॥ शङ्करगीता ॥

अथ श्रीविष्णुधर्मोत्तरे प्रथमखण्डान्तर्गते शङ्करगीतासु प्रथमोऽध्यायः ॥१॥ मार्कण्डेय उवाच । कैलासशिखरे रम्ये नानाधातुविचित्रिते । नानाद्रुमलताकीर्णे नानापक्षिनिनादिते ॥ १॥ गङ्गानिर्झरसंजाते सततं चारुनिःस्वने । देवदेवं महादेवं पर्यपृच्छत भार्गवः ॥ २॥ राम उवाच । देवदेव महादेव गङ्गालुलितमूर्धज । शशाङ्कलेखासंयुक्त जटाभारतिभास्वर ॥ ३॥ पार्वतीदत्तदेहार्ध कामकालाङ्गनाशन । भगनेत्रान्तकाचिन्त्य पूष्णो दशनशातन ॥ ४॥ त्वत्तः परतरं देवं नान्यं पश्यामि कञ्चन । पूजयन्ति सदा लिङ्गं तव देवाः सवासवाः ॥ ५॥ स्तुवन्ति त्वामृषिगणा ध्यायन्ति च मुहुर्मुहुः । पूजयन्ति तथा भक्त्या वरदं परमेश्वर ॥ ६॥ जगतोऽस्य समुत्पत्तिस्थितिसंहारपालने । त्वामेकं कारणं मन्ये त्वयि सर्वं प्रतिष्ठितम् ॥ ७ ॥ कं त्वं ध्यायसि देवेश तत्र मे संशयो महान् । आचक्ष्व तन्मे भगवन् यद्यनुग्राह्यता मयि ॥ ८॥ प्रमादसाम्मुख्यतया मयैतद्विस्रम्भमासाद्य जगत्प्रधान । भवन्तमीड्यं प्रणिपत्य मूर्ध्ना पृच्छामि सञ्जातकुतूहलात्मा ॥ ९॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे परशुरामोपाख्याने शङ्करगीतासु रामप्रश्नो नमैकपञ्चाशत्तमोऽध्यायः ॥५१॥
अथ श्रीविष्णुधर्मोत्तरे प्रथमखण्डान्तर्गते शङ्करगीतासु द्वितीयोऽध्यायः ॥२॥ शङ्कर उवाच । त्वदुक्तोऽयमनुप्रश्नो राम राजीवलोचन । त्वमेकः श्रोतुमर्होऽसि मत्तो भृगुकुलोद्वह ॥ १॥ यत्तत्परमकं धाम मम भार्गवनन्दन । यत्तदक्षरमव्यक्तं पारं यस्मान्न विद्यते । ज्ञानज्ञेयं ज्ञानगम्यं हृदि सर्वस्य चाश्रितम् ॥ २॥ त्वामहं पुण्डरीकाक्षं चिन्तयामि जनार्दनम् । एतद्राम रहस्यं ते यथावत्कथितं वचः ॥ ३॥ ये भक्तास्तमजं देवं न ते यान्ति पराभवम् । तमीशमजमव्यक्तं सर्वभूतपरायणम् ॥ ४॥ नारायणमनिर्देश्यं जगत्कारणकारणम् । सर्वतः पाणिपादं तं सर्वतोऽक्षिशिरोमुखम् ॥ ५॥ सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति । सार्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ॥ ६॥ असक्तं सर्वतश्चैव निर्गुणं गुणभोक्तृ च । बहिरन्तश्च भूतनामचरश्चर एव च ॥ ७॥ सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिकं च यत् । अविभक्तं विभक्तेषु विभक्तमिव च स्थितम् ॥ ८॥ भूतवर्ति च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च । भूतभर्तृ-as per BG) ज्योतिषामपि तज्ज्योतिः तमसां परमुच्यते ॥ ९॥ (तमसः-as per BG) अनादिमत्परं ब्रह्म न सत्तन्नाऽसदुच्यते । प्रकृतिर्विकृतिर्योऽसौ जगतां भूतभावनः ॥ १०॥ यस्मात्परतरं नास्ति तं देवं चिन्तयाम्यहम् । इच्छामात्रमिदं सर्वं त्रैलोक्यं सचराचरम् ॥ ११॥ यस्य देवादिदेवस्य तं देवं चिन्तयाम्यहम् । यस्मिन् सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः ॥ १२॥ यश्च सर्वमयो देवस्तं देवं चिन्तयाम्ययम् । योगीश्वरं पद्मनाभं विष्णुं जिष्णुं जगत्पतिम् ॥ १३॥ जगन्नाथं विशालाक्षं चिन्तयामि जगद्गुरुम् । शुचिं शुचिपदं हंसं तत्परं परमेष्ठिनम् ॥ १४॥ युक्त्वा सर्वात्मनाऽऽत्मानं तं प्रपद्ये जगत्पतिम् । यस्मिन् विश्वानि भूतानि तिष्ठन्ति च विशन्ति च ॥ १५॥ गुणभूतानि भूतेशे सूत्रे मणिगणा इव । यस्मिन्नित्ये तते तन्तौ दृष्टे स्रगिव तिष्ठति ॥ १६॥ सदसद्ग्रथितं विश्वं विश्वाङ्गे विश्वकर्मणि । हरिं सहस्रशिरसं सहस्रचरणेक्षणम् ॥ १७॥ प्राहुर्नारायणं देवं यं विश्वस्य परायणम् । अणीयसामणीयांसं स्थविष्ठं च स्थवीयसाम् ॥ १८॥ गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसामपि । यं वाकेष्वनुवाकेषु निषत्सूपनिषत्स्वपि ॥ १९॥ गृणन्ति सत्यकर्माणं सत्यं सत्येषु सामसु । चतुर्भिश्चतुरात्मानं सत्त्वस्थं सात्त्वतां पतिम् ॥ २०॥ यं दिव्यैर्देवमर्चन्ति मुह्यैः परमनामभिः । यमनन्यो व्यपेताशीरात्मानं वीतकल्मषम् ॥ २१॥ इष्ट्वानन्त्याय गोविन्दं पश्यत्यात्मन्यवस्थितम् । पुराणः पुरुषः प्रोक्तो ब्रह्मा प्रोक्तो युगादिषु ॥ २२॥ क्षये सङ्कर्षणः प्रोक्तस्तमुपास्यमुपास्महे । यमेकं बहुधाऽऽत्मानं प्रादुर्भूतमधोक्षजम् ॥ २३॥ नान्यभक्ताः क्रियावन्तो यजन्ते सर्वकामदम् । यमाहुर्जगतां कोशं यस्मिन् सन्निहिताः प्रजाः ॥ २४॥ यस्मिन् लोकाः स्फुरन्तीमे जले शकुनयो यथा । ऋतमेकाक्षरं ब्रह्म यत्तत्सदसतः परम् ॥ २५॥ अनादिमध्यपर्यन्तं न देवा नर्षयो विदुः । यं सुरासुरगन्धर्वास्ससिद्धर्षिमहोरगाः ॥ २६॥ प्रयता नित्यमर्चन्ति परमं दुःखभेषजम् । अनादिनिधनं देवमात्मयोनिं सनातनम् ॥ २७॥ अप्रतर्क्यमविज्ञेयं हरिं नारायणं प्रभुम् । अतिवाय्विन्द्रकर्माणं चातिसूर्याग्नितेजसम् ॥ २८॥ अतिबुद्धीन्द्रियग्रामं तं प्रपद्ये प्रजापतिम् । यं वै विश्वस्य कर्तारं जगतस्तस्थुषां पतिम् ॥ २९॥ वदन्ति जगतोऽध्यक्षमक्षरं परमं पदम् । यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः ॥ ३०॥ चन्द्रादित्यौ च नयने तं देवं चिन्तयाम्यहम् । यस्य त्रिलोकी जठरे यस्य काष्ठाश्च वाहनाः ॥ ३१॥ यस्य श्वासश्च पवनस्तं देवं चिन्तयाम्यहम् । विषये वर्तमानानां यं तं वैशेषिकैर्गुणैः ॥ ३२॥ प्राहुर्विषयगोप्तारं तं देवं चिन्तयाम्यहम् । परः कालात्परो यज्ञात्परस्सदसतश्च यः ॥ ३३॥ अनादिरादिर्विश्वस्य तं देवं चिन्तयाम्यहम् । पद्भ्यां यस्य क्षितिर्जाता श्रोत्राभ्यां च तथा दिशः ॥ ३४॥ पूर्वभागे दिवं यस्य तं देवं चिन्तयाम्यहम् । नाभ्यां यस्यान्तरिक्षस्य नासाभ्यां पवनस्य च ॥ ३५॥ प्रस्वेदादम्भसां जन्म तं देवं चिन्तयाम्यहम् ॥ ३६॥ वराहशीर्षं नरसिंहरूपं देवेश्वरं वामनरूपरूपम् । त्रैलोक्यनाथं वरदं वरेण्यं तं राम नित्यं मनसा नतोऽस्मि ॥ ३७॥ वक्त्राद्यस्य ब्राह्मणास्सम्प्रभूता यद्वक्षसः क्षत्रियाः सम्प्रभूताः । यस्योरुयुग्माच्च तथैव वैश्याः पद्भ्यां तथा यस्य शूद्राः प्रसूताः ॥ ३८॥ व्याप्तं तथा येन जगत्समग्रं विभूतिभिर्भूतभवोद्भवेन । देवाधिनाथं वरदं वरेण्यं तं राम नित्यं मनसा नतोऽस्मि ॥ ३९॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे श्रीभार्गवरामप्रश्ने शङ्करगीतासु ध्येयनिर्देशो नाम द्विपञ्चाशत्तमोऽध्यायः ॥५२॥
अथ श्रीविष्णुधर्मोत्तरे प्रथमखण्डान्तर्गते शङ्करगीतासु तृतीयोऽध्यायः ॥३॥ राम उवाच । वराहं नरसिंहं च वामनं च महेश्वर । त्वत्तोऽहं श्रोतुमिच्छामि प्रादुर्भावान्महात्मनः ॥ १॥ शङ्कर उवाच । अदितिश्च दितिश्चैव द्वे भार्ये कश्यपस्य च । अदितिर्जनयामास देवानिन्द्रपुरोगमान् ॥ २॥ दितिश्च जनयामास द्वौ पुत्रौ भीमविक्रमौ । हिरण्याक्षं दुराधर्षं हिरण्यकशिपुं तथा ॥ ३॥ ततोऽभिषिक्तवान् शक्रं देवराज्ये प्रजापतिः । दानवानां तथा राज्ये हिरण्याक्षं बलोत्कटम् ॥ ४॥ अभिषिच्य तयोः प्रादात्स्वर्गं पातालमेव च । पातालं शासति तथा हिरण्याक्षे महासुरे ॥ ५॥ धराधारा धरां त्यक्त्वा खमुत्पेतू रयात्पुरा । धराधरा? पक्षवन्तो महाभाग नूनं भाव्यर्थचोदिताः ॥ ६॥ धराधरपरित्यक्ता धरा चलनिबन्धना । यदा तदा दैत्यपुरं सकलं व्याप्तमम्भसा ॥ ७॥ दृष्ट्वैव स्वपुरं व्याप्तमम्भसा दितिजोत्तमः । सैन्यमुद्योजयामास जातशङ्कः सुरान् प्रति ॥ ८॥ उद्युक्तेन स सैन्येन दैत्यानां चतुरङ्गिणा । विजित्य त्रिदशाञ्जन्ये आजहार त्रिविष्टपम् ॥ ९॥ हृताधिकारास्त्रिदशा जग्मुः शरणमञ्जसा । देवराजं पुरस्कृत्य वासुदेवमजं विभुम् ॥ १०॥ त्रिदशान् शरणं प्रप्तान् हिरण्याक्षविवासितान् । संयोज्याभयदानेन विससर्ज जनार्दनः ॥ ११॥ विसृज्य त्रिदशान् सर्वान् चिन्तयामास केशवः । किन्नु रूपमहं कृत्वा घातयिष्ये सुरार्दनम् ॥ १२॥ तिर्यङ्मनुष्यदेवानामवध्यः स सुरान्तकः । ब्रह्मणो वरदानेन तस्मात्तस्य वधेप्सया ॥ १३॥ नृवराहो भविष्यामि न देवो न च मानुषः । तिर्यग्रूपेण चैवाहं घातयिष्यामि तं ततः ॥ १४॥ एतावदुक्त्वा सङ्गेन नृवराहोऽभवत्प्रभुः । चूर्णिताञ्जनशैलाभस्तप्तजाम्बूनदाम्बरः ॥ १५॥ यमुनावर्त्तकृष्णाङ्गः तदावर्ततनूरुहः । तदोघ इव दुर्वार्यस्तत्पित्रा तेजसा समः ॥ १६॥ तत्प्रवाह इवाक्षोभ्यस्तत्प्रवाह इवौघवान् । तत्प्रवाहामलतनुस्तत्प्रवाहमनोहरः ॥ १७॥ सजलाञ्जनकृष्णाङ्गः सजलाम्बुदसच्छविः । पीतवासास्तदा भाति सविद्युदिव तोयदः ॥ १८॥ उरसा धारयन् हारं शशाङ्कसदृशच्छविः । शुशुभे सर्वभूतात्मा सबलाक इवाम्बुदः ॥ १९॥ शशाङ्कलेखाविमले दंष्ट्रे तस्य विरेजतुः । मेघान्तरितबिम्बस्य द्वौ भागौ शशिनो यथा ॥ २०॥ कराभ्यां धारयन् भाति शङ्खचक्रे जनार्दनः । चन्द्रार्कसदृशे राम पादचारीव पर्वतः ॥ २१॥ महाजीमूतसङ्काशो महाजीमूतसन्निभः । महाजीमूतवद्वेगी महाबलपराक्रमः ॥ २२॥ दानवेन्द्रवधाकाङ्क्षी हिरण्याक्षसभां ययौ । हिरण्याक्षोऽपि तं दृष्ट्वा नृवराहं जनार्दनम् ॥ २३॥ दानवांश्चोदयामास तिर्यग्जातमपूर्वकम् । गृह्यतां बध्यतां चैव क्रीडार्थं स्थाप्यतां तथा ॥ २४॥ इत्येवमुक्तः संरब्धः पाशहस्तांस्तु दानवान् । जिघृक्षमाणांश्चक्रेण जघान शतशो रणे ॥ २५॥ हन्यमानेषु दैत्येषु हिरण्याक्षोऽथ दानवान् । चोदयामास संरब्धान् वराहाधिककारणात् ॥ २६॥ चोदिता दानवेन्द्रेण दानवाः शस्त्रपाणयः । प्रववर्षुस्तथा देवं शस्त्रवर्षेण केशवम् ॥ २७॥ दैत्याः शस्त्रनिपातेन देवदेवस्य चक्रिणः । नैव शेकुर्वृथाकर्तुं यत्नवन्तोऽपि निर्भयाः ॥ २८॥ हन्यमानोऽपि दैत्येन्द्रैः दानवान् मधुसूदनः । जघान चक्रेण तदा शतशोऽथ सहस्रशः ॥ २९॥ हन्यमानेषु सैन्येषु हिरण्याक्षः स्वयं ततः । उत्थाय धनुषा देवं प्रववर्ष सुरोत्तमम् ॥ ३०॥ हिरण्याक्षस्तु तान् दृष्ट्वा विफलांश्च शिलीमुखान् । शिलीमुखाभान् सम्पश्यन् समपश्यन्महद्भयम् ॥ ३१॥ ततोऽस्त्रैर्युयुधे तेन देवदेवेन चक्रिणा । तान्यस्य फलहीनानि चकार भगवान् स्वयम् ॥ ३२॥ ततो गदां काञ्चनपट्टनद्धां विभूषितां किङ्किणिजालसङ्घैः । चिक्षेप दैत्याधिपतिः स घोरां तां चापि देवो विफलीचकार ॥ ३३॥ शक्तिं ततः पट्टविनद्धमध्यामुल्कानलाभां तपनीयचित्राम् । चिक्षेप दैत्यस्स वराहकाये हुङ्कारदग्धा निपपात सा च ॥ ३४॥ ततस्त्रिशूलं ज्वलिताग्रशूलं स शीघ्रगं देवगणस्य सङ्ख्ये । दैत्याधिपस्तस्य ससर्ज वेगादवेक्षितः सोऽपि जगाम भूमिम् ॥ ३५॥ शङ्खस्वनेनापि जनार्दनश्च विद्राव्य दैत्यान् सकलान् महात्मा । सकुण्डलं दैत्यगणाधिपस्य चिच्छेद चक्रेण शिरः प्रसह्य ॥ ३६॥ निपातिते दैत्यपतौ स देवः सम्पूजितः शक्रपितामहाभ्याम् । मया च सर्वैस्त्रिदशैः समेतैर्जगाम काष्ठां मनसा त्वभीष्टाम् ॥ ३७॥ शक्रोऽपि लब्ध्वा त्रिदिवं महात्मा चिच्छेद पक्षान् धरणीधराणाम् । ररक्ष चेमां सकलां त्रिलोकीं धर्मेण धर्मज्ञभृतां वरिष्ठः ॥ ३८॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे शङ्करगीतासु नृवराहप्रादुर्भावे हिरण्याक्षवधो नाम त्रिपञ्चाशत्तमोऽध्यायः ॥५३॥
अथ श्रीविष्णुधर्मोत्तरे प्रथमखण्डान्तर्गते शङ्करगीतासु चतुर्थोऽध्यायः ॥४॥ शङ्कर उवाच । हिरण्याक्षे हते दैत्ये भ्राता तस्य महात्मनः । हिरण्यकशिपुर्नाम चकारोग्रं महत्तपः ॥ १॥ दशवर्षसहस्राणि दशवर्षशतानि च । जयोपवासनिरतः स्नानमौनाश्रितव्रतः ॥ २॥ तपःशमदमाभ्यां च ब्रह्मचर्येण चानघ । ब्रह्मा प्रीतमनास्तस्य स्वयमागत्य भार्गव ॥ ३॥ विमानेनार्कवर्णेन हंसयुक्तेन भास्वता । आदित्यैस्सहितः साध्यैस्सहितो मरुदश्विभिः ॥ ४॥ रुद्रैर्विश्वसहायैश्च यक्षराक्षसपन्नगैः । दिग्भिर्विदिग्भिश्च तथा खेचरैश्च महाग्रहैः ॥ ५॥ निम्नगाभिः समुद्रैश्च मासर्त्वयनसंधिभिः । नक्षत्रैश्च मुहूर्तैश्च कालस्यावयवैस्तथा ॥ ६॥ देवर्षिभिः पुण्यतमैः सिद्धैः सप्तर्षिभिस्तथा । राजर्षिभिः पुण्यतमैर्गन्धर्वैरप्सरोगणैः ॥ ७॥ चराचरगुरुः श्रीमान् वृतः सर्वैर्दिवौकसैः । ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यं वचनमब्रवीत् ॥ ८॥ ब्रह्मोवाच । प्रीतोऽस्मि तव भक्तस्य तपसानेन सुव्रत । वरं वरय भद्रं ते यथेष्टं काममाप्नुहि ॥ ९॥ हिरण्यकशिपुरुवाच । न देवासुरगन्धर्वा न यक्षोरगराक्षसाः । न मानुषाः पिशाचा वा हन्युर्मां देवसत्तम ॥ १०॥ ऋषयोऽपि न मां शापं क्रुद्धा लोकपितामह । शपेयुस्तपसा युक्ता वरमेतद्वृणोम्यहम् ॥ ११॥ न शस्त्रेण न चास्त्रेण गिरिणा पादपेन च । न शुष्केन न चाऽऽर्द्रेण वधं मे स्यात्कथञ्चन ॥ १२॥ भवेयमहमेवार्कः सोमो वायुर्हुताशनः । सलिलं चान्तरिक्षं च नक्षत्राणि दिशो दश ॥ १३॥ अहं क्रोधश्च कामश्च वरुणो वासवो यमः । धनदश्च तथाध्यक्षो यक्षः किम्पुरुषाधिपः ॥ १४॥ ब्रह्मोवाच । एते दिव्यवरांस्तात मया दत्तास्तवाद्भुताः । सर्वान् कामानिमांस्तस्मात्प्राप्स्यसि त्वं न संशयः ॥ १५॥ शङ्कर उवाच । एवमुक्त्वा स भगवान् जगामाकाशमेव हि । वैराजं देवसदनं महर्षिगणसेवितम् ॥ १६॥ ततो देवाश्च नागाश्च गन्धर्वा मुनयस्तथा । वरप्रदानं श्रुत्वैव पितामहमुपस्थिताः ॥ १७॥ देवा ऊचुः । वरेणानेन भगवन् वधिष्यति स नोऽसुरः । तन्नः प्रसीद भगवन् वधोऽप्यस्य विचिन्त्यताम् ॥ १८॥ भगवान् सर्वभूतानां स्वयम्भूरादिकृत्प्रभुः । स्रष्टा च हव्यकव्यानां चाव्यक्तः प्रकृतिर्ध्रुवः ॥ १९॥ शङ्कर उवाच । सर्वलोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः । प्रोवाच वरदो वाक्यं सर्वान् देवगणांस्ततः ॥ २०॥ ब्रह्मोवाच । अवश्यं त्रिदशास्तेन प्राप्तव्यं तपसः फलम् । तत(?)स्तस्य वधं विष्णुस्तपसोऽन्ते करिष्यति ॥ २१॥ शङ्कर उवाच । एवं श्रुत्वा सुराः सर्वे वाक्यं पङ्कजजन्मनः । स्वानि स्थानानि दिव्यानि जग्मुस्ते वै मुदान्विताः ॥ २२॥ लघुमात्रे वरे तस्मिन् सर्वाः सोऽबाधत प्रजाः । (लब्धमात्रे?) हिरण्यकशिपुर्दैत्यो वरदानेन दर्पितः ॥ २३॥ आश्रमेषु महात्मानो मुनीन्द्रान् संशितव्रतान् । सत्यधर्मरतान् दान्तान् दुराधर्षो भवंस्तु सः ॥ २४॥ देवन् त्रिभुवनस्थांश्च पराजित्य महासुरः । त्रैलोक्यं वशमानीय स्वर्गे वसति दानवः ॥ २५॥ यदा वरमदोन्मत्तो ह्यावासं कृतवान् दिवि । याज्ञियान् कृतवान् दैत्यानयाज्ञेयाश्च देवताः ॥ २६॥ आदित्यवसवो रुद्रा विश्वेदेवास्तथाश्विनौ । भृगवोऽङ्गिरसः साध्या मरुतश्च सवासवाः ॥ २७॥ शरण्यं शरणं विष्णुमुपतस्थुर्महाबलम् । देवं ब्रह्ममयं विष्णुं ब्रह्मभूतसनातनम् ॥ २८॥ भूतभव्यभविष्यस्य प्रभुं लोकपरायणम् । नारायणं विभुं देवाः शरण्यं शरणं गताः ॥ २९॥ देवा ऊचुः । त्रायस्व नोऽद्य देवेश हिरण्यकशिपोर्वधात् । त्वं हि नः परमो देवो ब्रह्मादीनां सुरोत्तम ॥ ३०॥ प्रोत्फुल्लामलपत्राक्ष शत्रुपक्षक्षयङ्कर । क्षयाय दितिवंशस्य शरणं त्वं भवस्व नः ॥ ३१॥ श्रीभगवानुवाच । भयं त्यजध्वममरा अभयं वो ददाम्यहम् । तथैव त्रिदिवं देवाः प्रतिपद्यत माचिरम् ॥ ३२॥ एषोऽमुं सबलं दैत्यं वरदानेन दर्पितम् । अवध्यममरेन्द्राणां दानवेन्द्रं निहन्म्यहम् ॥ ३३॥ शङ्कर उवाच । एवमुक्त्वा स भगवान् विसृज्य त्रिदिवेश्वरान् । नारसिंहं वपुश्चक्रे सहस्रांशुसमप्रभम् ॥ ३४॥ प्रांशुं कनकशैलाभं ज्वालापुञ्जविभूषितम् ।दैत्यसैन्यमहाम्भोधिवडवानलवर्चसम् ॥ ३५॥ सन्ध्यानुरक्तमेघाभं नीलवाससमच्युतम् । देवदारुवनच्छन्नं यथा मेरुं महागिरिम् ॥ ३६॥ सम्पूर्णवक्त्रदशनैः शशाङ्कशकलोपमैः । पूर्णं मुक्ताफलैः शुभ्रैः समुद्रमिव काञ्चनम् ॥ ३७॥ नखैर्विद्रुमसङ्काशैर्विराजितकरद्वयम् । दैत्यनाथक्षयकरैः क्रोधस्येव यथाङ्कुरैः ॥ ३८॥ सटाभारं सकुटिलं वह्निज्वालाग्रपिङ्गलम् । धारयन् भाति सर्वात्मा दावानलमिवाचलः ॥ ३९॥ दृश्यादृश्यमुखे तस्य जिह्वाभ्युदितचञ्चला । प्रलयान्ताम्बुदस्येव चञ्चला तु तडिल्लता ॥ ४०॥ आवर्तिभिर्लोमघनैः व्याप्तं विग्रहमूर्जितम् । महाकटितटस्कन्धमलातप्रतिमेक्षणम् ॥ ४१॥ कल्पान्तमेघनिर्घोषज्वालानिःश्वासमारुतम् । दुर्निरीक्ष्यं दुराधर्षं वज्रमध्यविभीषणम् ॥ ४२॥ कृत्वा मूर्तिं नृसिंहस्य दानवेन्द्रसभां ययौ । तां बभञ्ज तु वेगेन दैत्यानां भयवर्धनः ॥ ४३॥ भज्यमानां सभां दृष्ट्वा नृसिंहेन महात्मना । हिरण्यकशिपू राजा दानवान् समचोदयत् ॥ ४४॥ सत्त्वजातमिदं घोरं चापूर्वं पुनरागतम् । घातयध्वं दुराधर्षं येन मे नाशिता सभा ॥ ४५॥ तस्य तद्वचनं श्रुत्वा दैत्याः शतसहस्रशः । आयुधैर्विविधैर्जघ्नुर्देवदेवं जनार्दनम् ॥ ४६॥ नानायुधसहस्राणि तस्य गात्रेषु भार्गव । विशीर्णान्येव दृश्यन्ते मृल्लोष्टानीव पर्वते ॥ ४७॥ दैत्यायुधानां वैफल्यं कृत्वा हत्वा च दानवान् । करपादप्रहारैश्च शतशोऽथ सहस्रशः ॥ ४८॥ जग्राह वेगाद्दैतेयं हिरण्यकशिपुं ततः । नृसिंहहेतोर्विक्रान्तमस्त्रवर्षमहाम्बुदम् ॥ ४९॥ वेगेनोत्सङ्गमारोप्य कदलीदललीलया । दारयामास दैत्येशं वक्षस्थलमहागिरिम् ॥ ५०॥ कृत्वा तमसुभिर्हीनं दैत्येशं केशवः स्वयम् । असुराणां विनाशं च क्रुद्धो नरहरिर्व्यधात् ॥ ५१॥ हत्वासुरं शोणितबिन्दुचित्रं सम्पूज्य देवाः सह वासवेन । जग्मुः स्वधिष्ण्यानि मुदा समेता देवोऽप्यथान्तर्हितमूर्तिरास ॥ ५२॥ इति श्रिविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शङ्करगीतासु नरसिंहप्रादुर्भावो नाम चतुष्पञ्चाशत्तमोऽध्यायः ॥५४॥
अथ श्रीविष्णुधर्मोत्तरे प्रथमखण्डान्तर्गते शङ्करगीतासु पञ्चमोऽध्यायः ॥५॥ शङ्कर उवाच । हते हिरण्यकशिपौ दानवे देवकण्टके । हतशेषास्तु दैतेयाः पातालतलमाश्रिताः ॥ १॥ पातालतलसंस्थेषु दानवेषु महायशाः । प्रह्लादपौत्रो धर्मात्मा विरोचनसुतो बलिः ॥ २॥ आराध्य तपसोग्रेण वरं लेभे पितामहात् । अवध्यत्वमजेयत्वं समरेषु सुरासुरैः ॥ ३॥ वरलब्धं बलिं ज्ञात्वा पुनश्चक्रुर्दितेः सुताः । प्रहृष्टा दैत्यराजानं प्रह्लादानुमतेर्बलिम् ॥ ४॥ सम्प्राप्य दैत्यराज्यं तु बलेन चतुरङ्गिणा । जित्वा देवेश्वरं शक्रमाजहारामरावतीम् ॥ ५॥ स्थानभ्रष्टो महेन्द्रोऽपि कश्यपं शरणं गतः । कश्यपेन तदा सार्धं ब्रह्माणं शरणं गतः ॥ ६॥ ब्रह्मणाऽभिहितो देवं जगाम शरणं हरिम् । अमृताध्मातमेघाभं शङ्खचक्रगदाधरम् ॥ ७॥ देवोऽप्यभयदानेन संयोज्य बलसूदनं । उवाच वचनं काले मेघगंभीरया गिरा ॥ ८॥ श्रीभगवानुवाच । गच्छ शक्र भविष्यामि त्राता ते बलसूदन । देवरूपधरो भूत्वा वञ्चयिष्यामि तं बलिम् ॥ ९॥ शङ्कर उवाच । एवमुक्तस्तदा शक्रः प्रययौ कश्यपाश्रमम् । आदिदेशादितेर्गर्भं चांशेनाथ च सर्वदा ॥ १०॥ गर्भस्य एव तेजांसि दानवेभ्यः स आददे । ततः कालेन सुषुवे अदितिर्वामनाकृतिम् ॥ ११॥ यस्मिन् जाते सुरगणाः प्रहर्षमतुलं गताः । ऋषयश्च महाभागास्त्रैकाल्यामलदर्शिनः ॥ १२॥ एतस्मिन्नेव काले तु हयमेधाय दीक्षितः । बलिर्दैत्यपतिः श्रिमान् स्यालिग्राममुपाश्रितः ॥ १३॥ वामस्कन्धे तमादाय तस्य यज्ञे बृहस्पतिः । अनयद्भृगुशार्दूल नूनं तस्यैव मायया ॥ १४॥ यज्ञवाटं स सम्प्राप्य यज्ञं तुष्टाव वामनः । आत्मानमात्मना ब्रह्मन् भस्मच्छन्न इवानलः ॥ १५॥ प्रवेशयामास च तं बलिर्धर्मभृतां वरः । ददर्श च महाभागं वामनं सुमनोहरम् ॥ १६॥ संयुक्तसर्वावयवैः पीनैः सङ्क्षिप्तपर्वभिः । कृष्णाजिनजटादण्डकमण्डलुविराजितम् ॥ १७॥ विक्रमिष्यन् यथा व्याघ्रो लीयति स्म स्वविग्रहम् । विक्रमिष्यंस्तथैवोर्वीं लीनगात्रः स्वविग्रहे ॥ १८॥ एतस्मिन्नेव काले तु हयमेधाय दीक्षितः । तस्मात्तु प्रार्थयद्राजन् देहि मह्यं क्रमत्रयम् ॥ १९॥ एवमुक्तस्तु देवेन बलिर्दैत्यगणाधिपः । प्रददावुदकं तस्य पावयस्वेति चाब्रवीत् ॥ २०॥ अन्न्यच्च यदभीष्टं ते तद्गृहाण द्विजोत्तम । प्रतिजग्राह च जलं प्रवात्येव तदा हरिः ॥ २१॥ उदङ्मुखैर्दैत्यवरैः वीक्ष्यमाण इवाम्बुदः । आक्रमंस्तु हरिर्लोकान् दानवाः शस्त्रपाणयः ॥ २२॥ अभिद्रवन्ति वेगेन नानावक्त्रशिरोधराः । गरुडाननाः खड्गमुखा मयूरवदनास्तदा ॥ २३॥ घोरा मकरवक्त्राश्च क्रोष्टुवक्त्राश्च दानवाः । आखुदर्दुरवक्त्राश्च घोरवृकमुखास्तथा ॥ २४॥ मार्जारशशवक्त्राश्च हंसकाकाननास्तथा । गोधाशल्यकवक्त्राश्च अजाविमहिषाननाः ॥ २५॥ सिंहव्याघ्रशृगालानां द्वीपिवानरपक्षिणाम् । हस्त्यश्वगोखरोष्ट्राणां भुजगानां समाननाः ॥ २६॥ प्रतिग्रहजलं प्राप्य व्यवर्धत तदा हरिः । उदङ्मुखैर्देवगणैरीक्षमाण इवाम्बुदः ॥ २७॥ विक्रमन्तं हरिं लोकान् दानवाः शस्त्रपाणयः । मत्स्यकच्छपवक्त्राणां दर्दुराणां समाननाः ॥ २८॥ स्थूलदन्ता विवृत्ताक्षा लम्बोष्ठजठरास्तथा । पिङ्गलाक्षा विवृत्तास्या नानाबाहुशिरोधराः ॥ २९॥ स्थूलाग्रनासाश्चिपिटा महाहनुकपालिनः । चीनांशुकोत्तरासङ्गाः केचित्कृष्णाजिनाम्बराः ॥ ३०॥ भुजङ्गभरणाश्चान्ये केचिन्मुकुटभूषिताः । सकुण्डलाः सकटकाः सशिरस्त्राणमस्तकाः ॥ ३१॥ धनुर्बाणधराश्चान्ये तथा तोमरपाणयः । खड्गचर्मधराश्चान्ये तथा परिघपाणयः ॥ ३२॥ शतघ्नीचक्रहस्ताश्च गदामुसलपाणयः । अश्मयन्त्रायुधोपेता भिण्डिपालायुधास्तथा ॥ ३३॥ शूलोलूखलहस्ताश्च परश्वधधरास्तथा । महावृक्षप्रवहणा महापर्वतयोधिनः ॥ ३४॥ क्रममाणं हृषीकेशमुपावर्तन्त सर्वशः । स तान् ममर्द सर्वात्मा तन्मुखान् दैत्यदानवान् ॥ ३५॥ सरसीव महापद्मान् महाहस्तीव दानवान् । प्रमथ्य सर्वान् दैतेयान् हस्तपादतलैस्ततः ॥ ३६॥ रूपं कृत्वा महाभीममाजहाराऽऽशु मेदिनीम् । तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे ॥ ३७॥ परं प्रक्रममाणस्य नाभिदेशे व्यवस्थितौ । ततः प्रक्रममाणस्य जानुदेशे व्यवस्थितौ ॥ ३८॥ ततोऽपि क्रममाणस्य पद्भ्यां देवौ व्यवस्थितौ । जित्वा स मेदिनीं कृत्स्नां हत्वा चासुरपुङ्गवान् ॥ ३९॥ ददौ शक्राय वसुधां विष्णुर्बलवतां वरः । स्वं रूपं च तथाऽऽसाद्य दानवेन्द्रमभाषत ॥ ४०॥ श्रीभगवानुवाच । यज्ञवाटे त्वदीयेऽस्मिन् सालिग्रामे महासुर । मया निविष्टपादेन मापितेयं वसुन्धरा ॥ ४१॥ प्रथमं तु पदं जातं नौर्बन्धशिखरे मम । द्वितीयं मेरुशिखरे तृतीयं नाभवत्क्वचित् ॥ ४२॥ तन्मे वरय दैत्येन्द्र यन्मयाऽऽप्तं प्रतिग्रहम् । बलिरुवाच । यावती वसुधा देव त्वयैव परिनिर्मिता ॥ ४३॥ तावती ते न सम्पूर्णा देवदेव क्रमत्रयम् । न कृतं यत्त्वया देव कुतस्तन्मे महेश्वर ॥ ४४॥ न च तद्विद्यते देव तथैवान्यस्य कस्यचित् । श्रीभगवानुवाच । न मे त्वयाऽऽपूर्यते मे दानवेन्द्र यथाश्रुतम् ॥ ४५॥ सुतलं नाम पातालं वस तत्र सुसंयतः । मयैव निर्मिता तत्र मनसा शोभना पुरी ॥ ४६॥ ज्ञातिभिः सह धर्मिष्ठैर्वस तत्र यथासुखम् । तत्र त्वं भोक्ष्यसे भोगान् विशिष्टान् बलसूदनात् ॥ ४७॥ अवाप्स्यसि तथा भोगान् लोकाद्विधिविवर्जितान् । प्राकाम्ययुक्तश्च तथा लोकेषु विहरिष्यसि ॥ ४८॥ मन्वन्तरे द्वितीये च महेन्द्रत्वं करिष्यसि । तेजसा च मदीयेन शक्रत्वे योक्ष्यसे बले ॥ ४९॥ तव शत्रुगणान् सर्वान् घातयिष्याम्यहं तदा । ब्रह्मण्यस्त्वं शरण्यस्त्वं यज्ञशीलः प्रियंवदः ॥ ५०॥ तपस्वी दानशीलश्च वेदवेदाङ्गपारगः । तस्माद्यशोभिर्वृद्ध्यर्थं मया त्वमभिसन्धितः ॥ ५१॥ देवराजाधिकान् भोगान् पातालस्थोऽपि भोक्ष्यसे । सन्निधानञ्च तत्राहं करिष्याम्यसुराधिप ॥ ५२॥ मया च रंस्यसे सार्धं स्पृहणीयः सुरैरपि । शक्रत्वं च तथा कृत्वा भाव्ये सावर्णिकेऽन्तरे ॥ ५३॥ सर्वसंधिविनिर्मुक्तो मयैव सह रंस्यसे ॥ ५४॥ शङ्कर उवाच । इत्येवमुक्त्वा सजलाम्बुदाभः प्रतप्तचामीकरधौतवस्त्रः । अदर्शनं देववरो जगाम शक्रश्च लेभे सकलां त्रिलोकीम् ॥ ५५॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शङ्करगीतासु वामनप्रादुर्भावो नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥५५॥
अथ श्रीविष्णुधर्मोत्तरे प्रथमखण्डान्तर्गते शङ्करगीतासु षष्ठोऽध्यायः ॥६॥ राम उवाच । तस्य देवादिदेवस्य विष्णोरमिततेजसः । त्वत्तोऽहं श्रोतुमिच्छामि दिव्या आत्मविभूतयः ॥ १॥ शङ्कर उवाच । न शक्या विस्तराद्वक्तुं देवदेवस्य भूतयः । प्राधान्यतस्ते वक्ष्यामि शृणुष्वैकमना द्विज ॥ २॥ सर्गे ब्रह्मा स्थितौ विष्णुः संहारे च तथा हरः । वरुणो वायुराकाशो ज्योतिश्च पृथिवी तथा ॥ ३॥ दिशश्च विदिश्चापि तथा ये च दिगीश्वराः । आदित्या वसवो रुद्रा भृगवोऽङ्गिरसस्तथा ॥ ४॥ साध्याश्च मरुतो देवा विश्वेदेवास्तथैव च । अश्विनौ पुरुहूतश्च गन्धर्वाप्सरसां गणाः ॥ ५॥ पर्वतोदधिपाताला लोका द्वीपाश्च भार्गव । तिर्यगूर्ध्वमधश्चैव त्विङ्गितं यश्च नेङ्गते ॥ ६॥ सच्चासच्च महाभाग प्रकृतिर्विकृतिश्च यः । कृमिकीटपतङ्गानां वयसां योनयस्तथा ॥ ७॥ विद्याधरास्तथा यक्षा नागाः सर्पाः सकिन्नराः । राक्षसाश्च पिशाचाश्च पितरः कालसंधयः ॥ ८॥ धर्मार्थकाममोक्षाश्च धर्मद्वाराणि यानि च । यज्ञाङ्गानि च सर्वाणि भूतग्रामं चतुर्विधम् ॥ ९॥ जरायुजाण्डजाश्चैव संस्वेदजमथोद्भिजम् । एकज्योतिः स मरुतां वसूनां स च पावकः ॥ १०॥ अहिर्बुध्न्यश्च रुद्राणां नादैवाश्विनयोस्तथा । नारायणश्च साध्यानां भृगूणां च तथा क्रतुः ॥ ११॥ आदित्यानां तथा विष्णुरायुरङ्गिरसां तथा । विश्वेषां चैव देवानां रोचमानः सुकीर्तितः ॥ १२॥ वासवः सर्वदेवानां ज्योतिषां च हुताशनः । यमः संयमशीलानां विरूपाक्षः क्षमाभृताम् ॥ १३॥ यादसां वरुणश्चैव पवन प्लवतां तथा । धनाध्यक्षश्च यक्षाणां रुद्रो रौद्रस्तथान्तरः ॥ १४॥ अनन्तः सर्वनागानां सूर्यस्तेजस्विनां तथा । ग्रहाणां च तथा चन्द्रो नक्षत्राणां च कृत्तिका ॥ १५॥ कालः कलयतां श्रेष्ठो युगानां च कृतं युगम् । कल्पं मन्वन्तरेशाश्च मनवश्च चतुर्दश ॥ १६॥ स एव देवः सर्वात्मा ये च देवेश्वरास्तथा । संवत्सरस्तु वर्षाणां चायनानां तथोत्तरः ॥ १७॥ मार्गशीर्षस्तु मासानां ऋतूनां कुसुमाकरः । शुक्लपक्षस्तु पक्षाणां तिथीनां पूर्णिमा तिथिः ॥ १८॥ कारणानां वधः (?) प्रोक्तो मुहूर्तानां तथाऽभिजित् । पातालानां सुतलश्च समुद्राणां पयोदधिः ॥ १९॥ जम्बूद्वीपश्च द्वीपानां लोकानां सत्य उच्यते । मेरुः शिलोच्चयानां च वर्षेष्वपि च भारतम् ॥ २०॥ हिमालयः स्थावराणां जाह्नवी सरितां तथा । पुष्करः सर्वतीर्थानां गरुडः पक्षिणां तथा ॥ २१॥ गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः । ऋषीणां च भृगुर्देवो देवर्षीणां च नारदः ॥ २२॥ तथा ब्रह्मर्षीणां च अङ्गिराः परिकीर्तितः । विद्याधराणां सर्वेषां देवश्चित्राङ्गदस्तथा ॥ २३॥ कंवरः किन्नराणां च सर्पाणामथ वासुकिः । (कंधरः?) प्रह्लादः सर्वदैत्यानां रम्भा चाप्सरसां तथा ॥ २४॥ उच्चैःश्रवसमश्वानां धेनूनां चैव कामधुक् । ऐरावतो गजेन्द्राणां मृगाणां च मृगाधिपः ॥ २५॥ आयुधानां तथा वज्रो नराणां च नराधिपः । क्षमा क्षमावतां देवो बुद्धिर्बुद्धिमतामपि ।२६॥ धर्माविरुद्धः कामश्च तथा धर्मभृतां नृणाम् । धर्मो धर्मभृतां देवस्तपश्चैव तपस्विनाम् ॥ २७॥ यज्ञानां जपयज्ञश्च सत्यः सत्यवतां तथा । वेदानां सामवेदश्च अंशुनां ज्योतिषां पतिः ॥ २८॥ गायत्री सर्वमन्त्राणां वाचः प्रवदतां तथा । अक्षराणामकारश्च यन्त्राणां च तथा धनुः ॥ २९॥ अध्यात्मविद्या विद्यानां कवीनामुशना कविः । चेतना सर्वभूतानामिन्द्रियाणां मनस्तथा ॥ ३०॥ ब्रह्मा ब्रह्मविदां देवो ज्ञानं ज्ञानवतां तथा । कीर्तिः श्रीर्वाक् च नारीणां स्मृतिर्मेधा तथा क्षमा ॥ ३१॥ आश्रमाणां चतुर्थश्च वर्णानां ब्राह्मणस्तथा । स्कन्दः सेनाप्रणेतॄणां सदयश्च दयावताम् ॥ ३२॥ जयश्च व्यवसायश्च तथोत्साहवतां प्रभुः । अश्वत्थः सर्ववृक्षाणामोषधीनां तथा यवः ॥ ३३॥ मृत्युः स एव म्रियतामुद्भवश्च भविष्यताम् । झषाणां मकरश्चैव द्यूतं छलयतां तथा ॥ ३४॥ मानश्च सर्वगुह्यानां रत्नानां कनकं तथा । धृतिर्भूमौ रसस्तेजस्तेजश्चैव हुताशने ॥ ३५॥ वायुः स्पर्शगुणानां च खं च शब्दगुणस्तथा । एवं विभूतिभिः सर्वं व्याप्य तिष्ठति भार्गव ॥ ३६॥ एकांशेन भृगुश्रेष्ठ तस्यांशत्रितयं दिवि । देवाश्च ऋषयश्चैव ब्रह्मा चाहं च भार्गव ॥ ३७॥ चक्षुषा यन्न पश्यन्ति विना ज्ञानगतिं द्विज । ज्ञाता ज्ञेयस्तथा ध्याता ध्येयश्चोक्तो जनार्दनः ॥ ३८॥ यज्ञो यष्टा च गोविन्दः क्षेत्रं क्षेत्रज्ञ एव च । अन्नमन्नाद एवोक्तः स एव च गुणत्रयम् ।३९॥ गामाविश्य च भूतानि धारयत्योजसा विभुः । पुष्णाति चौषधीः सर्वा सोमो भूत्वा रसात्मकः ॥ ४०॥ प्राणिनां जठरस्थोऽग्निर्भुक्तपाची स भार्गव । चेष्टाकृत्प्राणिनां ब्रह्मन् स च वायुः शरीरगः ॥ ४१॥ यथादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजस्तत्र कीर्तितम् ॥ ४२॥ सर्वस्य चासौ हृदि सन्निविष्टस्तस्मात्स्मृतिर्ज्ञानमपोहनं च । सर्वैश्च देवैश्च स एव वन्द्यो वेदान्तकृद्वेदकृदेव चासौ ॥४३॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शङ्करगीतासु विभूतिवर्णनं नाम षट्पञ्चाशत्तमोऽध्यायः ॥५६॥
अथ श्रीविष्णुधर्मोत्तरे प्रथमखण्डान्तर्गते शङ्करगीतासु सप्तमोऽध्यायः ॥७॥ राम उवाच । आराध्यते स भगवान् कर्मणा येन शङ्कर । तन्ममाचक्ष्व भगवन् सर्वसत्त्वसुखप्रदम् ॥ १॥ शङ्कर उवाच । साधु राम महाभाग साधु दानवनाशन । यन्मां पृच्छसि धर्मज्ञ केशवाराधनं प्रति ॥ २॥ दिवसं दिवसार्धं वा मुहूर्तमेकमेव वा । नाशश्चाशेषपापस्य भक्तिर्भवति केशवे ॥ ३॥ अनेकजन्मसाहस्रैर्नानायोन्यन्तरेषु च । जन्तोः कल्मषहीनस्य भक्तिर्भवति केशवे ॥ ४॥ नाधन्यः केशवं स्तौति नाधन्योऽर्चयति प्रभुम् । नमत्यधन्यश्च हरिं नाधन्यो वेत्ति माधवम् ॥ ५॥ मनश्च तद्धि धर्मज्ञ केशवे यत्प्रवर्तते । सा बुद्धिस्तद्व्रतायैव सततं प्रतितिष्ठति ॥ ६॥ सा वाणी केशवं देवं या स्तौति भृगुनन्दन । श्रवणौ तौ श्रुता याभ्यां सततं तत्कथाः शुभाः ॥ ७॥ अवेहि धर्मज्ञ तथा तत्पूजाकरणात्करौ । तदेकं सफलं कर्म केशवार्थाय यत्कृतम् ॥ ८॥ यतो मुख्यफलावाप्तौ करणं सुप्रयोजनम् । मनसा तेन किं कार्यं यन्न तिष्ठति केशवे ॥ ९॥ बुद्ध्या वा भार्गवश्रेष्ठ तया नास्ति प्रयोजनम् । रोगः सा रसना वापि यया न स्तूयते हरिः ॥ १०॥ गर्तौ ब्रह्मव्रतौ कर्णौ याभ्यां तत्कर्म न श्रुतम् । भारभूतैः करैः कार्यं कि तस्य नृपशोर्द्विज ॥ ११॥ यैर्न सम्पूजितो देवः शङ्खचक्रगदाधरः । पादौ तौ सफलौ राम केशवालयगामिनौ ॥ १२॥ ते च नेत्रे महाभाग याभ्यां सन्दृश्याते हरिः । किं तस्य चरणैः कार्यं कृतस्य निपुणैर्द्विज ॥ १३॥ याभ्यां न व्रजते जन्तुः केशवालयदर्शने । जात्यन्धतुल्यं तं मन्ये पुरुषं पुरुषोत्तम ॥ १४॥ यो न पश्यति धर्मज्ञ केशवार्चा पुनः पुनः । क्लेशसंजननं कर्म वृथा तद्भृगुनन्दन ॥ १५॥ केशवं प्रति यद्राम क्रियतेऽहनि सर्वदा । पश्य केशवमाराध्य मोदमानं शचीपतिम् ॥ १६॥ यमञ्च वरुणञ्चैव तथा वैश्रवणं प्रभुम् । देवेन्द्रत्वमतिस्फीतं सर्वभूतिस्मितं(??) पदम् ॥ १७॥ हरिभक्तिद्रुमात्पुष्पं राजसात्सात्त्विकं फलम् । अणिमा महिमा प्राप्तिः प्राकाम्यं लघिमा तथा ॥ १८॥ ईशित्वञ्च वशित्वञ्च यत्र कामावसायिता । आराध्य केशवं देवं प्रप्यन्ते नात्र संशयः ॥ १९॥ हतप्रत्यङ्गमातङ्गो रुधिरारुणभूतले । सङ्ग्रामे विजयं राम प्राप्यते तत्प्रसादतः ॥ २०॥ महाकटितटश्रोण्यः पीनोन्नतपयोधराः । अकलङ्कशशाङ्काभवदना नीलमूर्धजाः ॥ २१॥ रमयन्ति नरं स्वप्ने देवरामा मनोहराः । सकृद्येनार्चितो देवो हेलया वा नमस्कृतः ॥ २२॥ वेदवेदाङ्गवपुषां मुनीनां भावितात्मनाम् । ऋषित्वमपि धर्मज्ञ विज्ञेयं तत्प्रसादजम् ॥ २३॥ रमन्ते सह रामाभिः प्राप्य वैद्याधरं पदम् । अन्यभावतया नाम्नः कीर्तनादपि भार्गव ॥ २४॥ रत्नपर्यङ्कशयिता महाभोगाश्च भोगिनः । वीज्यन्ते सह रामाभिः केशवस्मरणादपि ॥ २५॥ सौगन्धिके वने रम्ये कैलासपर्वते द्विज । यद्यक्षा विहरन्ति स्म तत्प्राहुः कुसुमं नतेः ॥ २६॥ रत्नचित्रासु रम्यासु नन्दनोद्यानभूमिषु । क्रीडन्ति च सह स्त्रीभिर्गन्धर्वीभिः कथाश्रुतेः ॥ २७॥ चतुस्समुद्रवेलायां मेरुविन्ध्यपयोधराम् । धरां ये भुञ्जते भूपाः प्रणिपातस्य तत्फलम् ॥ २८॥ तस्मात्तवाहं वक्ष्यामि यद्यदा चरतः सदा । पुरुषस्येह भगवान् सुतोषस्तुष्यते हरिः ॥ २९॥ पूज्यः स नित्यं वरदो महात्मा स्तव्य स नित्यं जगदेकवन्द्यः । ध्येयः स नित्यं सकलाघहर्ता चैतावदुक्तं तव राम गुह्यम् ॥ ३०॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शङ्करगीतासु भक्तिफलप्रदर्शनं नाम सप्तपञ्चाशत्तमोऽध्यायः ॥५७॥ Encoded and proofread by PSA EASWARAN psaeaswaran at gmail.com

% Text title            : shaMkaragItA
% File name             : shaMkaragItA.itx
% itxtitle              : shaNkaragItA
% engtitle              : Shankara Gita
% Category              : gItA
% Location              : doc_giitaa
% Sublocation           : giitaa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : PSA Easwaran psaeaswaran at gmail.com
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Indexextra            : viShNudharmottara purAna 51-57 (Needs proofreading) (scanned)
% Latest update         : March 3, 2013
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP