रामगीता अद्भुतरामायणान्तर्गतम्
एकादशः सर्गः ।
हनूमते श्रीरामकृतं साङ्ख्ययोगवर्णनम् -
रामःप्राह हनूमन्तमात्मानं पुरुषोत्तमः ।
वत्स वत्स हनूमन्स्त्वं भक्तो यत्पृष्टशनसि ॥ १॥
तत्तेऽहं सम्प्रवक्ष्यामि शृणुष्वावहितो मम ।
अवाच्यमेतद्विज्ञानमात्मगुह्यं सनातनम् ॥ २॥
यन्न देवा विजानन्ति यतन्तोऽपि द्विजातयः ।
इदं ज्ञानं समाश्रित्य ब्रह्मभूता द्विजोत्तमाः ॥ ३॥
न संसारं प्रपश्यन्ति पूर्वेऽपि ब्रह्मवादिनः ।
गुह्याद्गुह्यतमं साक्षाद्गोपनीयं प्रयत्नतः ॥ ४॥
वंशे भक्तिमतो ह्यस्य भवन्ति ब्रह्मवादिनः ।
आत्मा यः केवलः स्वच्छः शान्तः सूक्ष्मः सनातनः ॥ ५॥
अस्ति सर्वान्तरः साक्षाच्चिन्मात्रस्तमसः परः ।
सोऽन्तर्यामी स पुरुषः स प्राणः स महेश्वरः ॥ ६॥
स कालाग्निस्तदव्यक्तं सद्यो वेदयति श्रुतिः ।
तस्माद्विजायते विश्वमत्रैव प्रविलीयते ॥ ७॥
मायावी मायया बद्धः करोति विविधास्तनूः ।
न चाप्ययं संसरति न च संसारयेत्प्रभुम् ॥ ८॥
नायं पृथ्वी न सलिलं न तेजः पवनो नभः ।
न प्राणो न मनो व्यक्तं न शब्दः स्पर्श एव च ॥ ९॥
न रूपरसगन्धाश्च नाहङ्कर्ता ना वागपि ।
न पाणिपादौ नो पायुर्न चोपस्थं प्लवङ्गम ॥ १०॥
न कर्ता न च भोक्ता च न च प्रकृतिपूरूषौ ।
न माया नैव च प्राणश्चैतन्यं परमार्थतः ॥ ११॥
तथा प्रकाशतमसोः सम्बन्धो नोपपद्यते ।
तद्वदेव न सम्बन्धः प्रपञ्चपरमात्मनोः ॥ १२॥
छायातरू यथा लोके परस्परविलक्षणौ ।
तद्वत्प्रञ्चपुरुषौ विभिन्नौ परमार्थतः ॥ १३॥
यद्यात्मा मलिनोऽवस्थौ विकारी स्यात्स्वभावतः ।
नहि तस्य भवेन्मुक्तिर्जन्मान्तरशतैरपि ॥ १४॥
पश्यन्ति मुनयो मुक्ताः स्वात्मानं परमार्थतः ।
विकारहीनं निर्दुःखमानन्दात्मानमव्यययम् ॥ १५॥
अहं कर्ता सुखी दुःखी कृशः स्थूलेति या मतिः ।
साप्यहङ्कृतिसम्बन्धादात्मन्यारोप्यते जनैः ॥ १६॥
वदन्ति वेदविद्वान्सः साक्षिणं प्रकृतेः परम् ।
भोक्तारमक्षयं बुद्ध्वा सर्वत्र समवस्थितम् ॥ १७॥
तस्मादज्ञान मूलोऽयं संसारः सर्व देहिनाम् ।
अज्ञानादन्यथा ज्ञातं तच्च प्रकृतिसङ्गतम् ॥ १८॥
नित्योदितः स्वयञ्ज्योतिः सर्वगः पुरुषः परः ।
अहङ्कारीऽविवेकेन कर्ताहमिति मन्यते ॥ १९॥
पश्यन्ति ऋषयो व्यक्तं नित्यं सदसदात्मकम् ।
प्रधानं प्रकृतिं बुद्ध्वा कारणं ब्रह्मवादिनः ॥ २०॥
तेनात्र सङ्गतो ह्यात्मा कूटस्थोऽपि निरञ्जनः ।
आत्सानमक्षरं ब्रह्म नावबुद्ध्यन्ति तत्त्वतः ॥ २१॥
अनात्मन्यात्मविज्ञानं तस्माद्दुःखः तथेतरत् ।
रागद्वेषादयो दोषाः सर्वभ्रान्तिनिबन्धनाः ॥ २२॥
कार्ये ह्यस्य भवेदेषा पुण्यापुण्यमिति श्रुतिः ।
तद्वशादेव सर्वेषां सर्वदेहसमुद्भवः ॥ २३॥
नित्य सर्वत्रगो ह्यात्मा कूटस्थो दोषवर्जितः ।
एकः स भिद्यते शक्त्या मायया न स्वभावतः ॥ २४॥
तस्मादद्वैतमेवाहुर्मुनयः परमार्थतः ।
भेदोऽव्यक्तस्वभावेन सा च मायाऽऽत्मसंश्रया ॥ २५॥
यथाहि धूमसम्पर्कान्नाकाशो मलिनो भवेत् ।
अन्तःकरणजैर्भावैरात्मा तद्वन्न लिप्यते ॥ २६॥
यथा स्वप्रभया भाति केवलः स्फटिकोपलः ।
उपाधिहीनो विमलस्तथैवात्मा प्रकाशते ॥ २७॥
ज्ञानस्वरूपमेवाहुर्जगदेतद्विचक्षणाः ।
अर्थस्वरूपमेवाज्ञाः पश्यन्त्यन्ये कुबुद्धयः ॥ २८॥
कूटस्थो निर्गुणो व्यापी चैतन्यात्मा स्वभावतः ।
दृश्यते ह्यर्थरूपेण पुरुषं भ्रान्तदृष्टिभिः ॥ २९॥
यथा संलक्ष्यते व्यक्तः केवलः स्फटिको जनैः ।
रक्तिकाव्यवधानेन तद्वत्परमपूरुषः ॥ ३०॥
तस्मादात्माक्षरः शुद्धो नित्यः सर्वगतोऽव्ययः ।
उपासितव्यो मन्तव्यः श्रोतव्यश्च मुमुक्षुभिः ॥ ३१॥
यदा मनसि चैतन्यं भाति सर्वत्रगं सदा ।
योगिनोऽव्यवधानेन तदा सम्पद्यते स्वयम् ॥ ३२॥
यदा सर्वाणि भूतानि स्वात्मन्येवाभि पश्यति ।
सर्वभूतेषु चात्मानं ब्रह्म सम्पद्यते स्वयम् ॥ ३३॥
यदा सर्वाणि भूतानि स्वात्मन्येवाभिपश्यति ।
एकीभूतः परेणासौ तदा भवति केवलः ॥ ३४॥
यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः ।
तदासावमृतीभूतः क्षेमं गच्छति पण्डितः ॥ ३५॥
यदा भूतपृथग्भावमेकस्थमनुपश्यति ।
तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥ ३६॥
यदा पश्यति चात्मायं केवलं परमार्थतः ।
मायामात्रं जगत्कृत्स्नं तदा भवति निर्वृतः ॥ ३७॥
यदा जन्मजरादुःखव्याधीनामेकभेषजम् ।
केवलं ब्रह्मविज्ञानं जायतेऽसौ तदा शिवः ॥ ३८॥
यथा नदीनदा लोके सागरेणैकतां ययुः ।
तद्वदात्माक्षरेणासौ निष्कलेनैकतां व्रजेत् ॥ ३९॥
तस्माद्विज्ञानमेवास्ति न प्रपञ्चो न संस्थितिः ।
अज्ञानेनावृतं लोकं विज्ञानं तेन मुह्यति ॥ ४०॥
तज्ज्ञानं निर्मलं सूक्ष्मं निर्विकल्पं यदव्ययम् ।
अज्ञानमिति तत्सर्वं विज्ञानमिति मे मतम् ॥ ४१॥
एतत्ते परमं साङ्ख्यं भावितं ज्ञानमुत्तमम् ।
सर्ववेदान्तसारं हि योगस्तत्रैकचित्तता ॥ ४२॥
योगात्सञ्जायते ज्ञानं ज्ञानाद्योगः प्रजायते ।
योगज्ञानाभियुक्तस्य नावाप्यं विद्यते क्वचित् ॥ ४३॥
यदेव योगिनो यान्ति साङ्ख्यं तदभिगम्यते ।
एकं साङ्ख्यं च योगं च यः पश्यति स तत्त्ववित् ॥ ४४॥
अन्ये च योगिनो वत्स ऐश्वर्यासक्तचेतसः ।
मज्जन्ति तत्र तत्रैव सत्त्वात्मैक्यमिति श्रुतिः ॥ ४५॥
यत्तत्सर्वगतं दिव्यमैश्वर्यमचलं महत् ।
ज्ञानयोगाभियुक्तस्तु देहान्ते तदवाप्नुयात् ॥ ४६॥
एष आत्माहमव्यक्तो मायावी परमेश्वरः ।
कीर्तितः सर्ववेदेषु सर्वात्मा सर्वतोमुखः ॥ ४७॥
सर्वकामः सर्वरसः सर्वगन्धोऽजरोऽमरः ।
सर्वतः पाणिपादोऽहमन्तर्यामी सनातनः ॥ ४८॥
अपाणिपादो जवनो गृहीतो हृदि संस्थितः ।
अचक्षुरपि पश्यामि तथाऽकर्णः शृणोम्यहम् ॥ ४९॥
वेदाहं सर्वमेवेदं न मां जानाति कश्चन ।
प्राहुर्महान्तं पुरुषं मामेकं तत्त्वदर्शिनः ॥ ५०॥
निर्गुणामलरूपस्य यत्तदैश्वर्यमुत्तमम् ।
यत्र देवा विजानन्ति मोहिता मायया मम ॥ ५१॥
यन्मे गुह्यतमं देहं सर्वगं तत्त्वदर्शिनः ।
प्रविष्टा मम सायुज्यं लभन्ते योगिनोऽव्ययम् ॥ ५२॥
येषां हि न समापन्ना माया वै विश्वरूपिणी ।
लभन्ते परमं शुद्धं निर्वाणं ते मया सह ॥ ५३॥
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ।
प्रसादान्मम ते वत्स एतद्वेदानुशासनम् ॥ ५४॥
नापुत्रशिष्ययोगिभ्यो दातव्यं हनुमन्क्वचित् ।
यदुक्तमेतद्विज्ञानं साङ्ख्ययोगसमाश्रयम् ॥ ५५॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
अद्भुतोत्तरकाण्डे साङ्ख्ययोगो नामैकादशः सर्गः ॥ ११॥
द्वादशः सर्गः ।
उपनिषत्कथनम् -
पुनः रामः प्रवचनमुवाच द्विजपुङ्गव ।
अव्यक्तादभवत्कालः प्रधानं पुरुषः परः ॥ १॥
तेभ्यः सर्वमिदं जातं तस्मात्सर्वमिदं जगत् ।
सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ॥ २॥
सर्वत श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ।
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ॥ ३॥
सर्वाधारं स्थिरानन्दमव्यक्तं द्वैतवर्जितम् ।
सर्वोपमानरहितं प्रमाणातीतगोचरम् ॥ ४॥
निर्विकल्पं निराभासं सर्वाभासं परामृतम् ।
अभिन्नं भिन्नसंस्थानं शाश्वतं ध्रुवमव्ययम् ॥ ५॥
निर्गुणं परमं व्योम तज्ज्ञानं सूरयो विदुः ।
स आत्मा सर्वभूतानां स बाह्याभ्यन्तरात्परः ॥ ६॥
सोऽहं सर्वत्रगः शान्तो ज्ञानात्मा परमेश्वरः ।
मया ततमिदं विश्वं जगदव्यक्तरूपिणा ॥ ७॥
मत्स्थानि सर्वभूतानि यस्तं वेद स वेदवित् ।
प्रधानं पुरुषं चैव तत्त्वद्वयमुदाहृतम् ॥ ८॥
तयोरनादिनिर्दिष्टः कालः संयोजकः परः ।
त्रयमेतदनाद्यन्तमव्यक्तं समवस्थितम् ॥ ९॥
तदात्मकं तदन्यत्स्यात्तद्रूपं मामकं विदुः ।
महदाद्यं विशेषान्तं सम्प्रसूतेऽखिलं जगत् ॥ १०॥
या सा प्रकृतिरुद्दिष्टा मोहिनी सर्वदेहिनाम् ।
पुरुषः प्रकृतिस्थोतोऽपिभुङ्क्ते यः प्राकृतान्गुणान् ॥ ११॥
अहङ्कारो विविक्तत्वात्प्रोच्यते पञ्चविंशकः ।
आद्यो विकारः प्रकृतिर्महनात्मेति कथ्यते ॥ १२॥
विज्ञानशक्तिर्विज्ञानादहङ्कारस्तदुत्थितः ।
एक एव महानात्मा सोहङ्कारोऽभिधीयते ॥ १३॥
रा जीवः सोऽन्तरात्मेति गीयते तत्त्वचिन्तकैः ।
तेन वेदयते सर्वं सुखं दुःखं च जन्मसु ॥ १४॥
स विज्ञानात्मकस्तस्य मनः स्यादुपकारकम् ।
तेनाविवेकतस्तस्मात्संसारं पुरुषस्य तु ॥ १५॥
स चाविवेकः प्रकृतौ सङ्गात्कालेन सोऽभवत् ।
कालः सृजति भूतानि कालः संहरते प्रजाः ॥ १६॥
सर्वे कालस्य वशगा न कालः कस्यचिद्वशे ।
सोऽन्तरा सर्वमेवेदं नियच्छति सनातनः ॥ १७॥
प्रोच्यते भगवान्प्राणः सर्वज्ञः पुरुषः परः ।
सर्वेन्द्रियेभ्यः परमं मनः प्राहुर्मनीषिणः ॥ १८॥
मनसश्चाप्यहङ्कारमहङ्कारान्महान् परः ।
महतः परमव्यक्तमव्यक्तात्पुरुषः परः ॥ १९॥
पुरुषाद्भगवान्प्राणस्तस्य सर्वमिदं जगत् ।
प्राणात्परतरं व्योम व्योमातीतोऽग्निरीश्वरः ॥ २०॥
सोऽहं सर्वत्रगः शान्तो ज्ञानात्मा परमेश्वरः ।
नास्ति मत्परमं भूतं मां विज्ञाय विमुच्यते ॥ २१॥
नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम् ।
ऋते मामेकमव्यक्तं व्योमरूपं महेश्वरम् ॥ २२॥
सोऽहं सृजामि सकलं संहरामि सदा जगत् ।
मायी मायामयो देवः कालेन सह सङ्गतः ॥ २३॥
मत्सन्निधावेष कालः करोति सकलं जगत् ।
नियोजयत्यनन्तात्मा ह्येतद्वेदानुशासनम् ॥ २४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
अद्भुतोत्तरकाण्डे उपनिषत्कथनं नाम द्वादशः सर्गः ॥ १२॥
त्रयोदशः सर्गः
भक्तियोगकथनम् -
वक्ष्ये समाहितमनाः शृणुष्व पवनात्मज ।
येनेदं लीयते रूपं येनेदं सम्प्रवर्तते ॥ १॥
नाहं तपोभिर्विविधैर्न दानेन नच चेज्यया ।
शक्यो हि पुरुषैर्ज्ञातुमृते भक्तिमनुत्तमाम् ॥ २॥
अहं हि सर्वभावानामन्तस्तिष्ठामि सर्वगः ।
मां सर्वसाक्षिणं लोके न जानन्ति प्लवङ्गम ॥ ३॥
यस्यान्तरा सर्वमिदं यो हि सर्वान्तरः परः ।
सोऽहं धाता विधाता च लोकेऽस्मिन्विश्वतोमुखः ॥ ४॥
