पितृगीतम्
मार्कण्डेय उवाच
अपि धन्यः कुले जायादस्माकं मतिमान्नरः ।
अकुर्वन् वित्तशाढ्यं यः पिण्डान्नो निर्वपिष्यति ॥ १॥ ५०
रत्नवस्त्रमहायानं सर्वतोयादिकं वसु ।
विभवे सति विप्रेभ्यः अस्मानुद्दिश्य दास्यति ॥ २॥ ५१
अन्नेन वान्यथाशक्त्या कालेऽस्मिन् भक्तिनम्रधीः ।
भोजयिष्यति विप्राग्र्यांस्तन्मात्रविभवो नरः ॥ ३॥ ५२
असमर्थोऽन्नदानस्य वन्यशाकं स्वशक्तितः ।
प्रदास्यति द्विजाग्र्येभ्यः स्वल्पां यो वापि दक्षिणाम् ॥ ४॥ ५३
तत्राप्यसामर्थ्ययुतः करैर्गृह्यासितांस्तिलान् ।
प्रणम्य द्विजमुख्याय कस्मैचिदपि दास्यति ॥ ५॥ ५४
तिलैस्सप्ताष्टभिर्वापि समवेतं जलाञ्जलिम् ।
भक्तिनम्रः समुद्दिश्य योऽस्माकं सम्प्रदास्यति ॥ ६॥ ५५
यतः कुतश्चित्सम्प्राप्य गोभ्यो वापि गवाह्निकम् ।
अभावे प्रीणयेत्तस्माद्भक्त्या युक्तः प्रदास्यति ॥ ७॥ ५६
सर्वाभावे वनं गत्वा कक्षमूलप्रदर्शकः ।
सूर्यादिलोकपालानामिदमुच्चैः पठिष्यति ॥ ८॥ ५७
न मेऽस्ति वित्तं न धनं न चान्यच्छ्राद्धस्य योग्यं स्वपितॄन्नतोऽस्मि ।
तृप्यन्तु भक्त्या पितरौ मयैतौ भुजौ ततौ वर्त्मनि मारुतस्य ॥ ९॥ ५८
इत्येवं पितृभिर्गीतं भावाभावप्रयोजनम् ।
कृतं तेन भवेच्छ्राद्धं य एवं कुरुते द्विजः ॥ १०॥ ५९
इति वराहपुराणे आदिकृतवृत्तन्ते श्राद्धकल्पो नाम त्रयोदशोऽध्यायः
पितृगीतं समाप्तम् ।
Shlokas 50 to 59 from https://archive.org/details/VarahaPurana PDF page 56
Encoded and proofread by PSA Easwaran