२.४९॥ न कामकर्मबीजानां यस्य चेतसि सम्भवः । वासुदेवैकनिलयः स वै भागवतोत्तमः ॥ ११.२.५०॥ न यस्य जन्मकर्मभ्यां न वर्णाश्रमजातिभिः । सज्जतेऽस्मिन्नहंभावो देहे वै स हरेः प्रियः ॥ ११.२.५१॥ न यस्य स्वः पर इति वित्तेष्वात्मनि वा भिदा । सर्वभूतसमः शान्तः स वै भागवतोत्तमः ॥ ११.२.५२॥ त्रिभुवनविभवहेतवेऽप्यकुण्ठ स्मृतिरजितात्मसुरादिभिर्विमृग्यात् । न चलति भगवत्पदारविन्दाल् लवनिमिषार्धमपि यः स वैष्णवाग्र्यः ॥ ११.२.५३॥ भगवत उरुविक्रमाङ्घ्रिशाखा नखमणिचन्द्रिकया निरस्ततापे । हृदि कथमुपसीदतां पुनः स प्रभवति चन्द्र इवोदितेऽर्कतापः ॥ ११.२.५४॥ विसृजति हृदयं न यस्य साक्षाद्धरिरवशाभिहितोऽप्यघौघनाशः । प्रणयरसनया धृताङ्घ्रिपद्मः स भवति भागवतप्रधान उक्तः ॥ ११.२.५५॥
श्रीराजोवाच । परस्य विष्णोरीशस्य मायिनामपि मोहिनीम् । मायां वेदितुमिच्छामो भगवन्तो ब्रुवन्तु नः ॥ ११.३.१॥ नानुतृप्ये जुषन्युष्मद् वचो हरिकथामृतम् । संसारतापनिस्तप्तो मर्त्यस्तत्तापभेषजम् ॥ ११.३.२॥ श्रीअन्तरीक्ष उवाच । एभिर्भूतानि भूतात्मा महाभूतैर्महाभुज । ससर्जोच्चावचान्याद्यः स्वमात्रात्मप्रसिद्धये ॥ ११.३.३॥ एवं सृष्टानि भूतानि प्रविष्टः पञ्चधातुभिः । एकधा दशधात्मानं विभजन्जुषते गुणान् ॥ ११.३.४॥ गुणैर्गुणान्स भुञ्जान आत्मप्रद्योतितैः प्रभुः । मन्यमान इदं सृष्टमात्मानमिह सज्जते ॥ ११.३.५॥ कर्माणि कर्मभिः कुर्वन्सनिमित्तानि देहभृत् । तत्तत्कर्मफलं गृह्णन्भ्रमतीह सुखेतरम् ॥ ११.३.६॥ इत्थं कर्मगतीर्गच्छन्बह्वभद्रवहाः पुमान् । आभूतसम्प्लवात्सर्ग प्रलयावश्नुतेऽवशः ॥ ११.३.७॥ धातूपप्लव आसन्ने व्यक्तं द्रव्यगुणात्मकम् । अनादिनिधनः कालो ह्यव्यक्तायापकर्षति ॥ ११.३.८॥ शतवर्षा ह्यनावृष्टिर्भविष्यत्युल्बणा भुवि । तत्कालोपचितोष्णार्को लोकांस्त्रीन्प्रतपिष्यति ॥ ११.३.९॥ पातालतलमारभ्य सङ्कर्षणमुखानलः । दहन्नूर्ध्वशिखो विष्वग्वर्धते वायुनेरितः ॥ ११.३.१०॥ संवर्तको मेघगणो वर्षति स्म शतं समाः । धाराभिर्हस्तिहस्ताभिर्लीयते सलिले विराट् ॥ ११.३.११॥ ततो विराजमुत्सृज्य् वैराजः पुरुषो नृप । अव्यक्तं विशते सूक्ष्मं निरिन्धन इवानलः ॥ ११.३.१२॥ वायुना हृतगन्धा भूः सलिलत्वाय कल्पते । सलिलं तद्धृतरसं ज्योतिष्ट्वायोपकल्पते ॥ ११.३.१३॥ हृतरूपं तु तमसा वायौ ज्योतिः प्रलीयते । हृतस्पर्शोऽवकाशेन वायुर्नभसि लीयते ॥ ११.३.१४॥ कालात्मना हृतगुणं नभ आत्मनि लीयते ॥ ११.३.१४५॥ इन्द्रियाणि मनो बुद्धिः सह वैकारिकैर्नृप । प्रविशन्ति ह्यहङ्कारं स्वगुणैरहमात्मनि ॥ ११.३.१५॥ एषा माया भगवतः सर्गस्थित्यन्तकारिणी । त्रिवर्णा वर्णितास्माभिः किं भूयः श्रोतुमिच्छसि ॥ ११.३.१६॥ श्रीराजोवाच । यथैतामैश्वरीं मायां दुस्तरामकृतात्मभिः । तरन्त्यञ्जः स्थूलधियो महर्ष इदमुच्यताम् ॥ ११.३.१७॥ श्रीप्रबुद्ध उवाच । कर्माण्यारभमाणानां दुःखहत्यै सुखाय च । पश्येत्पाकविपर्यासं मिथुनीचारिणां नृणाम् ॥ ११.३.१८॥ नित्यार्तिदेन वित्तेन दुर्लभेनात्ममृत्युना । गृहापत्याप्तपशुभिः का प्रीतिः साधितैश्चलैः ॥ ११.३.१९॥ एवं लोकं परम्विद्यान्नश्वरं कर्मनिर्मितम् । सतुल्यातिशयध्वंसं यथा मण्डलवर्तिनाम् ॥ ११.३.२०॥ तस्माद्गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् । शाब्दे परे च निष्णातं ब्रह्मण्युपशमाश्रयम् ॥ ११.३.२१॥ तत्र भागवतान्धर्मान्शिक्षेद्गुर्वात्मदैवतः । अमाययानुवृत्त्या यैस्तुष्येदात्मात्मदो हरिः ॥ ११.३.२२॥ सर्वतो मनसोऽसङ्गमादौ सङ्गं च साधुषु । दयां मैत्रीं प्रश्रयं च भूतेष्वद्धा यथोचितम् ॥ ११.३.२३॥ शौचं तपस्तितिक्षां च मौनं स्वाध्यायमार्जवम् । ब्रह्मचर्यमहिंसां च समत्वं द्वन्द्वसंज्ञयोः ॥ ११.३.२४॥ सर्वत्रात्मेश्वरान्वीक्षां कैवल्यमनिकेतताम् । विविक्तचीरवसनं सन्तोषं येन केनचित् ॥ ११.३.२५॥ श्रद्धां भागवते शास्त्रेऽनिन्दामन्यत्र चापि हि । मनोवाक्कर्मदण्डं च सत्यं शमदमावपि ॥ ११.३.२६॥ श्रवणं कीर्तनं ध्यानं हरेरद्भुतकर्मणः । जन्मकर्मगुणानां च तदर्थेऽखिलचेष्टितम् ॥ ११.३.२७॥ इष्टं दत्तं तपो जप्तं वृत्तं यच्चात्मनः प्रियम् । दारान्सुतान्गृहान्प्राणान्यत्परस्मै निवेदनम् ॥ ११.३.२८॥ एवं कृष्णात्मनाथेषु मनुष्येषु च सौहृदम् । परिचर्यां चोभयत्र महत्सु नृषु साधुषु ॥ ११.३.२९॥ परस्परानुकथनं पावनं भगवद्यशः । मिथो रतिर्मिथस्तुष्टिर्निवृत्तिर्मिथ आत्मनः ॥ ११.३.३०॥ स्मरन्तः स्मारयन्तश्च मिथोऽघौघहरं हरिम् । भक्त्या सञ्जातया भक्त्या बिभ्रत्युत्पुलकां तनुम् ॥ ११.३.३१॥ क्वचिद्रुदन्त्यच्युतचिन्तया क्वचिद् धसन्ति नन्दन्ति वदन्त्यलौकिकाः । नृत्यन्ति गायन्त्यनुशीलयन्त्यजं भवन्ति तूष्णीं परमेत्य निर्वृताः ॥ ११.३.३२॥ इति भागवतान्धर्मान्शिक्षन्भक्त्या तदुत्थया । नारायणपरो मायामञ्जस्तरति दुस्तराम् ॥ ११.३.३३॥ श्रीराजोवाच । नारायणाभिधानस्य ब्रह्मणः परमात्मनः । निष्ठामर्हथ नो वक्तुं यूयं हि ब्रह्मवित्तमाः ॥ ११.३.३४॥ श्रीपिप्पलायन उवाच । स्थित्युद्भवप्रलयहेतुरहेतुरस्य यत्स्वप्नजागरसुषुप्तिषु सद्बहिश्च । देहेन्द्रियासुहृदयानि चरन्ति येन सञ्जीवितानि तदवेहि परं नरेन्द्र ॥ ११.३.३५॥ नैतन्मनो विशति वागुत चक्षुरात्मा प्राणेन्द्रियाणि च यथानलमर्चिषः स्वाः । शब्दोऽपि बोधकनिषेधतयात्ममूलम् अर्थोक्तमाह यदृते न निषेधसिद्धिः ॥ ११.३.३६॥ सत्त्वं रजस्तम इति त्रिवृदेकमादौ सूत्रं महानहमिति प्रवदन्ति जीवम् । ज्ञानक्रियार्थफलरूपतयोरुशक्ति ब्रह्मैव भाति सदसच्च तयोः परं यत् ॥ ११.३.३७॥ नात्मा जजान न मरिष्यति नैधतेऽसौ न क्षीयते सवनविद्व्यभिचारिणां हि । सर्वत्र शश्वदनपाय्युपलब्धिमात्रं प्राणो यथेन्द्रियबलेन विकल्पितं सत् ॥ ११.३.३८॥ अण्डेषु पेशिषु तरुष्वविनिश्चितेषु प्राणो हि जीवमुपधावति तत्र तत्र । सन्ने यदिन्द्रियगणेऽहमि च प्रसुप्ते कूटस्थ आशयमृते तदनुस्मृतिर्नः ॥ ११.३.३९॥ यर्ह्यब्जनाभचरणैषणयोरुभक्त्या चेतोमलानि विधमेद्गुणकर्मजानि । तस्मिन्विशुद्ध उपलभ्यत आत्मतत्त्वं शाक्षाद्यथामलदृशोः सवितृप्रकाशः ॥ ११.३.४०॥ श्रीराजोवाच । कर्मयोगं वदत नः पुरुषो येन संस्कृतः । विधूयेहाशु कर्माणि नैष्कर्म्यं विन्दते परम् ॥ ११.३.४१॥ एवं प्रश्नमृषीन्पूर्वमपृच्छं पितुरन्तिके । नाब्रुवन्ब्रह्मणः पुत्रास्तत्र कारणमुच्यताम् ॥ ११.३.४२॥ श्रीआविर्होत्र उवाच । कर्माकर्म विकर्मेति वेदवादो न लौकिकः । वेदस्य चेश्वरात्मत्वात्तत्र मुह्यन्ति सूरयः ॥ ११.३.४३॥ परोक्षवादो वेदोऽयं बालानामनुशासनम् । कर्ममोक्षाय कर्माणि विधत्ते ह्यगदं यथा ॥ ११.३.४४॥ नाचरेद्यस्तु वेदोक्तं स्वयमज्ञोऽजितेन्द्रियः । विकर्मणा ह्यधर्मेण मृत्योर्मृत्युमुपैति सः ॥ ११.३.४५॥ वेदोक्तमेव कुर्वाणो निःसङ्गोऽर्पितमीश्वरे । नैष्कर्म्यं लभते सिद्धिं रोचनार्था फलश्रुतिः ॥ ११.३.४६॥ य आशु हृदयग्रन्थिं निर्जिहीऋषुः परात्मनः । विधिनोपचरेद्देवं तन्त्रोक्तेन च केशवम् ॥ ११.३.४७॥ लब्ध्वानुग्रह आचार्यात्तेन सन्दर्शितागमः । महापुरुषमभ्यर्चेन्मूर्त्याभिमतयात्मनः ॥ ११.३.४८॥ शुचिः सम्मुखमासीनः प्राणसंयमनादिभिः । पिण्डं विशोध्य सन्न्यास कृतरक्षोऽर्चयेद्धरिम् ॥ ११.३.४९॥ अर्चादौ हृदये चापि यथालब्धोपचारकैः । द्रव्यक्षित्यात्मलिण्गानि निष्पाद्य प्रोक्ष्य चासनम् ॥ ११.३.५०॥ पाद्यादीनुपकल्प्याथ सन्निधाप्य समाहितः । हृदादिभिः कृतन्यासो मूलमन्त्रेण चार्चयेत् ॥ ११.३.५१॥ साङ्गोपाङ्गां सपार्षदां तां तां मूर्तिं स्वमन्त्रतः । पाद्यार्घ्याचमनीयाद्यैः स्नानवासोविभूषणैः ॥ ११.३.५२॥ गन्धमाल्याक्षतस्रग्भिर्धूपदीपोपहारकैः । साङ्गम्सम्पूज्य विधिवत्स्तवैः स्तुत्वा नमेद्धरिम् ॥ ११.३.५३॥ आत्मानम्तन्मयम्ध्यायन्मूर्तिं सम्पूजयेद्धरेः । शेषामाधाय शिरसा स्वधाम्न्युद्वास्य सत्कृतम् ॥ ११.३.५४॥ एवमग्न्यर्कतोयादावतिथौ हृदये च यः । यजतीश्वरमात्मानमचिरान्मुच्यते हि सः ॥ ११.३.५५॥
श्रीराजोवाच । यानि यानीह कर्माणि यैर्यैः स्वच्छन्दजन्मभिः । चक्रे करोति कर्ता वा हरिस्तानि ब्रुवन्तु नः ॥ ११.४.१॥ श्रीद्रुमिल उवाच । यो वा अनन्तस्य गुनाननन्ताननुक्रमिष्यन्स तु बालबुद्धिः । रजांसि भूमेर्गणयेत्कथञ्चित्कालेन नैवाखिलशक्तिधाम्नः ॥ ११.४.२॥ भूतैर्यदा पञ्चभिरात्मसृष्टैः पुरं विराजं विरचय्य तस्मिन् । स्वांशेन विष्टः पुरुषाभिधानम् अवाप नारायण आदिदेवः ॥ ११.४.३॥ यत्काय एष भुवनत्रयसन्निवेशो यस्येन्द्रियैस्तनुभृतामुभयेन्द्रियाणि । ज्ञानं स्वतः श्वसनतो बलमोज ईहा सत्त्वादिभिः स्थितिलयोद्भव आदिकर्ता ॥ ११.४.४॥ आदावभूच्छतधृती रजसास्य सर्गे विष्णुः स्थितौ क्रतुपतिर्द्विजधर्मसेतुः । रुद्रोऽप्ययाय तमसा पुरुषः स आद्य इत्युद्भवस्थितिलयाः सततं प्रजासु ॥ ११.४.५॥ धर्मस्य दक्षदुहितर्यजनिष्ट मूर्त्यां नारायणो नर ऋषिप्रवरः प्रशान्तः । नैष्कर्म्यलक्षणमुवाच चचार कर्म योऽद्यापि चास्त ऋषिवर्यनिषेविताङ्घ्रिः ॥ ११.४.६॥ इन्द्रो विशङ्क्य मम धाम जिघृक्षतीति कामं न्ययुङ्क्त सगणं स बदर्युपाख्यम् । गत्वाप्सरोगणवसन्तसुमन्दवातैः स्त्रीप्रेक्षणेषुभिरविध्यदतन्महिज्ञः ॥ ११.४.७॥ विज्ञाय शक्रकृतमक्रममादिदेवः प्राह प्रहस्य गतविस्मय एजमानान् । मा भैर्विभो मदन मारुत देववध्वो गृह्णीत नो बलिमशून्यमिमं कुरुध्वम् ॥ ११.४.८॥ इत्थं ब्रुवत्यभयदे नरदेव देवाः सव्रीडनम्रशिरसः सघृणं तमूचुः । नैतद्विभो त्वयि परेऽविकृते विचित्रं स्वारामधीरनिकरानतपादपद्मे ॥ ११.४.९॥ त्वां सेवतां सुरकृता बहवोऽन्तरायाः स्वौको विलङ्घ्य परमं व्रजतां पदं ते । नान्यस्य बर्हिषि बलीन्ददतः स्वभागान् धत्ते पदं त्वमविता यदि विघ्नमूर्ध्नि ॥ ११.४.१०॥ क्षुत्तृट्त्रिकालगुणमारुतजैह्वशैष्णान् अस्मानपारजलधीनतितीर्य केचित् । क्रोधस्य यान्ति विफलस्य वशं पदे गोर् मज्जन्ति दुश्चरतपश्च वृथोत्सृजन्ति ॥ ११.४.११॥ इति प्रगृणतां तेषां स्त्रियोऽत्यद्भुतदर्शनाः । दर्शयामास शुश्रूषां स्वर्चिताः कुर्वतीर्विभुः ॥ ११.४.१२॥ ते देवानुचरा दृष्ट्वा स्त्रियः श्रीरिव रूपिणीः । गन्धेन मुमुहुस्तासां रूपौदार्यहतश्रियः ॥ ११.४.१३॥ तानाह देवदेवेशः प्रणतान्प्रहसन्निव । आसामेकतमां वृङ्ध्वं सवर्णां स्वर्गभूषणाम् ॥ ११.४.१४॥ ओमित्यादेशमादाय नत्वा तं सुरवन्दिनः । उर्वशीमप्सरःश्रेष्ठां पुरस्कृत्य दिवं ययुः ॥ ११.४.१५॥ इन्द्रायानम्य सदसि शृण्वतां त्रिदिवौकसाम् । ऊचुर्नारायणबलं शक्रस्तत्रास विस्मितः ॥ ११.४.१६॥ हंसस्वरूप्यवददच्युत आत्मयोगं दत्तः कुमार ऋषभो भगवान्पिता नः । विष्णुः शिवाय जगतां कलयावतिर्णस् तेनाहृता मधुभिदा श्रुतयो हयास्ये ॥ ११.४.१७॥ गुप्तोऽप्यये मनुरिलौषधयश्च मात्स्ये क्रौडे हतो दितिज उद्धरताम्भसः क्ष्माम् । कौर्मे धृतोऽद्रिरमृतोन्मथने स्वपृष्ठे ग्राहात्प्रपन्नमिभराजममुञ्चदार्तम् ॥ ११.४.१८॥ संस्तुन्वतो निपतितान्श्रमणानृषींश्च शक्रं च वृत्रवधतस्तमसि प्रविष्टम् । देवस्त्रियोऽसुरगृहे पिहिता अनाथा जघ्नेऽसुरेन्द्रमभयाय सतां नृसिंहे ॥ ११.४.१९॥ देवासुरे युधि च दैत्यपतीन्सुरार्थे हत्वान्तरेषु भुवनान्यदधात्कलाभिः । भूत्वाथ वामन इमामहरद्बलेः क्ष्मां याच्ञाच्छलेन समदाददितेः सुतेभ्यः ॥ ११.४.२०॥ निःक्षत्रियामकृत गां च त्रिःसप्तकृत्वो रामस्तु हैहयकुलाप्ययभार्गवाग्निः । सोऽब्धिं बबन्ध दशवक्त्रमहन्सलङ्कं सीतापतिर्जयति लोकमलघ्नकीऋतिः ॥ ११.४.२१॥ भूमेर्भरावतरणाय यदुष्वजन्मा जातः करिष्यति सुरैरपि दुष्कराणि । वादैर्विमोहयति यज्ञकृतोऽतदर्हान् शूद्रान्कलौ क्षितिभुजो न्यहनिष्यदन्ते ॥ ११.४.२२॥ एवंविधानि जन्मानि कर्माणि च जगत्पतेः । भूरीणि भूरियशसो वर्णितानि महाभुज ॥ ११.४.२३॥
श्रीराजोवाच । भगवन्तं हरिं प्रायो न भजन्त्यात्मवित्तमाः । तेषामशान्तकामानां क निष्ठाविजितात्मनाम् ॥ ११.५.१॥ श्रीचमस उवाच । मुखबाहूरुपादेभ्यः पुरुषस्याश्रमैः सह । चत्वारो जज्ञिरे वर्णा गुणैर्विप्रादयः पृथक् ॥ ११.५.२॥ य एषां पुरुषं साक्षादात्मप्रभवमीश्वरम् । न भजन्त्यवजानन्ति स्थानाद्भ्रष्टाः पतन्त्यधः ॥ ११.५.३॥ दूरे हरिकथाः केचिद्दूरे चाच्युतकीर्तनाः । स्त्रियः शूद्रादयश्चैव तेऽनुकम्प्या भवादृशाम् ॥ ११.५.४॥ विप्रो राजन्यवैश्यौ वा हरेः प्राप्ताः पदान्तिकम् । श्रौतेन जन्मनाथापि मुह्यन्त्याम्नायवादिनः ॥ ११.५.५॥ कर्मण्यकोविदाः स्तब्धा मूर्खाः पण्डितमानिनः । वदन्ति चाटुकान्मूढा यया माध्व्या गिरोत्सुकाः ॥ ११.५.६॥ रजसा घोरसङ्कल्पाः कामुका अहिमन्यवः । दाम्भिका मानिनः पापा विहसन्त्यच्युतप्रियान् ॥ ११.५.७॥ वदन्ति तेऽन्योन्यमुपासितस्त्रियो गृहेषु मैथुन्यपरेषु चाशिषः । यजन्त्यसृष्टान्नविधानदक्षिणं वृत्त्यै परं घ्नन्ति पशूनतद्विदः ॥ ११.५.८॥ श्रिया विभूत्याभिजनेन विद्यया त्यागेन रूपेण बलेन कर्मणा । जातस्मयेनान्धधियः सहेश्वरान्सतोऽवमन्यन्ति हरिप्रियान्खलाः ॥ ११.५.९॥ सर्वेषु शश्वत्तनुभृत्स्ववस्थितं यथा खमात्मानमभीष्टमीश्वरम् । वेदोपगीतं च न शृण्वतेऽबुधा मनोरथानां प्रवदन्ति वार्तया ॥ ११.५.१०॥ लोके व्यवायामिषमद्यसेवा नित्या हि जन्तोर्न हि तत्र चोदना । व्यवस्थितिस्तेषु विवाहयज्ञ सुराग्रहैरासु निवृत्तिरिष्टा ॥ ११.५.११॥ धनं च धर्मैकफलं यतो वै ज्ञानं सविज्ञानमनुप्रशान्ति । गृहेषु युञ्जन्ति कलेवरस्य मृत्युं न पश्यन्ति दुरन्तवीर्यम् ॥ ११.५.१२॥ यद्घ्राणभक्षो विहितः सुरायास्तथा पशोरालभनं न हिंसा । एवं व्यवायः प्रजया न रत्या इमं विशुद्धं न विदुः स्वधर्मम् ॥ ११.५.१३॥ ये त्वनेवंविदोऽसन्तः स्तब्धाः सदभिमानिनः । पशून्द्रुह्यन्ति विश्रब्धाः प्रेत्य खादन्ति ते च तान् ॥ ११.५.१४॥ द्विषन्तः परकायेषु स्वात्मानं हरिमीश्वरम् । मृतके सानुबन्धेऽस्मिन्बद्धस्नेहाः पतन्त्यधः ॥ ११.५.१५॥ ये कैवल्यमसम्प्राप्ता ये चातीताश्च मूढताम् । त्रैवर्गिका ह्यक्षणिका आत्मानं घातयन्ति ते ॥ ११.५.१६॥ एत आत्महनोऽशान्ता अज्ञाने ज्ञानमानिनः । सीदन्त्यकृतकृत्या वै कालध्वस्तमनोरथाः ॥ ११.५.१७॥ हित्वात्ममायारचिता गृहापत्यसुहृत्स्त्रियः । तमो विशन्त्यनिच्छन्तो वासुदेवपराङ्मुखाः ॥ ११.५.१८॥ श्री राजोवाच । कस्मिन्काले स भगवान्किं वर्णः कीदृशो नृभिः । नाम्ना वा केन विधिना पूज्यते तदिहोच्यताम् ॥ ११.५.१९॥ श्रीकरभाजन उवाच । कृतं त्रेता द्वापरं च कलिरित्येषु केशवः । नानावर्णाभिधाकारो नानैव विधिनेज्यते ॥ ११.५.२०॥ कृते शुक्लश्चतुर्बाहुर्जटिलो वल्कलाम्बरः । कृष्णाजिनोपवीताक्षान्बिभ्रद्दण्डकमण्डलू ॥ ११.५.२१॥ मनुष्यास्तु तदा शान्ता निर्वैराः सुहृदः समाः । यजन्ति तपसा देवं शमेन च दमेन च ॥ ११.५.२२॥ हंसः सुपर्णो वैकुण्ठो धर्मो योगेश्वरोऽमलः । ईश्वरः पुरुषोऽव्यक्तः परमात्मेति गीयते ॥ ११.५.२३॥ त्रेतायां रक्तवर्णोऽसौ चतुर्बाहुस्त्रिमेखलः । हिरण्यकेशस्त्रय्यात्मा स्रुक्स्रुवाद्युपलक्षणः ॥ ११.५.२४॥ तं तदा मनुजा देवं सर्वदेवमयं हरिम् । यजन्ति विद्यया त्रय्या धर्मिष्ठा ब्रह्मवादिनः ॥ ११.५.२५॥ विष्णुर्यज्ञः पृश्निगर्भः सर्वदेव उरुक्रमः । वृषाकपिर्जयन्तश्च उरुगाय इतीर्यते ॥ ११.५.२६॥ द्वापरे भगवाञ्श्यामः पीतवासा निजायुधः । श्रीवत्सादिभिरङ्कैश्च लक्षणैरुपलक्षितः ॥ ११.५.२७॥ तं तदा पुरुषं मर्त्या महाराजोपलक्षणम् । यजन्ति वेदतन्त्राभ्यां परं जिज्ञासवो नृप ॥ ११.५.२८॥ नमस्ते वासुदेवाय नमः सङ्कर्षणाय च । प्रद्युम्नायानिरुद्धाय तुभ्यं भगवते नमः ॥ ११.५.२९॥ नारायणाय ऋषये पुरुषाय महात्मने । विश्वेश्वराय विश्वाय सर्वभूतात्मने नमः ॥ ११.५.३०॥ इति द्वापर उर्वीश स्तुवन्ति जगदीश्वरम् । नानातन्त्रविधानेन कलावपि तथा शृणु ॥ ११.५.३१॥ कृष्णवर्णं त्विषाकृष्णं साङ्गोपाङ्गास्त्रपार्षदम् । यज्ञैः सङ्कीर्तनप्रायैर्यजन्ति हि सुमेधसः ॥ ११.५.३२॥ ध्येयं सदा परिभवघ्नमभीष्टदोहं तीर्थास्पदं शिवविरिञ्चिनुतं शरण्यम् । भृत्यार्तिहं प्रणतपाल भवाब्धिपोतं वन्दे महापुरुष ते चरणारविन्दम् ॥ ११.५.३३॥ त्यक्त्वा सुदुस्त्यजसुरेप्सितराज्यलक्ष्मीं धर्मिष्ठ आर्यवचसा यदगादरण्यम् । मायामृगं दयितयेप्सितमन्वधावद् वन्दे महापुरुष ते चरणारविन्दम् ॥ ११.५.३४॥ एवं युगानुरूपाभ्यां भगवान्युगवर्तिभिः । मनुजैरिज्यते राजन्श्रेयसामीश्वरो हरिः ॥ ११.५.३५॥ कलिं सभाजयन्त्यार्या गुण ज्ञाः सारभागिनः । यत्र सङ्कीर्तनेनैव सर्वस्वार्थोऽभिलभ्यते ॥ ११.५.३६॥ न ह्यतः परमो लाभो देहिनां भ्राम्यतामिह । यतो विन्देत परमां शान्तिं नश्यति संसृतिः ॥ ११.५.३७॥ कृतादिषु प्रजा राजन्कलाविच्छन्ति सम्भवम् । कलौ खलु भविष्यन्ति नारायणपरायणाः ॥ ११.५.३८॥ क्वचित्क्वचिन्महाराज द्रविडेषु च भूरिशः । ताम्रपर्णी नदी यत्र कृतमाला पयस्विनी ॥ ११.५.३९॥ कावेरी च महापुण्या प्रतीची च महानदी । ये पिबन्ति जलं तासां मनुजा मनुजेश्वर ॥ ११.५.४०॥ प्रायो भक्ता भगवति वासुदेवेऽमलाशयाः ॥ ११.५.४०५॥ देवर्षिभूताप्तनृणां पितॄणां न किङ्करो नायमृणी च राजन् । सर्वात्मना यः शरणं शरण्यं गतो मुकुन्दं परिहृत्य कर्तम् ॥ ११.५.४१॥ स्वपादमूलम्भजतः प्रियस्य त्यक्तान्यभावस्य हरिः परेशः । विकर्म यच्चोत्पतितं कथञ्चिद्धुनोति सर्वं हृदि सन्निविष्टः ॥ ११.५.४२॥ श्रीनारद उवाच । धर्मान्भागवतानित्थं श्रुत्वाथ मिथिलेश्वरः । जायन्तेयान्मुनीन्प्रीतः सोपाध्यायो ह्यपूजयत् ॥ ११.५.४३॥ ततोऽन्तर्दधिरे सिद्धाः सर्वलोकस्य पश्यतः । राजा धर्मानुपातिष्ठन्नवाप परमां गतिम् ॥ ११.५.४४॥ त्वमप्येतान्महाभाग धर्मान्भागवतान्श्रुतान् । आस्थितः श्रद्धया युक्तो निःसङ्गो यास्यसे परम् ॥ ११.५.४५॥ युवयोः खलु दम्पत्योर्यशसा पूरितं जगत् । पुत्रतामगमद्यद्वां भगवानीश्वरो हरिः ॥ ११.५.४६॥ दर्शनालिङ्गनालापैः शयनासनभोजनैः । आत्मा वां पावितः कृष्णे पुत्रस्नेहं प्रकुर्वतोः ॥ ११.५.४७॥ वैरेण यं नृपतयः शिशुपालपौण्ड्र शाल्वादयो गतिविलासविलोकनाद्यैः । ध्यायन्त आकृतधियः शयनासनादौ तत्साम्यमापुरनुरक्तधियां पुनः किम् ॥ ११.५.४८॥ मापत्यबुद्धिमकृथाः कृष्णे सर्वात्मनीश्वरे । मायामनुष्यभावेन गूढैश्वर्ये परेऽव्यये ॥ ११.५.४९॥ भूभारासुरराजन्य हन्तवे गुप्तये सताम् । अवतीर्णस्य निर्वृत्यै यशो लोके वितन्यते ॥ ११.५.५०॥ श्रीशुक उवाच । एतच्छ्रुत्वा महाभागो वसुदेवोऽतिविस्मितः । देवकी च महाभागा जहतुर्मोहमात्मनः ॥ ११.५.५१॥ इतिहासमिमं पुण्यं धारयेद्यः समाहितः । स विधूयेह शमलं ब्रह्मभूयाय कल्पते ॥ ११.५.५२॥ Bhagavata Purana skandha 11, adhyAya 2-5. Conversation between nImI of videhas and navayogI (nine sons of R^ishabha) kavi, hari, antarikSha, prabuddha, pippalAyana, AvirhortA, drumila, chamasa, and karabhAjana. Available translation by P. Narayanaswami Iyer at Samskrita Academy, Chennai.

% Text title            : jAyanteyagItA shrImadbhAgavatAntargatam
% File name             : jAyanteyagiitaa.itx
% itxtitle              : jAyanteyagItA (shrImadbhAgavatAntargatA)
% engtitle              : Jyanteya Gita from Shrimad Bhagavata
% Category              : gItA, giitaa
% Location              : doc_giitaa
% Sublocation           : giitaa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion  Conversation between nImI of videhas and navayogI (nine sons of RRishabha)  kavi, hari, antarikSha, prabuddha, pippalAyana, AvirhortA, drumila, chamasa  and karabhAjana. Available translation by P. Narayanaswami Iyer at Samskrita  Academy, Chennai.
% Description-comments  : Bhagavata Purana sknadha 11 adhyAya 2-5
% Indexextra            : Book 11 of Shrimad Bhagavatam, Chapters 2 to 5 (Needs proofreading)
% Latest update         : February 15, 2013
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP