॥ रुद्रगीता ॥

भद्राश्व उवाच । भगवन् किं कृतं लोकं त्वया तमनुपश्यता । व्रतं तपो वा धर्मो वा प्राप्त्यर्थं तस्य वै मुने ॥ ७०.१॥ अनाराध्य हरिं भक्त्या को लोकान् कामयेद् बुधः । आराधिते हरौ लोकाः सर्वे करतलेऽभवन् ॥ ७०.२॥ एवं संचिन्त्य राजेन्द्र मया विष्णुः सनातनः । आराधितो वर्षशतं क्रतुभिर्भूरिदक्षिणैः ॥ ७०.३॥ ततः कदाचिद् बहुना कालेन नृपनन्दन । यजतो मम देवेशं यज्ञमूर्तिं जनार्दनम् । आहूता आगता देवाः सममेव सवासवाः ॥ ७०.४॥ स्वे स्वे स्थाने स्थिता आसन् यावद् देवाः सवासवाः । तावत् तत्रैव भगवानागतो वृषभध्वजः ॥ ७०.५॥ महादेवो विरूपाक्षस्त्र्यम्बको नीललोहितः । सोऽपि रौद्रे स्थितः स्थाने बभूव परमेश्वरः ॥ ७०.६॥ तान् सर्वानागतान् दृष्ट्वा देवानृषिमहोरगान् । सनत्कुमारो भगवानाजगामाब्जसंभवः ॥ ७०.७॥ त्रसरेणुप्रमाणेन विमाने सूर्यसन्निभे । अवस्थितो महायोगी भूतभव्यभविष्यवित् ॥ ७०.८॥ आगम्य शिरसा रुद्रं स ववन्दे महामुनिः । मया प्रणमितस्तस्थौ समीपे शूलपाणिनः ॥ ७०.९॥ तानहं संस्थितान् देवान् नारदादीनृषींस्तथा । सनत्कुमाररुद्रौ च दृष्ट्वा मे मनसि स्थितम् ॥ ७०.१०॥ क एषां भवते याज्यो वरिष्ठश्च नृपोत्तम । केन तुष्टेन तुष्टाः स्युः सर्व एते सरुद्रकाः ॥ ७०.११॥ एवं कृत्वा स्थिते राजन् रुद्रः पृष्टो मयाऽनघ । एवमर्थं क इज्योऽत्र युष्माकं सुरसत्तमाः ॥ ७०.१२॥ एवमुक्ते तदोवाच रुद्रो मां सुरसन्निधौ ॥ ७०.१३॥ रुद्र उवाच । श्रृण्वन्तु बिबुधाः सर्वे तथा देवर्षयोऽमलाः । ब्रह्मर्षयश्च विख्याता सर्वे श्रृण्वन्तु मे वचः । त्वं चागस्त्य महाबुद्धे श्रृणु मे गदतो वचः ॥ ७०.१४॥ यो यज्ञैरीड्यते देवो यस्मात् सर्वमिदं जगत् । उत्पन्नं सर्वदा यस्मिंल्लीनं भवति सामरम् ॥ ७०.१५॥ नारायणः परो देवः सत्त्वरूपो जनार्दनः । त्रिधात्मानं स भगवान् ससर्ज परमेश्वरः ॥ ७०.१६॥ रजस्तमोभ्यां युक्तोऽभूद् रजः सत्त्वाधिकं विभुः । ससर्ज नाभिकमले ब्रह्माणं कमलासनम् ॥ ७०.१७॥ रजसा तमसा युक्तः सोऽपि मां त्वसृजत् प्रभुः । यत्सत्त्वं स हरिर्देवो यो हरिस्तत्परं पदम् ॥ ७०.१८॥ ये सत्त्वरजसी सोऽपि ब्रह्मा कमलसंभवः । यो ब्रह्मा सैव देवस्तु यो देवः सः चतुर्मुखः । यद्रजस्तमसोपेतं सोऽहं नास्त्यत्र संशयः ॥ ७०.१९॥ सत्त्वं रजस्तमश्चैव त्रितयं चैतदुच्यते । सत्त्वेन मुच्यते जन्तुः सत्त्वं नारायणात्मकम् ॥ ७०.२०॥ रजसा सत्त्वयुक्तेन भवेत् सृष्टी रजोऽधिका । तच्च पैतामहं वृत्तं सर्वशास्त्रेषु पठ्यते ॥ ७०.२१॥ यद्वेदबाह्यं कर्म स्याच्छास्त्रमुद्दिश्य सेव्यते । तद्रौद्रमिति विख्यातं कनिष्ठं गदितं नृणाम् ॥ ७०.२२॥ यद्धीनं रजसा कर्म केवलं तामसं तु यत् । तद् दुर्गतिपरं नॄणामिह लोके परत्र च ॥ ७०.२३॥ सत्त्वेन मुच्यते जन्तुः सत्त्वं नारायणात्मकम् । नारायणश्च भगवान् यज्ञरूपी विभाव्यते ॥ ७०.२४॥ कृते नारायणः शुद्धः सूक्ष्ममूर्तिरुपास्यते । त्रेतायां यज्ञरूपेण पञ्चरात्रैस्तु द्वापरे ॥ ७०.२५॥ कलौ मत्कृतमार्गेण बहुरूपेण तामसैः । इज्यते द्वेषबुद्ध्या स परमात्मा जनार्दनः ॥ ७०.२६॥ न तस्मात् परतो देवो भविता न भविष्यति । यो विष्णुः स स्वयं ब्रह्मा यो ब्रह्मा सोऽहमेव च ॥ ७०.२७॥ वेदत्रयेऽपि यज्ञेऽस्मिन् याज्यं वेदेषु निश्चयः । यो भेदं कुरुतेऽस्माकं त्रयाणां द्विजसत्तम । स पापकारी दुष्टात्मा दुर्गतिं गतिमाप्नुयात् ॥ ७०.२८॥ इदं च श्रृणु मेऽगस्त्य गदतः प्राक्तनं तथा । यथा कलौ हरेर्भक्तिं न कुर्वन्तीह मानवाः ॥ ७०.२९॥ भूर्लोकवासिनः सर्वे पुरा यष्ट्वा जनार्दनम् । भुवर्लोकं प्रपद्यन्ते तत्रस्था अपि केशवम् । आराध्य स्वर्गतिं यान्ति क्रमान्मुक्तिं व्रजन्ति च ॥ ७०.३०॥ एवं मुक्तिपदे व्याप्ते सर्वलोकैस्तथैव च । मुक्तिभाजस्ततो देवास्तं दध्युः प्रयता हरिम् ॥ ७०.३१॥ सोऽपि सर्वगतत्वाच्च प्रादुर्भूतः सनातनः । उवाच ब्रूत किं कार्यं सर्वयोगिवराः सुराः ॥ ७०.३२॥ ते तं प्रणम्य देवेशमूचुश्च परमेश्वरम् । देवदेव जनः सर्वो मुक्तिमार्गे व्यवस्थितः । कथं सृष्टिः प्रभविता नरकेषु च को वसेत् ॥ ७०.३३॥ एवमुक्तस्ततो देवैस्तानुवाच जनार्दनः । युगानि त्रीणि बहवो मामुपेष्यन्ति मानवाः ॥ ७०.३४॥ अन्त्ये युगे प्रविरला भविष्यन्ति मदाश्रयाः । एष मोहं सृजाम्याशु यो जनं मोहयिष्यति ॥ ७०.३५॥ त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय । अल्पायासं दर्शयित्वा फलं दीर्घं प्रदर्शय ॥ ७०.३६॥ कुहकं चेन्द्रजालानि विरुद्धाचरणानि च । दर्शयित्वा जनं सर्वं मोहयाशु महेश्वर ॥ ७०.३७॥ एवमुक्त्वा तदा तेन देवेन परमेष्ठिना । आत्मा तु गोपितः सद्यः प्रकाश्योऽहं कृतस्तदा ॥ ७०.३८॥ तस्मादारभ्य कालं तु मत्प्रणीतेषु सत्तम । शास्त्रेष्वभिरतो लोको बाहुल्येन भवेदतः ॥ ७०.३९॥ वेदानुवर्त्तिनं मार्गं देवं नारायणं तथा । एकीभावेन पश्यन्तो मुक्तिभाजो भवन्ति ते ॥ ७०.४०॥ मां विष्णोर्व्यतिरिक्तं ये ब्रह्माणं च द्विजोत्तम । भजन्ते पापकर्माणस्ते यान्ति नरकं नराः ॥ ७०.४१॥ ये वेदमार्गनिर्मुक्तास्तेषां मोहार्थमेव च । नयसिद्धान्तसंज्ञाभिर्मया शास्त्रं तु दर्शितम् ॥ ७०.४२॥ पाशोऽयं पशुभावस्तु स यदा पतितो भवेत् । तदा पाशुपतं शास्त्रं जायते वेदसंज्ञितम् ॥ ७०.४३॥ वेदमूर्तिरहं विप्र नान्यशास्त्रार्थवादिभिः । ज्ञायते मत्स्वरूपं तु मुक्त्वा वेदमनादिमत् । वेदवेद्योऽस्मि विप्रर्षे ब्राह्मणैश्च विशेषतः ॥ ७०.४४॥ युगानि त्रीण्यहं विप्र ब्रह्मा विष्णुस्तथैव च । त्रयोऽपि सत्त्वादिगुणास्त्रयो वेदास्त्रयोऽग्नयः ॥ ७०.४५॥ त्रयो लोकास्त्रयः संध्यास्त्रयो वर्णास्तथैव च । सवनानि तु तावन्ति त्रिधा बद्धमिदं जगत् ॥ ७०.४६॥ य एवं वेत्ति विप्रर्षे परं नारायणं तथा । अपरं पद्मयोनिं तु ब्रह्माणं त्वपरं तु माम् । गुणतो मुख्यतस्त्वेक एवाहं मोह इत्युत ॥ ७०.४७॥ ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे सप्ततितमोऽध्यायः ॥ ७०॥
अगस्त्य उवाच । एवमुक्तस्ततो देवा ऋषयश्च पिनाकिना । अहं च नृपते तस्य देवस्य प्रणतोऽभवम् ॥ ७१.१॥ प्रणम्य शिरसा देवं यावत् पश्यामहे नृप । तावत् तस्यैव रुद्रस्य देहस्थं कमलासनम् ॥ ७१.२॥ नारायणं च हृदये त्रसरेणुसुसूक्ष्मकम् । ज्वलद्भास्करवर्णाभं पश्याम भवदेहतः ॥ ७१.३॥ तं दृष्ट्वा विस्मिताः सर्वे याजका ऋषयो मम । जयशब्दरवांश्चक्रुः सामऋग्यजुषां स्वनम् ॥ ७१.४॥ कृत्वोचुस्ते तदा देवं किमिदं परमेश्वर । एकस्यामेव मूर्तौ ते लक्ष्यन्ते च त्रिमूर्त्तयः ॥ ७१.५॥ रुद्र उवाच । यज्ञेऽस्मिन् यद्धुतं हव्यं मामुद्दिश्य महर्षयः । ते त्रयोऽपि वयं भागं गृह्णीमः कविसत्तमाः ॥ ७१.६॥ नास्माकं विविधो भावो वर्तते मुनिसत्तमाः । सम्यग्दृशः प्रपश्यन्ति विपरीतेष्वनेकशः ॥ ७१.७॥ एवमुक्ते तु रुद्रेण सर्वे ते मुनयो नृप । पप्रच्छुः शंकरं देवं मोहशास्त्रप्रयोजनम् ॥ ७१.८॥ ऋषय ऊचुः । मोहनार्थं तु लोकानां त्वया शास्त्रं पृथक् कृतम् । तत् त्वया हेतुना केन कृतं देव वदस्व नः ॥ ७१.९॥ रुद्र उवाच । अस्ति भारतवर्षेण वनं दण्डकसंज्ञितम् । तत्र तीव्रं तपो घोरं गौतमो नाम वै द्विजः ॥ ७१.१०॥ चकार तस्य ब्रह्मा तु परितोषं गतः प्रभुः । उवाच तं मुनिं ब्रह्मा वरं ब्रूहि तपोधन ॥ ७१.११॥ एवमुक्तस्तदा तेन ब्रह्मणा लोककर्तृणा । उवाच सद्यः पङ्क्तिं मे धान्यानां देहि पद्मज ॥ ७१.१२॥ एवमुक्तो ददौ तस्य तमेवार्थं पितामहः । लब्ध्वा तु तं वरं विप्रः शतश्रृङ्गे महाश्रमम् ॥ ७१.१३॥ चकार तस्योषसि च पाकान्ते शालयो द्विजाः । लूयन्ते तेन मुनिना मध्याह्ने पच्यते तथा । सर्वातिथ्यमसौ विप्रो ब्राह्मणेभ्यो ददात्यलम् ॥ ७१.१४॥ कस्यचित् त्वथ कालस्य महति द्वादशाब्दिका । अनावृष्टिर्द्विजवरा अभवल्लोमहर्षिणी ॥ ७१.१५॥ तां दृष्ट्वा मुनयः सर्वे अनावृष्टिं वनेचराः । क्षुधया पीड्यमामास्तु प्रययुर्गौतमं तदा ॥ ७१.१६॥ अथ तानागतान् दृष्ट्वा गौतमः शिरसा नतः । उवाच स्थीयतां मह्यं गृहे मुनिवरात्मजाः ॥ ७१.१७॥ एवमुक्तास्तु ते तेन तस्थुर्विविधभोजनम् । भुञ्जमाना अनावृष्टिर्यावत् सा निवृताऽभवत् ॥ ७१.१८॥ निवृत्तायां तु वै तस्यामनावृष्ट्यां तु ते द्विजाः । तीर्थयात्रानिमित्तं तु प्रयातुं मनसोऽभवन् ॥ ७१.१९॥ तत्र शाण्डिल्यनामानं तापसं मुनिसत्तमम् । प्रत्युवाचेति संचिन्त्य मीरीचः परमो मुनिः ॥ ७१.२०॥ मारीच उवाच । शाण्डिल्य शोभनं वक्ष्ये पिता ते गौतमो मुनिः । तमनुक्त्वा न गच्छामस्तपश्चर्तुं तपोवनम् ॥ ७१.२१॥ एवमुक्तेऽथ जहसुः सर्वे ते मुनयस्तदा । किमस्माभिः स्वको देहो विक्रीतोऽस्यान्नभक्षणात् ॥ ७१.२२॥ एवमुक्त्वा पुनश्चोचुः सोपाधिगमनं प्रति । कृत्वा मायामयीं गां तु तच्छालौ ते व्यसर्जयन् ॥ ७१.२३॥ तां चरन्तीं ततो दृष्ट्वा शालौ गां गौतमो मुनिः । गृहीत्वा सलिलं पाणौ याहि रुद्रेत्यभाषत । ततो मायामयी सा गौः पपात जलबिन्दुभिः ॥ ७१.२४॥ निहतां तां ततो दृष्ट्वा मुनीन् जिगमिषूंस्तथा । उवाच गौतमो धीमांस्तान् मुनीन् प्रणतः स्थितः ॥ ७१.२५॥ किमर्थं गम्यते विप्राः साधु शंसत माचिरम् । मां विहाय सदा भक्तं प्रणतं च विशेषतः ॥ ७१.२६॥ ऋषय ऊचुः । गोवध्येयमिह ब्रह्मन् यावत् तव शरीरगा । तावदन्नं न भुञ्जामो भवतोऽन्नं महामुने ॥ ७१.२७॥ एवमुक्तो गौतमोऽथ तान् मुनीन् प्राह धर्मवित् । प्रायश्चित्तं गोवध्याया दीयतां मे तपोधनाः ॥ ७१.२८॥ इयं गौरमृता ब्रह्मन् मूर्च्छितेव व्यवस्थिता । गङ्गाजलप्लुता चेयमुत्थास्यति न संशयः ॥ ७१.२९॥ प्रायश्चित्तं मृतायाः स्यादमृतायाः कृतं त्विदम् । व्रतं वा मा कृथाः कोपमित्युक्त्वा प्रययुस्तु ते ॥ ७१.३०॥ गतैस्तैर्गौतमो धीमान् हिमवन्तं महागिरिम् । मामाराधयिषुः प्रायात् तप्तुं चाशु महत् तपः ॥ ७१.३१॥ शतमेकं तु वर्षाणामहमाराधितोऽभवम् । तुष्टेन च मया प्रोक्तो वरं वरय सुव्रत ॥ ७१.३२॥ सोऽब्रवीन्मां जकटासंस्थां देहि गङ्गां तपस्विनीम् । मया सार्धं प्रयात्वेषा पुण्या भागीरथी नदी ॥ ७१.३३॥ एवमुक्ते जटाखण्डमेकं स प्रददौ शिवः । तां गृह्य गतवान् सोऽपि यत्रास्ते सा तु गौर्मृता ॥ ७१.३४॥ तज्जलप्लाविता सा गौर्गता चोत्थाय भामिनी । नदी च महती जाता पुण्यतोया शुचिह्रदा ॥ ७१.३५॥ तं दृष्ट्वा महदाश्चर्यं तत्र सप्तर्षयोऽमलाः । आजग्मुः खे विमानस्थाः साधुः साध्विति वादिनः ॥ ७१.३६॥ साधु गौतम साधूनां कोन्योऽस्ति सदृशस्तव । यदेवं जाह्नवीं देवीं दण्डके चावतारयत् ॥ ७१.३७॥ एवमुक्तस्तदा तैस्तु गौतमः किमिदं त्विति । गोवध्याकारणं मह्यं तावत् पश्यति गौतमः ॥ ७१.३८॥ ऋषीणां मायया सर्वमिदं जातं विचिन्त्य वै । शशाप तान् जटाभस्ममिथ्याव्रतधरास्तथा । भविष्यथ त्रयीबाह्या वेदकर्मबहिष्कृताः ॥ ७१.३९॥ तच्छ्रुत्वा क्रूरवचनं गौतमस्य महामुनेः । ऊचुः सप्तर्षयो मैवं सर्वकालं द्विजोत्तमाः । भवन्तु किं तु ते वाक्यं मोघं नास्त्यत्र संशयः ॥ ७१.४०॥ यदि नाम कलौ सर्वे भविष्यन्ति द्विजोत्तमाः । उपकारिणि ये ते हि अपकर्तार एव हि । इत्थंभूता अपि कलौ भक्तिभाजो भवन्तु ते ॥ ७१.४१॥ त्वद्वाक्यवह्निनिर्दग्धाः सदा कलियुगे द्विजाः । भविष्यन्ति क्रियाहीना वेदकर्मबहिष्कृताः ॥ ७१.४२॥ अस्याश्च गौणं नामेह नदी गोदावरीति च । गौर्दत्ता वरदानाच्च भवेद् गोदावरी नदी ॥ ७१.४३॥ एतां प्राप्य कलौ ब्रह्मन् गां ददन्ति जनाश्च ये । यथाशक्त्या तु दानानि मोदन्ते त्रिदशैः सह ॥ ७१.४४॥ सिंहस्थे च गुरौ तत्र यो गच्छति समाहितः । स्नात्वा च विधिना तत्र पितॄं स्तर्पयते तथा ॥ ७१.४५॥ स्वर्गं गच्छन्ति पितरो निरये पतिता अपि । स्वर्गस्थाः पितरस्तस्य मुक्तिभाजो न संशयः ॥ ७१.४६॥ त्वं ख्यातिं महतीं प्राप्य मुक्तिं यास्यसि शाश्वतीम् । एवमुक्त्वाऽथ मुनयो ययुः कैलासपर्वतम् । यत्राहमुमया सार्धं सदा तिष्ठामि सत्तमाः ॥ ७१.४७॥ ऊचुर्मां ते च मुनयो भवितारो द्विजोत्तमाः । कलौ त्वद्रूपिणः सर्वे जटामुकुटधारिणः । स्वेच्छया प्रेतवेषाश्च मिथ्यालिङ्गधराः प्रभो ॥ ७१.४८॥ तेषामनुग्रहार्थाय किंचिच्छास्त्रं प्रदीयताम् । येनास्मद्वंशजाः सर्वे वर्तेयुः कलिपीडिताः ॥ ७१.४९॥ एवमभ्यर्थितस्तैस्तु पुराऽहं द्विजसत्तमाः । वेदक्रियासमायुक्तां कृतवानस्मि संहिताम् ॥ ७१.५०॥ निःश्वासाख्यां ततस्तस्यां लीना बाभ्रव्यशाण्डिलाः । अल्पापराधाच्छ्रुत्वैव गता बैडालिका भवन् ॥ ७१.५१॥ मयैव मोहितास्ते हि भविष्यं जानता द्विजाः । लौल्यार्थिनस्तु शास्त्राणि करिष्यन्ति कलौ नराः ॥ ७१.५२॥ निःश्वाससंहितायां हि लक्षमात्रं प्रमाणतः । सैव पाशुपती दीक्षा योगः पाशुपतस्त्विह ॥ ७१.५३॥ एतस्माद् वेदमार्गाद्धि यदन्यदिह जायते । तत् क्षुद्रकर्म विज्ञेयं रौद्रं शौचविवर्जितम् ॥ ७१.५४॥ ये रुद्रमुपजीवन्ति कलौ वैडालिका नराः । लौल्यार्थिनः स्वशास्त्राणि करिष्यन्ति कलौ नराः । उच्छुष्मरुद्रास्ते ज्ञेया नाहं तेषु व्यवस्थितः ॥ ७१.५५॥ भैरवेण स्वरूपेण देवकार्ये यदा पुरा । नर्तितं तु मया सोऽयं संबन्धः क्रूरकर्मणाम् ॥ ७१.५६॥ क्षयं निनीषता दैत्यानट्टहासो मया कृतः । यः पुरा तत्र ये मह्यं पतिता अश्रुबिन्दवः । असंख्यातास्तु ते रौद्रा भवितारो महीतले ॥ ७१.५७॥ उच्छुष्मनिरता रौद्राः सुरामांसप्रियाः सदा । स्त्रीलोलाः पापकर्माणः संभूता भूतलेषु ते ॥ ७१.५८॥ तेषां गौतमशापाद्धि भविष्यन्त्यन्वये द्विजाः । तेषां मध्ये सदाचारा ये ते मच्छासने रताः ॥ ७१.५९॥ स्वर्गं चैवापवर्गं च इति वै संशयात् पुरा । वैडालिकाऽधो यास्यन्ति मम संततिदूषकाः ॥ ७१.६०॥ प्राग् गौतमाग्निना दग्धाः पुनर्मद्वचनाद् द्विजाः । नरकं तु गमिष्यन्ति नात्र कार्या विचारणा ॥ ७१.६१॥ रुद्र उवाच । एवं मया ब्रह्मसुताः प्रोक्ता जग्मुर्यथागतम् । गौतमोऽपि स्वकं गेहं जगामाशु परंतपः ॥ ७१.६२॥ एतद् वः कथितं विप्रा मया धर्मस्य लक्षणम् । एतस्माद् विपरीतो यः स पाषण्डरतो भवेत् ॥ ७१.६३॥ ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे एकसप्ततितमोऽध्यायः ॥ ७१॥
श्रीवराह उवाच । सर्वज्ञं सर्वकर्त्तारं भवं रुद्रं पुरातनम् । प्रणम्य प्रयतोऽगस्त्यः पप्रच्छ परमेश्वरम् ॥ ७२.१॥ अगस्त्य उवाच । भवान् ब्रह्मा च विष्णुश्च त्रयमेतत् त्रयी स्मृता । दीपोऽग्निर्दोपसंयोगैः सर्वशास्त्रेषु सर्वतः ॥ ७२.२॥ कस्मिन् प्रधानो भगवान् काले कस्मिन्नधोक्षजः । ब्रह्मा वा एतदाचक्ष्व मम देव त्रिलोचन ॥ ७२.३॥ रुद्र उवाच । विष्णुरेव परं ब्रह्म त्रिभेदमिह पठ्यते । वेदसिद्धान्तमार्गेषु तन्न जानन्ति मोहताः ॥ ७२.४॥ विशप्रवेशने धातुस्तत्र ष्णु प्रत्ययादनु । विष्णुर्यः सर्वदेवेषु परमात्मा सनातनः ॥ ७२.५॥ योऽयं विष्णुस्तु दशधा कीर्त्यते चैकधा द्विजाः । स आदित्यो महाभाग योगैश्वर्यसमन्वितः ॥ ७२.६॥ स देवकार्याणि सदा कुरुते परमेश्वरः । मनुष्यभावमाश्रित्य स मां स्तौति युगे युगे । लोकमार्गप्रवृत्त्यर्थं देवकार्यार्थसिद्धये ॥ ७२.७॥ अहं च वरदस्तस्य द्वापरे द्वापरे द्विज । अहं च तं सदा स्तौमि श्वेतद्वीपे कृते युगे ॥ ७२.८॥ सृष्टिकाले चतुर्वक्त्रं स्तौमि कालो भवामि च । ब्रह्मा देवासुरा स्तौति मां सदा तु कृते युगे । लिङ्गमूर्तिं च मां देवा यजन्ते भोगकाङ्क्षिणः ॥ ७२.९॥ सहस्रशीर्षकं देवं मनसा तु मुमुक्षवः । यजन्ते यं स विश्वात्मा देवो नारायणः स्वयम् ॥ ७२.१०॥ ब्रह्मयज्ञेन ये नित्यं यजन्ते द्विजसत्तमाः । ते ब्रह्माणं प्रीणयन्ति वेदो ब्रह्मा प्रकीर्तितः ॥ ७२.११॥ नारायणः शिवो विष्णुः शंकर पुरुषोत्तमः । एतैस्तु नामभिर्ब्रह्म परं प्रोक्तं सनातनम् । तं च चिन्तामयं योगं प्रवदन्ति मनीषिणः ॥ ७२.१२॥ पशूनां शमनं यज्ञे होमकर्म च यद्भवेत् । तदोमिति च विख्यातं तत्राहं संव्यवस्थितः ॥ ७२.१३॥ कर्मवेदयुजां विप्र ब्रह्मा विष्णुर्महेश्वरः । वयं त्रयोऽपि मन्त्राद्या नात्र कार्या विचारणा ॥ ७२.१४॥ अहं विष्णुस्तथा वेदा ब्रह्म कर्माणि चाप्युत । एतत् त्रयं त्वेकमेव न पृथग् भावयेत् सुधीः ॥ ७२.१५॥ योऽन्यथा भावयेदेतत् पक्षपातेन सुव्रत । स याति नरकं घोरं रौरवं पापपूरुषः ॥ ७२.१६॥ अहं ब्रह्मा च विष्णुश्च ऋग्यजुः साम एव च । नैतस्मिन् भेदमस्यास्ति सर्वेषां द्विजसत्तम ॥ ७२.१७॥ ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे द्विसप्ततितमोऽध्यायः ॥ ७२॥
रुद्र उवाच । श्रृणु चान्यद् द्विजश्रेष्ठ कौतूहलसमन्वितम् । अपूर्वभूतं सलिले मग्नेन मुनिपुंगव ॥ ७३.१॥ ब्रह्माणाऽहं पुरा सृष्टः प्रोक्तश्च सृज वै प्रजाः । अविज्ञानसमर्थोऽहं निमग्नः सलिले द्विज ॥ ७३.२॥ तत्र यावत् क्षणं चैकं तिष्ठामि परमेश्वरम् । अङ्गुष्ठमात्रं पुरुषं ध्यायन् प्रयतमानसः ॥ ७३.३॥ तावज्जलात् समुत्तस्थुः प्रलयाग्निसमप्रभाः । पुरुषा दश चैकश्च तापयन्तोंशुभिर्जलम् ॥ ७३.४॥ मया पृष्टाः के भवन्तो जलादुत्तीर्य तेजसा । तापयन्तो जलं चेदं क्व वा यास्यथ संशत ॥ ७३.५॥ एवमुक्ता मया ते तु नोचुः किंचन सत्तमाः । एवमेव गतास्तूष्णीं ते नरा द्विजपुंगव ॥ ७३.६॥ ततस्तेषामनु महापुरुषोऽतीवशोभनः । स तस्मिन् मेघसंकाशः पुण्डरीकनिभेक्षणः ॥ ७३.७॥ तमहं पृष्टवान् कस्त्वं के चेमे पुरुषा गाताः । किं वा प्रयोजनमिह कथ्यतां पुरुषर्षभ ॥ ७३.८॥ पुरुष उवाच । य एते वै गताः पूर्वं पुरुषा दीप्ततेजसः । आदित्यास्ते त्वरं यान्ति ध्याता वै ब्रह्मणा भव ॥ ७३.९॥ सृष्टिं सृजति वै ब्रह्मा तदर्थं यान्त्यमी नराः । प्रतिपालनाय तस्यास्तु सृष्टेर्देव न संशयः ॥ ७३.१०॥ शम्भुरुवाच । भगवन् कथं जानीषे महापुरुषसत्तम । भवेति नाम्ना तत्सर्वं कथयस्व परो ह्यहम् ॥ ७३.११॥ एवमुक्तस्तु रुद्रेण स पुमान् प्रत्यभाषत । अहं नारायणो देवो जलशायी सनातनः ॥ ७३.१२॥ दिव्यं चक्षुर्भवतु वै तव मां पश्य यत्नतः । एवमुक्तस्तदा तेन यावद् पश्याम्यहं तु तम् ॥ ७३.१३॥ तावदङ्गुष्ठमात्रं तु ज्वलद्भास्करतेजसम् । तमेवाहं प्रपश्यामि तस्य नाभौ तु पङ्कजम् ॥ ७३.१४॥ ब्रह्माणं तत्र पश्यामि आत्मानं च तदङ्कतः । एवं दृष्ट्वा महात्मानं ततो हर्षमुपागतः । तं स्तोतुं द्विजशार्दूल मतिर्मे समजायत ॥ ७३.१५॥ तस्य मूर्तौ तु जातायां सक्तोत्रेणानेन सुव्रत । स्तुतो मया स विश्वात्मा तपसा स्मृतकर्मणा ॥ ७३.१६॥ रुद्र उवाच । नमोऽस्त्वनन्ताय विशुद्धचेतसे सरूपरूपाय सहस्रबाहवे । सहस्ररश्मिप्रवराय वेधसे विशालदेहाय विशुद्धकर्मिणे ॥ ७३.१७॥ समस्तविश्वार्तिहराय शम्भवे सहस्रसूर्यानिलतिग्मतेजसे । समस्तविद्याविधृताय चक्रिणे समस्तगीर्वाणनुते सदाऽनघ ॥ ७३.१८॥ अनादिदेवोऽच्युत शेषशेखर प्रभो विभो भूतपते महेश्वर । मरुत्पते सर्वपते जगत्पते भुवः पते भुवनपते सदा नमः ॥ ७३.१९॥ जलेश नारायण विश्वशंकर क्षितीश विश्वेश्वर विश्वलोचन । शशाङ्कसूर्याच्युत वीर विश्वगा - प्रतर्क्यमूर्त्तेऽमृतमूर्तिरव्ययः ॥ ७३.२०॥ ज्वलधुताशार्चिविरुद्धमण्डल प्रपाहि नारायण विश्वतोमुख । नमोऽस्तु देवार्त्तिहरामृताव्यय प्रपाहि मां शरणगतं सदाच्युत ॥ ७३.२१॥ वक्त्राण्यनेकानि विभो तवाहं पश्यामि मध्यस्थगतं पुराणम् । ब्रह्माणमीशं जगतां प्रसूतिं नमोऽस्तु तुभ्यं तु पितामहाय ॥ ७३.२२॥ संसारचक्रभ्रमणैरनेकैः क्वचिद् भवान् देववरादिदेव । सन्मार्गिभिर्ज्ञानविशुद्धसत्त्वै - रुपास्यसे किं प्रलपाम्यहं त्वाम् ॥ ७३.२३॥ एकं भवन्तं प्रकृतेः परस्ताद् यो वेत्त्यसौ सर्वविदादिबोद्धा । गुणा न तेषु प्रसभं विभेद्या विशालमूर्तिर्हि सुसूक्ष्मरूपः ॥ ७३.२४॥ निर्वाक्यो निर्मनो विगतेन्द्रियोऽसि कर्माभवान्नो विगतैककर्मा । संसारवांस्त्वं हि न तादृशोऽसि पुनः कथं देववरासि वेद्यः ॥ ७३.२५॥ मूर्तामूर्तं त्वतुलं लभ्यते ते परं वपुर्देव विशुद्धभावैः । संसारविच्छित्तिकरैर्यजद्भि - रतोऽवसीयेत चतुर्भुजस्त्वम् ॥ ७३.२६॥ परं न जानन्ति यतो वपुस्ते देवादयोऽप्यद्भुतकारणं तत् । अतोऽवतारोक्ततनुं पुराण - माराधयेयुः कमलासनाद्याः ॥ ७३.२७॥ न ते वपुर्विश्वसृगब्जयोनि- रेकान्ततो वेद महानुभावः । परं त्वहं वेद्मि कविं पुराणं भवन्तमाद्यं तपसा विशुद्धः ॥ ७३.२८॥ पद्मासनो मे जनकः प्रसिद्ध - श्चैतत् प्रसूतावसकृत्पुराणैः । संबोध्यते नाथ न मद्विधोऽपि विदुर्भवन्तं तपसा विहीनाः ॥ ७३.२९॥ ब्रह्मादिभिस्तत्प्रवरैरबोध्यं त्वां देव मूर्खाः स्वमनन्तनत्या । प्रबोधमिच्छन्ति न तेषु बुद्धि - रुदारकीर्त्तिष्वपि वेदहीनाः ॥ ७३.३०॥ जन्मान्तरैर्वेदविदां विवेक - बुद्धिर्भवेन्नाथ तव प्रसादात् । त्वल्लब्धलाभस्य न मानुषत्वं न देवगन्धर्वगतिः शिवं स्यात् ॥ ७३.३१॥ त्वं विष्णुरूपोऽसि भवान् सुसूक्ष्मः स्थूलोऽसि चेदं कृतकृत्यतायाः । स्थूलः सुसूक्ष्मः सुलभोऽसि देव त्वद्वाह्यवृत्त्या नरके पतन्ति ॥ ७३.३२॥ किमुच्यते वा भवति स्थितेऽस्मिन् खात्म्येन्दुवह्न्यर्कमहीमरुद्भिः । तत्त्वैः सतोयैः समरूपधारि - ण्यात्मस्वरूपे विततस्वभावे ॥ ७३.३३॥ इति स्तुतिं मे भगवन्ननन्त जुषस्व भक्तस्य विशेषतश्च । सृष्टिं सृजस्वेति तवोदितस्य सर्वज्ञतां देहि नमोऽस्तु विष्णो ॥ ७३.३४॥ चतुर्मुखो यो यदि कोटिवक्त्रो भवेन्नरः क्वापि विशुद्धचेताः । स ते गुणानामयुतैरनेकै - र्वदेत् तदा देववर प्रसीद ॥ ७३.३५॥ समाधियुक्तस्य विशुद्धबुद्धे - स्त्वद्भावभावैकमनोऽनुगस्य । सदा हृदिस्थोऽसि भवान्नमस्ते न सर्वगस्यास्ति पृथग्व्यवस्था ॥ ७३.३६॥ इति प्रकाशं कृतमेतदीश स्तवं मया सर्वगतं विबुद्ध्वा । संसारचक्रक्रममाणयुक्त्या भीतं पुनीह्यच्युत केवलत्वम् ॥ ७३.३७॥ श्रीवराह उवाच । इति स्तुतस्तदा देवो रुद्रेणामिततेजसा । उवाच वाक्यं संतुष्टो मेघगम्भीरनिःस्वनः ॥ ७३.३८॥ विष्णुरुवाच । वरं वरय भद्रं ते देव देव उमापते । न भेदश्चावयोर्देव एकावावामुभावपि ॥ ७३.३९॥ रुद्र उवाच । ब्रह्मणाऽहं नियुक्तस्तु प्रजाः सृज इति प्रभो । तत्र ज्ञानं प्रयच्छस्व त्रिविधं भूतभावनम् ॥ ७३.४०॥ विष्णुरुवाच । सर्वज्ञस्त्वं न संदेहो ज्ञानराशिः सनातनः । देवानां च परं पूज्यः सर्वदा त्वं भविष्यसि ॥ ७३.४१॥ एवमुक्तः पुनर्वाक्यमुवाचोमापतिर्मुदा । अन्यं देहि वरं देव प्रसिद्धं सर्वजन्तुषु ॥ ७३.४२॥ मूर्तो भूत्वा भवानेव मामाराधय केशव । मां वहस्व च देवेश वरं मत्तो गृहाण च । येनाहं सर्वदेवानां पूज्यात् पूज्यतरो भवे ॥ ७३.४३॥ विष्णुरुवाच । देवकार्यावतारेषु मानुषत्वमुपागतः । त्वामेवाराधयिष्यामि त्वं च मे वरदो भव ॥ ७३.४४॥ यत् त्वयोक्तं वहस्वेति देवदेव उमापते । सोऽहं वहामि त्वां देवं मेघो भूत्वा शतं समाः ॥ ७३.४५॥ एवमुक्त्वा हरिर्मेघः स्वयं भूत्वा महेश्वरम् । उज्जहार जलात् तस्माद् वाक्यं चेदमुवाच ह ॥ ७३.४६॥ य एते दश चैकश्च पुरुषाः प्राकृताः प्रभो । ते वैराजा महीं याता आदित्या इति संज्ञिताः ॥ ७३.४७॥ मदंशो द्वादशो यस्तु विष्णुनामा महीतले । अवतीर्णो भवन्तं तु आराधयति शंकर ॥ ७३.४८॥ एवमुक्त्वा स्वकादंशात् सृष्ट्वादित्यं घनं तथा । नारायणः शब्दवच्च न विद्मः क्व लयं गतः ॥ ७३.४९॥ रुद्र उवाच । एवमेष हरिर्देवः सर्वगः सर्वभावनः । वरदोऽभूत् पुरा मह्यं तेनाहं दैवतैर्वरः ॥ ७३.५०॥ नारायणात् परो देवो न भूतो न भविष्यति । एतद् रहस्यं वेदानां पुराणानां च सत्तम । मया वः कीर्तितं सर्वं यथा विष्णुरिहेज्यते ॥ ७३.५१॥ ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे त्रिसप्ततितमोऽध्यायः ॥ ७३॥
श्रीवराह उवाच । पुनस्ते ऋषयः सर्वे तं पप्रच्छुः सनातनम् । रुद्रं पुराणपुरुषं शाश्वतं ध्रुवमव्ययम् । विश्वरूपमजं शंभुं त्रिनेत्रं शूलपाणिनम् ॥ ७४.१॥ ऋषय ऊचुः । त्वं परः सर्वदेवानामस्माकं च सुरेश्वर । पृच्छाम तेन त्वां प्रश्नमेकं तद् वक्तुमर्हसि ॥ ७४.२॥ भूमिप्रमाणसंस्थानं पर्वतानां च विस्तरम् । समुद्राणां नदीनां च ब्रह्माण्डस्य च विस्तरम् । अस्माकं ब्रूहि कृपया देवदेव उमापते ॥ ७४.३॥ रुद्र उवाच । सर्वेष्वेव पुराणेषु भूर्लोकः परिकीर्त्यते । ब्रह्मविष्णुभवादीनां वायव्ये च सविस्तरम् ॥ ७४.४॥ इदानीं च प्रवक्ष्यामि समासाद् वः क्षमान्तरम् । तन्निबोधत धर्मज्ञा गदतो मम सत्तमाः ॥ ७४.५॥ योऽसौ सकलविद्यावबोधितपरमात्मरूपी विगतकल्मषः परमाणुरचिन्त्त्यात्मा नारायणः सकललोकालोकव्यापी पीताम्बरोरुवक्षः क्षितिधरो गुणतोमुख्यतस्तु - अणुमहद्दीर्घह्रस्वमकृशमलोहितमित्येवमाद्योपलक्षित - विज्ञानमात्ररूपम् । स भगवांस्त्रिप्रकारः सत्त्व -५ रजस्तमोद्रिक्तः सलिलं ससर्ज । तच्च सृष्ट्वा - नादिपुरुषः परमेश्वरो नारायणः सकलजगन्मयः सर्वमयो देवमयो यज्ञमय आपोमय आपोमूर्त्तिर्योगनिद्रया सुप्तस्य तस्य नाभौ सदब्जं निःससार । तस्मिन्सकल - वेदनिधिरचिन्त्यात्मा परमेश्वरो ब्रह्मा प्रजापतिर -१० भवत् स च सनकसनन्दनसनत्कुमारादीन् ज्ञानधर्मिणः पूर्वमुत्पाद्य पश्चान्मनुं स्वायंभुवं मरीच्यादीन् दक्षान्तान् ससर्ज । यः स्वयंभुवो मनुर्भगवता सृष्टस्तस्मादारभ्य भुवनस्यातिविस्तरो वर्ण्यते । तस्य च मनोर्द्वौ पुत्रौ बभूवतुः प्रियव्रतोत्तानपादौ । १५ प्रियव्रतस्य दश पुत्रा बभूवुः । आग्नीघ्रोऽग्निबाहु - र्मेधो मेधातिथिर्ध्रुवो ज्योतिष्मान् द्युतिमान् हव्यवपुष्मत्सवनान्ताः । स च प्रियव्रतः सप्तद्वीपेषु सप्त पुत्रान् स्थापयामास । तत्र चाग्नीध्रं जम्बूद्वीपेश्वरं चक्रे । २० शाकद्वीपेश्वरं मेधातिथिं कुशे ज्योतिष्मन्तं क्रौञ्चे द्युतिमन्तं शाल्मले वपुष्मन्तं गोमेदस्येश्वरं हव्यं पुष्कराधिपतिं सवनमिति । पुष्करेशस्यापि सवनस्य द्वौ पुत्रौ महावीतधातकी भवेताम् ॥ २५ तयोर्देशौ गोमेदश्च नाम्ना व्यवस्थितौ । धातकेर्धातकीखण्डं कुमुदस्य च कौमुदम् । शाल्मलाधिपतेरपि वपुष्मन्तस्य त्रयः पुत्राः सकुशवैद्युतजीमूतनामानः । सकुशस्य सकुशनामा देशः वैद्युतस्य वैद्युतः ३० जीमूतस्य जीमूत इति एते शाल्मलेर्देशा इति तथा च द्युतिमतः सप्त पुत्रकाः कुशलो मनुगोष्ठौष्णः पीवरोद्यान्धकारकमुनिदुन्दुभिश्चेति । तन्नाम्ना क्रौञ्चे सप्त महादेशनामानि । कुशद्वीपेश्वरस्यापि ज्योतिष्मतः सप्तैव पुत्रास्तद्यथा उद्भिदो वेणुमां - ३५ श्चैव रथोपलम्बनो धृतिः प्रभाकरः - कपिल इति । तन्नामान्येव वर्षाणि द्रष्टव्यानि शाकाधिपस्यापि सप्त पुत्रा मेधातिथेस्तद्यथा शान्तभयशिशिरसुखोदयंनन्दशिवक्षेमकध्रुवा इति एते सप्त पुत्राः एतन्नामान्येव वर्षाणि । ४० अथ जम्बूद्वीपेश्वरस्यापि आग्नीध्रस्य नव पुत्रा बभूवुः । तद्यथा नाभिः किंपुरुषो हरिवर्ष इलावृतो रम्यको हिरण्मयः कुरुर्भद्राश्वः केतुमालश्चेति । एतन्नामान्येव वर्षाणि । नाभेर्हेमवन्तं हेमकूटं किंपुरुषं नैषधं हरिवर्षं मेरुमध्यमिलावृत्तं नीलं रम्यकं श्वेतं हिरण्मयं ४५ उत्तरं च श्रृङ्गवतः कुरवो माल्यवन्तं भद्राश्वं गन्धमादनं केतुमालमिति । एवं स्वायंभुवेऽन्तरे भुवन- प्रतिष्ठा । कल्पे कल्पे चैवमेव सप्त सप्त पार्थिवैः क्रियते भूमेः पालनं व्यवस्था च । एष स्वभावः कल्पस्य सदा भवतीति । ५० अत्र नाभेः सर्गं कथयामि । नाभिर्मेरुदेव्यां पुत्रमजनयद् ऋषभनामानं तस्य भरतो जज्ञे पुत्रश्च तावदग्रजः । तस्य भरतस्य पिता ऋषभो हिमाद्रेर्दक्षिणं वर्षमदाद् भारतं नाम । भरतस्यापि पुत्रः सुमतिर्नामा । तस्य राज्यं दत्त्वा भरतोऽपि वनं ययौ । ५५ सुमतेस्तेजस्तत्पुत्रः सत्सुर्नामा । तस्यापीन्द्रद्युम्नो नाम । तस्यापि परमेष्ठी तस्यापि प्रतिहर्त्ता तस्य निखातः निखातस्य उन्नेता उन्नेतुरप्यभावस्तस्योद्गाता तस्य प्रस्तोता प्रस्तोतुश्च विभुः विभोः पृथुः पृथोरनन्तः अनन्तस्यापि गयः गयस्य नयस्तस्य विराटः ६० तस्यापि महावीर्यस्ततः सुधीमान् धीमतो महान् महतो भौमनो भौमनस्य त्वष्टा त्वष्टुर्विरजाः तस्य राजो राजस्य शतजित् । ६३ तस्य पुत्रशतं जज्ञे तेनेमा वर्द्धिताः प्रजाः । तैरिदं भारतं वर्षं सप्तद्वीपं समाङ्कितम् ॥ ७४.६॥ तेषां वंशप्रसूत्या तु भुक्तेयं भारती प्रजा । कृतत्रेतादियुक्त्या तु युगाख्या ह्येकसप्ततिः ॥ ७४.७॥ भुवनस्य प्रसङ्गेन मन्वन्तरमिदं शुभम् । स्वायंभुवं च कथितं मनोर्द्वीपान्निबोधत ॥ ७४.८॥ ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे चतुःसप्ततितमोऽध्यायः ॥ ७४॥
रुद्र उवाच । अत ऊर्ध्वं प्रवक्ष्यामि जम्बूद्वीपं यथातथम् । संख्यां चापि समुद्राणां द्वीपानां चैव विस्तरम् ॥ ७५.१॥ यावन्ति चैव वर्षाणि तेषु नद्यश्च याः स्मृताः । महाभूतप्रमाणं च गतिं चन्द्रार्कयोः पृथक् ॥ ७५.२॥ द्वीपभेदसहस्त्राणि सप्तस्वन्तर्गतानि च । न शक्यन्ते क्रमेणेह वक्तुं यैर्विततं जगत् ॥ ७५.३॥ सप्तद्वीपान् प्रवक्ष्यामि चन्द्रादित्यग्रहैः सह । येषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते ॥ ७५.४॥ अचिन्त्याः खलु ये भावा न तांस्तर्केण साधयेत् । प्रकृतिभ्यः परं यच्च तदचिन्त्यं विभाव्यते ॥ ७५.५॥ नव वर्षं प्रवक्ष्यामि जम्बूद्वीपं यथातथम् । विस्तरान्मण्डलाच्चैव योजनैस्तन्निबोधत ॥ ७५.६॥ शतमेकं सहस्त्राणां योजनानां समन्ततः । नानाजनपदाकीर्णं योजनैर्विविधैः शुभैः ॥ ७५.७॥ सिद्धचारणसंकीर्णं पर्वतैरुपशोभितम् । सर्वधातुविवृद्धैश्च शिलाजालसमुद्भवैः । पर्वतप्रभवाभिश्च नदीभिः सर्वतश्चितम् ॥ ७५.८॥ जम्बूद्वीपः पृथुः श्रीमान् सर्वतः परिमण्डलः । नवभिश्चावृतः श्रीमान् भुवनैर्भूतभावनः ॥ ७५.९॥ लवणेन समुद्रेण सर्वतः परिवारितः । जम्बूद्वीपस्य विस्तारात् समेन तु समन्ततः ॥ ७५.१०॥ तस्य प्रागायता दीर्घा षडेते वर्षपर्वताः । उभयत्रावगाढाश्च समुद्रौ पूर्वपश्चिमौ ॥ ७५.११॥ हिमप्रायश्च हिमवान् हेमकूटश्च हेमवान् । सर्वत्र सुसुखश्चापि निषधः पर्वतो महान् ॥ ७५.१२॥ चतुर्वर्णःस सौवर्णो मेरुश्चोल्बमयो गिरिः । वृत्ताकृतिप्रमाणश्च चतुरस्त्रः समुच्छितः ॥ ७५.१३॥ नानावर्णस्तु पार्श्वेषु प्रजापतिगुणान्वितः । नाभिमण्डलसंभूतो ब्रह्मणः परमेष्ठिनः ॥ ७५.१४॥ पूर्वतः श्वेतवर्णस्तु ब्रह्मण्यं तेन तस्य तत् । पीतश्च दक्षिणेनासौ तेन वैश्यत्वमिष्यते ॥ ७५.१५॥ भृङ्गपत्रनिभश्चासौ पश्चिमेन यतोऽथ सः । तेनास्य शूद्रता प्रोक्ता मेरोर्नामार्थकर्मणः ॥ ७५.१६॥ पार्श्वमुत्तरतस्तस्य रक्तवर्णं विभाव्यते । तेनास्य क्षत्रभावः स्यादिति वर्णाः प्रकीर्तिताः ॥ ७५.१७॥ वृत्तः स्वभावतः प्रोक्तो वर्णतः परिमाणतः । नीलश्च वैदूर्यमयः श्वेतशुक्लो हिरण्मयः । मयूरबर्हिवर्णस्तु शातकौम्भश्च श्रृङ्गवान् ॥ ७५.१८॥ एते पर्वतराजानः सिद्धचारणसेविताः । तेषामन्तरविष्कम्भो नवसाहस्र उच्यते ॥ ७५.१९॥ मध्ये त्विलावृतं नाम महामेरोः स संभवः । नवैव तु सहस्त्राणि विस्तीर्णः सर्वतश्च सः ॥ ७५.२०॥ मध्यं तस्य महामेरुर्विधूम इव पावकः । वेद्यर्द्धं दक्षिणं मेरोरुत्तरार्द्धं तथोत्तरम् ॥ ७५.२१॥ वर्षाणि यानि षडत्र तेषां ते वर्षपर्वताः । योजनाग्रं तु वर्षाणां सर्वेषां तद् विधीयते ॥ ७५.२२॥ द्वे द्वे वर्षे सहस्त्राणां योजनानां समुच्छ्रयः । जम्बूद्वीपस्य विस्तारस्तेषामायाम उच्यते ॥ ७५.२३॥ योजनानां सहस्त्राणि शतौ द्वौ चायतौ गिरी । नीलश्च निषधश्चैव ताभ्यां हीनाश्च ये परे । श्वेतश्च हेमकूटश्च हिमवाञ्छृङ्गवांश्च यः ॥ ७५.२४॥ जम्बूद्वीपप्रमाणेन निषधः परिकीर्तितः । तस्माद् द्वादशभागेन हेमकूटः प्रहीयते । हिमवान् विंशभागेन हेमकूटात् प्रहीयते ॥ ७५.२५॥ अष्टाशीतिसहस्त्राणि हेमकूटो महागिरिः । अशीतिर्हिमवान् शैल आयतः पूर्वपश्चिमे ॥ ७५.२६॥ द्वीपस्य मण्डलीभावाद् ह्रासवृद्धी प्रकीर्त्यते । वर्षाणां पर्वतानां च यथा चेमे तथोत्तरम् ॥ ७५.२७॥ तेषां मध्ये जनपदास्तानि वर्षाणि चैव तत् । प्रपातविषमैस्तैस्तु पर्वतैरावृतानि तु ॥ ७५.२८॥ संततानि नदीभेदैरगम्यानि परस्परम् । वसन्ति तेषु सत्त्वानि नानाजातीनि सर्वशः ॥ ७५.२९॥ एतद्धैमवतं वर्षं भारती यत्र सन्ततिः । हेमकूटं परं यत्र नाम्ना किंपुरुषोत्तमः ॥ ७५.३०॥ हेमकूटात् तु निषधं हरिवर्षं तदुच्यते । हरिवर्षात् परं चैव मेरुपार्श्व इलावृतम् ॥ ७५.३१॥ इलावृतात् परं नीलं रम्यकं नाम विश्रुतम् । रम्यकाच्च परं श्वेतं विश्रुतं तद्धिरण्मयम् । हिरण्मयात् परं चैव श्रृङ्गवन्तं कुरु स्मृतम् ॥ ७५.३२॥ धनुःसंस्थे तु द्वे वर्षे विज्ञेये दक्षिणोत्तरे । द्वीपानि खलु चत्वारि चतुरस्त्रमिलावृतम् ॥ ७५.३३॥ अर्वाक् च निषधस्याथ वेद्यर्धं दक्षिणं स्मृतम् । परं श्रृङ्गवतो यच्च वेद्यर्धं हि तदुत्तरम् ॥ ७५.३४॥ वेद्यर्द्धे दक्षिणे त्रीणि वर्षाणि त्रीणि चोत्तरे । तयोर्मध्ये तु विज्ञेयो यत्र मेरुस्त्विलावृतः ॥ ७५.३५॥ दक्षिणेन तु नीलस्य निषधस्योत्तरेण च । उदगायतो महाशैलो माल्यवान्नाम पर्वतः ॥ ७५.३६॥ योजनानां सहस्त्रे द्वे विष्कम्भोच्छ्रय एव च । आयामतश्चतुस्त्रिंशत् सहस्त्राणि प्रकीर्तितः ॥ ७५.३७॥ तस्य प्रतीच्यां विज्ञेयः पर्वतो गन्धमादनः । आयामोच्छ्रयविस्तारात् तुल्यो माल्यवता तु सः ॥ ७५.३८॥ परिमण्डलस्तयोर्मध्ये मेरुः कनकपर्वतः । चतुर्वर्णः ससौवर्णश्चतुरस्त्रः समुच्छ्रितः ॥ ७५.३९॥ अव्यक्ता धातवः सर्वे समुत्पन्ना जलादयः । अव्यक्तात् पृथिवीपद्मं मेरुस्तस्य च कर्णिका ॥ ७५.४०॥ चतुष्पत्रं समुत्पन्नं व्यक्तं पञ्चगुणं महत् । ततः सर्वाः समुद्भूता वितता हि प्रवृत्तयः ॥ ७५.४१॥ अनेककल्पजीवद्भिः पुरुषैः पुण्यकारिभिः । कृतात्मभिर्महात्मभिः प्राप्यते पुरुषोत्तमः ॥ ७५.४२॥ महायोगी महादेवो जगद्ध्येयो जनार्दनः । सर्वलोकगतोऽनन्तो व्यापको मूर्त्तिरव्ययः ॥ ७५.४३॥ न तस्य प्राकृता मूर्तिर्मांसमेदोऽस्थिसंभवा । योगित्वाच्चेश्वरत्वाच्च सत्त्वरूपधरो विभुः ॥ ७५.४४॥ तन्निमित्तं समुत्पन्नं लोके पद्मं सनातनम् । कल्पशेषस्य तस्यादौ कालस्य गतिरीदृशी ॥ ७५.४५॥ तस्मिन् पद्मे समुत्पन्नो देवदेवश्चतुर्मुखः । प्रजापतिपतिर्देव ईशानो जगतः प्रभुः ॥ ७५.४६॥ तस्य बीजनिसर्गं हि पुष्करस्य यथार्थवत् । कृत्स्नं प्रजानिसर्गेण विस्तरेणैव वर्ण्यते ॥ ७५.४७॥ तदम्बु वैष्णवः कायो यतो रत्नविभूषितः । पद्माकारा समुत्पन्ना पृथिवी सवनद्रुमा ॥ ७५.४८॥ तत् तस्य लोकपद्मस्य विस्तरं सिद्धभाषितम् । वर्ण्यमानं विभागेन क्रमशः श्रृणुत द्विजाः ॥ ७५.४९॥ महावर्षाणि ख्यातानि चत्वार्यत्र च संस्थिताः । तत्र पर्वतसंस्थानो मेरुर्नाम महाबलः ॥ ७५.५०॥ नानावर्णः स पार्श्वेषु पूर्वतः श्वेत उच्यते । पीतं च दक्षिणं तस्य भृङ्गवर्णं तु पश्चिमम् ॥ ७५.५१॥ उत्तरं रक्तवर्णं तु तस्य पार्श्वं महात्मनः । मेरुस्तु शोभते शुक्लो राजवंशे तु धिष्ठितः ॥ ७५.५२॥ तरुणादित्यसंकाशो विधूम इव पावकः । योजनानां सहस्त्राणि चतुराशीतिरुच्छ्रितः ॥ ७५.५३॥ प्रविष्टः षोडशाधस्ताद्विस्तृतः षोडशैव तु । शरावसंस्थितत्वाच्च द्वात्रिंशन्मूर्ध्नि विस्तृतः ॥ ७५.५४॥ विस्तारस्त्रिगुणश्चास्य परिणाहः समन्ततः । मण्डलेन प्रमाणेन व्यस्यमानं तदिष्यते ॥ ७५.५५॥ नवतिश्च सहस्त्राणि योजनानां समन्ततः । ततः षट्काधिकानां च व्यस्यमानं प्रकीर्त्तितम् । चतुरस्त्रेण मानेन परिणाहः समन्ततः ॥ ७५.५६॥ स पर्वतो महादिव्यो दिव्यौषधिसमन्वितः । सवनैरावृतः सर्वो जातरूपमयैः शुभैः ॥ ७५.५७॥ तत्र देवगणाः सर्वे गन्धर्वोरगराक्षसाः । शैलराजे प्रमोदन्ते तथैवाप्सरसां गणाः ॥ ७५.५८॥ स तु मेरुः परिवृतो भवनैर्भूतभावनैः । चत्वारो यस्य देशास्तु नानापार्श्वेषु धिष्ठिताः ॥ ७५.५९॥ भद्राश्वो भारतश्चैव केतुमालश्च पश्चिमे । उत्तरे कुरवश्चैव कृतपुण्यप्रतिश्रयाः ॥ ७५.६०॥ कर्णिका तस्य पद्मस्य समन्तात् परिमण्डला । योजनानां सहस्त्राणि योजनानां प्रमाणतः ॥ ७५.६१॥ तस्य केसरजालानि नवषट् च प्रकीर्त्तिताः । चतुरशीतिरुत्सेधो विवरान्तरगोचराः ॥ ७५.६२॥ त्रिंशच्चापि सहस्त्राणि योजनानां प्रमाणतः । तस्य केसरजालानि विकीर्णानि समन्ततः ॥ ७५.६३॥ शतसाहस्रमायाममशीतिः पृथुलानि च । चत्वारि तत्र पर्णानि योजनानां चतुर्दश ॥ ७५.६४॥ तत्र या सा मया तुभ्यं कर्णिकेत्यभिविश्रुता । तां वर्ण्यमानामेकाग्र्यात् समासेन निबोधत । मणिपर्णशतैश्चित्रां नानावर्णप्रभासिताम् ॥ ७५.६५॥ अनेकपर्णनिचयं सौवर्णमरुणप्रभम् । कान्तं सहस्रपर्वाणं सहस्त्रोदरकन्दरम् । सहस्रशतपत्रं च वृत्तमेकं नगोत्तमम् ॥ ७५.६६॥ मणिरत्नार्पितश्वभ्रैर्मणिभिश्चित्रवेदिकम् । सुवर्णमणिचित्राङ्गैर्मणिचर्चिततोरणैः ॥ ७५.६७॥ तत्र ब्रह्मसभा रम्या ब्रह्मर्षिजनसंकुला । नाम्ना मनोव्रती नाम सर्वलोकेषु विश्रुता ॥ ७५.६८॥ तत्रेशानस्य देवस्य सहस्त्रादित्यवर्चसः । महाविमानसंस्थस्य महिमा वर्त्तते सदा ॥ ७५.६९॥ तत्र सर्वे देवगणाश्चतुर्वक्त्रं स्वयं प्रभुम् । इष्ट्वा पूज्यनमस्कारैरर्चनीयमुपस्थिताः ॥ ७५.७०॥ यैस्तदा दिहसंकल्पैर्ब्रह्मचर्यं महात्मभिः । चीर्णं चारुमनोभिश्च सदाचारपथि स्थितैः ॥ ७५.७१॥ सम्यगिष्ट्वा च भुक्त्वा च पितृदेवार्चने रताः । गृहाश्रमपरास्तत्र विनीता अतिथिप्रियाः ॥ ७५.७२॥ गृहिणः शुक्लकर्मस्था विरक्ताः कारणात्मकाः । यमैर्नियमदानैश्च दृढनिर्दग्धकिल्बिषाः ॥ ७५.७३॥ तेषां निवसनं शुक्लब्रह्मलोकमनिन्दितम् । उपर्युपरि सर्वासां गतीनां परमा गतिः । चतुर्दशसहस्त्राणि योजनानां तु कीर्त्तितम् ॥ ७५.७४॥ ततोर्द्धरुचिरे कृष्णे तरुणादित्यवर्चसि । महागिरौ ततो रम्ये रत्नधातुविचित्रिते ॥ ७५.७५॥ नैकरत्नसमावासे मणितोरणमन्दिरे । मेरोः सर्वेषु पार्श्वेषु समन्तात् परिमण्डले ॥ ७५.७६॥ त्रिंशद्योजनसाहस्रं चक्रपाटो नगोत्तमः । जारुधिश्चैव शैलेन्द्र इत्येते उत्तराः स्मृताः ॥ ७५.७७॥ एतेषां शैलमुख्यानामुत्तरेषु यथाक्रमः । स्थलीरन्तरद्रोण्यश्च सरांसि च निबोधत ॥ ७५.७८॥ दशयोजनविस्तीर्णा चक्रपाटोपनिर्गता । सा तूद्र्ध्ववाहिनी चापि नदी भूमौ प्रतिष्ठिता ॥ ७५.७९॥ सा पुर्याममरावत्यां क्रममाणेन्दुरा प्रभौ । तया तिरस्कृता वाऽपि सूर्येन्दुज्योतिषां गणाः ॥ ७५.८०॥ उदयास्तमिते सन्ध्ये ये सेवन्ते द्विजोत्तमाः । तान् तुष्यन्ते द्विजाः सर्वानष्टावप्यचलोत्तमान् ॥ ७५.८१॥ परिभ्रमज्ज्योतिषां या सा रुद्रेन्द्रमता शुभा ॥ ७५.८२॥ ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे पञ्चसप्ततितमोऽध्यायः ॥ ७५॥
रुद्र उवाच । तस्यैव मेरोः पूर्वे तु देशे परमवर्चसे । चक्रवाटपरिक्षिप्ते नानाधातुविराजिते ॥ ७६.१॥ तत्र सर्वामरपुरं चक्रवाटसमुद्धतम् । दुर्धर्षं बलदृप्तानां देवदानवरक्षसाम् । तत्र जाम्बूनदमयः सुप्राकारः सुतोरणः ॥ ७६.२॥ तस्याप्युत्तरपूर्वे तु देशे परमवर्चसे । अलोकजनसम्पूर्णा विमानशतसंकुला ॥ ७६.३॥ महावापिसमायुक्ता नित्यं प्रमुदिता शुभा । शोभिता पुष्पशबलैः पताकाध्वजमालिनी ॥ ७६.४॥ देवैर्यक्षोप्सरोभिश्च ऋषिभिश्च सुशोभिता । पुरन्दरपुरी रम्या समृद्धा त्वमरावती ॥ ७६.५॥ तस्या मध्येऽमरावत्या वज्रवैदूर्यवेदिका । त्रैलोक्यगुणविख्याता सुधर्मा नाम वै सभा ॥ ७६.६॥ तत्रास्ते श्रीपतेः श्रीमान् सहस्त्राक्षः शचीपतिः । सिद्धादिभिः परिवृतः सर्वाभिर्देवयोनिभिः ॥ ७६.७॥ तत्र चैव सुवंशः स्याद् भास्करस्य महात्मनः । साक्षात् तत्र सुराध्यक्षः सर्वदेवनमस्कृतः ॥ ७६.८॥ तस्याश्च दिक्षु विस्तीर्णा तत्तद्गुणसमन्विता । तेजोवती नाम पुरी हुताशस्य महात्मनः ॥ ७६.९॥ तत्तद्गुणवती रम्या पुरी वैवस्वतस्य च । नाम्ना संयमनी नाम पुरी त्रैलोक्यविश्रुता ॥ ७६.१०॥ तथा चतुर्थे दिग्भागे नैरृताधिपतेः शुभा । नाम्ना कृष्णावती नाम विरूपाक्षस्य धीमतः ॥ ७६.११॥ पञ्चमे ह्युत्तरपुटे नाम्ना शुद्धवती पुरी । उदकाधिपतेः ख्याता वरुणस्य महात्मनः ॥ ७६.१२॥ तथा पञ्चोत्तरे देवस्वस्योत्तरपुटे पुरी । वायोर्गन्धवती नाम ख्याता सर्वगुणोत्तरा ॥ ७६.१३॥ तस्योत्तरपुटे रम्या गुह्यकाधिपतेः पुरी । नाम्ना महोदया नाम शुभा वैदूर्यवेदिका ॥ ७६.१४॥ तथाष्टमेऽन्तरपुटे ईशानस्य महात्मनः । पुरी मनोहरा नाम भूतैर्नानाविधैर्युता । पुष्पैर्धन्यैश्च विविधैर्वनैराश्रमसंस्थितैः ॥ ७६.१५॥ प्रार्थ्यते देवलोकोऽयं स स्वर्ग इति कीर्तितः ॥ ७६.१६॥ ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे षट्सप्ततितमोऽध्यायः ॥ ७६॥