न मां पश्यन्ति मुनयः सर्वेऽपि त्रिदिवौकसः ।
ब्राह्मणा मनवः शक्रा ये चान्ये प्रथितौजसः ॥ ५॥
गृणन्ति सततं वेदा मामेकं परमेश्वरम् ।
यजन्ति विविधैरग्नौ ब्राह्मणा वैदिकैर्मखैः ॥ ६॥
सर्वेलोका नमस्यन्ति ब्रह्मलोके पितामहम् ।
ध्यायन्ति योगिनो देवं भूताधिपतिमीश्वरम् ॥ ७॥
अहं हि सर्वयज्ञानां भोक्ता चैव फलप्रदः ।
सर्वदेवतनुर्भूत्वा सर्वात्मा सर्वसंस्तुतः ॥ ८॥
मां पश्यन्तीह विद्वान्सो धार्मिका वेदवादिनः ।
तेषां सन्निहितो नित्यं ये भक्ता मामुपासते ॥ ९॥
ब्राह्मणाः क्षत्रिया वैश्या धार्मिका मामुपासते ।
तेषां ददामि तत्स्थानमानन्दं परमं पदम् ॥ १०॥
अन्येऽपि ये विकर्मस्थाः शूद्राद्या नीचजातयः ।
भक्तिमन्तः प्रमुच्यन्ते कालेन मयि सङ्गताः ॥ ११॥
न मद्भक्ता विनश्यन्ते मद्भक्ता वीतकल्मषाः ।
आदावेतत्प्रतिज्ञातं न मे भक्तः प्रणश्यति ॥ १२॥
यो वा निन्दति तं मूढो देवदेवं स निन्दति ।
यो हि तं पूजयेद्भक्त्या स पूजयति मां सदा ॥ १३॥
पत्रं पुष्पं फलं तोयं मदाराधनकारणात् ।
यो मे ददाति नियतः स मे भक्तः प्रियो मतः ॥ १४॥
अहं हि जगतामादौ ब्रह्माणं परमेष्ठिनम् ।
विधाय दत्तवान्वेदानशेषानास्यनिःसृतान् ॥ १५॥
अहमेव हि सर्वेषां योगिनां गुरुरव्ययः ।
धार्मिकानां च गोप्ताहं निहन्ता वेदविद्विषाम् ॥ १६॥
अहं वै सर्वसंसारान्मोचको योगिनामिह ।
संसारहेतुरेवाहं सर्वसंसारवर्जितः ॥ १७॥
अहमेव हि संहर्ता स्त्रष्टाहं परिपालकः ।
मायावी मामिका शक्तिर्माया लोकविमोहिनी ॥ १८॥
ममैव च पराशक्तिर्या सा विद्येति गीयते ।
नाशयामि तया मायां योगिनां हृदि संस्थितः ॥ १९॥
अहं हि सर्वशक्तीनां प्रवर्तकनिवर्तकः ।
आधारभूतः सर्वेषां निधानममृतस्य च ॥ २०॥
एका सर्वान्तरा शक्तिः करोति विविधं जगत् ।
भूत्वा नारायणोऽनन्तो जगन्नाथो जगन्मयः ॥ २१॥
तृतीया महती शक्तिर्निहन्ति सकलं जगत् ।
तामसी मे समाख्याता कालात्मा रुद्रकपिणी ॥ २२॥
ध्यानेन मां प्रपश्यन्ति केचिज्ज्ञानेन चापरे ।
अपरे भक्तियोगेन कर्मयोगेन चापरे ।
सर्वेषामेव भक्तानामेष प्रियतरो मम ॥ २३॥
यो विज्ञानेन मां नित्यमाराधयति नान्यथा
अन्ये च ये त्रयो भक्ता मदाराधनकाङ्क्षिणः ॥ २४॥
तेऽपि मां प्राप्नुवन्त्येव नावर्तते च वै पुनः ।
मया ततमिदं कृत्स्नं प्रधानपुरुषात्मकम् ।
मय्येव संस्थितं विश्वं मया सम्प्रेर्यते जगत् ॥ २५॥
नाहं प्रेरयिता कीश परमं योगमाश्रितः ।
प्रेरयामि जगत्कृत्स्नमेतद्यो वेद सोऽमृतः ॥ २६॥
पश्याम्यशेषमेवेदं वर्तमानं स्वभावतः ।
करोति काले भगवान्महायोगेश्वरः स्वयम् ॥ २७॥
योगं सम्प्रोच्यते योगी मायी शास्त्रेषु सूरिभिः ।
योगेश्वरोऽसौ भगवान्महादेवो महाप्रभुः ॥ २८॥
महत्वात्सर्वसत्त्वानां वरत्वात्परमेश्वरः ।
प्रोच्यते भगवान्ब्रह्मा महान्ब्रह्ममयो यतः ॥ २९॥
यो मामेवं विजानाति महायोगेश्वरेश्वरम् ।
सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥ ३०॥
सोऽहं प्रेरयिता देवः परमानन्दमाश्रितः ।
तिष्ठामि सततं योगी यस्तद्वेद स वेदवित् ॥ ३१॥
इति गुह्यतमं ज्ञानं सर्ववेदेषु निश्चितम् ।
प्रसन्नचेतसे देयं धार्मिकायाहिताग्नये ॥ ३२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
अद्भुतोत्तरकाण्डे भक्तियोगो नाम त्रयोदशः सर्गः ॥ १३॥
चतुर्दशः सर्गः ।
श्रीरामचन्द्रहनुमत्संवादवर्णनम् -
सर्वलोकैकनिर्माता सर्वलोकैकरक्षिता ।
सर्वलोकैकसंहर्ता सर्वात्माऽहं सनातनः ॥ १॥
सर्वेषामेव वस्तूनामन्तर्यामी पिता ह्यहम् ।
मय्येवान्तःस्थितं सर्वं नाहं सर्वत्र संस्थितः ॥ २॥
भवता चाद्भुतं दृष्टं यत्स्वरूपं तु मामकम् ।
ममैषा ह्युपमा वत्स मायया दर्शिता मया ॥ ३॥
सर्वेषामेव भावानामन्तरा समवस्थितः ।
प्रेरयामि जगत्सर्वं क्रियाशक्तिरियं मम ॥ ४॥
मयेदं चेष्टते विश्वं मत्स्वभावानुवर्ति च ।
सोऽहं काले जगत्कृत्स्नं करोमि हनुमन् किल ॥ ५॥
संहराम्येकरूपेण द्विधावस्था ममैव तु ।
आदिमध्यान्तनिर्मुक्तो मायातत्त्वप्रवर्तकः ॥ ६॥
क्षोभयामि च सर्गादौ प्रधानपुरुषावुभौ ।
ताभ्यां सञ्जायते सर्वं संयुक्ताभ्यां परस्परम् ॥ ७॥
महदादिक्रमेणैव मम तेजोविजृम्भितम् ।
यो हि सर्वजगत्साक्षी कालचक्रप्रवर्तकः ॥ ८॥
हिरण्यगर्भो मार्तण्डः सोऽपि मद्देहसम्भवः ।
तस्मै दिव्यं स्वमैश्वर्यं ज्ञानयोगं सनातनम् ॥ ९॥
दत्तवानात्मजान् वेदान् कल्पादौ वतुरः किल ।
स मन्नियोगतो ब्रह्मा सदा मद्भावभावितः ॥ १०॥
दिव्यं तन्मामकैश्वर्यं सर्वदा वहति स्वयम् ।
स सर्वलोकनिर्माता मन्नियोगेन सर्ववित् ॥ ११॥
भूत्वा चतुर्मुखः सर्वं सृजत्येवात्मसम्भवः ।
योऽपि नारायणोऽनन्तो लोकानां प्रभवाव्ययः ॥ १२॥
ममैव परमा मूर्तिः करोति परिपालनम् ।
योऽन्तकः सर्वभूतानां रुद्रः कालात्मकः प्रभुः ॥ १३॥
मदाज्ञयाऽसौ सततं संहारत्येव मे तनुः ।
हव्यं वहति देवानां कव्यं कव्याशिनामपि ॥ १४॥
पाकं च कुरुते वह्निः सोऽपि मच्छक्तिचोदितः ।
भुक्तमाहारजातं यत्पचत्येतदहर्निशम् ॥ १५॥
वैश्वानरोऽग्निर्भगवानीश्वरस्य नियोगतः ।
यो हि सर्वाम्भसां योनिर्वरुणो देवपुङ्गवः ॥ १६॥
स सञ्जीवयते सर्वमीशस्यैव नियोगतः ।
योऽन्तस्तिष्ठति भूतानां बहिर्देवो निरञ्जनः ॥ १७॥
मदाज्ञयासौ भूतानां शरीराणि बिभर्ति हि ।
योऽपि सञ्जीवनो नृणां देवानाममृताकरः ॥ १८॥
सोमः स मन्नियोगेन चोदितः किल वर्तते ।
यः स्वभासा जगत्कृत्स्नं प्रकाशयति सर्वदा ॥ १९॥
सूर्यो वृष्टिं वितनुते शास्त्रेणैव स्वयम्भुवः ।
योऽप्यशेषजगच्छास्ता शक्रः सर्वामरेश्वरः ॥ २०॥
यज्ञानां फलदो देवो वर्ततेऽसौ मदाज्ञया ।
यः प्रशास्ता ह्यसाधूनां वर्तते नियमादिह ॥ २१॥
यमो वैवस्वतो देवो देवदेवनियोगतः ।
योऽपि सर्वधनाध्यक्षो धनानां सम्प्रदायकः ॥ २२॥
सोऽपीश्वरनियोगेन कुबेरो वर्तते सदा ।
यः सर्वरक्षसां नाथस्तापसानां फलप्रदाः ॥ २३॥
मन्नियोगादसौ देवो वर्तते निरृतिः सदा ।
वैतालगणभूतानां स्वामी भोगफलप्रदः ॥ २४॥
ईशानः सर्वभक्तानां सोऽपि तिष्ठेन्ममाज्ञया ।
यो वामदेवोऽङ्गिरसः शिष्यो रुद्रगणाग्रणीः ॥ २५॥
रक्षको योगिनां नित्यं वर्ततेऽसौ मदाज्ञया ।
यश्च सर्वजगत्पूज्ययो वर्तते विघ्नकारकः ॥ २६॥
विनायको धर्मनेता सोऽपि मद्वचनात्किल ।
योऽपि वेदविदां श्रेष्ठो देवसेनापतिः प्रभुः ॥ २७॥
स्कन्दोऽसौ वर्तते नित्यं स्वयम्भूप्रतिचोदितः ।
ये च प्रजानां पतयो मरीच्याद्या महर्षयः ॥ २८॥
सृजन्ति विविधान् लोकान् परस्यैव नियोगतः ।
या च श्री सर्वभूतानां ददाति विपुलां श्रियम् ॥ २९॥
पत्नी नारायणस्यासौ वर्तते मदनुग्रहात् ।
वाचं ददाति विपुलां या च देवी सरस्वती ॥ ३०॥
सापीश्वरनियोगेन चोदिता सम्प्रवर्तते ।
याशेषपुरुषान् घोरान्नरकात्तारयत्यपि ॥ ३१॥
सावित्री संस्मृता देवी देवाज्ञानुविधायिनी ।
पार्वती परमा देवी ब्रह्मविद्याप्रदायिनी ॥ ३२॥
यापि ध्याता विशेषेण सापि मद्वचनानुगा ।
योऽनन्तो महिमानन्तः शेषोऽशेषामरः प्रभुः ॥ ३३॥
दधाति शिरसा लोकं सोऽपि देवनियोगतः ।
योऽग्निः संवर्तको नित्यं वडवारूपसंस्थितः ॥ ३४॥
पिबत्यखिलमम्भोधिमीश्वरस्य नियोगतः ।
आदित्या वसवो रुद्रा मरुतश्च तथाश्विनौ ॥ ३५॥
अन्याश्च देवताः सर्वा मच्छासनमधिष्ठिताः ।
गन्धर्वा उरगा यक्षाः सिद्धाः साध्याश्च चारणाः ॥ ३६॥
भूतरक्षःपिशाचाश्च स्थिताः शास्त्रे स्वयम्भुवः ।
कलाकाष्ठानिमेषाश्च मुहूर्ता दिवसाः क्षणाः ॥ ३७॥
ऋत्वब्दमासपक्षाश्च स्थिताः शास्त्रे प्रजापतेः ।
युगमन्वन्तराण्येव मम तिष्ठन्ति शासने ॥ ३८॥
पराश्चैव परार्द्धाश्च कालभेदास्तथापरे ।
चतुर्विधानि भूतानि स्थावराणि चराणि च ॥ ३९॥
नियोगादेव वर्तन्ते सर्वाण्येव स्वयम्भुवः ।
पत्तनानि च सर्वाणि भुवनानि च शासनात् ॥ ४०॥
ब्रह्माण्डानि च वर्तन्ते देवस्य परमात्मनः ।
अतीतान्यप्यसङ्ख्यानि ब्रह्माण्डानि मदाज्ञया ॥ ४१॥
प्रवृत्तानि पदार्थौघैः सहितानि समं ततः ।
ब्रह्माण्डानि भविष्यन्ति सह वस्तुभिरात्मजैः ॥ ४२॥
हरिष्यन्ति सहैवाज्ञां परस्य परमात्मनः ।
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ॥ ४३॥
भूतादिरादिप्रकृतिर्नियोगान्मम वर्तते ।
याऽशेषसर्वजगतां मोहिनीं सर्वदेहिनाम् ॥ ४४॥
मायापि वर्तते नित्यं सापीश्वरनियोगतः ।
विधूय मोहकलिलं यथा पश्यति तत्पदम् ॥ ४५॥
सापि विद्या महेशस्य नियोगाद्वशवर्तिनी ।
बहुनात्र किमुक्तेन मम शक्त्यात्मकं जगत् ॥ ४६॥
मयैव पूर्यते विश्वं मयैव प्रलयं व्रजेत् ।
अहं हि भगवानीशः स्वयञ्ज्योतिः सनातनः ॥ ४७॥
परमात्मा परम्ब्रह्म मत्तो ह्यन्यन्न विद्यते ।
इत्येतत्परमं ज्ञानं भवते कथितं मया ॥ ४८॥
ज्ञात्वा विमुच्यते जन्तुर्जन्म संसारबन्धनात् ।
मायामाश्रित्य जातोऽहं गृहे दशरथस्य हि ॥ ४९॥
रामोऽहं लक्ष्मणो ह्येष शत्रुघ्नो भारतोऽपि च ।
चतुर्धा सम्प्रभूतोऽहं कथितं तेऽनिलात्मज ॥ ५०॥
मायास्वरूपं च तव कथितं यत्प्लवङ्गम ।
कृपया तद्धृदा धार्यं न विस्मर्तव्यमेव हि ॥ ५१॥
येनायं पठ्यते नित्यं संवादो भवतो मम ।
जीवन्मुक्तो भवेत्सोऽपि सर्वपापैः प्रमुच्यते ॥ ५२॥
श्रावयेद्वा द्विजाञ्छुद्धान्ब्रह्मचर्यपरायणान् ।
यो वा विचारयेदर्थं स याति परमां गतिम् ॥ ५३॥
यश्चैतच्छृणुयान्नित्यं भक्तियुक्तो दृढव्रतः ।
सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥ ५४॥
तस्मात्सर्वप्रयत्नेन पठितव्यो मनीषिभिः ।
श्रोतव्यश्चापि मन्तव्यो विशेषाद्ब्राह्मणैः सदा ॥ ५५॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
अद्भुतोत्तरकाण्डे भगवद्धनूमत्संवादो नाम चतुर्दशः सर्गः ॥ १४॥
Adbhutaramayana Sarga 11-14
Encoded by Vishwas Bhide vrbhide at rediffmail.com
Proofread by Vishwas Bhide and PSA Easwaran