मोक्षगीता
१ सत्यशोधनम्
Chapter I THE SEARCH FOR TRUTH
शिष्य उवाच ।
भगवन् करुणासिन्धो नमामि त्वामहं गुरो ।
त्वमेवार्हसि मे दुःखं भेत्तुं ध्वान्तं यथा रविः ॥ १॥
संसारसागरे घोरे पतनान्नष्टचेतनम् ।
तापत्रयेण निर्दग्धं सन्त्रायस्व च मां प्रभो ।
यथा सन्तरणीयोऽयं भवाब्धिः शाधि मां तथा ॥ २॥
गुरुरुवाच ।
मा भैषीर्वत्स ते नास्ति तत्त्वतो मरणं ध्रुवम् ।
उपायश्चास्ति संसारसागरोत्तरणे तथा ॥ ३॥
अमृतत्वस्य सम्प्राप्तौ परमानन्दभोजने ।
अतस्त्वामुपदेक्ष्यामि ब्रह्मविद्यामिमां शृणु ॥ ४॥
इति प्रथमोऽध्यायः सम्पूर्णः ।
२ ब्रह्मस्वरूपम्
Chapter II The Nature of Brahman
गुरुरुवाच ।
अनाद्यन्ताय शान्ताय शुद्धायाऽऽत्मप्रकाशिने ।
आद्याचार्याय निर्धूतकल्मषायाविकारिणे ॥ १॥
अदेशकालकामाय सच्चिदानन्दरूपिणे ।
अखण्डशाश्वतश्रेष्ठनिर्गुणब्रह्मणे नमः ॥ २॥
प्राणेन्द्रियमनोदेहजगतामाश्रयो हि यत् ।
वेदयोनिस्तथा सर्वव्यापकं सर्वहृद्गृहम् ॥ ३॥
अवर्णरसगन्धं च नामरूपविवर्जितम् ।
तत्तत्त्वं परमं किञ्चित्साधु शश्वत्प्रकाशते ॥ ४॥
अनश्वरमजं भीतिक्षयसञ्चारवर्जितम् ।
अनिर्वाच्यं परं तत्त्वमप्रमेयं च किञ्चन ।
पुराणमद्वितीयं यत्तज्जागार्येव नापरम् ॥ ५॥
यन्न हस्वं न वा दीर्घं नापीयत्तावदेव नो ।
न कृष्णं नापि वा शुक्लं न स्थूलं नापि वा कृशम् ।
न साधु वा चासाधु तद्ब्रह्मेति विबुध्यताम् ॥ ६॥
यन्न सूक्ष्मं न वा सान्द्रं यस्य जातिर्न नाम वा ।
विदेहममरं यच्चानवाङ्मनसगोचरम् ।
यच्च नैति विपर्यासं तद्ब्रह्मेति विबुध्यताम् ॥ ७॥
स्थूलसूक्ष्मशरीराभ्यां तथा कारणविग्रहात् ।
भिन्नं ह्रह्म सदा मुक्तं गतिकर्मविवर्जितम् ॥ ८॥
अनिर्वाच्यं खलु ब्रह्म यतो निर्वचनं विदुः ।
निराकरणमस्यैव निषेधालिर्न नेत्यतः ॥ ९॥
समर्थं केवलं तस्य ब्रह्मणो हि निरूपणम् ।
श्रुतिशीर्षमिमं मार्गं हेतोरस्मात्समश्नुते ॥ १०॥
इति द्वितीयोऽध्यायः सम्पूर्णः ।
३ मायास्वरूपम्
Chapter III The Nature of Maya
गुरुरुवाच ।
मायां नामेश्वरस्याहुरुपाधिं ब्रह्मणस्तु सा ।
स्वकीयेन विभर्त्यद्धा लीलामाश्चर्यकारिणी ॥ १॥
सेयं मायाऽसती नैव यतो नः प्रतिभासते ।
सतीयं नापि यज्ज्ञानोदये नश्यति सत्वरम् ॥ २॥
एवं माया हि तच्छब्दवाच्या नैव प्रकीर्त्यते ।
सैषाऽनिर्वचनीयं हि भानं किञ्चन कथ्यते ॥ ३॥
सा माया वर्णनातीता सदसद्भ्यां विलक्षणा ।
अनिर्वाच्योच्यते नूनमनादिर्भावरूपयोः ॥ ४॥
अनादिरपि सान्तेयमृषेरेवात्मवेदिनः ।
शुद्धसत्त्वस्वरूपां तां मायामाहुर्मनीषिणः ॥ ५॥
मायां विजित्य यो मर्त्य आत्मज्ञानं तु विन्दते ।
स एव प्रभवेत्तस्या ज्ञातुमुत्थानसंलयौ ॥ ६॥
विषया पञ्च भूतानि तन्मात्राण्यवधारय ।
उत्पादीनीति मायाया विकारा वेति तत्त्वतः ॥ ७॥
धूमेन मनुजैः सत्ता यथाग्नेरनुमीयते ।
तथा सत्ता च मायायास्तन्नानाव्यक्तिभिर्ननु ॥ ८॥
माया मनोमयी प्रोक्ता या सृजत्यसकृद्भ्रमान् ।
नानारूपांश्च सर्वत्र सर्वं व्याप्नोति निश्चितम् ॥ ९॥
यदा ते निहतं चित्तं सविचारविवेचनैः ।
तदाप्रभृति माया त्वां पीडयत्येव नो दृढम् ॥ १०॥
विषयान् भोक्तुकामं तन्मायाबीजं स्मृतं मनः ।
अतो मनो निहन्तव्यं तत्प्रणाशाय सुव्रतः ।
अधिगत्य परां शान्तिं ब्रह्मज्ञानं तदैष्यसि ॥ ११॥
इति तृतीयोऽध्यायः सम्पूर्णः ।
४ अविद्यास्वरूपम्
Chapter IV The Nature of Avidya
गुरुरुवाच ।
अविद्या मलिनं सत्त्वं जीवात्मोपाधिरुच्यते ।
तस्य कारणमूर्तिः सा कोशश्चानन्दतुन्दिलः ॥ १॥
अविद्या स्यादसद्बोधो येन जीवोऽवगच्छति ।
अज्ञो बुद्धिं तनुं शुद्धां सुखयोनिं च शाश्वतीम् ॥ २॥
स्वेच्छया च यथा राजा नाटके भिक्षभूमिकाम् ।
आधत्ते सच्चिदानन्दब्रह्मायं जीवभूमिकाम् ।
जगन्नाटकरङ्गेऽस्मिंस्तथा लीलाकुतूहलात् ॥ ३॥
पाण्डुरं पुरुषो वस्तु कामलापीडितो यथा ।
पीतं पश्यत्यविद्यातस्तथाऽऽत्मानं स विग्रहम् ॥ ४॥
आत्मबोधोद्गमे तात सैवाऽविद्या विनश्यति ।
अतोऽविद्या विनाशो हि ब्रह्मास्पदमुदीर्यते ॥ ५॥
यथाऽऽदर्शो मलेनान्ध्यं याति तद्वदविद्यया ।
ब्रह्माऽऽवृतं ततो मर्त्या विमुह्यन्ति मुहुस्तया ॥ ६॥
इन्द्रियाणि मनोऽहन्ता बुद्धिर्वर्ष्मेत्यमूनि च ।
कार्याणि विद्ध्यविद्यायास्ततस्तत्कारणं जहि ।
कार्याणि स्वयमृच्छन्ति प्रणाशं कारणात्यये ॥ ७॥
इति चतुर्थोऽध्यायः सम्पूर्णः ।
५ विश्वस्वरूपम्
Chapter V - The nature of the Universe
गुरुरुवाच ।
नामरूपात्मकं चैतद्विश्वमज्ञानमूलकम् ।
विद्धि तद्विलयं याति स्वात्मबोधार्यमोदये ।
आत्मभिन्नमसद्विश्वं मरीचिस्वप्नसन्निभम् ॥ १॥
रज्ज्वामध्यास्यते सर्पः शुक्तौ च रजतं यथा ।
स्थाणौ चौरोऽभ्रवृन्दे पूर्मृगतृष्णासु चोदकम् ।
गगने नीलिमा चैव ब्रह्मण्यारोप्यते जगत् ॥ २॥
जलमेव यथा चोर्मिफेनबुद्बुदरूपतः ।
विवर्तते सुवर्णं च कर्णिकावलयात्मना ॥ ३॥
मृदेवमत्रकुम्भादिरूपतस्तन्तवो यथा ।
वस्त्रोत्तरीयकौपीनकञ्चुकाद्यात्मनानघ ।
तथा ब्रह्मैकमेवात्र विश्वरूपं बिभर्ति हि ॥ ४॥
भावयन्त्यर्भका दारुद्विपं सत्यं हि यूथपम् ।
प्रौढास्तु तदसत्यत्वं जानते बालिशास्तथा ॥ ५॥
अनात्ममात्रमीक्षन्ते किन्तु पश्यन्ति पण्डिताः ।
केवलं ब्रह्म सर्वत्र विवेकोऽस्यायमाद्दतः ॥ ६॥
तत्त्वं जानीहि यत्कृत्स्नं विश्वं ब्रह्मण्यवस्थितम् ।
मायया तद्बहिर्भाति वपुस्ते मुकुरे यथा ॥ ७॥
स्वप्नदृष्टं यथा वस्तु प्रबोधे नेक्षते नरः ।
जीवन्मुक्तस्तथा विश्वं ब्रह्मज्ञाने प्रतिष्ठिते ॥ ८॥
इति पञ्चमोऽध्यायः सम्पूर्णः ।
६ मनसः स्वरूपम्
Chapter VI The Nature of the Mind
गुरुरुवाच ।
स्रष्टुं संहर्तुमप्येतन्निमेषेणाखलं जगत् ।
मनः शक्नोत्यतो हीदं विचारेण जहि द्रुतम् ।
वासनाहननेनैवं तच्चाञ्चल्यजयेन च॥ १॥
मनो हि वासनापुञ्जं ब्रुवते तत्त्ववेदिनः ।
जनयन्ति च ता बन्धं वासनास्तद्वधस्ततः ॥ २॥
विमुक्तिमिच्छतावश्यं कार्यः सर्वात्मना भुवि ।
वासनासु विनष्टासु प्रदीप इव विन्दते ।
उपभुक्ताखिलस्नेहो मनः शान्तिमनुत्तमाम् ॥ ३॥
यथाऽऽत्मनः कृमिः कोशे बध्यतेऽन्तस्तथा नरः ।
संसाराख्यमहाजाले सङ्कल्पैर्वासनागणैः ॥ ४॥
चञ्चलं मन एवेह बलवानात्मनो रिपुः ।
सृजत्यसङ्ख्यसङ्कल्पवासनास्तत्स्ववृत्तिभिः ।
अतो ब्रह्मविचारेण जहि तास्त्वं निरन्तरम् ॥ ५॥
द्वैतवृत्तिष्वलुप्तासु ब्रह्म भाति न चेतसः ।
अतो नाशय ताः सर्वा ब्रह्मतेजोऽभिवृद्धये ॥ ६॥
सर्वोपद्रवयोनेश्चाऽहङ्कृतेरास्पदं मनः ।
अहङ्कारविनाशे तु मनोनाशः प्रसिद्ध्यति ।
मनोनाशे ह्यहङ्कारनाशः सञ्जायते ध्रुवम् ॥ ७॥
ममता तवता चेति मनःसृष्टिरुभे अपि ।
विचारेण हते चित्ते नश्यन्तीदृशभावनाः ।
निबोध वत्स मनसः प्रणाशो मोक्ष एव हि ॥ ८॥
सङ्कल्पनाशमेवाहुः सार्थं चित्तलयं बुधाः ।
अपुनर्भवमुत्सादं सङ्कल्पानां मनीषिणः ।
अक्षरं भास्वरं चाहुरवर्ण्यं ब्रह्मणः पदम् ॥ ९॥
विशोध्यते यथा हेम पावकेन तथा मनः ।
ध्यानाग्निना हि निर्दग्धं निर्मलं तात जायते ॥ १०॥
इति षष्टोऽध्यायः सम्पूर्णः ।
७ साधनाप्रणालिः
Chapter VII The Process of Sadhana
गुरुरुवाच ।
आच्छाद्यते यथा वह्निर्भस्मना च कृपाणकः ।
कोशेन च रविमेधैर्गर्भश्चोल्बेन हीरकः ।
मृदा तल्पश्छदेनैवं ब्रह्म मांसास्थिभिर्वृतम् ॥ १॥
यदापनीयते भस्म तदाग्निः साधु दृश्यते ।
यदाभ्राणि निरस्यन्ते तदाऽऽदित्यः प्रकाशते ॥ २॥
यदापनीयते कोशः कृपाणो दृश्यते तदा ।
यदास्तरणमुत्सृष्टं तदा तल्पो नु दृश्यते ॥ ३॥
तथैवाज्ञानसंवारे निरस्ते ब्रह्मरोधिनि ।
ब्रह्मबोधेन सम्भास्वद्ब्रह्मसाक्षात्कृतिर्भवेत् ॥ ४॥
दुग्धे न नवनीतं त्वं व्यापकं परिपश्यसि ।
तदेव लभसे किन्तु मथिते पयसि स्वयम् ॥ ५॥
तथा न ब्रह्म शक्नोषि सन्द्रष्टं चर्मचक्षुषा ।
ध्यानेन द्रक्ष्यसि ब्रह्म सर्वव्यापि त्वसंशयम् ॥ ६॥
स्वीयमाधेहि चित्तं च निरस्ताखिलकल्मषम् ।
अवसादय सम्बन्धान् मनसो बाह्यवस्तुभिः ॥ ७॥
समूलं जहि कामांश्च सङ्कल्पांस्त्यज सर्वशः ।
विनाशयाखिलास्तृष्णा ब्रह्मध्यानैकमानसः ।
अवर्ण्यप्रभमद्वैतं ब्रह्मपीठं तदैष्यसि ॥ ८॥
अपि तत्त्वमसीत्यस्य महावाक्यस्य तत्त्वतः ।
अर्थ बुध्यस्व जिज्ञासो स स्यानिःश्रेयसाय ते ॥ ९॥
ब्रह्मात्मैक्यानुभूतिश्च महावाक्योद्भवा पुनः ।
संसारसागरोत्तारे तात नौकायते खलु ॥ १०॥
समदृष्ट्या विवेकेन सत्सङ्गेन स्थिरेण च ।
चित्तेन न तद्विचारेण सुलभं परमं पदम् ॥ ११॥
यद्भावयति चित्तेन नरः सर्वात्मना सदा ।
तदेव जायते शीघ्रं यथा कीटो मृदालये ॥ १२॥
स्थिरासने समासीनो नियम्येन्द्रियजालकम् ।
पञ्चकोशानतिक्रम्य शान्तो ध्याय च सन्ततम् ॥ १३।
स्वयम्प्रकाशमेवाहं सच्चिदानन्दकोऽद्वयम् ।
ब्रह्मास्म्याधारभूतं च विश्वकोशसमूहयोः ॥ १४॥
इत्येवं ब्रह्मास्म्याभावं त्वं तैलधारानिभं कुरु ।
स्नायन्नश्नन् श्वसन् गच्छन् स्वपन् क्रीडंश्च संलपन् ॥ १५॥
यावद्ब्रह्मावबोधं हि विन्दसे तावदाचर ।
विचारं ब्रह्मणोऽप्येवं सद्वृत्तमृषिसङ्गतिम् ॥ १६॥
अहम्ब्रह्मास्मिवाक्यस्य ध्यायं ध्यायमनुत्तमम् ।
यदर्थं सततं ब्रह्माकारवृत्तिं च पुष्यसि ॥ १७॥
आत्मान्तःकरणाच्छुद्धसत्त्वात्तर्हि प्रसिद्धयति ।
ब्रह्मज्ञानं स्वयं सर्वनिगमाखिलशीर्षकम् ॥ १८॥
ओमित्येकाक्षरं प्राहुः प्रतीकं ब्रह्मणः परम् ।
तदेव व्याहृतिः शक्तेस्त्रयीसारश्च विश्रुतः ॥ १९॥
निर्भयामरतातीरप्रापणे तरणिश्च तत् ।
ध्यायतो भक्तिभावेन प्रणवं वत्स सर्वदा ॥ २०॥
अभ्यासेनात्मनो ब्रह्मविचारं सहजं कुरु ।
तदैव ते मनस्तिष्ठेदात्मनो निपुणं वशे ।
नश्यन्ति मनसो ब्रह्मविचारेण मलानि हि ॥ २१॥
कोऽहं कुतो जगज्जातं कथं जन्ममृती पुनः ।
बन्धमोक्षौ च कावेवं मीमांसामनिशं कुरु ।
तदा हि शाश्वतानन्दपदं यास्यसि चाक्षतम् ॥ २२॥
यदि ते ब्रह्मसंलिप्सा लक्ष्यतृष्णां विनाशय ।
दूरीकरोषि चात्मानं विषयेभ्यो यथा यथा ।
तथा तथा त्वयि ब्रह्मतेजो वत्स प्रदीप्यते ॥ २३॥
रागद्वेषरुषाऽहतामानैर्यदि न मुच्यसे ।
पद्माद्यासन संविष्टोऽप्येकाहं नैव शक्नुयाः ।
समाधिं तर्हि निर्वेष्टं कदापीह निबोध तत् ॥ २४॥
विलापय वचश्चित्ते चित्तं बुद्धौ च शेमुषीम् ।
तत्साक्षिणि परां शान्तिमुपभुक्ष्व ततः परम् ॥ २५॥
सन्नियम्येन्द्रियग्रामं सदोद्यद्भावनां जहि ।
निमज्जय मनोऽन्तस्थे ब्रह्मण्येवमतन्द्रितः ।
येनानुभवितुं स्वस्य ब्रह्मणैक्यं त्वमर्हसि ॥ २६॥
चतुःसाधनसम्पत्या युक्तो वाचं नियम्य च ।
संहृत्य सकला आशाः शृणु वेदसरस्वतीम् ।
विचिन्तय श्रुतं सम्यग्ध्यायंश्चैह्यात्मवेदनम् ॥ २७॥
निर्विकल्पे समाधौ हि सुबोधं ब्रह्म निश्चितम् ।
ब्रह्मण्येव विलीने स्यात्समाधिः शुद्धमानसे ॥ २८॥
परे ब्रह्मणि विज्ञाते निर्विकल्पसमाधिना ।
भिद्यते हृदयग्रन्थिः कामोऽविद्या च कर्म च ॥ २९॥
विना सम्पूर्णवैराग्यात्समाधिस्ते न सिद्ध्यति ।
समाधिं चात्मनो बोधो विना ते नैव जायते ।
अन्तरा चात्मसंवेदं सम्यङ्मोक्षो न सिद्ध्यति ॥ ३०॥
इति सप्तमोऽध्यायः सम्पूर्णः ।
८ ज्ञानाज्ञानस्वरूपम्
Chapter VIII Ignorance and Wisdom
गुरुरुवाच ।
अहं कायो मदीयोऽयं देहश्चेयं सती मम ।
पुत्रोऽसौ मे च विप्रोऽहं स्थूलोऽहं पण्डितोऽप्यहम् ।
कृष्णोऽहमिति मन्येत यः स बद्धोऽज्ञ एव च ॥ १॥
नाहं देहस्त्वहं सर्वव्याप्यमयोऽविकार्यहम् ।
अखण्डश्च स्वतन्त्रोऽस्मि सच्चिदानन्द एव च ॥ २॥
स्वयम्भूर्ब्रह्म चास्मीति यो भावयति तत्त्ववित् ।
स ज्ञानी च महर्षिश्च स मुक्तो भवबन्धनात् ॥ ३॥
कर्माकार्षमिदं चाहं सोऽहं यामि सुरालयम् ।
उपाभुजीदृशान् भोगान् इति यो वेत्ति सोऽबुधः ॥ ४॥
नाहं कर्ता न भोक्तापि साक्षी केवलमस्मि तु ।
करोति प्रकृतिः कर्मेत्याह यः स ऋषिर्बुधः ॥ ५॥
इति अष्टमोऽध्यायः सम्पूर्णः ।
९ पञ्चकोशः
Chapter IX The Five Sheaths
गुरुरुवाच ।
असावन्नमयः कोशः पञ्चभूतात्मकः स्मृतः ।
आद्यन्तवान् जडः कार्यस्तत्त्वं न प्राणकोशकः ॥ १॥
मलसान्द्रोऽप्यतो न त्वं कोशोऽयं पार्थिवाङ्गभृत् ।
त्वमस्य वर्ष्मणः साक्षी तद्रहस्यमिदं शृणु ।
नाहं शरीरमेवास्मि ब्रह्माहं केवलं त्विति ॥ २॥
अथ प्राणमयः कोशो रजोगुणसमुद्भवः ।
आगन्तवान् जड कार्यस्तत्त्वं न प्राणकोशकः ॥ ३॥
अस्य कोशस्य साक्षी त्वं तद्रहस्पमिदं शृणु ।
नाह प्राणमयः कोशो ब्रह्माहं केवलं त्विति ॥ ४॥
योऽयं मनोमयः कोशः स च सत्वगुणोद्भवः ।
आद्यन्तवान् जडः कार्यस्तत्त्वं नैव मनोमयः ॥ ५॥
अस्य कोशस्य साक्षी त्वं तद्रहस्यमिदं शृणु ।
नाहं मनोमयः कोशो वह्माहं केवलं त्विति ॥ ६॥
यो विज्ञानमयः कोशः सोऽपि सत्त्वगुणोद्भवः ।
आद्यन्तवान् जहः कार्यस्त्वं विज्ञानमयो न तत् ॥ ७॥
अस्य कोशस्य साक्षी त्वं तद्रहस्यमिदं शृणु ।
नाहं विज्ञानकोशो हि ब्रह्माह केवलं त्विति ॥ ८॥
य आनन्दमयः कोशः स च प्रकृतिसम्भवः ।
अविद्याकर्मजन्योऽपि व्यभिचारिगुणान्वितः ॥ ९॥
जडश्चायं त्वमानन्दकोशो नैव भवस्यतः ।
अस्य कोशस्य साक्षी त्वं तद्रहस्यमिदं शृणु ।
नाहमानन्दकोशोऽपि ब्रह्माहं केवलं त्विति ॥ १०॥
इति नवमोऽध्यायः सम्पूर्णः ।
१० जीवनमुक्तिरवस्था
Chapter X The State of Jivanmukti
गुरुरुवाच ।
पदेऽक्षरे तुरीये यो जीवन्मुक्तः प्रतिष्ठितः ।
सुखदुःखादिभिर्द्वन्द्वैर्न कदापि स पीड्यते ॥ १॥
आत्मीयसच्चिदानन्दस्वरूपेऽनारतं स हि ।
विश्राम्यातितरामेवं सुखेनात्मेच्छयाटति ॥ २॥
शरीरत्रितयात्कोशपञ्चकादप्यहं परः ।