रुद्र उवाच । यदेतत् कर्णिकामूलं मेरोर्मध्यं प्रकीर्तितम् । तद् योजनसहस्त्राणि संख्यया मानतः स्मृतम् ॥ ७७.१॥ चत्वारिंशत् तथा चाष्टौ सहस्त्राणि तु मण्डलैः । शैलराजस्य तत्तत्र मेरुमूलमिति स्मृतम् ॥ ७७.२॥ तेषां गिरिसहस्त्राणामनेकानां महोच्छ्रयः । दिगष्टौ च पुनस्तस्य मर्यादापर्वताः शुभाः ॥ ७७.३॥ जठरो देवकूटश्च पूर्वस्यां दिशि पर्वतौ । पूर्वपश्चायतावेतावर्णवान्तर्व्यवस्थितौ । मर्यादापर्वतानेतानष्टानाहुर्मनीषिणः ॥ ७७.४॥ योऽसौ मेरुर्द्विजश्रेष्ठाः प्रोक्तः कनकपर्वतः । विष्कम्भांस्तस्य वक्ष्यामि श्रृणुध्वं गदतस्तु तान् ॥ ७७.५॥ महापादास्तु चत्वारो मेरोरथ चतुर्दिशम् । यैर्न चचाल विष्टब्धा सप्तद्वीपवती मही ॥ ७७.६॥ दशयोजनसाहस्रं व्यायामस्तेषु शङ्क्यते । तिर्यगूर्ध्वं च रचिता हरितालतटैर्वृताः ॥ ७७.७॥ मनःशिलादरीभिश्च सुवर्णमणिचित्रिताः ॥अ अनेकसिद्धभवनैः क्रीडास्थानैश्च सुप्रभाः ॥ ७७.८॥ पूर्वेण मन्दरस्तस्य दक्षिणे गन्धमादनः । विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्थितः ॥ ७७.९॥ तेषां श्रृङ्गेषु चत्वारो महावृक्षाः प्रतिष्ठिताः । देवदैत्याप्सरोभिश्च सेविता गुणसंचयैः ॥ ७७.१०॥ मन्दरस्य गिरेः श्रृङ्गे कदम्बो नाम पादपः । प्रलम्बशाखाशिखरः कदम्बश्चैत्यपादपः ॥ ७७.११॥ महाकुम्भप्रमाणेश्च पुष्पैर्विकचकेसरैः । महागन्धबनोज्ञैश्च शोभितः सर्वकालजैः ॥ ७७.१२॥ समासेन परिवृतो भुवनैर्भूतभावनैः । सहस्रमधिकं सोऽथ गन्धेनापूरयन् दिशः ॥ ७७.१३॥ भद्राश्वो नाम वृक्षोऽयं वर्षाद्रेः केतुसंभवः । कीर्तिमान् रूपवाञ्छ्रीमान् महापादपपादपः । यत्र साक्षाद्धृषीकेशः सिद्धसङ्घैर्निषेव्यते ॥ ७७.१४॥ तस्य भद्रकदम्बस्य तथाश्ववदनो हरिः । प्राप्तवांश्चामरश्रेष्ठः स हि सानुं पुनः पुनः ॥ ७७.१५॥ तेन चालोकितं वर्षं सर्वद्विपदनायकाः । यस्य नाम्ना समाख्यातो भद्राश्वेति न संशयः ॥ ७७.१६॥ दक्षिणस्यापि शैलस्य शिखरे देवसेविते । जम्बूः सद्यः पुष्पफला महाशाखोपशोभिता ॥ ७७.१७॥ तस्या ह्यतिप्रमाणानि स्वादूनि च मृदूनि च । फलान्यमृतकल्पानि पतन्ति गिरिमूर्धनि ॥ ७७.१८॥ तस्माद् गिरिवरश्रेष्ठात् फलप्रस्यन्दवाहिनी । दिव्या जाम्बूनदी नाम प्रवृत्ता मधुवाहिनी ॥ ७७.१९॥ तत्र जाम्बूनदं नाम सुवर्णमनलप्रभम् । देवालङ्कारमतुलमुत्पन्नं पापनाशनम् ॥ ७७.२०॥ देवदानवगन्धर्वयक्षराक्षसगुह्यकाः । पपुस्तदमृतप्रख्यं मधु जम्बूफलस्त्रवम् ॥ ७७.२१॥ सा केतुर्दक्षिणे वर्षे जम्बूर्लोकेषु विश्रुता । यस्या नाम्ना समाख्याता जम्बूद्वीपेति मानवैः ॥ ७७.२२॥ विपुलस्य च शैलस्य दक्षिणेन महात्मनः । जातः श्रृङ्गेति सुमहानश्वत्थश्चेति पादपः ॥ ७७.२३॥ महोच्छ्रायो महास्कन्धो नैकसत्त्वगुणालयः । कुम्भप्रमाणै रुचिरैः फलैः सर्वर्त्तुकैः शुभैः ॥ ७७.२४॥ स केतुः केतुमालानां देवगन्धर्वसेवितः । केतुमालेति विख्यातो नाम्ना तत्र प्रकीर्तितः । तन्निबोधत विप्रेन्द्रा निरुक्तं नामकर्मणः ॥ ७७.२५॥ क्षीरोदमथने वृत्ते माला स्कन्धे निवेशिताः । इन्द्रेण चैत्यकेतोस्तु केतुमालस्ततः स्मृतः । तेन तच्चिह्नितं वर्षं केतुमालेति विश्रुतम् ॥ ७७.२६॥ सुपार्श्वस्योत्तरे श्रृङ्गे वटो नाम महाद्रुमः । न्यग्रोधो विपुलस्कन्धो यस्त्रियोजनमण्डलः ॥ ७७.२७॥ माल्यदामकलापैश्च विविधैस्तु समन्ततः । शाखाभिर्लम्बमानाभिः शोभितः सिद्धसेवितः ॥ ७७.२८॥ प्रलम्बकुम्भसदृशैर्हेमवर्णैः फलैः सदा । स ह्युत्तरकुरूणां तु केतुवृक्षः प्रकाशते ॥ ७७.२९॥ सनत्कुमारावरजा मानसा ब्रह्मणः सुताः । सप्त तत्र महाभागाः कुरवो नाम विश्रुताः ॥ ७७.३०॥ तत्र स्थिरगतैर्ज्ञानैर्विरजस्कैर्महात्मभिः । अक्षयः क्षयपर्यन्तो लोकः प्रोक्तः सनातनः ॥ ७७.३१॥ तेषां नामाङ्कितं वर्षं सप्तानां वै महात्मनाम् । दिवि चेह च विख्याता उत्तराः कुरवः सदा ॥ ७७.३२॥ ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे सप्तसप्ततितमोऽध्यायः ॥ ७७॥
रुद्र उवाच । तथा चतुर्णां वक्ष्यामि शैलेन्द्राणां यथाक्रमम् । अनुविध्यानि रम्याणि विहङ्गैः कूजितानि च ॥ ७८.१॥ अनेकपक्षियुक्तात्मश्रृङ्गाणि सुबहूनि च । देवानां दिव्यनारीभिः समं क्रीडामयानि च ॥ ७८.२॥ किन्नरोद्गीतघुष्टानि शीतमन्दसुगन्धिभिः । पवनैः सेव्यमानानि रमणीयतराणि च ॥ ७८.३॥ चतुर्द्दिक्षु विराजन्ते नामतः श्रृणुतानघाः । पूर्वे चैत्ररथं नाम दक्षिणे गन्धमादनम् । प्रभावेण सुतोयानि नवखण्डयुतानि च ॥ ७८.४॥ वनषण्डांस्तथाक्रम्य देवता ललनायुताः । यत्र क्रीडन्ति चोद्देशे मुदा परमया युताः ॥ ७८.५॥ अनुबन्धानि रम्याणि विहगैः कूजितानि च । रत्नोपकीर्णतिर्थानि महापुण्यजलानि च ॥ ७८.६॥ अनेकजलयन्त्रैश्च नादितानि महान्ति च । शाखाभिर्लम्बमानाभी रुवत्पक्षिकुलालिभिः ॥ ७८.७॥ कमलोत्पलकह्लारशोभितानि सरांसि च । चतुर्षु तेषु गिरिषु नानागुणयुतेषु च ॥ ७८.८॥ अरुणोदं तु पूर्वेण दक्षिणे मानसं स्मृतम् । असितोदं पश्चिमे च महाभद्रं तथोत्तरे । कुमुदैः श्वेतकपिलैः कह्लारैर्भूषितानि च ॥ ७८.९॥ अरुणोदयस्य ये शैलाः प्राच्या वै नामतः स्मृताः । तान् कीर्त्त्यमानांस्तत्त्वेन श्रृणुध्वं गदतो मम ॥ ७८.१०॥ विकङ्को मणिश्रृङ्गश्च सुपात्रश्चोपलो महान् । महानीलोऽथ कुम्भश्च सुबिन्दुर्मदनस्तथा ॥ ७८.११॥ वेणुनद्धः सुमेदाश्च निषधो देवपर्वतः । इत्येते पर्वतवराः पुण्याश्च गिरयोऽपरे ॥ ७८.१२॥ पूर्वेण मन्दरात् सिद्धाः पर्वताश्च मदायुताः । सरसो मानसस्येह दक्षिणेन महाचलाः ॥ ७८.१३॥ ये कीर्त्तिता मया तुभ्यं नामतस्तान् निबोधत । शैलस्त्रिशिरश्चैव शिशिरश्चाचलोत्तमः ॥ ७८.१४॥ कपिश्च शतमक्षश्च तुरगश्चैव सानुमान् । ताम्राहश्च विषश्चैव तथा श्वेतोदनो गिरिः ॥ ७८.१५॥ समूलश्चैव सरलो रत्नकेतुश्च पर्वतः । एकमूलो महाश्रृङ्गो गजमूलोऽपि शावकः ॥ ७८.१६॥ पञ्चशैलश्च कैलासो हिमवानचलोत्तमः । उत्तरा ये महाशैलास्तान् वक्ष्यामि निबोधत ॥ ७८.१७॥ कपिलः पिङ्गलो भद्रः सरसश्च महाचलः । कुमुदो मधुमांश्चैव गर्जनो मर्कटस्तथा ॥ ७८.१८॥ कृष्णश्च पाण्डवश्चैव सहस्रशिरसस्तथा । पारियात्रश्च शैलेन्द्रः श्रृङ्गवानचलोत्तमः । इत्येते पर्वतवराः श्रीमन्तः पश्चिमे स्मृताः ॥ ७८.१९॥ महाभद्रस्य सरस उत्तरेण द्विजोत्तमाः । ये पर्वताः स्थिता विप्रास्तान् वक्ष्यामि निबोधत ॥ ७८.२०॥ हंसकूटो महाशैलो वृषहंसश्च पर्वतः । कपिञ्जलश्च शैलेन्द्र इन्द्रशैलश्च सानुमान् ॥ ७८.२१॥ नीलः कनकश्रृङ्गश्च शतश्रृङ्गश्च पर्वतः । पुष्करो मेघशैलोऽथ विरजाश्चाचलोत्तमः । जारुचिश्चैव शैलेन्द्र इत्येते उत्तराः स्मृताः ॥ ७८.२२॥ इत्येतेषां तु मुख्यानामुत्तरेषु यथाक्रमम् । स्थलीरन्तरद्रोण्यश्च सरांसि च निबोधत ॥ ७८.२३॥ ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे अष्टसप्ततितमोऽध्यायः ॥ ७८॥
रुद्र उवाच । सीतान्तस्याचलेन्द्रस्य कुमुदस्यान्तरेण च । द्रोण्यां विहङ्गपुष्टायां नानासत्त्वनिषेवितम् ॥ ७९.१॥ त्रियोजनशतायामं शतयोजनविस्तृतम् । सुरसामलपानीयं रम्यं तत्र सुरोचनम् ॥ ७९.२॥ द्रोणमात्रप्रमाणैश्च पुण्डरीकैः सुगन्धिभिः । सहस्रशतपत्रैश्च महापद्मैरलङ्कृतम् ॥ ७९.३॥ देवदानवगन्धर्वैर्महासर्पैरधिष्ठितम् । पुण्यं तच्छ्रीसरो नाम सप्रकाशमिहेह च ॥ ७९.४॥ प्रसन्नसलिलैः पूर्णं शरण्यं सर्वदेहिनाम् । तत्र त्वेकं महापद्मं मध्ये पद्मवनस्य च ॥ ७९.५॥ कोटिपत्रप्रकलितं तरुणादित्यवर्चसम् । नित्यं व्याकोशमधुरं चलत्वादतिमण्डलम् ॥ ७९.६॥ चारुकेसरजालाढ्यं मत्तभ्रमरनादितम् । तस्मिन् मध्ये भगवती साक्षात् श्रीर्नित्यमेव हि । लक्ष्मीस्तु तं तदावासं मूर्त्तिमन्तं न संशयः ॥ ७९.७॥ सरसस्तस्य तीरे तु तस्मिन् सिद्धनिषेवितम् । सदा पुष्पफलं रम्यं तत्र बिल्ववनं महत् ॥ ७९.८॥ शतयोजनविस्तीर्णं द्वियोजनशतायतम् । अर्द्धक्रोशोच्चशिखरैर्महावृक्षैः समन्ततः । शाखासहस्रकलितैर्महास्कन्धैः समाकुलम् ॥ ७९.९॥ फलैः सहस्रसङ्काशैः हरितैः पाण्डुरैस्तथा । अमृतस्वादुसदृशैर्भेरीमात्रैः सुगन्धिभिः ॥ ७९.१०॥ शीर्यद्भिश्च पतद्भिश्च कीर्णभूमिवनान्तरम् । नाम्ना तच्छ्रीवनं नाम सर्वलोकेषु विश्रुतम् ॥ ७९.११॥ देवादिभिः समाकीर्णमष्टाभिः ककुभिः शुभम् । बिल्वाशिभिश्च मुनिभिः सेवितं पुण्यकारिभिः । तत्र श्रीः संस्थिता नित्यं सिद्धसङ्घनिषेविता ॥ ७९.१२॥ एकैकस्याचलेन्द्रस्य मणिशैलस्य चान्तरम् । शतयोजनविस्तीर्णं द्वियोजनशतायतम् ॥ ७९.१३॥ विमलं पङ्कजवनं सिद्धचारणसेवितम् । पुष्पं लक्ष्म्या धृतं भाति नित्यं प्रज्वलतीव ह ॥ ७९.१४॥ अर्द्धक्रोशं च शिखरैर्महास्कन्धैः समावृतम् । प्रफुल्लशाखाशिखरं पिञ्जरं भाति तद्वनम् ॥ ७९.१५॥ द्विबाहुपरिणाहैस्तैस्त्रिहस्तायामविस्तृतैः । मनःशिलाचूर्णनिभैः पाण्डुकेसरशालिभिः ॥ ७९.१६॥ पुष्पैर्मनोहरैर्व्याप्तं व्याकोशैर्गन्धशोभिभिः । विराजति वनं सर्वं मत्तभ्रमरनादितम् ॥ ७९.१७॥ तद्वनं दानवैर्दैत्यैर्गन्धर्वैर्यक्षराक्षसैः । किन्नरैरप्सरोभिश्च महाभोगैश्च सेवितम् ॥ ७९.१८॥ तत्राश्रमो भगवतः कश्यपस्य प्रजापतेः । सिद्धसाधुगणाकीर्णं नानाश्रमसमाकुलम् ॥ ७९.१९॥ महानीलस्य मध्ये तु कुम्भस्य च गिरेस्तथा । मध्ये सुखा नदी नाम तस्यास्तीरे महद्वनम् ॥ ७९.२०॥ पञ्चाशद्योजनायामं त्रिंशद्योजनमण्डलम् । रम्यं तालवनं श्रीमत् क्रोशार्द्धोच्छ्रितपादपम् ॥ ७९.२१॥ महाबलैर्महासारैः स्थिरैरविचलैः शुभैः । महदञ्जनसंस्थानैः परिवृत्तैर्महाफलैः ॥ ७९.२२॥ मृष्टगन्धगुणोपेतैरुपेतं सिद्धसेवितम् । ऐरावतस्य करिणस्तत्रैव समुदाहृतम् ॥ ७९.२३॥ ऐरावतस्य रुद्रस्य देवशैलस्य चान्तरे । सहस्रयोजनायामा शतयोजनविस्तृता ॥ ७९.२४॥ सर्वा ह्येकशिला भूमिर्वृक्षवीरुधवर्जिता । आप्लुता पादमात्रेण सलिलेन समन्ततः ॥ ७९.२५॥ इत्येताभ्यन्तरद्रोण्यो नानाकाराः प्रकीर्त्तिताः । मेरोः पार्श्वेन विप्रेन्द्रा यथावदनुपूर्वशः ॥ ७९.२६॥ ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे एकोनाशीतितमोऽध्यायः ॥ ७९॥
रुद्र उवाच । अथ दक्षिणदिग्व्यवस्थिताः पर्वतद्रोण्यः सिद्धाचरिताः कीर्त्यन्ते । शिशिरपतङ्गयोर्मध्ये शुक्लभूमिस्त्रिया मुक्तलतागलितपादपम् । इक्षुक्षेपे च शिखरे पादपैरुपशोभितम् । उदुम्बरवनं रम्यं पक्षिसङ्घनिषेवितम् ॥ ८०.१॥ फलितं तद् वनं भाति महाकूर्मोपमैः फलैः॥ तद् वनं देवयोन्योऽष्टौ सेवन्ते सर्वदैव ॥ ८०.२॥ वराहपुराण ॥ ८०.३॥ तत्र प्रसन्नस्वादुसलिला बहूदका नद्यो वहन्ति । तत्राश्रमो भगवतः कर्दमस्य प्रजापतेः । नानामुनिजनाकीर्णस्तच्च शतयोजनमेकं परिमण्डलं वनं च । तथा च ताम्राभस्य शैलस्य पतङ्गस्य चान्तरे शतयोजनविस्तीर्णं द्विगुणायतं बालार्कसदृशराजीवपुण्रीकैः ?? समन्ततः सहस्रपत्रैरविरलैरलंकृतं महत् सरोऽनेकसिद्धगन्धर्वाध्युषितम् । तस्य च मध्ये महाशिखरः शतयोजनायामस्त्रिंशद्योजनविस्तीर्णोऽनेकधातुरत्नभूषितस्तस्य चोपरि महती रथ्या रत्नप्राकारतोरणा । तस्यां महद् विद्याधरपुरम् । तत्र पुलोमनामा विद्याधरराजः शतसहस्रपरीवारः । तथा च विखाखाचलेन्द्रस्य श्वेतस्य चान्तरे सरः । तस्य च पूर्वतीरे महदाम्रवनं कनकसंकाशैः फलैरतिसुगन्धिभिर्महाकुम्भमात्रैः सर्वतश्चितम् । देवगन्धर्वादयश्च तत्र निवसन्ति । सुमुलस्याचलेन्द्रस्य वसुधारस्य चान्तरे त्रिंशद्योजनविस्तीर्णे पञ्चाशद्योजनायते । बिल्वस्थली नाम । तत्र फलानि विद्रुमसंकाशानि तैश्च पतद्भिः स्थलमृत्तिका क्लिन्ना । तां च स्थलीं सुगुह्यकादयः सेवन्ते बिल्वफलाशिनः । तथा च वसुधाररत्नधारयोरन्तरे त्रिंशद्योजनविस्तीर्णं शतयोजनमायतं सुगन्धिकिंशुकवनं सदाकुसुमं यस्य गन्धेन वास्यते योजनशतम् । तत्र सिद्धाध्युषितं जलोपेतं च । तत्र चादित्यस्य देवस्य महदायतनम् । समासे मासे च भगवानवतरति सूर्यः प्रजापतिः । कालजनकं देवादयो नमस्यन्ति । तथा च पञ्चकूटस्य कैलासस्य चान्तरे सहस्रयोजनायामं विस्तीर्णं शतयोजनं हंसपाण्डुरं क्षुद्रसत्त्वैरनाधृष्यं स्वर्गसोपानमिव भूमण्डलम् । अथ पश्चिमदिग्भागे व्यवस्थिता गिरिद्रोण्यः कीर्त्यन्ते । सुपार्श्वशिखिशैलयोर्मध्ये समन्ताद् योजनशतमेकं भौमशिलातलं नित्यतप्तं दुःस्पर्शम् । तस्य मध्ये त्रिंशद्योजनविस्तीर्णं मण्डलं वह्निस्थानम् । स च सर्वकालमनिन्धनो भगवान् लोकक्षयकारी संवर्तको ज्वलते । अन्तरे च शैलवरयोः कुमुदाञ्जनयोः शतयोजनविस्तीर्णामातुलुङ्गस्थली सर्वसत्त्वानामगम्या । पीतवर्णैः फलैरावृता सती सा स्थली शोभते । तत्र च शैलयोः पिञ्जरगौरयोरन्तरेण सरोद्रोणी ह्यनेकशतयोजनायता महद्भिश्च षट्पदोद्घुष्टैः कुमुदैरुपशोभिता । तत्र च भगवतो विष्णोः परमेश्वरस्यायतनम् । तथा च शुक्लपाण्डुरयोरपि महागिर्योरन्तरे त्रिंशद्योजनविस्तीर्णो नवत्यायत एकः शिलोद्देशोवृक्षविवर्जितः । तत्र निष्पङ्का दीर्घिका सवृक्षा च स्थलपद्मिनी अनेकजातीयैश्च पद्मैः शोभिता । तस्याश्च मध्ये पञ्चयोजनप्रमाणो महान्यग्रोधवृक्षः । तस्मिंश्चन्द्रशेखरोमापतिर्नीलवासाश्च देवो निवसति यक्षादिभिरीड्यमानः । सहस्रशिखरस्य गिरेः कुमुदस्य चान्तरे पञ्चाशद्योजनायामं विंशद्योजनविस्तृतमिक्षुक्षेपोच्चशिखरमनेकपक्षिसेवितम् । अनेकवृक्षफलैर्मधुरस्त्रवैरुपशोभितम् । तत्र चेन्द्रस्य महानाश्रमो दिव्याभिप्रायनिर्मितः । तथा च शङ्खकूटऋषभयोर्मध्ये पुरुषस्थलीरम्याऽनेकगुणानेकयोजनायता बिल्वप्रमाणैः कङ्कोलकैः सुगन्धिभिरुपेता । तत्र पुरुषकरसोन्मत्ता नागाद्याः प्रतिवसन्ति । तथा कपिञ्जलनागशैलयोरन्तरे द्विशतयोजनमायामविस्तीर्णा शतयोजनस्थली नानावनविभूषिता द्राक्षाखर्जूरखण्डैरुपेता अनेकवृक्षवल्लीभिरनेकैश्च सरोभिरुपेता सा स्थली । तथा च पुष्करमहामेघयोरन्तरे षष्टियोजनविस्तीर्णा शतायामा पाणितलप्रख्या महती स्थली वृक्षवीरुधविवर्जिता ।तस्याश्च पार्श्वे चत्वारि महावनानि सरांसि चानेकयोजनानाम् ।दश पञ्च सप्त तथाष्टौ त्रिंशद् विंशति योजनानां स्थल्यो द्रोण्यश्च । तत्र काश्चिन्महाघोराः पर्वतकुक्षयः । ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे अशीतितमोऽध्यायः ॥ ८०॥
रुद्र उवाच । अतः परं पर्वतेषु देवानामवकाशा वर्ण्यन्ते । तत्र योऽसौ शान्ताख्यः पर्वतस्तस्योपरि महेन्द्रस्य क्रीडास्थानम् । तत्र देवराजस्य पारिजातकवृक्षवनम् । तस्य पूर्वपार्श्वे कुञ्जरो नाम गिरिः । तस्योपरि दानवानामष्टौ पुराणि च । तथा वज्रके पर्वतवरे राक्षसानामनेकानि पुराणि । ते च नाम्ना नीलकाः कामरूपिणः । महानीलेऽपि शैलेन्द्रपुराणि । पञ्चदशसहस्त्राणि किन्नराणां ख्यातानि । तत्र देवदत्तचन्द्रादयो राजानः । पञ्चदशकिन्नराणां गर्विताः । तानि सौवर्णानि बिलप्रवेशनानि च पुराणि । चन्द्रोदये च पर्वतवरे नागानामधिवासः । ते च बिलप्रवेशाः बिलेषु वैनतेयविषयावर्त्तिनो व्यवस्थितानुरागे च दानवेन्द्रा व्यवस्थिताः । वेणुमत्यपि विद्याधरपुरत्रयं । त्रिंशद्योजनशतविस्तीर्णमेकैकं तावदायतम् । उलूकरोमशमहावेत्रादयश्च राजानो विद्याधराणाम् । एकैके च शैलराजनि स्वयमेव गरुडो व्यवस्थितः । कुञ्जरे तु पर्वतवरे नित्यं पशुपतिः स्थितः । वृषभाङ्को महादेवः शंकरो योगिनां वरः अनेकगणभूतकोटिसहस्रवारो भगवान् अनादिपुरुषो व्यवस्थितः । वसुधारे च पुष्पवतां वसूनां च समावासः । वसुधाररत्नधारयोर्मूर्ध्नि अष्टौ सप्त च संख्यया । पुराणि वसुसप्तर्षीणां चेति । एकश्रृङ्गे च पर्वतोत्तमे प्रजापतेः स्थानं चतुर्वक्त्रस्य ब्रह्मणः । गजपर्वते च महाभूतपरिवृता स्वयमेव भगवती तिष्ठति । वसुधारे च पर्वतवरे मुनिसिद्धविद्याधराणामायतनम् । चतुराशीत्यपरपुर्यो महाप्राकारतोरणाः । तत्र चानेकपर्वता नाम गन्धर्वा युद्धशालिनो वसन्ति । तेषां चाधिपतिर्देवो राजराजैकपिङ्गलः । सुरराक्षसाः पञ्चकूटेदानवाः शतश्रृङ्गेयक्षाणां पुरशतम् । ताम्राभे तक्षकस्यपुरशतम् । विशखपर्वते गुहस्यायतनम् ।श्वेतोदये गिरिवरे महागन्धर्वभवनम् । हरिकूटे हरिर्देवः । कुमुदे किन्नरावासः । अञ्जने महोरगाः । सहस्रशिखरे च दैत्यानामुग्रकर्मिणामावासः । पुराणां सहस्रमेकं हेममालिनाम् मुकुटे पन्नप्रपक्षे पर्वतवरे चत्वार्यायतनानि तु । एवं मेरुपर्वतेषु देवानामधिवासः । मर्यादापर्वते देवकूटे पुरविन्यासः कीर्त्यते । तस्योपरि योजनशतं गरुडस्य जातं क्षेत्रम् । तस्यैव पार्श्वतस्त्रिंशद्योजनविस्तीर्णाश्चत्वारिंशदायताः सप्तगन्धर्वनगराः । आग्नेयाश्च नाम्ना गन्धर्वातिबलिनः । तत्र चान्यत् त्रिंशद्योजनमण्डलं पुरम् सैंहिकेयानाम् । तत्र च देवर्षिचरितानि देवकूटे दृश्यन्ते । पुरं च कालकेयानां तत्रैव । तथा चान्तरतटेऽन्येसुनान्नाम तस्यैव दक्षिणे त्रिंशद्योजनविस्तृतं द्विषष्टियोजनायामं पुरम् कामरूपिणां दृप्तानां मध्यमे च तस्य हेमकूटे महादेवस्य न्यग्रोधः । अथातः कैलासवर्णको भवति । कैलासस्य तटे योजनशतमायामवस्तृतम् भुवनमालाभिव्याप्तम् । तस्याश्च मध्ये सभा । तत्र च तत्पुष्करं नाम विमानं तिष्ठति । धनदस्य च तद्विमानमधिवासश्च । तत्र पद्ममहापद्ममकरकच्छपकुमुदशङ्खनीलनन्दमहानिधयः प्रतिवसन्ति । तत्र चन्द्रादीनां लोकपालानामावासः । तत्र च मन्दाकिनी नाम नदी । तथा कनकमन्दा मन्दा चेति नामभिः सरितः । तत्रान्या अपि नद्यः सन्ति । पूर्वपार्श्वे च शतयोजनमायामास्त्रिंशद्योजनविस्तृता दशगन्धर्वपुर्यः तासु च सकुबाहुहरिकेशचित्रसेनादयो राजानः । तस्यैव च पश्चिमकूटे अशीतियोजनायामं चत्वारिंशद्विस्तृतमेकैकं यक्षनगरम् । तेषु च महामालिसुनेत्र चक्रादयो नायकाः । तस्यैव दक्षिणे पार्श्वे कुञ्जदरीषु गुहासु समुद्राः समुद्रं यावत्किन्नराणां पुरशतम् । तेषु च द्रुमसुग्रीवादिभगदत्तप्रमुखं राजशतम् । तत्र च रुद्रस्योमया सार्द्धं विवाहस्संवृत्तः । तपश्च कृतवती गौरी । किरातरूपिणा च रुद्रेण स्थितम् । तत्रैव तत्र स्थितेन सोमेन शंकरेण जम्बूद्वीपावलोकनं कृतम् । तत्र चानेककिन्नरगन्धर्वोपगीतमुमावनं नामाप्सरोभिरनेकपुष्पलतावल्लीभिरुपेतम् । यत्र भगवता महेश्वरेणार्द्धनारीनरवपुः प्राप्तम् । तत्र च कार्तिकेयस्य शरद्वनम् । पुष्पचित्रक्रौञ्चयोर्मध्ये कार्तिकेयाभिषेकः कृतः तस्य च पूर्वतटे सिद्धमुनिगणावासः कलापग्रामो नाम । तथा च मार्कण्डेयवसिष्ठपराशरनलविश्वामित्रोद्दालकादीनां महर्षीणामनेकानि सहस्त्राण्याश्रमाणां हि भवति । तथा च पश्चिमस्याचलेन्द्रस्य निषधस्य भागं श्रृणुत । तस्य च मध्यमकूटे विष्ण्वायतनं महादेवस्य । तस्यैवोत्तरतटे त्रिंशद्योजनविस्तृतं महत्पुरं लम्बाख्यातं राक्षसानाम् । तस्यैव दक्षिणे पार्श्वे बिलप्रवेशनगरम् । प्रभेदकस्य पश्चिमेन देवदानवसिद्धादीनां पुराणि । तस्य गिरेर्मूर्ध्नि महती सोमशिला तिष्ठति । तस्यां च पर्वणि सोमः स्वयमेवावतरति । तस्यैवोत्तरपार्श्वे त्रिकूटं नाम । तत्र ब्रह्मा तिष्ठति क्वचित् । तथा च वह्न्यायतनम् । मूर्त्तिमान् वह्निरुपास्यते देवैः । उत्तरे च श्रृङ्गाख्ये पर्वतवरे देवतानामायतनानि । पूर्वे नारायणस्यायतनम् । मध्ये ब्रह्मणः । शंकरस्य पश्चिमे । तत्र च यक्षादीनां केचित् पुराणि तस्य चोत्तरतीरे जातुछे महापर्वते त्रिंशद्योजनमण्डलं नन्दजलं नाम सरस् तत्र नन्दो नाम नागराजा वसति शतशीर्षप्रचण्ड इति इत्येतेऽष्टौ देवपर्वता विज्ञेयाः । तेनानुक्रमेण हेमरजतरत्नवैदूर्यमानः शिलाहिङ्गुलादिवर्णाः । इयं च पृथ्वी लक्षकोटिशतानेकसंख्यातानां पूर्णा तेषु च सिद्धविद्याधराणां निलयाः ते च मेरोः पार्श्वतः केसरवलयालवालं सिद्धलोकेति कीर्त्त्यते । इयं पृथ्वी पद्माकारेण व्यवस्थिता । एष च सर्वपुराणेषु क्रमः सामान्यतः प्रतिपाद्यते । ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे एकाशीतितमोऽध्यायः ॥ ८१॥
रुद्र उवाच । अथ नदीनामवतारं श्रृणुत । आकाशसमुद्रो यः कीर्त्यते सामाख्यस् तस्मादाकाशगामिनी नदी प्रवृत्ता । सा चानवरतमिन्द्रगजेन क्षोभ्यते । सा च चतुरशीतिसहस्त्रोच्छ्राया । सा मेरोः सुदर्शनं करोति । सा च मेरुकूटतटान्तेभ्यः प्रस्खलिता चतुर्धा संजाता । षष्टिं च योजनसहस्रं निरालम्बा पतमाना प्रदक्षिणमनुसरन्ती चतुर्द्धा जगाम । सीता चालकनन्दा चक्षुर्भद्रा चेति नामभिः । यथोद्देशं सा चानेकशतसहस्रपर्वतानां दारयन्ती गां गतेति गङ्गेत्युच्यते अथ गन्धमादनपार्श्वेऽमरगण्डिका वर्ण्यते । एकत्रिंशद्योजनसहस्त्राणि आयामः चतुःशतविस्तीर्णम् । तत्र केतुमालाः सर्वे जनपदाः । कृष्णवर्णाः पुरुषा महाबलिनः । उत्पलवर्णाः स्त्रियः शुभदर्शनाः । तत्र च महावृक्षाः पनसाः सन्ति । तत्रेश्वरो ब्रह्मपुत्रस्तिष्ठति । तत्रोदपानाच्च जरारोगविवर्जिता वर्षायुतायुषश्च नराः । माल्यवतः पूर्वपार्श्वे पूर्वगण्डिका एकश्रृङ्गाद्योजनसहस्त्राणि मानतस्तत्र च भद्राश्वा नाम जनपदाः भद्रसालवनं च तत्र व्यवस्थितम् । कालाम्रवृक्षाः पुरुषाः श्वेताः पद्मवर्णिनः स्त्रियः कुमुदवर्णा दशवर्षसहस्त्राणि तेषामायुः । तत्र च पञ्च कुलपर्वताः । तद्यथा शैलवर्णः मालाख्यः कोरजश्च त्रिपर्णः नीलश्चेति तद्विनिर्गताः । तदम्भःस्थितानां देशानां तान्येव नामानि । ते च देशा एता नदीः पिबन्ति । तद्यथा सीता सुवाहिनी हंसवती कासा महाचक्रा चन्द्रवती कावेरी सुरसा शाखावती इन्द्रवती अङ्गारवाहिनी हरितोया सोमावर्ता शतह्रदा वनमाला वसुमती हंसा सुपर्णा पञ्चगङ्गा धनुष्मती मणिवप्रा सुब्रह्मभागा विलासिनी कृष्णतोया पुण्योदा नागवती शिवा शेवालिनी मणितटा क्षीरोदा वरुणावती विष्णुपदी महानदी हिरण्यस्कन्धवाहा सुरावती कामोदा पताकाश्चेत्येता महानद्यः । एताश्च गङ्गासमाः कीर्तिताः । आजन्मान्तं पापं विनाशयन्ति । क्षुद्रनद्यश्च कोटिशः । ताश्च नदीर्ये पिबन्ति ते दशवर्षसहस्त्रायुषः । रुद्रोमाभक्ता इति । ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे द्व्यशीतितमोऽध्यायः ॥ ८२॥
रुद्र उवाच । निसर्ग एष भद्राश्वानां कीर्तितः केतुमालानां विस्तरेण कथितं । नैषधस्याचलेनद्रस्य पश्चिमेन कुलाचलजनपदनद्यः कीर्त्यन्ते । तथा च विशाखकम्बलजयन्तकृष्णहरिताशोकवर्द्धमाना इत्येतेषां सप्तकुलपर्वतानां कोटिशः प्रसूतिः । तन्निवासिनो जनपदास्तन्नामान एव द्रष्टव्याः । तद्यथा सौरग्रामात्तसांतपो कृतसुराश्रवण कम्बलमाहेयाचलकूटवासमूलतपक्रौञ्चकृष्णाङ्गमणिपङ्कजचूडमलसोमीयसमुद्रान्तक कुरकुञ्चसुवर्णः तटककुह श्वेताङ्गकृष्णपाटविदकपिलकर्णिकमहिषकुब्जकरनाटमहोत्कटशुकनासगजभूमककुरञ्जन मनाहकिंकिसपार्णभौमकचोरकधूमजन्म अङ्गारजतीवनजीवलौकिलवाचां सहाङ्गमधुरेयशुकेचकेयश्रवणमत्त कासिकगोदावामकुलपञ्जावर्जहमोदशालक एते जनपदास्तत्पर्वतोत्था नदीः पिबन्ति । तद्यथा प्लक्षा महाकदम्बा मानसी श्यामा सुमेधा बहुला विवर्णा पुङ्खा माला दर्भवती भद्रानदी शुकनदी पल्लवा भीमा प्रभञ्जना काम्बा कुशावती दक्षा कासवती तुङ्गा पुण्योदा चन्द्रावती सुमूलावती ककुद्मिनी विशाला करण्टका पीवरी महामाया महिषी मानुषी चण्डा एता नदीः प्रधानाः । शेषाः क्षुद्रनद्यः सहस्रशश्चेति । ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे त्र्यशीतितमोऽध्यायः ॥ ८३॥
रुद्र उवाच । उत्तराणां च वर्षाणां दक्षिणानां च सर्वशः । आचक्षते यथान्यायं ये च पर्वतवासिनः । तच्छृणुध्वं मया विप्राः कीर्त्त्यमानं समाहिताः ॥ ८४.१॥ दक्षिणेन तु श्वेतस्य नीलस्य चोत्तरेण च । वायव्यां रम्यकं नाम जायन्ते तत्र मानवाः । मतिप्रधाना विमला जरादौर्गन्ध्यवर्जिताः ॥ ८४.२॥ तत्रापि सुमहान् वृक्षो न्यग्रोधो रोहितः स्मृतः । तत्फलाद् रसपानाद्धि दशवर्षसहस्त्रिणः । आयुषा सर्वमनुजा जायन्ते देवरूपिणः ॥ ८४.३॥ उत्तरेण च श्वेतस्य त्रिश्रृङ्गस्य च दक्षिणे । वर्षं हिरण्मयं नाम तत्र हैरण्वती नदी । यक्षा वसन्ति तत्रैव बलिनः कामरूपिणः ॥ ८४.४॥ एकादशहस्त्राणि समानां तेन जीवते । शतान्यन्यानि जीवन्ते वर्षाणां दश पञ्च च ॥ ८४.५॥ लकुचाः क्षुद्रसा वृक्षास्तस्मिन् देशे व्यवस्थिताः । तत्फलप्राशमाना हि तेन जीवन्ति मानवाः ॥ ८४.६॥ तथा त्रिश्रृङ्गे च मणिकाञ्चनसर्वरत्नशिखरानुक्रमेण तस्य चोत्तरश्रृङ्गाद्दक्षिणसमुद्रान्ते चोत्तरकुरवः । वस्त्राण्याभरणानि च वृक्षेष्वेव जायन्ते क्षीरवृक्षाः क्षीरासवाः सन्ति । मणिभूमिः सुवर्णबालुका । तस्मिन् स्वर्गच्युताश्च पुरुषा वसन्ति त्रयोदशवर्षसहस्त्रायुषः । तस्यैव द्वीपस्य पश्चिमेन चतुर्योजनसहस्रमतिक्रम्य देवलोकाच्चन्द्रद्वीपो भवति योजनसहस्रपरिमण्डलः । तस्य मध्ये चन्द्रकान्तसूर्यकान्तनामानौ गिरिवरौ । तयोश्च मध्ये चन्द्रावती नाम महानदी अनेकवृक्षफलानेकनदीसमाकुला । एतत्कुरुवर्षं च । तस्योत्तरपार्श्वे समुद्रोर्मिमालाढ्यं पञ्चयोजनसहस्रमतिक्रम्य देवलोकात् सूर्यद्वीपो भवति योजनसहस्रपरिमण्डलः । तस्य मध्ये गिरिवरः शतयोजनविस्तीर्णस्तावदुच्छ्रितः । तस्मात्सूर्यावर्त्तनामा नदी निर्गता । तत्र च सूर्यस्याधिष्ठितम् तत्र सूर्यदैवत्यास्तद्वर्णाश्च प्रजा दशवर्षसहस्त्रायुषः । तस्य च द्वीपस्य पश्चिमेन चतुर्योजनसहस्रमतिक्रम्य समुद्रं दशयोजनसहस्रं परिमण्डलत्वेन द्वीपो रुद्राकरो नाम । तत्र च भद्रासनं वायोरनेकरत्नशोभितम् । तत्र विग्रहवान् वायुस्तिष्ठति । तपनीयवर्णाश्च प्रजाः पञ्चवर्षसहस्त्रायुषः ॥ ८४.७॥ ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे चतुरशीतितमोऽध्यायः ॥ ८४॥
रुद्र उवाच । इयं भूपद्मव्यवस्था कथिता । इदानीं भारतं नवभेदं श्रृणुत । तद्यथा । इन्द्रः कसेरुः ताम्रवर्णो गभस्तिः नागद्वीपः सौम्यः गन्धर्वः वारुणः भातरं चेति । सागरसंवृतमेकैकं योजनसहस्रप्रमाणम् । तत्र च सप्त कुलपर्वता भवन्ति । तद्यथा । महेन्द्रो मलयः सह्यः शुक्तिमान्नृक्षपर्वतः । विन्ध्यश्च पारियात्रश्च इत्येते कुलपर्वताः । अन्ये च मन्दरशारदर्दुरकोलाहलसुरमैनाकवैद्युतवारन्धमपाण्डुरतुङ्गप्रस्थकृष्णगिरिजयन्तरैवतऋष्यमूकगोमन्तचित्रकूटश्रीचकोरकूटशैलकृतस्थल इत्येते क्षुद्रपर्वताः । शेषाः क्षुद्रतराः । तेषामार्या म्लेच्छा जनपदा वसन्ति । पिबन्ति चैतासु नदीषु पानीयम् । तद्यथा गङ्गा सिन्धु सरस्वती शतद्रु वितस्ता विपाशा चन्द्रभागा सरयू यमुना इरावती देविका कुहू गोमती धूतपापा बाहुदा दृषद्वती कौशिकी निस्वरा गण्डकी चक्षुष्मती लोहिता इत्येता हिमवत्पादनिर्गताः॥ वेदस्मृतिर्वेदवती सिन्धुपर्णा सचन्दना सदाचारा रोहिपारा चर्मण्वती विदिशा वेदत्रयी इत्येता पारियात्रोद्भवाः शोणा ज्योतीरथा नर्मदा सुरसा मन्दाकिनी दशार्णा चित्रकूटा तमसा पिप्पला करतोया पिशाचिका चित्रोत्पला विशाला वञ्जुला बालुका वाहिनी शुक्तिमती विरजा पङ्किनी रिरी कुहू इत्येता ऋक्षप्रसूताः । मणिजाला शुभा तापी पयोष्णीं शीघ्रोदा वेष्णा पाशा वैतरणी वेदी पाली कुमुद्वती तोया दुर्गा अन्त्या गिरा एता विन्ध्यपादोद्भवाः । गोदावरी भीमरथी कृष्णा वेणा वञ्जुला तुङ्गभद्रा सुप्रयोगा वाह्या कावेरी इत्येताः सह्यपादोद्भवाः । शतमाला ताम्रपर्णी पुष्पावती उत्पलावती इत्येता मलयजाः । त्रियामा ऋषिकुल्या इक्षुला त्रिविदा लाङ्गूलिनी वंशवरा महेन्द्रतनयाः । ऋषिका लूमती मन्दगामिनी पलाशिनी इत्येताः शुक्तिमत्प्रभवाः । एताः प्राधान्येन कुलपर्वतनद्यः । शेषाः क्षुद्रनद्यः । एष जम्बूद्वीपो योजनलक्षप्रमाणतः । अतः परं शाकद्वीपं निबोधत । जम्बूद्वीपस्य विस्ताराद् द्विगुणपरिणाहाल्लवणोदकश्च जम्बूद्वीपसमस्तेन द्विगुणावृतः । तत्र च पुण्या जनपदाश्चिरान्म्रियन्ते दुर्भिक्षजराव्याधिरहितश्च देशोऽयम् । सप्तैव कुलपर्वतास्तावत् तिष्ठन्ति तस्य चोभयतो लवणक्षीरोदधी व्यवस्थितौ । तत्र च प्रागायतः शैलेन्द्र उदयो नाम पर्वतः । तस्यापरेण जलधारो नाम गिरिः । सैव चन्द्रेति कीर्त्तितः । तस्य च जलमिन्द्रो गृहीत्वा वर्षति । तस्य पारे रैवतको नाम गिरिः । सैव नारदो वर्ण्यते तस्मिंश्च नारदपर्वतादुत्पन्नो तस्य चापरेण श्यामो नाम गिरिः । तस्मिंश्च प्रजाः श्यामत्वमापन्नाः सैव दुन्दुभिर्वर्ण्यते । तस्मिन् सिद्धा इति कीर्तिताः प्रजानेकविधाः क्रीडन्तस्तस्यापरे रजतो नाम गिरिः सैव शाकोच्यते । तस्यापरेणाम्बिकेयः स च विभ्राजसो भण्यते । स एव केसरीत्युच्यते । ततश्च वायुः प्रवर्त्तते । गिरिनामान्येव वर्षाणि तद्यथा । उदयसुकुमारो जलधारक्षेमकमहाद्रुमेति प्रधानानि द्वितीयपर्वतनामभिरपि वक्तव्यानि । तस्य च मध्ये शाकवृक्षस्तत्र च सप्तमहानद्यो द्विनाम्न्यः । तद्यथा सुकुमारी कुमारी नन्दा वेणिका धेनुः इक्षुमती गभस्ति इत्येता नद्यः । ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे पञ्चाशीतितमोऽध्यायः ॥ ८५॥
अथ तृतीयं कुशद्वीपं श्रृणुत । कुशद्वीपेन क्षीरोदः परिवृतः शाकद्वीपस्य विस्ताराद् द्विगुणेन । तत्रापि सप्त कुलपर्वताः । सर्वे च द्विनामानः । तद् यथा --- कुमुदविद्रुमेति च सोच्यते । उन्नतो हेमपर्वतः सैव । बलाहको द्युतिमान् सैव । तथा द्रोणः सैव पुष्पवान् । कङ्कश्च पर्वतः सैव कुशेशयः । तथा षष्ठो महिषनामा स एव हरिरित्युच्यते । तत्राग्निर्वसति । सप्तमस्तु ककुद्मान् नाम सैव मन्दरः कीर्त्यते । इत्येते पर्वताः कुशद्वीपे व्यवस्थिताः एतेषां वर्षभेदो भवति द्विनामसंज्ञः । कुमुदस्य श्वेतमुद्भिदं तदेव कीर्त्यते । उन्नतस्य लोहितं वेणुमण्डलं तदेव भवति । बलाहकस्य जीमूतं तदेव रथाकार इति ।द्रोणस्य हरितं तदेव बलाधनं भवति । कङ्कस्यापि ककुद्मान् नाम । वृत्तिमत् तदेव मानसं महिषस्य प्रभाकरम् । ककुद्मतः कपिलं तदेव संख्यातं नाम । इत्येतानि वर्षाणि । तत्र द्विनाम्न्यो नद्यः । प्रतपा प्रवेशा सैवोच्यते । द्वितीया शिवा यशोदा सा च भवति । तृतीया पित्रा नाम सैव कृष्णा भण्यते । चतुर्थी ह्रादिनी नाम सैव चन्द्रा निगद्यते । विद्युता च पञ्चमी शुक्ला सैव । वर्णा षष्ठी सैव विभावरी । महती सप्तमी सैव धृतिः । एताः प्रधानाः शेषाः क्षुदनद्यः । इत्येष कुशद्वीपस्य संनिवेशः । शाकद्वीपो द्विगुणः संनिविष्टश्च कथितः । तस्य च मध्ये महाकुशस्तम्बः । एष च कुशद्वीपो दधिमण्डोदेनावृतः क्षीरोदद्विगुणेन । ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे षडशीतितमोऽध्यायः ॥ ८६॥
रुद्र उवाच । अथ क्रौञ्चं भवति चतुर्थं कुशद्वीपाद् द्विगुणमानतः समुद्रः क्रौञ्चेन द्विगुणेनावृतः । तस्मिंश्च सप्तैव प्रधानपर्वताः । प्रथमः कौञ्चो विद्युल्लतो रैवतो मानसः सैव पावकः । तथैवान्धकारः सैवाच्छोदकः । देवावृत्तो स च सुरापो भण्यते । ततो देविष्ठः स एव काञ्चनश्रृङ्गो भवति । देवनन्दात्परो गोविन्दः, द्विविन्द इति । ततः पुण्डरीकः सैव तोषाशयः । एते सप्त रत्नमयाः पर्वताः क्रीञ्चद्वीपे व्यवस्थिताः । सर्वे च परस्परेणोच्छ्रयाः । तत्र वर्षाणि तथा क्रौञ्चस्य कुशलो देशः सैव माधवः स्मृतः वामनस्य मनोऽनुगः सैव संवर्तकस्ततोष्णवान् सोमप्रकाशः । ततः पावकः सैव सुदर्शनः । तथा चान्धकारः सैव संमोहः । ततो मुनिदेशः स च प्रकाशः । ततो दुन्दुभिः सैवानर्थ उच्यते । तत्रापि सप्तैव नद्यः ॥ ८७.१॥ गौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा ख्यातिश्च पुण्डरीका च गङ्गा सप्तविधाः स्मृताः । गौरी सैव पुष्पवहा कुमुद्वती ताम्रवती रोधसंध्या सुखावहा च मनोजवा च क्षिप्रोदा च ख्यातिः सैव गोबहुला पुण्डरीका चित्रवेगा शेषाः क्षुद्रनद्यः ॥ क्रौञ्चद्वीपो घृतोदेनावृतः । घृतोदा शाल्मलेनेति ॥ ८७.२ ॥ ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे सप्ताशीतितमोऽध्यायः ॥ ८७॥
रुद्र उवाच । त्रिषु शिष्टेषु वक्ष्यामि द्वीपेषु मनुजान्युत । शाल्मलं पञ्चमं वर्षं प्रवक्ष्ये तन्निबोधत । क्रौञ्चद्वीपस्य विस्ताराच्छाल्मलो द्विगुणो मतः ॥ ८८.१॥ घृतसमुद्रमावृत्य व्यवस्थिस्तद्विस्तारो द्विगुणस्तत्र च सप्त पर्वताः प्रधानास्तावन्ति वर्षाणि तावत्यो नद्यः । तत्र च पर्वताः । सुमहान् पीतःशातकौम्भात् सार्वगुणसौवर्णरोहितसुमनसकुशल जाम्बूनदवैद्युता इत्येते कुलपर्वता वर्षाणि चेति । अथ षष्ठं गोमेदं कथ्यते । शाल्मलं यथा सुरोदेनावृतं तद्वत् सुरोदोऽपि तद्विगुणेन गोमेदेनावृतः । तत्र च प्रधानपर्वतौ द्वावेव । एकस्य तावत्तावसरः । अपरश्च कुमुद इति । समुद्रश्चेक्षुरसस्तद्द्विगुणेन पुष्करेणावृतः । तत्र च पुष्कराख्ये मानसो नाम पर्वतः । तदपि द्विधा छिन्नं वर्षं तत्प्रमाणेन च । स्वादोदकेनावृतम् । ततश्च कटाहम् । एतत् पृथिव्याः प्रमाणम् । ब्रह्माण्डस्य च सकटाहविस्तारप्रमाणम् । एवंविधानामण्डानां परिसंख्या न विद्यते । एतानि कल्पे कल्पे भगवान् नारायणः क्रोडरूपी रसातलान्तःप्रविष्टानि दंष्ट्रैकैनोद्धृत्य स्थितौ स्थापयति । एष वः कथितो मार्गो भूमेरायामविस्तरः । स्वस्ति वोऽस्तु गमिष्यामि कैलासं निलयं द्विजाः ॥ ८८.२॥ श्रीवराह उवाच । एवमुक्त्वा गतो रुद्रः क्षणाददृश्यमूर्तिमान् । ते च सर्वे गता देवा ऋषयश्च यथागतम् ॥ ८८.३॥ ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे अष्टाशीतितमोऽध्यायः ॥ ८८॥
धरण्युवाच । परमात्मा शिवः पुण्य इति केचिद् भवं विदुः । अपरे हरिमीशानमिति केचिच्चतुर्मुखम् ॥ ८९.१॥ एतेषां कतमो देवः परः को वाऽथवाऽपरः । एतद्देव ममाचक्ष्व परं कौतूहलं विभो ॥ ८९.२॥ श्रीवराह उवाच । परो नारायणो देवस्तस्माज्जातश्चतुर्मुखः । तस्माद् रुद्रोऽभवद् देवि स च सर्वज्ञतां गतः ॥ ८९.३॥ तस्याश्चर्याण्यनेकानि विविधानि वरानने । श्रृणु सर्वाणि चार्वङ्गि कथ्यमानं मयाऽनघे ॥ ८९.४॥ कैलासशिखरे रम्ये नानाधातुविचित्रिते । वसत्यनुदिनं देवः शूलपाणिस्त्रिलोचनः ॥ ८९.५॥ सैकस्मिन् दिवसे देवः सर्वभूतनमस्कृतः । गणैः परिवृतो गौर्या महानासीत् पिनाकधृक् ॥ ८९.६॥ तत्र सिंहमुखाः केचिद् गणा नर्दन्ति सिंहवत् । अपरे हस्तिवक्त्राश्च हयवक्त्रास्तथापरे ॥ ८९.७॥ अपरे शिंशुमारास्या अपरे सूकराननाः । अपरेऽश्वामुखा रौद्रा खरास्याजाननास्तथा । छागमत्स्याननाः क्रूरा ह्यनन्ताः शस्त्रपाणयः ॥ ८९.८॥ केचिद् गायन्ति नृत्यन्ति धावन्ति स्फोटयन्ति च । हसन्ति किलकिलायन्ति गर्जन्ति च महाबलाः ॥ ८९.९॥ केचिल्लोष्टांस्तु संगृह्य युयुधुर्गणनायकाः । अपरे मल्लयुद्धेन युयुधुर्बलदर्पिताः । एवं गणसहस्त्रेण वृतो देवो महेश्वरः ॥ ८९.१०॥ यावदास्ते स्वयं देव्या क्रीडन् देववरः स्वयम् । तावद् ब्रह्मा स्वयं देवैरुपायात् सह सत्वरः ॥ ८९.११॥ तमागतमथो दृष्ट्वा पूजयित्वा विधानतः । उवाच परमो देवो रुद्रो ब्रह्माणमव्यम् ॥ ८९.१२॥ किमागमनकृत्यं ते ब्रह्मन् ब्रूहि ममाचिरम् । किं च देवास्त्वरायुक्ता आगता मम सन्निधौ ॥ ८९.१३॥ ब्रह्मोवाच । अस्त्यन्धको महादैत्यस्तेन सर्वे दिवौकसः । अर्दिता मत्समीपं तु बुद्ध्वा मां शरणैषिणः ॥ ८९.१४॥ ततश्चैते मया सर्वे प्रोक्ता देवा भवं प्रति । गच्छाम इति देवेश ततस्त्वेते समागताः ॥ ८९.१५॥ एवमुक्त्वा स्वयं ब्रह्मा वीक्षां चक्रे पिनाकिनम् । नारायणं च मनसा सस्मार परमेश्वरम् । ततो नारायणो देवो द्वाभ्यां मध्ये व्यवस्थितः ॥ ८९.१६॥ ततस्त्वेकीगतास्ते तु ब्रह्मविष्णुमहेश्वराः । परस्परं सूक्ष्मदृष्ट्या वीक्षां चक्रुर्मुदायुताः ॥ ८९.१७॥ ततस्तेषां त्रिधा दृष्टिर्भूत्वैका समजायत । तस्यां दृष्ट्यां समुत्पन्ना कुमारी दिव्यरूपिणी ॥ ८९.१८॥ नीलोत्पलदलश्यामा नीलकुञ्चितमूर्द्धजा । सुनासा सुललाटान्ता सुवक्त्रा सुप्रतिष्ठिता ॥ ८९.१९॥ त्वष्ट्रा यदग्निजिह्वं तु लक्षणं परिभाषितम् । तत्सर्वमेकतः संस्थं कन्यायां सम्प्रदृश्यते ॥ ८९.२०॥ अथ तां दृश्य कन्यां तु ब्रह्मविष्णुमहेश्वराः । ऊचुः काऽसि शुभे ब्रूहि किं वा कार्यं विपश्चितम् ॥ ८९.२१॥ त्रिवर्णा च कुमारी सा कृष्णशुक्ला च पीतिका । उवाच भवतां दृष्टेर्योगाज्जाताऽस्मि सत्तमाः । किं मां न वेत्थ सुश्रोणीं स्वशक्तिं परमेश्वरीम् ॥ ८९.२२॥ ततो ब्रह्मादयस्ते च तस्यास्तुष्टा वरं ददुः । नाम्नाऽसि त्रिकला देवी पाहि विश्वं च सर्वदा ॥ ८९.२३॥ अपराण्यपि नामानि भविष्यन्ति तवानघे । गुणोत्थानि महाभागे सर्वसिद्धिकराणि च ॥ ८९.२४॥ अन्यच्च कारणं देवि त्रिवर्णाऽसि वरानने । मूर्तित्रयं त्रिभिर्वर्णैः कुरु देवि स्वकं द्रुतम् ॥ ८९.२५॥ एवमुक्ता तदा देवैरकरोत् त्रिविधां तनुम् । सितां रक्तां तथा कृष्णां त्रिमूर्तित्वं जगाम ह ॥ ८९.२६॥ या सा ब्राह्मी शुभा मूर्त्तिस्तया सृजति वै प्रजाः । सौम्यरूपेण सुश्रोणी ब्रह्मसृष्ट्या विधानतः ॥ ८९.२७॥ या सा रक्तेन वर्णेन सुरूपा तनुमध्यमा । शङ्खचक्रधरा देवी वैष्णवी सा कला स्मृता । सा पाति सकलं विश्वं विष्णुमायेति कीर्त्त्यते ॥ ८९.२८॥ या सा कृष्णेन वर्णेन रौद्री मूर्त्तिस्त्रिशूलिनी । दंष्ट्राकरालिनी देवी सा संहरति वै जगत् ॥ ८९.२९॥ या सृष्टिर्ब्रह्मणो देवी श्वेतवर्णा विभावरी । सा कुमारी महाभागा विपुलाब्जदलेक्षणा । सद्यो ब्रह्माणमामन्त्र्य तत्रैवान्तरधीयत ॥ ८९.३०॥ साऽन्तर्हिता ययौ देवी वरदा श्वेतपर्वतम् । तपस्तप्तुं महत् तीव्रं सर्वगत्वमभीप्सती ॥ ८९.३१॥ या वैष्णवी कुमारी तु साप्यनुज्ञाय केशवम् । मन्दराद्रिं ययौ तप्तुं तपः परमदुश्चरम् ॥ ८९.३२॥ या सा कृष्णा विशालाक्षी रौद्री दंष्ट्राकरालिनी । सा नीलपर्वतवरं तपश्चर्तुं ययौ शुभा ॥ ८९.३३॥ अथ कालेन महता प्रजाः स्त्रष्टुं प्रजापतिः । आरब्धवान् तदा तस्य ववृधे सृजतो बलम् ॥ ८९.३४॥ यदा न ववृधे तस्य ब्रह्मणो मानसी प्रजा । तदा दध्यौ किमेतन्मे न तथा वर्द्धते प्रजा ॥ ८९.३५॥ ततो ब्रह्मा हृदा दध्यौ योगाभ्यासेन सुव्रते । चिन्तयन् बुबुधे देवस्तां कन्यां श्वेतपर्वते । तपश्चरन्तीं सुमहत् तपसा दग्धकिल्बिषाम् ॥ ८९.३६॥ ततो ब्रह्मा ययौ तत्र यत्र सा कमलेक्षणा । तपश्चरति तां दृष्ट्वा वाक्यमेतदुवाच ह ॥ ८९.३७॥ ब्रह्मोवाच । किं तपः क्रियते भद्रे कार्यमावेक्ष्य शोभते । तुष्टोऽस्मि ते विशालाक्षि वरं किं ते ददाम्यहम् ॥ ८९.३८॥ सृष्टिरुवाच । भगवन्नेकदेशस्था नोत्सहे स्थातुमञ्जसा । अतोऽर्थं त्वां वरं याचे सर्वगत्वमभीप्सती ॥ ८९.३९॥ एवमुक्तस्तदा देव्या सृष्ट्या ब्रह्मा प्रजापतिः । उवाच तां तदा देवीं सर्वगा त्वं भविष्यसि ॥ ८९.४०॥ एवमुक्ता तदा तेन सृष्टिः सा कमलेक्षणा । तस्य ह्यङ्के लयं प्राप्ता सा देवी पद्मलोचना । तस्मादारभ्य कालात् तु ब्राह्मी सृष्टिर्व्यवर्द्धत ॥ ८९.४१॥ ब्रह्मणो मानसाः सप्त तेषामन्ये तपोधनाः । तेषामन्ये ततस्त्वन्ये चतुर्द्धा भूतसंग्रहः । सस्थाणुजङ्गमानां च सृष्टिः सर्वत्र संस्थिता ॥ ८९.४२॥ यत्किंचिद् वाङ्मयं लोके जगत्स्थावरजङ्गमम् । तत्सर्वं स्थापितं सृष्ट्या भूतं भव्यं च सर्वदा ॥ ८९.४३॥ ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे एकोननवतितमोऽध्यायः ॥ ८९॥ इति श्रीरुद्रगीता समाप्ता । sa.wikisource.org Varahapurana adhyAya 70-89 Refer to https://archive.org/details/VarahaPurana

% Text title            : rudragItA varAhapurANe
% File name             : rudragItA.itx
% itxtitle              : rudragItA
% engtitle              : rudragItA
% Category              : gItA, giitaa
% Location              : doc_giitaa
% Sublocation           : giitaa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : sa.wikisource.org
% Description-comments  : Varahapurana adhyAya 70-89 Refer to https://archive.org/details/VarahaPurana
% Indexextra            : Varahapurana 70-89 (Needs proofreading)
% Latest update         : April 13, 2013
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP