काश्यपगीता

काश्यपगीता

अत्राप्युदाहरन्तीमा गाथा नित्यं क्षमावताम् । गीताः क्षमावतां कृष्णे काश्यपेन महात्मना ॥ १॥ क्षमा धर्मः क्षमा यज्ञः क्षमा वेदाः क्षमा श्रुतम् । य एतदेव जानाति स सर्व क्षन्तुमर्हति ॥ २॥ क्षमा ब्रह्म क्षमा सत्यं क्षमा भूतं च भावि च । क्षमा तपः क्षमा शौचं क्षमयेदं धृतं जगत् ॥ ३॥ अतियज्ञविदांलोकान्क्षमिणः प्राप्नुवन्ति च । अतिब्रह्मविदांलोकानतिचापि तपस्विनाम् ॥ ४॥ अन्येवै यजुषां लोकाः कर्मिणामपरे तथा । क्षमावतां ब्रह्मलोके लोकाः परमपूजिताः ॥ ५॥ क्षमा तेजस्विनां तेजः क्षमा ब्रह्म तपस्विनाम् । क्षमा सत्यं सत्यवतां क्षमा यज्ञः क्षमा शमः ॥ ६॥ तां क्षमां तादृशीं कृष्णे कथमस्मद्विधस्त्यजेत् । यस्यां ब्रह्म च सत्यं च यज्ञालोकाश्चधिष्ठिताः ॥ ७॥ क्षन्तव्यमेव सततं पुरुषेण विजानता । यदा हि क्षमते सर्वं ब्रह्म सम्पद्यते तदा ॥ ८॥ क्षमावतामयं लोकः परश्चैव क्षमावताम् । इह सन्मानमृच्छति परत्र च शुभां गतिम् ॥ ९॥ येषां मन्युर्मनुष्याणां क्षमयाऽभिहतः सदा । तेषां परतरे लोकास्तस्मात्क्षान्तिः परा मता ॥ १०॥ इति गीताः काश्यपेन गाथा नित्यं क्षमावताम् । श्रुत्वा गाथाः क्षमायास्त्वं तुष्य द्रौपदि माक्रुधः ॥ ११॥ पितामहः शान्तनवः क्षमां सम्पूजयिष्यति । कृष्णश्च देवकीपुत्रः क्षमां सम्पूजयिष्यति ॥ १२॥ आचार्यो विदुरः क्षत्ता शममेव वदिष्यतः । कृपश्च संजयश्चैव शममेव वदिष्यतः ॥ १३॥ सोमदत्तो युयुत्सुश्च द्रोणपुत्रस्तथैव च । पितामहश्च नो व्यासः शमं वदति नित्यशः ॥ १४॥ सुयोधनो नार्हतीति क्षमामेवं न विन्दति । अर्हस्तत्राहमित्येवं तस्मान्मां विन्दते क्षमा ॥ १५॥ एतदात्मवतां वृत्तमेष धर्मः सनातनः । क्षमाचैवानृशंस्यं च तत्कर्तास्म्यहमंजसा ॥ १६॥ परैस्ताडितस्यापितत्ताडनसमर्थस्य चिते क्षोभानुत्पत्तिः क्षमा ॥ १७॥ ॥ इति काश्यपगीता समाप्ता ॥ Encoded and proofread by Sunder Hattangadi sunder at hotmail.com
% Text title            : kaashyapagItA
% File name             : kaashyapagiitaa.itx
% itxtitle              : kAshyapagItA
% engtitle              : kAshyapagItA
% Category              : gItA, giitaa
% Location              : doc_giitaa
% Sublocation           : giitaa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi sunder at hotmail.com
% Proofread by          : Sunder Hattangadi sunder at hotmail.com
% Indexextra            : (scanned)
% Latest update         : December 15, 2012
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org