अवस्थात्रयसाक्षी च शुद्धचैतन्यकेवलः ।
इत्येव साधुसंवित्ते जीवन्नपि विमुक्तिभाक् ॥ ३॥
आत्मैव सर्वभूतानीत्येवं यस्तु विजज्ञिवान् ।
जीवन्मुक्तस्य तस्यर्षेर्मोहः शोको न कोऽपि वा ।
न विद्यते द्वितीयोऽपि यतस्तस्य महात्मनः ॥ ४॥
निर्दग्धसर्वकामो यो निहताहङ्कृतिर्यतिः ।
अरूपभेददृक् शान्तः सर्वभूतेषु यः समः ।
मायाऽज्ञानतमोमुक्तः स परं भासते महान् ॥ ५॥
जीवन्मुक्तः सदानन्दे परब्रह्मण्यवस्थितः ।
निरुद्धचित्तवृत्तिश्च स्फटिकस्वच्छमानसः ।
सोऽहन्त्वम्भेदभावैश्च नोपलिप्तः कदाचन ॥ ६॥
विमुक्तो यो यतीन्द्रश्च जिताज्ञानमहारिपुः ।
सदानन्दरहस्यज्ञः स करार्पितभैक्ष्यभुक् ।
मूलेषु शाखिना चापि स्वपित्यानन्दनिर्भरः ॥ ७॥
स महर्षिर्न लोकस्य स्तुतिनिन्दे समीक्षते ।
यस्यापि ताड्यमानस्य शान्तमेव मनः स्थितम् ॥ ८॥
अनुगृह्णति यः पापानात्मपीडाकरान्मुदा ।
सर्वत्र केवलं स्वीयमात्मानं चानुपश्यति ॥ ९॥
यस्य दुःखेष्वनुद्विग्नं सुखेष्वप्रमदोज्ज्वलम् ।
मनश्च सोऽप्यसन्देहं जीवन्मुक्तः प्रकीर्त्यते ।
मनस्तस्य प्रशान्तं च ब्रह्मात्मैक्यानुभावतः ॥ १०॥
जीवन्मुक्तो हि संस्काररूपं जानाति विग्रहम् ।
विदेहमुक्तिभागन्यो नेति भेदं निबोध तम् ॥ ११॥
इति दशमोऽध्यायः सम्पूर्णः ।
११ ब्रह्मोपदेशः
Chapter XI Brahma-Upadesha
गुरुरुवाच ।
न त्वं क्षरमिदं गात्रं नापीदं चञ्चलं मनः ।
नापीन्द्रियाणि बुद्धिर्नो नापि कारणविग्रहः ।
त्वं व्यापकाक्षरं ब्रह्मेतीदं बुद्धवैधि मुक्तिभाक् ॥ १॥
त्वं प्रज्ञानघनो ह्यात्मा ब्रह्म त्वं चिद्घनं तथा ।
त्वमानन्दघनश्चात्मा त्वं विज्ञानघनः पुमान् ।
अनुबुध्य परं तत्त्वमेतच्च भव मुक्तिभाक् ॥ २॥
अखण्डैकरसं ब्रह्म त्वं च चिन्मात्रपूरुषः ।
अलिङ्गस्त्वमनङ्गात्मा त्वमरागो निरञ्जनः ।
अनुभूय परं तत्त्वमेतच्च भव मुक्तिभाक् ॥ ३॥
देशकालातिगस्त्वं चानाद्यन्तोऽगश्च निःस्पृहः ।
अविकार्यमरोऽकर्मा त्वमेव ब्रह्म केवलम् ।
संविज्ञाय परं तत्त्वमेतच्च भव मुक्तिभाक् ॥ ४॥
अभेद्यस्त्वमनंशो च निर्जन्ममरणोऽव्ययः ।
स्वतन्त्रस्त्वं स्वयञ्ज्योतिरमेयस्त्वं सनातनः ।
एतबुद्ध्वा परं तत्त्वं विमुक्तिं निर्विशानघ ॥ ५॥
त्वमानन्दमयः साक्षात्पुरुषो ब्रह्म चिन्मयम् ।
ज्योतिर्मयस्त्वमात्मा च बुद्ध्वेदं भव मुक्तिभाक् ॥ ६॥
कायत्रयाच्च भिन्नस्त्वमन्यस्त्वं कोशपञ्चकात् ।
अवस्थात्रयसाक्षी त्वमेतबुद्ध्वैधि मुक्तिभाक् ॥ ७॥
दोषक्षयविनिर्मुक्तो भेदरोगविवर्जितः ।
अजरापरिणामस्त्वं चैतबुद्ध्वैधि मुक्तिभाक् ॥ ८॥
सर्वेषामन्तरात्मा यच्चानाद्यक्षरमव्ययम् ।
अमेयं परमं वस्तु ब्रह्मावाङ्मनसास्पदम् ।
तद्ब्रह्मैव त्वमस्यङ्ग ध्यायंस्तन्मुक्तिभाग्भव ॥ ९॥
इति एकादशोऽध्यायः सम्पूर्णः ।
१२ आत्मानुसन्धानम्
Chapter XII Realisation of the Self
गुरुरुवाच ।
कच्चिद्विनष्टो मोहस्ते कच्चित्ते गलितं भयम् ।
साम्प्रतं वत्स सन्देहो निरस्तः कच्चिदेव ते ॥ १॥
कच्चित्त्वं सच्चिदानन्दस्वरूपे ह्यवतिष्ठसे ।
इदानीमात्मनो यस्माद्रहस्यं परमं मया ।
वेदान्तस्य तवाख्यातं सारभूतं त्रयीनिधेः ॥ २॥
शिष्य उवाच ।
भगवन्नधुनात्मानं गुरो जानामि निश्चितम् ।
अहमेव स्वयञ्ज्योतिरद्वयं चाविकारि च ॥ ३॥
अरूपं शाश्वतं विश्वव्यापकं केवलं विभो ।
अखण्डैकरसं ब्रह्म तेजोरूपमहं परम् ॥ ४॥
ब्रह्माहं सच्चिदानन्दं शुद्धोऽहममरोऽव्ययः ।
अमेयो निर्भयोऽकालो विरक्तो गतिवर्जितः ।
अदेहचित्तसम्बन्धो निष्कर्माहमतीन्द्रियः ॥ ५॥
नमस्ते भगवत्पाद त्वयाहं परिरक्षितः ।
संसारचक्रतो घोरात् त्वत्प्रसादेन शाश्वतः ॥ ६॥
आनन्दश्चामृतत्वं च संसिद्धमधुना प्रभो ।
सन्देहाज्ञानसम्मोहाः सर्वे मे विलयं गताः ।
प्रणामाः कोटिशः सन्तु भगवस्ते दयानिधे ॥ ७॥
गुरुरुवाच ।
य इमां मोक्षगीतां च नित्यमेकाग्रमानसः ।
प्रयतश्च युतो भक्त्या पठनेवानुतिष्ठति ॥ ८॥
उपदिष्टानि सर्वाणि सोऽमृतत्वं व्रजेल्लघु ।
आनन्दं शाश्वतं चापि परमां शान्तिमव्ययाम् ।
यत्रास्ते ब्रह्मजिज्ञासा तत्र स्युः शान्तिसम्पदः ॥ ९॥
इति द्वादशोऽध्यायः सम्पूर्णः ।
इति स्वामी शिवानन्दविरचिता अद्वैतवेदान्ततत्त्वज्ञसारदर्शका
मोक्षगीता समाप्ता ।
ॐ शान्तिः शान्तिः शान्तिः ॥
Thus ends Moksha Gita which gives the essence of
the Advaita Vedanta Philosophy.
Hari OM Tat Sat!
OM Shanti! Shanti!! Shanti!!!
Encoded and proofread by PSA Easwaran