॥ शौनकगीता ॥

॥ अथ शौनकगीता॥ शोकस्थानसहस्राणि भयस्थानशतानि च । दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥ १॥ न हि ज्ञानविरुद्धेषु बहुदोषेषु कर्मसु । श्रेयोघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥ २॥ अष्टाङ्गां बुद्धिमाहुर्या सर्वाश्रेयोविघातिनीम् । श्रुतिस्मृतिसमायुक्तां राजन्सा त्वय्यवस्थिता ॥ ३॥ अर्थकृच्छ्रेषु दुर्गेषु व्यापत्सु स्वजनस्य च । शारीर मानसैर्दुःखैर्नसीदन्ति भवद्विधाः ॥ ४॥ श्रूयतां चाभिधास्यामि जनकेन यथा पुरा । आत्मव्यवस्थानकरा गीताः श्लोका महात्मना ॥ ५॥ मनोदेहसमुत्थाभ्यां दुःखाभ्यां मर्दितं जगत् । तयोर्व्याससमासाभ्यां शमोपायमिमं श्रुणु ॥ ६॥ व्याधेरनिष्टसंस्पर्शाच्छ्रमादिष्टविवर्जनात् । दुःखं चतुर्भिः शारीरं कारणैः सम्प्रवर्तते ॥ ७॥ तदातत्प्रतिकाराच्च सततं चाविचिन्तनात् । आधिव्याधिप्रशमनं क्रियायोगद्वयेन तु ॥ ८॥ मतिमन्तो ह्यतो वैद्याः शमं प्रागेव कुर्वते । मानसस्य प्रियाख्यानैः संभोगोपनयैर्नृणाम् ॥ ९॥ मानसेनहि दुःखेन शरीरमुपतप्यते । अयस्तप्तेन पिण्डेन कुम्भसंस्थमिवोदकम् ॥ १०॥ मानसं शमयेत्तस्माज्ज्ञानेनाग्निमिवाम्बुना । प्रशान्ते मानसे ह्यस्य शारीरमुपशाम्यति ॥ ११॥ मनसो दुःखमूलं तु स्नेह इत्युपलभ्यते । स्नेहात्तु सज्जते जन्तुर्दुःखयोगमुपैति च ॥ १२॥ स्नेहमूलानि दुःखानि स्नेहजानि भयानि च । शोकहर्षौ तथायासः सर्वस्नेहात्प्रवर्तते ॥ १३॥ स्नेहाद्भावोऽनुरागश्च प्रजज्ञे विषये तथा । अश्रेयस्कावुभावेतौ पूर्वस्तत्र गुरुः स्मृतः ॥ १४॥ कोटराग्निर्यथाशेषं समूलं पादपं दहेत् । धर्मार्थौ तु तथाऽल्पोपि रागदोषो विनाशयेत् ॥ १५॥ विप्रयोगेन तु त्यागी दोषदर्शी समागमे । विरागं भजते जन्तुर्निर्वैरो निरवग्रहः ॥ १६॥ तस्मात्स्नेहं न लिप्सेत मित्रेभ्यो धनसंचयात् । स्वशरीरसमुत्थं च ज्ञानेन विनिवर्तयेत् ॥ १७॥ ज्ञानान्वितेषु युक्तेषु शास्त्रज्ञेषु कृतात्मसु । न तेषु सज्जते स्नेहः पद्मपत्रेष्विवोदकम् ॥ १८॥ रागाभिभूतः पुरुषः कामेन परिकृष्यते । इच्छा संजायते तस्य ततस्तृष्णा विवर्धते ॥ १९॥ तृष्णाहि सर्वपापिष्ठा नित्योद्वेगकरी स्मृता । अधर्मबहुला चैव घोरा पापानुबन्धिनी ॥ २०॥ या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः । योसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥ २१॥ अनाद्यन्ता हि सा तृष्णा अन्तर्देहगता नृणाम् । विनाशयति भूतानि अयोनिज इवानलः ॥ २२॥ यथैधः स्वसमुत्थेन वह्निना नाशमृच्छति । तथाऽकृतात्मा लोभेन सहजेन विनश्यति ॥ २३॥ राजतः सलिलादग्नेश्चोरतः स्वजनादपि । भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव ॥ २४॥ यथा ह्यामिषमाकाशे पक्षिभिः श्वापदैर्भुवि । भक्ष्यन्ते सलिले मत्स्यैस्तथा सर्वत्र वित्तवान् ॥ २५॥ अर्थ एव हि केषांचिदनर्थ भजते नृणाम् । अर्थ श्रेयसि चासक्तो न श्रेयो विन्दते नरः ॥ २६॥ तस्मादर्थागमाः सर्वे मनोमोहविवर्धनाः । कार्पण्यं दर्पमानौ च भयमुद्वेग एव च ॥ २७॥ अर्थजानिं विदुः प्राज्ञा दुःखन्येतानि देहिनाम् । अर्थस्योत्पादने चैव पालने च तथाक्षये ॥ २८॥ सहन्ति च महद्दुःखं घ्नन्ति चैवार्थकारणात् । अर्थाद्दुःखं परित्यक्तं पालिताश्चैव शत्रवः ॥ २९॥ दुःखेन चाधिगम्यन्ते तस्मान्नाशं न चिन्तयेत् । असन्तोषपरा मूढाः सन्तोषं यान्ति पण्डिताः ॥ ३०॥ अन्तो नास्ति पिपासायाः सन्तोषः परमं सुखम् । तस्मात्सन्तोषमेवेह परं पश्यन्ति पण्डिताः ॥ ३१॥ अनित्यं यौवनं रूपं जीवितं रत्नसंचयः । ऐश्वर्यं प्रियसंवासो गृद्ध्येत्तत्र न पण्डितः ॥ ३२॥ त्यजेत सञ्चयांस्तस्मात्तज्जान्क्लेशान् सहेत च । न हि सञ्चयवान्कश्चिद्दृश्यते निरुपद्रवः । अतश्च धार्मिकैः पुंभिरनीहार्थः प्रशस्यते ॥ ३३॥ धर्मार्थ यस्य वित्तेहा वरं तस्य निरीहता । प्रक्षालनाद्धि पङ्कस्य श्रेयो न स्पर्शनं नृणाम् ॥ ३४॥ युधिष्ठिरैवं सर्वेषु न स्पृहां कर्तुमर्हसि । धर्मेण यदिते कार्य विमुक्तेच्छो भवार्थतः ॥ ३५॥ ॥ इति शौनकगीता समाप्ता ॥ From Mahabharata Vanaparva Adhyaya 2, shloka 15-48. Encoded and proofread by Sunder Hattangadi sunder at hotmail.com

% Text title            : shaunakagItA
% File name             : shaunakagiitaa.itx
% itxtitle              : shaunakagItA
% engtitle              : shaunakagItA
% Category              : gItA, giitaa
% Location              : doc_giitaa
% Sublocation           : giitaa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi sunder at hotmail.com
% Proofread by          : Sunder Hattangadi sunder at hotmail.com
% Indexextra            : scanned
% Latest update         : December 15, 2012
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP