श्रीरमणगीता

श्रीरमणगीता

अध्याय नाम १. उपासनाप्राधान्यनिरूपणम् २. मार्गत्रयकथनम् ३. मुख्यकर्तव्य निरूपणम् ४. ज्ञानस्वरूपकथनम् ५. हृदयविद्या ६. मनोनिग्रहोपायः ७. आत्मविचाराधिकारितदङ्गनिरूपणम् ८. आश्रमविचारः ९. ग्रन्थिभेदकथनम् १०. सङ्घविद्या ११. ज्ञानसिद्धिसामरस्यकथनम् १२. शक्तिविचारः १३. संन्यासे स्त्रीपुरुषयोस्तुल्याधिकारनिरूपणम् १४. जीवन्मुक्ति विचारः १५. श्रवणमनननिदिध्यासननिरूपणम् १६. भक्तिविचारः १७. ज्ञानप्राप्तिविचारः १८. सिद्धमहिमानुकीर्तनम्
॥ श्रीरमणगीता ॥ अथ प्रथमोऽध्यायः । (उपासनाप्राधान्यनिरूपणम्) महर्षि रमणं नत्वा कार्तिकेयं नराकृतिम् । मतं तस्य प्रसन्नेन ग्रन्थेनोपनिबध्यते ॥ १॥ इषपुत्रशके राम भूमिनन्दधरामिते । एकोन्त्रिंशद्दिवसे द्वादशे मासि शीतले ॥ २॥ उपविष्टेषु सर्वेषु शिष्येषु नियतात्मसु । भगवन्तमृषि सोऽहमपृच्छं निर्णयाप्तये ॥ ३॥ प्रथमः प्रश्नः सत्यासत्यविवेकेन मुच्यते केवलेन किम् । उताहो बन्धहानाय विद्यते साधनान्तरम् ॥ ४॥ द्वितीयः प्रश्नः किमलं शास्त्रचर्चैव जिज्ञासूनां विमुक्तये । यथा गुरुपदेशं किमुपासनपेक्षते ॥ ५॥ तृतीय प्रश्नः स्थितप्रज्ञः स्थितप्रज्ञमात्मानं किं समर्थयेत् । विदित्वा परिपूर्णत्वं ज्ञानस्योपरतेरुत ॥ ६॥ चतुर्थः प्रश्नः ज्ञानिनं केन लिङ्गेन ज्ञातुं शक्ष्यन्ति कोविदाः ॥ ७॥ पञ्चमः प्रश्नः ज्ञानायैव समाधिः किं कामायाप्युत कल्पते ॥ ७॥ षष्ठः प्रश्नः कामेन योगमभ्यस्य स्थितप्रज्ञो भवेद्यदि । सकामोऽमुष्य साफल्यमधिगच्छति वा न वा ॥ ८॥ एवं मम गुरुः प्रश्नानकर्ण्य करुणानिधिः । अब्रवीत्संशयच्छेदी रमणो भगवानृषिः ॥ ९॥ प्रथमप्रश्नस्योत्तरम् मोचयेत्सकलान् बन्धानात्मनिष्ठैव केवलम् । सत्यासत्यविवेकं तु प्राहुर्वैराग्यसाधनम् ॥ १०॥ सदा तिष्ठति गम्भीरो ज्ञानी केवलमात्मनि । नासत्यं चिन्तयेद्विश्वं न वा स्वस्य तदन्यताम् ॥ ११॥ द्वितीयप्रश्नस्योत्तरम् न संसिद्धिर्विजिज्ञासोः केवलं शास्त्रचर्चया । उपासनं विना सिद्धिर्नैव स्यादिति निर्णयः ॥ १२॥ अभ्यासकाले सहजां स्थितिं प्राहुरुपासनम् । सिद्धिं स्थिरां यदा गच्छेत्सैव ज्ञानं तदोच्यते ॥ १३॥ विषयान्त्सम्परित्यज्य स्वस्वभावेन संस्थितिः । ज्ञानज्वालाकृतिः प्रोक्त्ता सहजा स्थितिरात्मनः ॥ १४॥ तृतीयप्रश्नस्योत्तरम् निर्वासेन मौनेन स्थिरायां सहजस्थितौ । ज्ञानी ज्ञानिनमात्मानं निःसन्देहः समर्थयेत् ॥ १५॥ चतुर्थप्रश्नस्योत्तरम् सर्वभूतसमत्वेन लिङ्गेन ज्ञानमूह्यताम् । पञ्चमप्रश्नस्योत्तरम् कामारब्धस्समाधिस्तु कामं फलै निश्चितम् ॥ १६॥ षष्ठप्रश्नस्योत्तरम् कामेन योगमभ्यस्य स्थितप्रज्ञो भवेद्यदि । स कामोऽमुष्य साफल्यं गच्छन्नपि न हर्षयेत् ॥ १७॥ ॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे उपासनप्राधान्यनिरूपणं नाम प्रथमोऽध्यायः ॥ १
अथ द्वितीयोऽध्यायः । (मार्गत्रयकथनम्) ईशपुत्रशके बाणभूमिनन्दधरामिते । चातुर्मास्ये जगौ सारं सङ्गृह्य भगवानृषि ॥ १॥ हृदयकुहरमध्ये केवलं ब्रह्ममात्रं ह्यहमहमिति साक्षादात्मरूपेण भाति । हृदि विश मनसा स्वं चिन्व्ता मज्जता वा पवनचलनरोधादात्मनिष्ठो भव त्वम् ॥ २॥ श्लोकं भगवतो वक्त्रान्महर्षेरिममुद्गतम् । श्रुत्यन्तसारं यो वेद संशयो नास्य जातुचित् ॥ ३॥ अत्र श्लोके भगवता पूर्वार्धे स्थानमीरितम् । शारीरकस्य दृश्येऽस्मिञ्छरीरे पाञ्चभौतिके ॥ ४॥ तत्रैव लक्षणं चोक्तं द्वैतमीशा च वारितम् । उक्तं चाप्यपरोक्षत्वं नानालिङ्गनिबर्हणम् ॥ ५॥ उपदेशो द्वितीयार्धे शिष्याभ्यासकृते कृतः । त्रेधा भिन्नेन मार्गेण तत्त्वादैक्यं समीयुषा ॥ ६॥ उपायो मार्गणाभिख्यः प्रथमः सम्प्रकीर्तितः । द्वितीयो मज्ज्नाभिख्यः प्राणरोधस्तृतीयकः ॥ ७॥ ॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे मार्गत्रयकथनं नाम द्वितीयोऽध्यायः ॥ २
अथ तृतीयोऽध्यायः । (मुख्यकर्तव्यनिरूपणम्) दैवरातस्य संवादमाचार्यरमणस्य च । निबध्नीमस्तृतीयेऽस्मिन्नध्याये विदुषां मुदे ॥ १॥ दैवरत उवाच किं कर्तव्य मनुष्यस्य प्रधानमिह संसृतौ । एकं निर्धाय भगवांस्तन्मे व्याख्यातुमर्हति ॥ २॥ भगवानुवाच स्वस्य स्वरूपं विज्ञेयं प्रधानं महदिच्छता । प्रतिष्ठा यत्र सर्वेषां फलानामुत कर्मणाम् ॥ ३॥ दैवरात उवाच स्वस्य स्वरूपविज्ञाने साधनं किं समासतः । सिध्येत्केन प्रयत्नेन प्रत्यग्दृष्टिर्महीयसि ॥ ४॥ भगवानुवाच विषयेभ्यः परावृत्य वृत्तीः सर्वाः प्रयत्नतः । विमर्शे केवलं तिष्ठेदचले निरुपाधिके ॥ ५॥ स्वस्य स्वरूपविज्ञाने साधनं तत्समासतः । सिध्येत्तेनैव यत्नेन प्रत्यग्दृष्टिर्महीयसि ॥ ६॥ दैवरात उवाच यावत्सिद्धिर्भवेन्नॄणां योगस्य मुनिकुञ्जर । तावन्तं नियमाः कालं किं यत्नमुपकुर्वते ॥ ७॥ भगवानुवाच प्रयत्नमुपकुर्वन्ति नियमा युञ्जतां सताम् । सिद्धानां कृतकृत्यानां गलन्ति नियमास्स्वयम् ॥ ८॥ दैवरात उवाच केवलेन विमर्शेन स्थिरेण निरुपाधिना । यथा सिद्धिस्तथा मन्त्रैर्जप्तैः सिद्धिर्भवेन्न वा ॥ ९॥ भगवानुवाच अचञ्चलेन मनसा मन्त्रैर्जप्तैर्निरन्तरम् । सिद्धिः स्याच्छद्दधानानां जप्तेन प्रणवेन वा ॥ १०॥ वृतिर्जपेन मन्त्राणां शुद्धस्य प्रणवस्य वा । विषयेभ्यः परावृत्ता स्वस्वरूपात्मिका भवेत् ॥ ११॥ ईशपुत्रशके शैलभूमिनन्दधरामिते । सप्तमे सप्तमे सोऽयं संवादोऽभवदद्भुतः ॥ १२॥ ॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे मुख्यकर्तव्यनिरूपणं नाम तृतीयोऽध्यायः ॥ ३
अथ चतुर्थोऽध्यायः । (ज्ञानस्वरूपकथनम्) प्रथमः प्रश्नः अहं ब्रह्मास्मीति वृत्तिः किं ज्ञानं मुनिकुञ्जर । उत ब्रह्माहमिति धीर्धीरहं सर्वमित्युत ॥ १॥ अथवा सकलं चैतद्ब्रह्मेति ज्ञानमुच्यते । अस्माद्वृत्तिचतुष्काद्वा किं नु ज्ञानं विलक्षणम् ॥ २॥ अस्योत्तरम् इमं मम गुरुः प्रश्नमन्तेवासिन आदरात् । आकर्ण्य रमणो वाक्यमुवाच भगवान्मुनि ॥ ३॥ वृत्तयो भावना एव सर्वा एता न संशयः । स्वरूपावस्थितिं शुद्धां ज्ञानमाहुर्मनीषिणः ॥ ४॥ गुरोर्वचस्तदाकर्ण्य संशयच्छेदकारकम् । अपृच्छं पुनरेवाहमन्यं संशयमुद्गतम् ॥ ५॥ द्वितीय प्रश्नः वृत्तिव्याप्यं भवेद्ब्रह्म न वा नाथ तपस्विनाम् । इमं मे हृदि सञ्जातं संशयं छेत्तुमर्हसि ॥ ६॥ तमिमं प्रश्नमाकर्ण्य मित्रमङ्घ्रिजुषामृषिः । अभिषिच्य कटाक्षेण मामिदं वाक्यमब्रवीत् ॥ ७॥ अस्योत्तरम् स्वात्मभूतं यदि ब्रह्म ज्ञातुं वृत्तिः प्रवर्तते । स्वात्माकारा तदा भूत्वा न पृथक् प्रतितिष्ठति ॥ ८॥ अयं प्रागुक्त एवाब्दे सप्तमे त्वेकविंशके । अभवन्नो मितग्रन्थः संवादो रोमहर्षणः ॥ ९॥ ॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे ज्ञानस्वरुपकथनं नाम चतुर्थोऽध्यायः ॥ ४
अथ पञ्चमोऽध्यायः । (हृदयविद्या) प्रागुक्तेऽब्देऽष्टमे मासि नवमे दिवसे निशि । उपन्यसितवान् संयगुद्दिश्य हृदयं मुनिः ॥ १॥ निर्गच्छन्ति यतः सर्वा वृत्तयोः देहधारिणाम् । हृदयं तत्समाख्यातं भावनाऽऽकृतिवर्णनम् ॥ २॥ अहंवृत्तिः समस्तानां वृत्तीनां मूलमुच्यते । निर्गच्छन्ति यतोऽहन्धीर्हृदयं तत्समासतः ॥ ३॥ हृदयस्य यदि स्थानं भवेच्चक्रमनाहतम् । मूलाधारं समारभ्य योगस्योपक्रमः कुतः ॥ ४॥ अन्यदेव ततो रक्तपिण्डाददृदयमुच्यते अयं हृदिति वृत्त्या तदात्मनो रूपमीरितम् ॥ ५॥ तस्य दक्षिणतो धाम हृत्पीठे नैव वामतः । तस्मात्प्रवहति ज्योतिः सहस्रारं सुषुम्णया ॥ ६॥ सर्वं देहं सहस्रारात्तदा लोकानुभूतयः । ताः प्रपश्यन् विभेदेन संसारी मनुजो भवेत् ॥ ७॥ आत्मस्थस्य सहस्रारं शुद्धं ज्योतिर्मयं भवेत् । तत्र जीवेन्न सङ्कल्पो यदि सान्निध्यतः पतेत् ॥ ८॥ विज्ञानमानविषयं सन्निकर्षेण यद्यपि । न भवेद्योगभङ्गाय भेदस्याग्रहणे मनः ॥ ९॥ गृह्यतोऽपि स्थिरैकाधीः सहजा स्थितिरुच्यते । निर्विकल्पः समाधिस्तु विषयासन्निधौ भवेत् ॥ १०॥ अण्डं वपुषि निःशेषं निःशेषं हृदये वपुः । तस्मादण्डस्य सर्वस्य हृदयं रुपसङ्ग्रहः ॥ ११। भुवनं मनसो नान्यदन्यन्न हृदयान्मनः । अशेषा हृदये तस्मात्कथा परिसमाप्यते ॥ १२॥ कीर्त्यते हृदयं पिण्डे यथाण्डे भानूमण्डलम् । मनः सहस्रारगतं बिम्बं चान्द्रमसं यथा ॥ १३॥ यथा ददाति तपनस्तेजः कैरवबन्धवे । इदं वितरति ज्योतिर्ह्रदयं मनसे तथा ॥ १४॥ ह्रद्यसन्निहितो मर्त्यो मनः केवलमीक्षते । असन्निकर्षे सूर्यस्य रात्रौ चन्द्रे यथा महः ॥ १५॥ अपश्यंस्तेजसो मूलं स्वरूपं सत्यमात्मनः । मनसा च पृथक्पश्यन् भावान् भ्राम्यति पामरः ॥ १६॥ हृदि सन्निहितो ज्ञानी लीनं हृदयतेजसि । ईक्षते मानसं तेजो दिवा भानाविवैन्दवम् ॥ १७॥ प्रज्ञानस्य प्रवेत्तारो वाच्यमर्थं मनो विदुः अर्थं तु लक्ष्यं हृदयं हृदयान्नपरः परः ॥ १८॥ दृग्दृश्यभेदधीरेषा मनसि प्रतितिष्ठति । हृदये वर्तमानां दृग्दृश्येनैकतां व्रजेत् ॥ १९॥ मूर्च्छा निद्रातिसन्तोषशोकावेशभयादिभिः । निमित्तैराहता वृत्तिः स्वस्थानं हृदयं व्रजेत् ॥ २०॥ तदा न ज्ञायते प्राप्तिर्हृदयस्य शरीरिणा । विज्ञायते समाधौ तु नामभेदो निमित्ततः ॥ २१॥ ॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे हृदयविद्या नाम पञ्चमोऽध्यायः ॥ ५
अथ षष्टोऽध्यायः । (मनोनिग्रहोपायः) निरुप्य हृदयस्यैवं तत्त्वं तत्त्वविदां वरः । मनसो निग्रहोपायमवदद्रमणो मुनिः ॥ १॥ नित्यवत्तिमतां नॄणां विषयासक्त्तचेतसाम् । वासनानां बलियस्त्वान्मनो दुर्निग्रहं भवेत् ॥ २॥ चपलं तन्निगृह्णीयात्प्राणरोधेन मानवः । पाशबद्धो यथा जन्तुस्तथा चेतो न चेष्टते ॥ ३॥ प्राणरोधेन वृत्तिनां निरोधः साधितो भवेत् । वृत्तिरोधेन वृत्तिनां जन्मस्थाने स्थितो भवेत् ॥ ४॥ प्राणरोधश्च मनसा प्राणस्य प्रत्यवेक्षणम् । कुम्भकं सिध्यति ह्येयं सततप्रत्यवेक्षणात् ॥ ५॥ येषां नैतेन विधिना शक्तिः कुम्भकसाधने । हठयोगविधानेन तेषां कुम्भकमिष्यते ॥ ६॥ एकदा रेचकं कुर्यात्कुर्यात्पूरकमेकदा । कुम्भकं तु चतुर्वारं नाडीशुद्धिर्भवेत्ततः ॥ ७॥ प्राणो नाडीषु शुद्धासु निरुद्धः क्रमशो भवेत् । प्राणस्य सर्वधा रोधः शुद्धं कुम्भकमुच्यते ॥ ८॥ त्यागं देहात्मभावस्य रेचकं ज्ञानिनः परे । पूरकं मार्गणं स्वस्य कुम्भकं सहजस्थितिम् ॥ ९॥ जपेन वाऽथ मन्त्राणां मनसो निग्रहो भवेत् । मानसेन तदा मन्त्रप्राणयोरेकता भवेत् ॥ १०॥ मन्त्राक्षराणां प्राणेन सायुज्यं ध्यानमुच्यते । सहजस्थितये ध्यानं दृढभूमिः प्रकल्पते ॥ ११॥ सहवासेन महतां सतामारुढचेतसाम् क्रियमाणेन वा नित्यं स्थाने लीनं मनो भवेत् ॥ १२॥ ॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे मनोनिग्रहोपायः नाम षष्टोऽध्यायः ॥ ६
अथ सप्तमोऽध्यायः । (आत्मविचाराधिकारितदङ्गनिरूपणम्) भारद्वाजस्य वै कार्ष्णेराचार्यरमणस्य च । अध्याये कथ्यते श्रेष्ठः संवाद इह सप्तमे ॥ १॥ कार्ष्णिरुवाच रूपमात्मविचारस्य किं नु किं वा प्रयोजनम् । लभ्यादात्मविचारेण फलं भूयोऽन्यतोऽस्ति वा ॥ २॥ भगवानुवाच सर्वासामपि वृत्तीनां समष्टिर्या समीरिता । अहंवृत्तेरमुष्यास्तु जन्मस्थानं विमृश्यताम् ॥ ३॥ एष आत्मविचारः स्यन्न शास्त्रपरिशीलनम् । अहङ्कारो विलीनः स्यान्मूलस्थानगवेषणे ॥ ४॥ आत्माभासस्त्वहङ्कारः स यदा सम्प्रलियते । आत्मा सत्योऽभितः पूर्णः केवलः परिशिष्यते ॥ ५॥ सर्वक्लेशनिवृत्तिः स्यात्फलमात्मविचारतः । फलानामवधिः सोऽयमस्ति नेतोऽधिकं फलम् ॥ ६॥ अद्भुताः सिद्धयः साध्या उपायान्तरतश्च याः । ताः प्राप्तोऽपि भवत्यन्ते विचारेणैव निवृतः ॥ ७॥ कार्ष्णिरुवाच एतस्यात्मविचारस्य प्राहुः कमधिकारिणम् । अधिकारस्य सम्पत्तिः किं ज्ञातुं शक्यते स्वयम् ॥ ८॥ भगवानुवाच उपासनादिभिः शुद्धं प्राग्जमसुकृतेन वा । दृष्टदोषं मनो यस्य शरीरे विषयेषु च ॥ ९॥ मनसा चरतो यस्य विष्येष्वरुचिर्भृशम् । देहे चानित्यता बुद्धिस्तं प्रहुरधिकारिणम् ॥ १०॥ देहे नश्वरताबुद्धेर्वैराग्याद्विषयेषु च । एताभ्यामेव लिङ्गाभ्यां ज्ञेया स्वस्याधिकारिता ॥ ११॥ कार्ष्णिरुवाच स्नानं सन्ध्यां जपो होमः स्वाध्यायो देवपूजनम् । सङ्कीर्तनं तिर्थयात्रा यज्ञो दानं व्रतानि च ॥ १२॥ विचारे साधिकारस्य वैराग्याच्च विवेकतः । किं वा प्रयोजनाय स्युरुत कालविधूतये ॥ १३॥ भगवानुवाच आरम्भिणां क्षीयमाणरागाणामधिकारिणाम् । कर्माण्येतानि सर्वाणि भूयस्यै चितशिद्धये ॥ १४॥ यत्कर्म सुकृतं प्रोक्तं मनोवाक्कायसम्भवम् । तत्तु कर्मान्तरं हन्ति मनोवाक्कायसम्भवम् ॥ १५॥ अत्यन्तशुद्धमनसां पक्वानामधिकारिणाम् । इदं लोकोपकाराय कर्मजालं भविष्यति ॥ १६॥ परेषामुपदेशाय् क्षेमाय च मनीषिणः । पक्वाश्च कर्म कुर्वन्ति भयान्नादेशशास्त्रतः ॥ १७॥ विचारप्रतिकूलानि न पुण्यानि नरर्षभ । क्रियमाणान्यसङ्गेन भेदबुद्ध्युपमर्दिना ॥ १८॥ न चाकृतानि पापाय पक्वनामधिकारिणाम् । स्वविमर्शो महत्पुण्यं पावनानां हि पावनम् ॥ १९॥ दृश्यते द्विविधा निष्ठा पक्वानामधिकारिणाम् । त्याग एकान्तयोगाय परार्थं च क्रियादरः ॥ २०॥ कार्ष्णिरुवाच निर्वाणायास्ति चेदन्यो मार्ग आत्मविचारतः । एको वा विविधस्तं मे भगवान्वक्तुमर्हति ॥ २१॥ भगवानुवाच एकः प्राप्तुं प्रयतते परः प्राप्तारमृच्छति । चिराय प्रथमो गच्छन् प्राप्तोत्यात्मान्मन्ततः ॥ २२॥ एकस्य ध्यानतश्चित्तमेकाकृतिर्भविष्यति । एकाकृतित्वं चित्तस्य स्वरुपे स्थितये भवेत् ॥ २३॥ अनिच्छयाप्यतो ध्यायन् विन्दत्यात्मनि संस्थितिम् । विचारकस्तु विज्ञाय भवेदात्मनि संस्थितः ॥ २४॥ ध्यायो देवतां मन्त्रमन्यद्वा लक्ष्यमुत्तमम् । ध्येयमात्मात्ममहाज्योतिष्यन्ततो लीनतां व्रजेत् ॥ २५॥ गतिरेवं द्वयोरेका ध्यातुश्चात्मविमर्शिनः । ध्यायन्नेकः प्रशान्तः स्यादन्यो विज्ञाय शाम्यति ॥ २६॥ ॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे आत्मविचाराधिकारितदङ्गनिरूपणं नाम सप्तमोऽध्यायः ॥ ७
अथ अष्टमोऽध्यायः । (आश्रमविचारः) कार्ष्णेरेवापरं प्रश्नं निशम्य भगवान्मुनिः । चातुराश्रम्यसम्बद्धमदिकारं न्यरूपयत् ॥ १॥ ब्रह्मचारी गृही वाऽपि वानप्रस्थोऽथवा यतिः । नारी वा वृषलो वापि पक्वो ब्रह्म विचारयेत् ॥ २॥ सोपानवत्परं प्राप्तुं भविष्यत्याश्रमक्रमः । अत्यन्तपक्वचित्तस्य क्रमापेक्षा न विद्यते ॥ ३॥ गतये लोककार्याणामादिशन्त्याश्रामक्रमम् आश्रमत्रयधर्माणां न ज्ञानप्रतिकूलता ॥ ४॥ संन्यासो निर्मलं ज्ञानं न काषायो न मुण्डनम् ॥ प्रतिबन्धकबाहुल्यवारणायाश्रमो मतः ॥ ५॥ ब्रह्मचयर्याश्रमे यस्य शक्तिरुज्जृम्भते व्रतैः । विद्यया ज्ञानवृद्धया च स पश्चात्प्रज्वलिष्यति ॥ ६॥ ब्रह्मचर्येण शुद्धेन गृहित्वे निर्मलो भवेत् । सर्वेषामुपकाराय गृहस्थाश्रम उच्यते ॥ ७॥ सर्वथा वीतसङ्गस्य गृहस्थस्यापि देहिनः । परं प्रस्फुरति ज्योतिस्तत्र नैवास्ति संशयः ॥ ८॥ तपसस्त्वाश्रमः प्रोक्त्तस्तृतीयः पण्डितोत्तमैः । अभार्यो वा सभार्यो वा तृतीयाश्रमभाग्भवेत् ॥ ९॥ तपसा दग्धपापस्य पक्वचित्तस्य योगिनः । चतुर्थ आश्रमः काले स्वयमेव भविष्यति ॥ १०॥ एष प्रागुक्त एवाब्धे त्वष्टमे द्वादशे पुनः । उपदेशो भगवतः सप्तमाष्टमयोरभूत् ॥ ११॥ ॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे आश्रमविचारः नाम अष्टमोऽध्यायः ॥ ८
अथ नवमोऽध्यायः । (ग्रन्थिभेदकथनम्) चतुर्दशेऽष्टमे रात्रौ महर्षि पृष्टवानहम् । ग्रन्थिभेदं समुद्दिश्य विदुषां यत्र संशयः ॥ १॥ तमाकर्ण्य मम प्रश्नं रमणो भगवानृषिः । ध्यात्वा दिव्येन भावेन किञ्चिदाह महामहाः ॥ २॥ शरीरस्यात्मनश्चापि सम्बन्धो ग्रन्थिरुच्यते । सम्बन्धेनैव शारीरं भवति ज्ञानमात्मनः ॥ ३॥ शरीरं जडमेतत्स्यादात्मा चैतन्यमिष्यते । उभयोरपि सम्बन्धो विज्ञानेनानुमीयते ॥ ४॥ चैतन्यच्छाययाश्लिष्टं शरीरं तात चेष्टते । निद्रादौ ग्रहणाभावादूह्यते स्थानमात्मनः ॥ ५॥ सूक्ष्माणां विद्युदादीनां स्थूले तन्त्र्यादिके यथा । तथा कलेवरे नाड्यां चैतन्यज्योतिषो गतिः ॥ ६॥ स्थलमेकमुपाश्रित्य चैतन्यज्योतिरुज्ज्वलम् । सर्वं भासयते देहं भास्करो भुवनं यथा ॥ ७॥ व्याप्तेन तत्प्रकाशेन शरीरे त्वनुभूतयः । स्थलं तदेव हृदयं सूरयस्सम्प्रचक्षते ॥ ८॥ नाडीशक्तिविलासेन चैतन्यांशुगतिर्मता । देहस्य शक्तयस्सर्वाः पृथङ्नाडीरूपाश्रिताः ॥ ९॥ चैतन्यं तु पृथङ्नाड्यां तां सुषुम्णां प्रचक्षते । आत्मनाडीं परामेके परेत्वमृतनाडिकाम् ॥ १०॥ सर्वं देहं प्रकाशेन व्याप्तो जीवोऽभिमानवान् । मन्यते देहमात्मानं तेन भिन्नं च विष्टपम् ॥ ११॥ अभिमानं परित्यज्य देहे चात्मधियं सुधीः । विचारयेच्चेदेकाग्रो नाडीनां मथनं भवेत् ॥ १२॥ नाडीनां मथनेनैवात्मा ताभ्यः पृथक्कृतः । केवलाममृतां नाडीमाश्रित्य प्रज्वलिष्यति ॥ १३॥ आत्मनाड्यां यदा भाति चैतन्यज्योतिरुज्ज्वलम् । केवलायां तदा नान्यदात्मनस्सम्प्रभासते ॥ १४॥ सान्निध्याद्भासमानं वा न पृथक्प्रतितिष्ठति । जानाति स्पष्टमात्मानं स देहमिव पामरः ॥ १५॥ आत्मैव भासते यस्य बहिरन्तश्च सर्वतः । पामरस्येव रूपादि स भिन्नग्रन्थिरुच्यते ॥ १६॥ नाडीबन्धोऽभिमानश्च द्वयं ग्रन्थिरुदीर्यते । नाडीबन्धेन सूक्षमोऽपि स्थूलं सर्वं प्रपश्यति ॥ १७॥ निवृत्तं सर्वनाडीभ्यो यदैकां नाडीकां श्रितम् । भिन्नग्रन्थि तदा ज्योतिरात्मभावाय कल्पते ॥ १८॥ अग्नितप्तमयोगोलं दृश्यतेऽग्निमयं यथा । स्वविचाराग्निसन्तप्तं तथेदं स्वमयं भवेत् ॥ १९॥ शरीरादिजुषां पूर्ववासनानां क्षयस्तदा । कर्तृत्वमशरीरत्वान्नैव तस्य भविष्यति ॥ २०॥ कर्तृत्वाभावतः कर्मविनाशोऽस्य समीरितः । तस्य वस्त्वन्तराभावात्संशयानामनुद्भवः ॥ २१॥ भविता न पुनर्बद्धो विभिन्नग्रन्थिरेकदा । सा स्थितिः परमा शक्तिस्सा शान्तिः परमा मता ॥ २२॥ ॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे ग्रन्थिभेदकथनं नाम नवमोऽध्यायः ॥ ९
अथ दशमोऽध्यायः । (सङ्घविद्या) यतिनो योगनाथस्य महर्षिरमणस्य च । दशमेऽत्र नीबघ्निमस्संवादं सङ्घहर्षदम् ॥ १॥ योगनाथ उवाच साङ्घिकस्य च सङ्घस्य कस्सम्बन्धो महामुने । सङ्घस्य श्रेयसे नाथ तमेतं वक्तुमर्हसि ॥ २॥ भगवानुवाच ज्ञेयश्शरीरवत्सङ्घस्तत्तदाचारशालिनम् । अङ्गानीवात्र विज्ञेयास्साङ्घिकास्सधुसत्तम ॥ ३॥ अङ्गं यथा शरीरस्य करोत्युपकृतिं यते । तथोपकारं सङ्घस्य कुर्वन् जयति साङ्घिकः ॥ सङ्घस्य वाङ्मनःकायैरुपकारो यथा भवेत् । स्वयं तथाऽऽचरन्नित्यं स्वकीयानपि बोघयेत् ॥ ५॥ आनुकूल्येन सङ्घस्य स्थापयित्वा निजं कुलम् । सङ्घस्यैव ततो भूत्यै कुर्याद्भुतियुतं कुलम् ॥ ६॥ योगनाथ उवाच शान्तिं केचित्प्रशंसन्ति शक्तिं केचिन्मनीषिणः । अनयोः को गुणो ज्यायान्त्सङ्घक्षेमकृते विभो ॥ ७॥ भगवानुवाच स्वमनश्शुद्धये शान्तिश्शक्तिस्सङ्घस्य वृद्धये । शक्त्या सङ्घं विधायोच्चैश्शान्तिं संस्थापयेत्ततः ॥ ८॥ योगनाथ उवाच सर्वस्यापि च सङ्घस्य नराणाणामृषिकुञ्जर । गन्तव्यं समुदायेन किं परं धरणीतले ॥ ९॥ भगवानुवाच समुदायेन सर्वस्य सङ्घस्य तनुधारिणाम् । सौभ्रात्रं समभावेन गन्तव्यं परमुच्यते ॥ १०॥ सौभ्रात्रेण परा शान्तिरन्योन्यं देहधारिणाम् । तदेत्यं शोभते सर्वा भूमिरेकं गृहं यथा ॥ ११॥ अभूत्पञ्चदशे घस्त्रे संवादस्सोऽयमष्टमे । योगनाथस्य यतिनो महर्षेश्च दयावतः ॥ १२॥ ॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे सङ्घविद्या नाम दशमोऽध्यायः ॥ १०
अथ एकादशोऽध्यायः । (ज्ञानसिद्धिसामरस्यकथनम्) षोडशे दिवसे रात्रौ विविक्ते मुनिसत्तमम् । गुरुं ब्रह्मविदां श्रेष्ठं नित्यमात्मनि संस्थितम् ॥ १॥ उपगम्य महाभागं सोऽहं कैवतमानवम् । रमणं स्तुतवानस्मि दुर्लभज्ञानलब्धये ॥ २॥ त्वय्येव परमा निष्ठा त्वय्येव विशदा मतिः । अम्भसामिव वाराशिर्विज्ञानानां त्वमास्पदम् ॥ ३॥ त्वं तु सप्तदशे वर्षे बाल्य एव महायशः । लब्धवानसि विज्ञानं योगिनामपि दुर्लभम् ॥ ४॥ सर्वे दृश्या इमे भावा यस्य छायामयास्तव । तस्य ते भगवन्निष्ठां को नु वर्णयितुं क्षमः ॥ ५॥ मज्जतां घोरसंसारे व्यपृतानामितस्ततः । दुःखं महत्तितीषूर्णां त्वमेका परमा गतिः ॥ ६॥ पश्यामि देवदत्तेन ज्ञानेन त्वां मुहुर्मुहुः । ब्रह्मण्यानां वरं ब्रह्मन्त्सुब्रह्मण्यं नराकृतिम् ॥ ७॥ न त्वं स्वामिगिरौ नाथ न त्वं क्षणिकपर्वते । न त्वं वेङ्कटशैलाग्रे शोणाद्रावसि वस्तुतः ॥ ८॥ भूमविद्यां पुरा नाथ नारदाय महर्शये । भवान् शुश्रूषमाणाय रहस्यामुपदिष्टवान् ॥ ९॥ सनत्कुमारं ब्रह्मर्षि त्वामाहुर्वेदवेदिनः । आगमानां तु वेत्तारस्सुब्रह्मण्यं सुरर्षभम् ॥ १०॥ केवलं नाम भेदोऽयं व्यक्तिभेदो न विद्यते । सनत्कुमारस्स्कन्दश्च पर्यायौ तव तत्त्वतः ॥ ११॥ पुरा कुमारिलो नाम भूत्वा ब्राह्मणसत्तमः । धर्मं वेदोदितं नाथ त्वं संस्थापितवानसि ॥ १२॥ जैनैर्व्याकुलिते धर्मे भगवन्द्रविडेषु च । भूत्वा त्वं ज्ञानसम्बन्धो भक्तिं स्थापितवानसि ॥ १३॥ अधुना त्वं महाभाग ब्रह्मज्ञानस्य गुप्तये । शास्त्रज्ञानेन सन्तॄप्तैर्निरुद्धस्यागतो धराम् ॥ १४॥ सन्देहा बहवो नाथ शिष्याणां वारितास्त्वया । इमं च मम सन्देहं निवारयितुमर्हसि ॥ १५॥ ज्ञानस्य चापि सिद्धीनां विरोधः किं परस्परम् । उताहो कोऽपि सम्बन्धो वर्तते मुनिकुञ्जर ॥ १६॥ मयैवं भगवान्पृष्टो रमणो नुतिपूर्वकम् । गभिरया दृशा वीक्ष्य मामिदं वाक्यमब्रवित् ॥ १७॥ सहजां स्थितिमारुढः स्वभावेन दिने दिने । तपश्चरतिदुर्धर्षं नालस्यं सहजस्थितौ ॥ १८॥ तपस्तदेव दुर्धर्षं य निष्ठ सहजात्मनि । तेन नित्येन तपसा भवेत्पाकः क्षणे क्षणे ॥ १९॥ परिपाकेन काले स्युः सिद्धयस्तात पश्यतः । प्रारब्धं यदि ताभिः स्याद्विहारो ज्ञानिनोऽपि च ॥ २०॥ यथा प्रपञ्चग्रहणे स्वरुपान्नेतरन्मुनेः । सिद्धयः क्रियमाणाश्च स्वरुपान्नेतरत्तथा ॥ २१॥ भवेन्न यस्य प्रारब्धं शक्तिपूर्णोऽप्ययं मुनिः । अतरङ्ग इवाम्भोधिर्न किञ्चित्दपि चेष्टते ॥ २२॥ नान्यं मृगयते मार्गं निसर्गादात्मनि स्थितः ॥ सर्वासामपि शक्तीनां समष्टिः स्वात्मनि स्थितिः ॥ २३॥ अप्रयत्नेन तु तपः सहजा स्थितिरुच्यते । सहजायां स्थितौ पाकाच्छक्त्तिनामुद्भवो मतः ॥ २४॥ परीवृतोऽपि बहुभिर्नित्यमात्मनि संस्थितः । घोरं तपश्चरत्येव न तस्यैकान्तकामिता ॥ २५॥ ज्ञानं शक्तेरपेतं यो मन्यते नैव वेद सः । सर्वशक्तेऽभितः पूर्णे स्वस्वरूपे हि बोधवान् ॥ २६॥ ॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे ज्ञानसिद्धिसामरस्यकथनं नाम एकादशोऽध्यायः ॥ ११
अथ द्वादशोऽध्यायः । (शक्तिविचारः) एकोनविंशे दिवसे भारद्वाजो महामनाः । कपाली कृतिषु ज्यायानपृच्छद्रमणं गुरुम् ॥ १। कपाल्युवाच विषयी विषयो वृत्तिरितीदं भगवंस्त्रिकम् । ज्ञानिनां पामराणां च लोकयात्रासु दृश्यते ॥ २॥ अथ केन विशेषेण ज्ञानी पामरतोऽधिकः । इमं मे नाथ सन्देहं निवर्तयितुमर्हसि ॥ ३॥ भगवानुवाच अभिन्नो विषयी यस्य स्वरूपान्मनुजर्षभ । व्यापारविषयौ भातस्तस्याभिन्नौ स्वरूपतः ॥ ५॥ भेदभासे विजानाति ज्ञान्यभेदं ति तात्त्विकम् । भेदाभासवशं गत्वा पामरस्तु विभिद्यते ॥ ६॥ कपाल्युवाच नाथ यस्मिन्निमे भेद भासन्ते त्रिपुटीमयाः । शक्तिमद्वा स्वरूपं तदुताहो शक्तिवर्जितम् ॥ ७॥ भगवानुवाच वत्स यस्मिन्निमे भेदा भासन्ते त्रिपुटीमयाः । सर्वशक्तं स्वरूपं तदाहुर्वेदान्तवेदिनः ॥ ८॥ कपाल्युवाच ईश्वरस्य तु या शक्तिर्गीता वेदान्तवेदिभिः । अस्ति वा चलनं तस्यमाहोस्विन्नाथ नास्ति वा ॥ ९॥ भगवानुवाच शक्तेस्सञ्चलनादेव लोकानां तात सम्भवः । चलनस्याश्रयो वस्तु न सञ्चलति कर्हिचित् ॥ १०॥ अचलस्य तु यच्छक्तश्चलनं लोककारणम् । तामोवाचक्षते मायामनिर्वाच्यां विपश्चितः ॥ ११॥ चञ्चलत्वं विषयिणो यथार्थमिव भासते । चलनं न नरश्रेष्ठ स्वरूपस्य तु वस्तुतः ॥ १२॥ ईश्वरस्य च शक्तेश्च भेदो दृष्तिनिमित्तकः । मिथुनं त्विदमेकं स्याद्दृष्टिश्चेदुपसंहृता ॥ १३॥ कपाल्युवाच व्यापार ईश्वरस्यायं दृश्यब्रह्माण्डकोटिकृत् । नित्यः किमथवाऽनित्यो भगवान्वक्तुमर्हति ॥ १४॥ भगवानुवाच निजया परया शक्त्या चलन्नप्यचलः परः । केवलं मुनिसंवेद्यं रहस्यमिदमुत्तमम् ॥ १५॥ चलत्वमेव व्यापारो व्यापारश्शक्तिरुच्यते । शक्त्या सर्वमिदं दृश्यं ससर्ज परमः पुमान् ॥ १६॥ व्यापारस्तु प्रवृतिश्च निवृत्तिरिति च द्विधा । निवृरिस्था यत्र सर्वमात्मैवाभूदिति श्रुतिः ॥ १७॥ नानात्वं द्वैतकालस्थं गम्यते सर्वमित्यतः । अभूदिति पदेनात्र व्यापारः कोऽपि गम्यते ॥ १८॥ आत्मैवेति विनिर्देशद्विशेषाणां समं ततः । आत्मन्येवोपसंहारस्तज्जातानां प्रकीर्तितः ॥ १९॥ विना शक्तिं नरश्रेष्ठ स्वरूपं न प्रतीयते । व्यापार आश्रयश्चेति द्विनामा शक्तिरुच्यते ॥ २०॥ व्यापारो विश्वसर्गादिकार्यमुक्तं मनीषिभिः । आश्रयो द्विपदां श्रेष्ठ स्वरूपान्नातिरिच्यते ॥ २१॥ स्वरूपमन्यसापेक्षं नैव सर्वात्मकत्वतः । शक्तिं वृत्तिं स्वरूपं च य एवं वेद वेद सः ॥ २२॥ वृत्तेरभावे तु सतो नानाभावो न सिध्यति । सत्ता शक्त्यतिरिक्त्ता चेद् वृतेर्नैव समुद्भवः ॥ २३॥ यदि कालेन भविता जगतः प्रलयो महान् । अभेदेन स्वरूपेऽयं व्यापारो लीनवद्भवेत् ॥ २४॥ सर्वोऽपि व्यवहारोऽयं न भवेच्छक्तिमन्तरा । न सृष्टिर्नापि विज्ञानं यदेतत् त्रिपुटीमयम् ॥ २५॥ स्वरुपमाश्रयत्वेन व्यापारस्सर्गकर्मणा । नामभ्यामुच्यते द्वाभ्यां शक्तिरेका परात्परा ॥ २६॥ लक्षणं चलनं येषां शक्तेस्तेषां तदाश्रयः । यत् किञ्चित्परमं वस्तु व्यक्तव्यं स्यान्नरर्षभ ॥ २७॥ तदेकं परमं वस्तु शक्तिमेके प्रचक्षते । स्वरुपं केऽपि विद्वांसो ब्रह्मान्ये पुरुषं परे ॥ २८॥ वत्स सत्यं द्विधा गम्यं लक्षणेन च वस्तुतः । लक्षणेनोच्यते सत्यं वस्तुतस्त्वनुभूयते ॥ २९॥ तस्मात्स्वरूपविज्ञानं व्यापारेण च वस्तुतः । ताटस्थ्येन च साक्षाच्च द्विविधं सम्प्रचक्षते ॥ ३०॥ स्वरुपमाश्रयं प्राहुर्व्यापारं तात लक्षणम् । वृत्या विज्ञाय तन्मूलमाश्रये प्रतितिष्ठति ॥ ३१॥ स्वरूपं लक्षणोपेतं लक्षणं च स्वरुपवत् । तादात्म्येनैव सम्बन्धस्त्वनयोस्सम्प्रकीर्तितः ॥ ३२॥ तटस्थलक्षणेनैवं व्यापाराख्येन मारिष । यतो लक्ष्यं स्वरूपं स्यान्नित्यव्यापारवत्ततः ॥ ३३॥ व्यापारो वस्तुनो नान्यो यदि पश्यसि तत्त्वतः । इदं तु भेदविज्ञानं सर्वं काल्पनिकं मतम् ॥ ३४॥ शक्त्युल्लासाह्यया सेयं सृष्टिः स्यादीशकल्पना । कल्पनेयमतीत चेत् स्वरूपमवशिष्यते ॥ ३५॥ ॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे शक्तिविचारो नाम द्वादशोऽध्यायः ॥ १२
अथ त्रयोदशोऽध्यायः । (संन्यासे स्त्रीपुरुषयोस्तुल्याधिकारनिरूपणम्) अत्रिणामन्वयज्योत्स्ना वसिष्ठानां कुलस्नुषा । महादेवस्य जननी धीरस्य ब्रह्मवेदिनः ॥ १॥ प्रतिमानं पुरन्ध्रीणां लोकसेवाव्रते स्थिता । बिभ्राणा महतीं विद्यां ब्रह्मादिविबुधस्तुताम् ॥ २॥ दक्षिणे विन्ध्यतश्श्क्तेस्तारिण्या आदिमा गुरुः । तपस्सखी मे दयिता विशालाक्षी यशस्विनी ॥ ३॥ प्रश्नद्वयेन रमणाह्ययं विश्वहितं मुनिम् । अभ्यगच्छददुष्टाङ्गी निक्षिप्तेन मुखे मम ॥ ४॥ आत्मस्थितानां नारीणामस्ति चेत्प्रतिबन्धकम् । गृहत्यागेन हंसीत्वं किमु स्याच्छास्त्रसम्मतम् ॥ ५॥ जीवन्त्या एव मुक्ताया देहपातो भवेद्यदि । दहनं वा समाधिर्वा कार्यं युक्तमनन्तरम् ॥ ६॥ प्रश्नद्वयमिदं श्रुत्वा भगवानृषिसत्तमः । अवोचन्निर्णयं तत्र सर्वशास्त्रार्थतत्त्ववित् ॥ ७॥ स्वरूपे वर्तमानानां पक्वानां योषितामपि । निवृत्तत्वान्निषेधस्य हंसीत्वं नैव दुष्यति ॥ ८॥ मुक्तत्वस्याविशिष्टत्वद्बोधस्य च वधूरपि । जीवन्मुक्ता न दाह्या स्यात् तद्देहो हि सुरालयः ॥ ९॥ ये दोषो देहदहने पुंसो मुक्तस्य संस्मृताः । मुक्तायास्सन्ति ते सर्वे देहदाहे च योषितः ॥ १०॥ एकविंशेऽह्नि गीतोऽभूदयमर्थो मनीषिणा । अधिकृत्य ज्ञानवतीं रमणेन महर्षिणा ॥ ११॥ ॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे संन्यासे स्त्रीपुरुषयोस्तुल्याधिकारनिरूपणं नाम त्रयोदशोऽध्यायः ॥ १३
अथ चतुर्दशोऽध्यायः । (जीवन्मुक्तिविचारः) निशायामेकविंशेऽह्नि भारद्वाजि विदां वरः । प्राज्ञश्शिवकुलोपाधिर्वैदर्भो वदतां वरः ॥ १॥ जीवनमुक्तिं समुद्दिश्य महर्षि परिपृष्टवान् । अथ सर्वेषु श‍ृण्वत्सु महर्षिर्वाक्यमब्रवित् ॥ २॥ शास्त्रीयैर्लोकिकैश्चापि प्रत्ययैरविचालिता । स्वरूपे सुदृढा निष्ठा जीवन्मुक्तिरुदाहृता ॥ ३॥ मुक्तिरेकविधैव स्यात्प्रज्ञानस्याविशेषतः । शरीरस्थं मुक्तबन्धं जीवन्मुक्तं प्रचक्षते ॥ ४॥ ब्रह्मलोकगतो मुक्तश्श्रूयते निगमेषु यः । अनुभूतौ न भेदोऽस्ति जीवन्मुक्तस्य तस्य च ॥ ५॥ प्राणाः समवलीयन्ते यस्यात्रैव महात्मनः । तस्याप्यनुभवो विद्वन्नेतयोरुभयोरिव ॥ ६॥ साम्यात्स्वरूपनिष्ठाया बन्धहानेश्च साम्यतः । मुक्तिरेकविधैव स्याद्भेदस्तु परबुद्धिगः ॥ ७॥ मुक्तो भवति जीवन्यो माहात्मात्मनि संस्थितः । प्राणाः समवलीयन्ते तस्यैवात्र नरर्षभ ॥ ८॥ जीवन्मुक्तस्य कालेन तपसः परिपाकतः । स्पर्शाभावोऽपि सिद्धः स्याद्रूपे सत्यपि कुत्रचित् ॥ ९॥ भूयश्च परिपाकेन रूपाभावोऽपि सिद्ध्यति । केवलं चिन्मयो भूत्वा स सिद्धो विहरिष्यति ॥ १०॥ शरीरसंश्रयं सिद्ध्योर्द्वयमेतन्नरोत्तम । अल्पेनापि च कालेन देवतानुग्रहाद्भवेत् ॥ ११॥ भेदमेतं पुरस्कृत्य तारतम्यं न सम्पदि । देहवानशरीरो वा मुक्त आत्मनि संस्थितः ॥ १२॥ नाडीद्वारार्चिरोद्येन मार्गेणोर्ध्वगतिर्नरः । तत्रोत्पन्नेन बोधेन सद्यो मुक्तो भविष्यति ॥ १३॥ उपासकस्य सुतरां पक्वचित्तस्य योगिनः । ईश्वरानुग्रहात्प्रोक्ता नाडीद्वारोत्तमा गतिः ॥ १४॥ सर्वेषु कामचारोऽस्य लोकेषु परिकीर्तितः । इच्छयाऽनेकदेहानां ग्रहणं चाप्यनुग्रहः ॥ १५॥ कैलाशं केऽपि मुक्तानां लोकमाहुर्मनीषिणः । एके वदन्ति वैकुण्ठं परे त्वादित्यमण्डलम् ॥ १६॥ मुक्तलोकाश्च ते सर्वे विद्वन्भूम्यादिलोकवत् । चित्रवैभवया शक्त्या स्वरुपे परिकल्पिताः ॥ १७॥ ॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे जीवन्मुक्तिविचारो नाम चतुर्दशोऽध्यायः ॥ १४
अथ पञ्चदशोऽध्यायः । (श्रवणमनननिदिध्यासननिरूपणम्) श्रवणं नाम किं नाथ मननं नाम किं मतम् । किं वा मुनिकुलश्रेष्ठ निदिध्यासनमुच्यते ॥ १॥ इत्येवं भगवान्पृष्टो मया ब्रह्मविदां वरः । द्वाविंशे दिवसे प्रातरब्रवीच्छिष्यसंसदि ॥ २॥ वेदशीर्षस्थवाक्यानामर्थव्याख्यानपूर्वकम् । आचार्याच्छृवणं केचिच्छृवणं परिचक्षते ॥ ३॥ अपरे श्रवणं प्राहुराचार्याद्विदितात्मनः । गिरां भाषामयीनां च स्वरूपं बोधयन्ति याः ॥ ४॥ श्रुत्वा वेदान्तवाक्यानि निजवाक्यानि वा गुरोः । जन्मान्तरीयपुण्येन ज्ञात्वा वोभयमन्तरा ॥ ५॥ अहम्प्रत्ययमूलं त्वं शरीरादेर्विलक्षणः । इतीदं श्रवणं चित्ताच्छृवणं वस्तुतो भवेत् ॥ ६॥ वदन्ति मननं केचिच्छास्त्रात्रर्थस्य विचारणम् । वस्तुतो मननं तात स्वरुपस्य विचारणम् ॥ ७॥ विपर्यासेन रहितं संशयेन च मानद । कैश्चिद्ब्रह्मात्मविज्ञानं निदिध्यासनमुच्यते ॥ ८॥ विपर्यासेन रहितं संशयेन च यद्यपि । शास्त्रीयमैक्यविज्ञानं केवलं नानुभूतये ॥ ९॥ संशयश्च विपर्यासो निवार्येते उभावपि । अनुभूत्यैव वासिष्ठ न शास्त्रशतकैरपि ॥ १०॥ शास्त्रं श्रद्धावतो हन्यात् संशयं च विपर्ययम् । श्रद्धायाः किञ्चिदूनत्वे पुनरभ्युदयस्तयोः ॥ ११॥ मूलच्छेदस्तु वासिष्ठ स्वरुपानुभवे तयोः । स्वरुपे संस्थितिस्तस्मान्निदिध्यासनमुच्यते ॥ १२॥ बहिस्सञ्चरतस्तात स्वरुपे संस्थितिं विना । अपरोक्षो भवेद्बोधो न शास्त्रशतचर्चया ॥ १३॥ स्वरुपसंस्थितिः स्याच्चेत् सहजा कुण्डिनर्षभ । सा मुक्तिः सा परा निष्ठा स साक्षात्कार ईरितः ॥ १४॥ ॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे श्रवणमनननिदिध्यासन निरूपणं नाम पञ्चदशोऽध्यायः ॥ १५
अथ षोडशोऽध्यायः । (भक्तिविचारः) अथ भक्तिं समुद्दिश्य पृष्टः पुरुषसत्तमः । अभाषत महाभागो भगवान् रमणो मुनिः ॥ १॥ आत्मा प्रियः समस्तस्य प्रियं नेतरदात्मनः । अच्छिन्ना तैलधारावत् प्रीतिर्भक्तिरुदाहृता ॥ २॥ अभिन्नं स्वात्मनः प्रीत्या विजानातीश्वरं कविः । जानन्नप्यपरो भिन्नं लीन आत्मनि तिष्ठति ॥ ३॥ वहन्ती तैलधारावद्या प्रीतिः परमेश्वरे । अनिच्छतोऽपि सा बुद्धिं स्वरुपं नयति ध्रुवम् ॥ ४॥ परिच्छिन्नं यदात्मानं स्वल्पज्ञं चापि मन्यते । भक्तो विषयिरूपेण तदा क्लेशनिवृत्तये ॥ ५॥ व्यापकं परमं वस्तु भजते देवताधिया । भजंश्च देवताबुद्ध्या तदेवान्ते समश्नुते ॥ ६॥ देवताया नरश्रेष्ठ नामरूपप्रकल्पनात् । ताभ्यां तु नामरूपाभ्यां नामरुपे विजेष्यते ॥ ७॥ भक्तौ तु परिपूर्णायमलं श्रवणमेकदा । ज्ञानाय परिपूर्णाय तदा भक्तिः प्रकल्पते ॥ ८॥ धाराव्यपेता या भक्तिः सा विच्छिन्नेति कीर्त्यते । भक्तेः परस्य सा हेतुर्भवतीति विनिर्णयः ॥ ९॥ कामाय भक्तिं कुर्वाणः कामं प्राप्याप्यनिवृतः । शाश्वताय सुखस्यान्ते भजते पुनरीश्वरम् ॥ १०॥ भक्तिः कामसमेताऽपि कामाप्तौ न निवर्तते । श्रद्धा वृद्धा परे पुंसि भूय एवाभिर्वर्धते ॥ ११॥ वर्धमाना च सा भक्तिः काले पूर्णा भविष्यति । पूर्णया परया भक्त्या ज्ञानेनेव भवं तरेत् ॥ १२॥ ॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे भक्तिविचारः नाम षोडशोऽध्यायः ॥ १६
अथ सप्तदशोऽध्यायः । (ज्ञानप्राप्तिविचारः) पञ्चविंशे तु दिवसे वैदर्भो विदुषं वरः । प्रश्रयानवतो भूत्वा मुनिं भूयोऽपि पृष्टवान् ॥ १॥ वैदर्भ उवाच क्रमेणायाति किं ज्ञानं किञ्चित्किञ्चिद्दिने दिने । एकस्मिन्नेव काले किं पूर्णमाभाति भानुवत् ॥ २॥ भगवानुवाच क्रमेणायाति न ज्ञानं किञ्चित्किञ्चिद्दिने दिने । अभ्यासपरिपाकेन भासते पूर्णमेकदा ॥ ३॥ वैदर्भ उवाच अभ्यासकाले भगवन् वृत्तिरन्तर्बहिस्तथा । यातायातं प्रकुर्वाणा याते किं ज्ञानमुच्यते ॥ ४॥ भगवानुवाच अन्तर्याता मतिर्विद्वन्बहिरायाति चेत्पुनः । अभ्यासमेव तामाहुर्ज्ञानं ह्यनुभवोऽच्युतः ॥ ५॥ वैदर्भ उवाच ज्ञानस्य मुनिशार्दूल भूमिकाः काश्चिदीरिताः । शास्त्रेषु विदुषां श्रेष्ठैः कथं तासां समन्वयः ॥ ६॥ भगवानुवाच शास्त्रोक्ता भूमिकास्सर्वा भवन्ति परबुद्धिगाः । मुक्तिभेदा इव प्राज्ञ ज्ञानमेकं प्रजानताम् ॥ ७॥ चर्यां देहेन्द्रियादीनां वीक्ष्याब्धानुसारिणीम् । कल्पयन्ति परे भूमिस्तारतम्यं न वस्तुतः ॥ ८॥ वैदर्भ उवाच प्रज्ञानमेकदा सिद्धं सर्वाज्ञाननिबर्हणम् । तिरोधते किमज्ञानात्सङ्गादङ्कुरितात्पुनः ॥ ९॥ भगवानुवाच अज्ञानस्य प्रतिद्वन्दि न पराभूयते पुनः । प्रज्ञानमेकदा सिद्धं भरद्वाजकुलोद्वह ॥ १०॥ ॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे ज्ञानप्राप्तिविचारो नाम सप्तदशोऽध्यायः ॥ १७
अथ अष्टादशोऽध्यायः । (सिद्धमहिमानुकीर्तनम्) वरपराशरगोत्रसमुद्भवं वसुमतीसुरसङ्घयशस्करम् । विमलसुन्दरपण्डितनन्दनं कमलपत्रविशालविलोचनम् ॥ १॥ अरुणशैलगताश्रमवासिनं परमहंसमनञ्जनमच्युतम् । करुणया दधतं व्यवहारितां सततमात्मनि संस्थितमक्षरे ॥ २॥ अखिलसंशयवारणभाषणं भ्रममदद्विरदाङ्कुशवीक्षणम् । अविरतं परसौख्यधृतोद्यमं निजतनूविषयेष्वलसालसम् ॥ ३॥ परिणताम्रफलप्रभविग्रहं चलतरेन्द्रियनिग्रहसग्रहम् । अमृतचिद्धनवल्लिपरिग्रहं मितवचोरचितागमसङ्ग्रहम् ॥ ४॥ अमलदिप्ततरात्ममरीचिभिर्निजकरैरिव पङ्कजबान्धवम् । पदजुषां जडभावमनेहसा परिहरन्तमनन्तगुणाकरम् ॥ ५॥ मृदुतमं वचने दृशि शीतलं विकसितं वदने सरसीरुहे । मनसि शून्यमहश्शशिसन्निभे हृदि लसन्तमनन्त इवारुणम् ॥ ६॥ अदयमात्मतनौ कठिनं व्रते प्रुषचित्तमलं विषयव्रजे । ऋषिमरोषमपेतमनोरथं धृतमदं घनचिल्लहरीवशात् ॥ ७॥ विगतमोहमलोभमभवनं शमितमत्सरमुत्सविनं सदा । भवमहोदधितारणकर्मणि प्रतिफलेन विनैव सदोद्यतम् ॥ ८॥ माताममेति नगराजसुतोरुपीठं नागानने भजति याहि पिता ममेति । अङ्कं हरस्य समवाप्य शिरस्यनेन सञ्चुम्बितस्य गिरिन्ध्रकृतो विभूतिम् ॥ ९॥ वेदादिपाकदमनोत्तरकच्छपेशै- र्युक्तैर्धराधरसुषुप्त्यमरेश्वरैश्च । सूक्ष्मामृतायुगमृतेन सह प्रणत्या सम्पन्नशब्दपटलस्य रहस्यमर्थम् ॥ १०॥ दण्डं विनैव यतिनं बत दण्डपाणिं दुःखाब्धितारकमरिं बत तारकस्य । त्यक्त्वा भवं भवमहो सततं भजन्तं हंसं तथापि गतमानससङ्गरागम् ॥ ११॥ धीरत्वसम्पदि सुवर्णगिरेरनूनं वारन्निरोधेधिकमेव गभिरतायाम् । क्षान्तौ जयन्तमचलामखिलस्य धात्रीं दान्तौ निर्दशनमशन्तिकथादविष्ठम् ॥ १२॥ नीलारविन्दसुहृदा सदृशं प्रसादे तुल्यं तथा महसि तोयजबान्धवेन । ब्राह्म्यां स्थितौ तु पितरं वटमूलवासं संस्मारयन्तमचलन्तमनूदितं मे ॥ १३॥ यस्याधुनापि रमणी रमणीयभावा गिर्वाणलोकपृतना शुभवृत्तिरूपा । संशोभते शिरसि नापि मनोजगन्ध- स्तत्तादृशं गृहिणमप्यधिपं यतीनाम् ॥ १४॥ वन्दारुलोकवरदं नरदन्तिनोऽपि मन्त्रेश्वरस्य महतो गुरुतां वहन्तम् । मन्दारवृक्षमिव सर्वजनस्य पाद- च्छायां श्रितस्य परितापमपाहरन्तम् ॥ १५॥ यस्तन्त्रवार्तिकमनेकविचित्रयुक्ति- संशोभितं निगमजीवनमाततान । भुस्य तस्य बुधसंहतिसंस्तुतस्य वेषान्तरं तु निगमानतवचो विचारि ॥ १६॥ वेदशीर्षचयसारसङ्ग्रहं पञ्चरत्नमरुणाचलस्य यः । गुप्तमल्पमपि सर्वतोमुखं सूत्रभूतमतनोदिमं गुरुम् ॥ १७॥ देववाचि सुतरामशिक्षितं काव्यगन्धरहितं च यद्यपि । ग्रन्थक्रमणि तथाऽपि सस्फुरद्भाषितानुचरभावसञ्चयम् ॥ १८॥ लोकमातृकुचदुग्धपायिनश्शङ्करस्तवकृतो महाकवेः । द्राविडद्विजशिशोर्नटद्गिरो भूमिकान्तरमपारमेधसम् ॥ १९॥ भूतले त्विह तृतियमुद्भवं क्रौञ्चभूमिधररन्ध्रकारिणः । ब्रह्मनिष्ठितदशाप्रदर्शनाद्युक्तिवादतिमिरस्य शान्तये ॥ २०॥ कुम्भयोनिमुखमौनिपूजिते द्राविडे वचसि विश्रुतं कविम् । दृष्टवन्तमजरं परं महः केवलं धिषणया गुरुं विना ॥ २१॥ बालकेऽपि जडगोपकेऽपि व वानरेऽपि शुनि वा खलेऽपि वा । पण्डितेऽपि पदसंश्रितेऽपि वा पक्षपातरहितं समेक्षणम् ॥ २२॥ शक्तिमन्तमपि शान्तिसंयुतं भक्तिमन्तमपि भेदवर्जितम् । वीतरागमपि लोकवत्सलं देवतांशमपि नम्रचेष्टितम् ॥ २३॥ एष यामि पितुरन्तिकं ममान्वेषणं तु न विधीयतामिति । संविलिख्य गृहतो विनिर्गतं शोणशैलचरणं समागतम् ॥ २४॥ ईदृशं गुणगणैरभिरामं प्रश्रयेण रमणं भगवन्तम् । सिद्धलोकमहिमानमपारं पृष्टवानमृतनाथयतीन्द्रः ॥ २५॥ आह तं स भगवानगवासी सिद्धलोकमहिमा तु दुरूहः । ते शिवेन सदृशाः शिवरूपाः शक्रुवन्ति च वराण्यपि दातुम् ॥ २६॥ ॥ इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे सिद्धमहिमानुकीर्तनं नाम अष्टादशोऽध्यायः ॥ १८ ॥ इति श्रीरमणगीता समाप्ता ॥

॥ अत्रेमे भवन्त्युपसंहारश्लोकाः ॥ द्वितीये तु द्वितीयेऽत्र श्लोको ग्रन्थे स्वयं मुनेः । द्वितीयाध्यायगाः श्लोका अन्येमेतं विवृण्वते ॥ १॥ इतरत्र तु सर्वत्र प्रश्नार्थः प्रश्नकारिणः । उत्तरार्थो भगवतः श्लोकबन्धो मम स्वयम् ॥ २॥ अयं गणपतेर्ग्रन्थमालायामुज्ज्वलो मणिः । गुरोः सरस्वती यत्र विशुद्धे प्रतिबिम्बिता ॥ ३॥
॥ ग्रन्थप्रशंसा ॥ गलन्ति गङ्गेयं विमलतरगीतैव महतो नगाधीशाच्छ्रिमद्रमणमुनिरूपाज्जनिमति । पथो वाणीरूपाद्गणपतिकवेर्भक्तहृदयं समुद्रं संयाति प्रबलमलहारिण्यनुपदम् ॥ ---प्रणवानन्दः
॥ श्रीरमणगीताप्रकाशपीठिका ॥ ईश्वरः सर्वभूतानमेकोऽसौ हृदयाश्रयः । स आत्मा सा परा दृष्टिस्तदन्यन्नास्ति किञ्चन ॥ १॥ सा वियोगासहा शक्तिरेका शक्तस्य जग्रति । दृश्यब्रह्माण्डकोटिनां भाति जन्मादि बिभ्रती ॥ २॥ यमियं वृणुते दृष्टिर्मार्जारीव निजं शिशुम् । स तामन्वेषते पोतः कपिः स्वामिव मातरम् ॥ ३॥ जयति स भग्वान्रमणो वाक्पतिराचार्यगणपतिर्जयति । अस्य च वाणी भग्वद् - रमणीयार्थानुवर्तिनी जयति ॥ ४॥ ---कपालि शास्त्री
॥ श्रीरमणाञ्जलीः ॥ अरुणाद्रितटे दिशो वसानं परितः पुण्यभुवः पुनः पुनानम् । रमणाख्यामहो महो विशेषं जयति ध्वान्तहरं नरात्मवेषम् ॥ १॥ चरितेन नरानरेषु तुल्यं महसां पुञ्जमिदं विदाममूल्यम् । दुरितापहमाश्रितेषु भास्वत्- करुणामूर्तिवरं महर्षिमाहुः ॥ २॥ ज्वलितेन तपःप्रभावभूम्ना कबलिकृत्य जगद्विहस्य धाम्ना । विलसन् भगवान् महर्षिरस्म- त्परमाचार्यपुमान् हरत्वधं नः ॥ ३॥ प्रथमं पुरुषं तमीशमेके पुरुषाणां विदुरुत्तमं तथाऽन्ये । सरसीजभवाण्डमण्डलाना- मपरे मध्यमामनन्ति सन्तः ॥ ४॥ पुरुषत्रियतेऽपि भासमानं यमहन्धिमलिनो न वेद जन्तुः । अजहत्तमखण्डमेष नॄणां निजवृत्तेन निदर्शनाय भाति ॥ ५॥ मृदुलो हसितेन मन्दमन्दं दुरवेक्षः प्रबलो दृशा ज्वलन्त्या । विपुलो हृदयेन विश्वभोक्त्रा गहनो मौनगृहितया च वृत्त्या ॥ ६॥ गुरुराट् किमु शङ्करोऽयमन्यः किमु वा शङ्करसम्भवः कुमारः । किमु कुण्डिनजः स एव बालः किमु वा संहृतशक्तिरेष शम्भुः ॥ ७॥ बहुधेति विकल्पनाय विदुभि र्बहुभागस्तव मौनिनो विलाशः । हृदयेषु तु नः सदाऽविकल्पं रमण त्वं रमसे गुरो गुरूणाम् ॥ ८॥
औपच्छन्दसिकैरेतैर्बन्धं नीतः स्तवाञ्जलिः । उपहारायतामेष महर्षिचरणाब्जयोः ॥ १॥ गुणोऽत्र रमणे भक्तिः कृतवित्त च शाश्वती । रम्यो रमणनाम्नोऽयं ध्वनिश्च हृदयङ्गमः ॥ २॥ महर्षेर्मौनिराजस्य यशोगानमलङ्कृतिः । तदयं ध्वन्यकङ्कारगुणैरेवं नवोज्ज्वलः ॥ ३॥ रमणस्य पदाम्भोजस्मरणं हृदयङ्गमम् । इक्षुखण्डरसास्वादे को वा भृतिमपेक्षताम् ॥ ४॥ अयं रमणपादाब्जकिङ्करस्यापि किङ्कृता । काव्यकण्ठमुनेरन्तेवासिना वाग्विलासिना ॥ ५॥ रमणाङ्घ्रिसरोजातरसज्ञेन कपालिना । भारद्वाजेन भक्तेन रचितो रमणाञ्जलिः ॥ ६॥
Encoded and proofread byDPD
% Text title            : ramaNagItA
% File name             : ramaNagItA.itx
% itxtitle              : ramaNagItA
% engtitle              : Shri Ramanagita
% Category              : gItA, giitaa, ramaNa-maharShi, ramaNa-maharShi, gurudev
% Location              : doc_giitaa
% Sublocation           : giitaa
% SubDeity              : ramaNa-maharShi
% Author                : ramaNAntevAsino vAsiShThasya gaNapaterupanibandhe
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion/advaita
% Transliterated by     : DPD
% Proofread by          : DPD
% Indexextra            : (2col)
% Latest update         : August 28, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org