॥ श्रीशिवगीता ॥

॥ शिव गीता ॥ अथ श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे १ शिवभक्त्युत्कर्षनिरूपणं नाम प्रथमोऽध्यायः ॥ १ ॥ ४० २ वैराग्योपदेशो नाम द्वितीयोऽध्यायः ॥ २ ॥ ४३ ३ विरजादीक्षानिरूपणं नाम तृतीयोऽध्यायः ॥ ३ ॥ ३५ ४ शिवप्रदुर्भावाख्यः नाम चतुर्थोऽध्यायः ॥ ४ ॥ ५२ ५ रामाय वरप्रदानं नाम पञ्चमोऽध्यायः ॥ ५ ॥ ४१ ६ विभूतियोगो नाम षष्ठोऽध्यायः ॥ ६ ॥ ६० ७ विश्वरूपदर्शनं नाम सप्तमोऽध्यायः ॥ ७ ॥ ४७ ८ पिण्डोत्पत्तिकथनं नाम अष्टमोऽध्यायः ॥ ८ ॥ ७० ९ देहस्वरूपनिर्णयो नाम नवमोऽध्यायः ॥ ९ ॥ ५१ १० जीवस्वरूपकथनं नाम दशमोऽध्यायः ॥ १० ॥ ६३ ११ जीवगत्यादिनिरूपणं नाम एकादशोऽध्यायः ॥ ११ ॥ ४५ १२ उपासनाज्ञानफलं नाम द्वादशोऽध्यायः ॥ १२ ॥ ४२ १३ मोक्षयोगो नाम त्रयोदशोऽध्यायः ॥ १३ ॥ ३८ १४ पञ्चकोशोपपादनं नाम चतुर्दशोऽध्यायः ॥ १४ ॥ ४५ १५ भक्तियोगो नाम पञ्चदशोऽध्यायः ॥ १५ ॥ ४२ १६ गीताधिकारिनिरूपणं नाम षोडशोऽध्यायः ॥ १६ ॥ ६९ ट् = ७८३
॥ शिव गीता ॥ अथ प्रथमोऽध्यायः । सूत उवाच ॥ अथातः सम्प्रवक्ष्यामि शुद्धं कैवल्यमुक्तिदम् । अनुग्रहान्महेशस्य भवदुःखस्य भेषजम् ॥ १॥ न कर्मणामनुष्ठानैर्न दानैस्तपसापि वा । कैवल्यं लभते मर्त्यः किंतु ज्ञानेन केवलम् ॥ २॥ रामाय दण्डकारण्ये पार्वतीपतिना पुरा । या प्रोक्ता शिवगीताख्या गुह्याद्गुह्यतमा हि सा ॥ ३॥ यस्याः श्रवणमात्रेण नृणां मुक्तिर्ध्रुवं भवेत् । पुरा सनत्कुमाराय स्कन्देनाभिहिता हि सा ॥ ४॥ सनत्कुमारः प्रोवाच व्यासाय मुनिसत्तमाः । मह्यं कृपातिरेकेण प्रददौ बादरायणः ॥ ५॥ उक्तं च तेन कस्मैचिन्न दातव्यमिदं त्वया । सूतपुत्रान्यथा देवाः क्षुभ्यन्ति च शपन्ति च ॥ ६॥ अथ पृष्टो मया विप्रा भगवान्बादरायणः । भगवन्देवताः सर्वाः किं क्षुभ्यन्ति शपन्ति च ॥ ७॥ तासामत्रास्ति का हानिर्यया कुप्यन्ति देवताः । पाराशर्योऽथ मामाह यत्पृष्टं शृणु वत्स तत् ॥ ८॥ नित्याग्निहोत्रिणो विप्राः संति ये गृहमेधिनः । त एव सर्वफलदाः सुराणां कामधेनवः ॥ ९॥ भक्ष्यं भोज्यं च पेयं च यद्यदिष्टं सुपर्वणाम् । अग्नौ हुतेन हविषा सत्सर्वं लभ्यते दिवि ॥ १०॥ नान्यदस्ति सुरेशानामिष्टसिद्धिप्रदं दिवि । दोग्ध्री धेनुर्यथा नीता दुःखदा गृहमेधिनाम् ॥ ११॥ तथैव ज्ञानवान्विप्रो देवानां दुःखदो भवेत् । त्रिदशास्तेन विघ्नन्ति प्रविष्टा विषयं नृणाम् ॥ १२॥ ततो न जायते भक्तिः शिवे कस्यापि देहिनः । तस्मादविदुषां नैव जायते शूलपाणिनः ॥ १३॥ यथाकथंचिज्जातापि मध्ये विच्छिद्यते नृणाम् । जातं वापि शिवज्ञानं न विश्वासं भजत्यलम् ॥ १४॥ ऋषय ऊचुः ॥ यद्येवं देवता विघ्नमाचरन्ति तनूभृताम् । पौरुषं तत्र कस्यास्ति येन मुक्तिर्भविष्यति ॥ १५॥ सत्यं सूतात्मज ब्रूहि तत्रोपायोऽस्ति वा न वा ॥ सूत उवाच ॥ कोटिजन्मार्जितैः पुण्यैः शिवे भक्तिः प्रजायते ॥ १६॥ इष्टापूर्तादिकर्माणि तेनाचरति मानवः । शिवार्पणधिया कामान्परित्यज्य यथाविधि ॥ १७॥ अनुग्रहात्तेन शंभोर्जायते सुदृढो नरः । ततो भीताः पलायन्ते विघ्नं हित्वा सुरेश्वराः ॥ १८॥ जायते तेन शुश्रूषा चरिते चन्द्रमौलिनः । शृण्वतो जायते ज्ञानं ज्ञानादेव विमुच्यते ॥ १९॥ बहुनात्र विमुक्तेन यस्य भक्तिः शिवे दृढा । महापापोपपापौघकोटिग्रस्तोऽपि मुच्यते ॥ २०॥ अनादरेण शाठ्येन परिहासेन मायया । शिवभक्तिरतश्चेत्स्यादन्त्यजोऽपि विमुच्यते ॥ २१॥ एवं भक्तिश्च सर्वेषां सर्वदा सर्वतोमुखी । तस्यां तु विद्यमानायां यस्तु मर्त्यो न मुच्यते ॥ २२॥ संसारबन्धनात्तस्मादन्यः को वास्ति मूढधीः । नियमाद्यस्तु कुर्वीत भक्तिं वा द्रोहमेव वा ॥ २३॥ तस्यापि चेत्प्रसन्नोऽसौ फलं यच्छति वाञ्छितम् । ऋद्धं किंचित्समादाय क्षुल्लकं जलमेव वा ॥ २४॥ यो दत्ते नियमेनासौ तस्मै दत्ते जगत्त्रयम् । तत्राप्यशक्तो नियमान्नमस्कारं प्रदक्षिणाम् ॥ २५॥ यः करोति महेशस्य तस्मै तुष्टो भवेच्छिवः । प्रदक्षिणास्वशक्तोऽपि यः स्वान्ते चिन्तयेच्छिवम् ॥ २६॥ गच्छन्समुपविष्टो वा तस्याभीष्टं प्रयच्छति । चन्दनं बिल्वकाष्ठस्य पुष्पाणि वनजान्यपि ॥ २७॥ फलानि तादृशान्येव यस्य प्रीतिकराणि वै । दुष्करं तस्य सेवायां किमस्ति भुवनत्रये ॥ २८॥ वन्येषु यादृशी प्रीतिर्वर्तते परमेशितुः । उत्तमेष्वपि नास्त्येव तादृशी ग्रामजेष्वपि ॥ २९॥ तं त्यक्त्वा तादृशं देवं यः सेवेतान्यदेवताम् । स हि भागीरथीं त्यक्त्वा काङ्क्षते मृगतृष्णिकाम् ॥ ३०॥ किंतु यस्यास्ति दुरितं कोटिजन्मसु संचितम् । तस्य प्रकाशते नायमर्थो मोहान्धचेतसः ॥ ३१॥ न कालनियमो यत्र न देशस्य स्थलस्य च । यत्रास्य चित्रं रमते तस्य ध्यानेन केवलम् ॥ ३२॥ आत्मत्वेन शिवस्यासौ शिवसायुज्यमाप्नुयात् । अतिस्वल्पतरायुः श्रीर्भूतेशांशाधिपोऽपि यः ॥ ३३॥ स तु राजाहमस्मीति वादिनं हन्ति सान्वयम् । कर्तापि सर्वलोकानामक्षयैश्वर्यवानपि ॥ ३४॥ शिवः शिवोऽहमस्मीति वादिनं यं च कञ्चन । आत्मना सह तादात्म्यभागिनं कुरुते भृशम् ॥ ३५॥ धर्मार्थकाममोक्षाणां पारं यस्याथ येन वै । मुनयस्तत्प्रवक्ष्यामि व्रतं पाशुपताभिधम् ॥ ३६॥ कृत्वा तु विरजां दीक्षां भूतिरुद्राक्षधारिणः । जपन्तो वेदसाराख्यं शिवनामसहस्रकम् ॥ ३७॥ संत्यज्य तेन मर्त्यत्वं शैवीं तनुमवाप्स्यथ । ततः प्रसन्नो भगवाञ्छंकरो लोकशंकरः ॥ ३८॥ भवतां दृश्यतामेत्य कैवल्यं वः प्रदास्यति । रामाय दण्डकारण्ये यत्प्रादात्कुम्भसंभवः ॥ ३९॥ तत्सर्वं वः प्रवक्ष्यामि शृणुध्वं भक्तियोगिनः ॥ ४०॥ इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे शिवभक्त्युत्कर्षनिरूपणं नाम प्रथमोऽध्यायः ॥ १ ॥
अथ द्वितीयोऽध्यायः ॥ ऋषय ऊचुः ॥ किमर्थमागतोऽगस्त्यो रामचन्द्रस्य सन्निधिम् । कथं वा विरजां दीक्षां कारयामास राघवम् । ततः किमाप्तवान् रामः फलं तद्वक्तुमर्हसि ॥ १॥ सूत उवाच ॥ रावणेन यदा सीताऽपहृता जनकात्मजा । तदा वियोगदुःखेन विलपन्नास राघवः ॥ २॥ निर्निद्रो निरहंकारो निराहारो दिवानिशम् । मोक्तुमैच्छत्ततः प्राणान्सानुजो रघुनन्दनः ॥ ३॥ लोपामुद्रापतिर्ज्ञात्वा तस्य सन्निधिमागमत् । अथ तं बोधयामास संसारासारतां मुनिः ॥ ४॥ अगस्त्य उवाच ॥ किं विषीदसि राजेन्द्र कान्ता कस्य विचार्यताम् । जडः किं नु विजानाति देहोऽयं पाञ्चभौतिकः ॥ ५॥ निर्लेपः परिपूर्णश्च सच्चिदानन्दविग्रहः । आत्मा न जायते नैव म्रियते न च दुःखभाक् ॥ ६॥ सूर्योऽसौ सर्वलोकस्य चक्षुष्ट्वेन व्यवस्थितः । तथापि चाक्षुषैर्दोषैर्न कदाचिद्विलिप्यते ॥ ७॥ सर्वभूतान्तरात्मापि तद्वद्दृश्यैर्न लिप्यते । देहोऽपि मलपिण्डोऽयं मुक्तजीवो जडात्मकः ॥ ८॥ दह्यते वह्निना काष्ठैः शिवाद्यैर्भक्ष्यतेऽपि वा । तथापि नैव जानाति विरहे तस्य का व्यथा ॥ ९॥ सुवर्णगौरी दूर्वाया दलवच्छ्यामलापि वा । पीनोत्तुङ्गस्तनाभोगभुग्नसूक्ष्मवलग्निका ॥ १०॥ बृहन्नितम्बजघना रक्तपादसरोरुहा । राकाचन्द्रमुखी बिम्बप्रतिबिम्बरदच्छदा ॥ ११॥ नीलेन्दीवरनीकाशनयनद्वयशोभिता । मत्तकोकिलसँल्लापा मत्तद्विरदगामिनी ॥ १२॥ कटाक्षैरनुगृह्णाति मां पञ्चेषुशरोत्तमैः । इति यां मन्यते मूढ स तु पञ्चेषुशासितः ॥ १३॥ तस्याविवेकं वक्ष्यामि शृणुष्वावहितो नृप । न च स्त्री न पुमानेष नैव चायं नपुंसकः ॥ १४॥ अमूर्तः पुरुषः पूर्णो द्रष्टा देही स जीविनः । या तन्वङ्गी मृदुर्बाला मलपिण्डात्मिका जडा ॥ १५॥ सा न पश्यति यत्किंचिन्न शृणोति न जिघ्रति । चर्ममात्रा तनुस्तस्या बुद्ध्वा त्यक्षस्व राघव ॥ १६॥ या प्राणादधिका सैव हंत ते स्याद्घृणास्पदम् । जायन्ते यदि भूतेभ्यो देहिनः पाञ्चभौतिकाः ॥ १७॥ आत्मा यदेकलस्तेषु परिपूर्णः सनातनः । का कान्ता तत्र कः कान्तः सर्व एव सहोदराः ॥ १८॥ निर्मितायां गृहावल्यां तदवच्छिन्नतां गतम् । नभस्तस्यां तु दग्धायां न कांचित्क्षतिमृच्छति ॥ १९॥ तद्वदात्मापि देहेषु परिपूर्णः सनातनः । हन्यमानेषु तेष्वेव स स्वयं नैव हन्यते ॥ २०॥ हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् । तावुभौ न विजानीतो नायं हन्ति न हन्यते ॥ २१॥ अस्मान्नृपातिदुःखेन किं खेदस्यास्ति कारणम् । स्वस्वरूपं विदित्वेदं दुःखं त्यक्त्वा सुखी भव ॥ २२॥ राम उवाच ॥ मुने देहस्य नो दुःखं नैव चेत्परमात्मनः । सीतावियोगदुःखाग्निर्मां भस्मीकुरुते कथम् ॥ २३॥ सदाऽनुभूयते योऽर्थः स नास्तीति त्वयेरितः । जायातां तत्र विश्वासः कथं मे मुनिपुङ्गव ॥ २४॥ अन्योऽत्र नास्ति को भोक्ता येन जन्तुः प्रतप्यते । सुखस्य वापि दुःखस्य तद्ब्रूहि मुनिसत्तम ॥ २५॥ अगस्त्य उवाच ॥ दुर्ज्ञेया शांभवी माया तया संमोह्यते जगत् । माया तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ।२६॥ तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत्। सत्यज्ञानात्मकोऽनन्तो विभुरात्मा महेश्वरः ॥ २७॥ तस्यैवांशो जीवलोके हृदये प्राणिनां स्थितः । विस्फुलिङ्गा यथा वह्नेर्जायन्ते काष्ठयोगतः ॥ २८॥ अनादिकर्मसंबद्धास्तद्वदंशा महेशितुः । अनादिवासनायुक्ताः क्षेत्रज्ञा इति ते स्मृताः ॥ २९॥ मनो बुद्धिरहंकारश्चित्तं चेति चतुष्टयम् । अन्तःकरणमित्याहुस्तत्र ते प्रतिबिम्बिताः ॥ ३०॥ जीवत्वं प्राप्नुयुः कर्मफलभोक्तार एव ते । ततो वैषयिकं तेषां सुखं वा दुःखमेव वा ॥ ३१॥ त एव भुञ्जते भोगायतनेऽस्मिन् शरीरके । स्थावरं जङ्गमं चेति द्विविधं वपुरुच्यते ॥ ३२॥ स्थावरास्तत्र देहाः स्युः सूक्ष्मा गुल्मलतादयः । अण्डजाः स्वेदजास्तद्वदुद्भिज्जा इति जङ्गमाः ॥ ३३॥ योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ॥ ३४॥ सुख्यहं दुःख्यहं चेति जीव एवाभिमन्यते । निर्लेपोऽपि परं ज्योतिर्मोहितः शंभुमायया ॥ ३५॥ कामः क्रोधस्तथा लोभो मदो मात्सर्यमेव च । मोहश्चेत्यरिषड्वर्गमहंकारगतं विदुः ॥ ३६॥ स एव बध्यते जीवः स्वप्नजाग्रदवस्थयोः । सुषुप्तौ तदभावाच्च जीवः शंकरतां गतः ॥ ३७॥ स एव मायासंस्पृष्टः कारणं सुखदुःखयोः । शुक्तो रजतवद्विश्वं मायया दृश्यते शिवे ॥ ३८॥ ततो विवेकज्ञानेन न कोऽप्यत्रास्ति दुःखभाक् । ततो विरम दुःखात्त्वं किं मुधा परितप्यसे ॥ ३९॥ श्रीराम उवाच ॥ मुने सर्वमिदं तथ्यं यन्मदग्रे त्वयेरितम् । तथापि न जहात्येतत्प्रारब्धादृष्टमुल्बणम् ॥ ४०॥ मत्तं कुर्याद्यथा मद्यं नष्टाविद्यमपि द्विजम् । तद्वत्प्रारब्धभोगोऽपि न जहाति विवेकिनम् ॥ ४१॥ ततः किं बहुनोक्तेन प्रारब्धसचिवः स्मरः । बाधते मां दिवारात्रमहंकारोऽपि तादृशः ॥ ४२॥ अत्यन्तपीडितो जीवः स्थूलदेहं विमुञ्चति । तस्माज्जीवाप्तये मह्यमुपायः क्रियतां द्विज ॥ ४३॥ इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे वैराग्योपदेहो नाम द्वितीयोऽध्यायः ॥ २ ॥
अथ तृतीयोऽध्यायः ॥ अगस्त्य उवाच ॥ न गृह्णाति वचः पथ्यं कामक्रोधादिपीडितः । हितं न रोचते तस्य मुमूर्षोरिव भेषजम् ॥ १॥ मध्येसमुद्रं या नीता सीता दैत्येन मायिना । आयास्यति नरश्रेष्ठ सा कथं तव संनिधिम् ॥ २॥ बध्यन्ते देवताः सर्वा द्वारि मर्कटयूथवत् । किं च चामरधारिण्यो यस्य संति सुराङ्गनाः ॥ ३॥ भुङ्क्ते त्रिलोकीमखिलां यः शंभुवरदर्पितः । निष्कण्टकं तस्य जयः कथं तव भविष्यति ॥ ४॥ इन्द्रजिन्नाम पुत्रो यस्तस्यास्तीशवरोद्धतः । तस्याग्रे संगरे देवा बहुवारं पलायिताः ॥ ५॥ कुम्भकर्णाह्वयो भ्राता यस्यास्ति सुरसूदनः । अन्यो दिव्यास्त्रसंयुक्तश्चिरजीवी बिभीषणः ॥ ६॥ दुर्गं यस्यास्ति लंकाख्यं दुर्जेयं देवदानवैः । चतुरङ्गबलं यस्य वर्तते कोटिसंख्यया ॥ ७॥ एकाकिना त्वया जेयः स कथं नृपनन्दन । आकांक्षते करे धर्तुं बालश्चन्द्रमसं यथा । तथा त्वं काममोहेन जयं तस्याभिवाञ्छसि ॥ ८॥ श्रीराम उवाच ॥ क्षत्रियोऽहं मुनिश्रेष्ठ भार्या मे रक्षसा हृता । यदि तं न निहन्म्याशु जीवने मेऽस्ति किं फलम् ॥ ९॥ अतस्ते तत्त्वबोधेन न मे किंचित्प्रयोजनम् । कामक्रोधादयः सर्वे दहन्त्येते तनुं मम ॥ १०॥ अहंकारोऽपि मे नित्यं जीवनं हन्तुमुद्यतः । हृतायां निजकान्तायां शत्रुणाऽवमतस्य वा ॥ ११॥ यस्य तत्त्वबुभुत्सा स्यात्स लोके पुरुषाधमः । तस्मात्तस्य वधोपायं लङ्घयित्वाम्बुधिं रणे ॥ १२॥ अगस्त्य उवाच ॥ एवं चेच्छरणं याहि पार्वतीपतिमव्ययम् । स चेत्प्रसन्नो भगवान्वाञ्छितार्थं प्रदास्यति ॥ १३॥ देवैरजेयः शक्राद्यैर्हरिणा ब्रह्मणापि वा । स ते वध्यः कथं वा स्याच्छंकरानुग्रहं विना ॥ अतस्त्वां दीक्षयिष्यामि विरजामार्गमाश्रितः । तेन मार्गेन मर्त्यत्वं हित्वा तेजोमयो भव ॥ १५॥ येन हत्वा रणे शत्रून्सर्वान्कामाअनवाप्स्यसि । भुक्त्वा भूमण्डले चान्ते शिवसायुज्यमाप्स्यसि ॥ १६॥ सूत उवाच ॥ अथ प्रणम्य रामस्तं दण्डवन्मुनिसत्तमम् । उवाच दुःखनिर्मुक्तः प्रहृष्टेनान्तरात्मना ॥ १७॥ श्रीराम उवाच ॥ कृतार्थोऽहं मुने जातो वाञ्छितार्थो ममागतः । पीताम्बुधिः प्रसन्नस्त्वं यदि मे किमु दुर्लभम् । अतस्त्वं विरजां दीक्षां ब्रूहि मे मुनिसत्तम ॥ १८॥ अगस्त्य उवाच ॥ शुक्लपक्षे चतुर्दश्यामष्टम्यां वा विशेषतः । एकादश्यां सोमवारे आर्द्रायां वा समारभेत् ॥ १९॥ यं वायुमाहुर्यं रुद्रं यमग्निं परमेश्वरम् । परात्परतरं चाहुः परात्परतरं शिवम् ॥ २०॥ ब्रह्मणो जनकं विष्णोर्वह्नेर्वायोः सदाशिवम् । ध्यात्वाग्निनाऽवसथ्याग्निं विशोध्य च पृथक्पृथक् ॥ २१॥ पञ्चभूतानि संयम्य ध्यात्वा गुणविधिक्रमात् । मात्राः पञ्च चतस्रश्च त्रिमात्रादिस्ततः परम् ॥ २२॥ एकमात्रममात्रं हि द्वादशान्तं व्यवस्थितम् । स्थित्यां स्थाप्यामृतो भूत्वा व्रतं पाशुपतं चरेत् ॥ २३॥ इदं व्रतं पाशुपतं करिष्यामि समासतः । प्रातरेवं तु संकल्प्य निधायाग्निं स्वशाखया ॥ २४॥ उपोषितः शुचिः स्नातः शुक्लाम्बरधरः स्वयम् । शुक्लयज्ञोपवीतश्च शुक्लमाल्यानुलेपनः ॥ २५॥ जुहुयाद्विरजामन्त्रैः प्राणापानादिभिस्ततः । अनुवाकान्तमेकाग्रः समिदाज्यचरून्पृथक् ॥ २६॥ आत्मन्यग्निं समारोप्य याते अग्नेति मंत्रतः । भस्मादायाग्निरित्याद्यैर्विमृज्याङ्गानि संस्पृशेत् ॥ २७॥ भस्मच्छन्नो भवेद्विद्वान्महापातकसंभवैः । पापैर्विमुच्यते सत्यं मुच्यते च न संशयः ॥ २८॥ वीर्यमग्नेर्यतो भस्म वीर्यवान्भस्मसंयुतः । भस्मस्नानरतो विप्रो भस्मशायी जितेन्द्रियः ॥ २९॥ सर्वपापविनिर्मुक्तः शिवसायुज्यमाप्नुयात् । एवं कुरु महाभाग शिवनामसहस्रकम् ॥ ३०॥ इदं तु सम्प्रदास्यामि तेन सर्वार्थमाप्स्यसि । सूत उवाच ॥ इत्युक्त्वा प्रददौ तस्मै शिवनामसहस्रकम् ॥ ३१॥ वेदसाराभिधं नित्यं शिवप्रत्यक्षकारकम् । उक्तं च तेन राम त्वं जप नित्यं दिवानिशम् ॥ ३२॥ ततः प्रसन्नो भगवान्महापाशुपतास्त्रकम् । तुभ्यं दास्यति तेन त्वं शत्रून्हत्वाऽऽप्स्यसि प्रियाम् ॥ ३३॥ तस्यैवास्त्रस्य माहात्म्यात्समुद्रं शोषयिष्यसि । संहारकाले जगतामस्त्रं तत्पार्वतीपतेः ॥ ३४॥ तदलाभे दानवानां जयस्तव सुदुर्लभः । तस्माल्लब्धं तदेवास्त्रं शरणं याहि शंकरम् ॥ ३५॥ इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे विरजादीक्षानिरूपणं नाम तृतीयोऽध्यायः ॥ ३ ॥
अथ चतुर्थोऽध्यायः ॥ सूत उवाच ॥ एवमुक्त्वा मुनिश्रेष्ठ गते तस्मिन्निजाश्रमम् । अथ रामगिरौ रामस्तस्मिन्गोदावरीतटे ॥ १॥ शिवलिङ्गं प्रतिष्ठाप्य कृत्वा दीक्षां यथाविधि । भूतिभूषितसर्वाङ्गो रुद्राक्षाभरणैर्युतः ॥ २॥ अभिषिच्य जलैः पुण्यैर्गौतमीसिन्धुसंभवैः । अर्चयित्वा वन्यपुष्पैस्तद्वद्वन्यफलैरपि ॥ ३॥ भस्मच्छन्नो भस्मशायी व्याघ्रचर्मासने स्थितः । नाम्नां सहस्रं प्रजपन्नक्तंदिवमनन्यधीः ॥ ४॥ मासमेकं फलाहारो मासं पर्णाशनः स्थितः । मासमेकं जलाहारो मासं च पवनाशनः ॥ ५॥ शान्तो दान्तः प्रसन्नात्मा ध्यायन्नेवं महेश्वरम् । हृत्पङ्कजे समासीनमुमादेहार्धधारिणम् ॥ ६॥ चतुर्भुजं त्रिनयनं विद्युत्पिङ्गजटाधरम् । कोटिसूर्यप्रतीकाशं चन्द्रकोटिसुशीतलम् ॥ ७॥ सर्वाभरणसंयुक्तं नागयज्ञोपवीतिनम् । व्याघ्रचर्माम्बरधरं वरदाभयधारिणम् ॥ ८॥ व्याघ्रचर्मोत्तरीयं च सुरासुरनमस्कृतम् । पञ्चवक्त्रं चन्द्रमौलिं त्रिशूलडमरूधरम् ॥ ९॥ नित्यं च शाश्वतं शुद्धं ध्रुवमक्षरमव्ययम् । एवं नित्यं प्रजपतो गतं मासचतुष्टयम् ॥ १०॥ अथ जातो महानादः प्रलयाम्बुदभीषणः । समुद्रमथनोद्भूतमन्दरावनिभृद्ध्वनिः ॥ ११॥ रुद्रबाणाग्निसंदीप्तभ्रश्यत्त्रिपुरविभ्रमः । तमाकर्ण्याथ संभ्रान्तो यावत्पश्यति पुष्करम् ॥ १२॥ तावदेवो महातेजो समस्यासीत्पुरो द्विजाः । तेजसा तेन संभ्रान्तो नापश्यत्स दिशो दश ॥ १३॥ अन्धीकृतेक्षणस्तूर्णं मोहं यातो नृपात्मजः । विचिन्त्य तर्कयामास दैत्यमायां द्विजेश्वराः ॥ १४॥ अथोत्थाय महावीरः सज्जं कृत्वा स्वकं धनुः । अविध्यन्निशितैर्बाणैर्दिव्यास्त्रैरभिमन्त्रितैः ॥ १५॥ आग्नेयं वारुणं सौम्यं मोहनं सौरपार्वतम् । विष्णुचक्रं महाचक्रं कालचक्रं च वैष्णवम् ॥ १६॥ रौद्रं पाशुपतं ब्राह्मं कौबेरं कुलिशानिलम् । भार्गवादिबहून्यस्त्राण्ययं प्रायुङ्क्त राघवः ॥ १७॥ तस्मिंस्तेजसि शस्त्राणि चास्त्रान्यस्य महीपतेः । विलीनानि महाभ्रस्य करका इव नीरधौ ॥ १८॥ ततः क्षणेन जज्वाल धनुस्तस्य करच्च्युतम् । तूणीरं चाङ्गुलित्राणं गोधिकापि महीपते ॥ १९॥ तद्दृष्ट्वा लक्ष्मणो भीतः पपात भुवि मूर्च्छितः । अथाकिञ्चित्करो रामो जानुभ्यामवनिं गतः ॥ २०॥ मीलिताक्षो भयाविष्टः शंकरं शरणं गतः । स्वरेणाप्युच्चरन्नुच्चैः शंभोर्नामसहस्रकम् ॥ २१॥ शिवं च दण्डवद्भूमौ प्रणनाम पुनः पुनः । पुनश्च पूर्ववच्चासीच्छब्दो दिङ्मण्डलं ग्रसन् ॥ २२॥ चचाल वसुधा घोरं पर्वताश्च चकम्पिरे । ततः क्षणेन शीतांशुशीतलं तेज आपतत् ॥ २३॥ उन्मीलिताक्षो रामस्तु यावदेतत्प्रपश्यति । तावद्ददर्श वृषभं सर्वालंकारसंयुतम् ॥ २४॥ पीयूषमथनोद्भूतनवनीतस्य पिण्डवत् । प्रोतस्वर्णं मरकतच्छायशृङ्गद्वयान्वितम् ॥ २५॥ नीलरत्नेक्षणं ह्रस्वकण्ठकम्बलभूषितम् । रत्नपल्याणसंयुक्तं निबद्धं श्वेतचामरैः ॥ २६॥ घण्टिकाघर्घरीशब्दैः पूरयन्तं दिशो दश । तत्रासीनं महादेवं शुद्धस्फटिकविग्रहम् ॥ २७॥ कोटिसूर्यप्रतीकाशं कोटिशीतांशुशीतलम्। व्याघ्रचर्माम्बरधरं नागयज्ञोपवीतिनम् ॥ २८॥ सर्वालंकारसंयुक्तं विद्युत्पिङ्गजटाधरम् । नीलकण्ठं व्याघ्रचर्मोत्तरीयं चन्द्रशेखरम् ॥ २९॥ नानाविधायुधोद्भासिदशबाहुं त्रिलोचनम् । युवानं पुरुषश्रेष्ठं सच्चिदानन्दविग्रहम् ॥ ३०॥ तत्रैव च सुखासीनां पूर्णचन्द्रनिभाननाम् । नीलेन्दीवरदामाभामुद्यन्मरकतप्रभाम् ॥ ३१॥ मुक्ताभरणसंयुक्तां रात्रिं ताराञ्चितामिव । विन्ध्यक्षितिधरोत्तुङ्गकुचभारभरालसाम् ॥ ३२॥ सदसत्संशयाविष्टमध्यदेशान्तराम्बराम् । दिव्याभरणसंयुक्तां दिव्यगन्धानुलेपनाम् ॥ ३३॥ दिव्यमाल्याम्बरधरां नीलेन्दीवरलोचनाम् । अलकोद्भासिवदनां ताम्बूलग्रासशोभिताम् ॥ ३४॥ शिवालिङ्गनसंजातपुलकोद्भासिविग्रहाम् । सच्चिदानन्दरूपाढ्यां जगन्मातरमम्बिकाम् ॥ ३५॥ सौन्दर्यसारसंदोहां ददर्श रघुनन्दनः । स्वस्ववाहनसंयुक्तान्नानायुधलसत्करान् ॥ ३६॥ बृहद्रथन्तरादीनि सामानि परिगायतः । स्वस्वकान्तासमायुक्तान्दिक्पालान्परितः स्थितान् ॥ ३७॥ अग्रगं गरुडारूढं शंखचक्रगदाधरम् । कालाम्बुदप्रतीकाशं विद्युत्कान्त्या श्रिया युतम् ॥ ३८॥ जपन्तमेकमनसा रुद्राध्यायं जनार्दनम् । पश्चाच्चतुर्मुखं देवं ब्रह्माणं हंसवाहनम् ॥ ३९॥ चतुर्वक्त्रैश्चतुर्वेदरुद्रसूक्तैर्महेश्वरम् । स्तुवन्तं भारतीयुक्तं दीर्घकूर्चं जटाधरम् ॥ ४०॥ अथर्वशिरसा देवं स्तुवन्तं मुनिमण्डलम् । गङ्गादितटिनीयुक्तमम्बुधिं नीलविग्रहम् ॥ ४१॥ श्वेताश्वतरमन्त्रेण स्तुवन्तं गिरिजापतिम् । अनन्तादिमहानागान्कैलासगिरिसन्निभान् ॥ ४२॥ कैवल्योपनिषत्पाठान्मणिरत्नविभूषितान् । सुवर्णवेत्रहस्ताढ्यं नन्दिनं पुरतः स्थितम् ॥ ४३॥ दक्षिणे मूषकारूढं गणेशं पर्वतोपमम् । मयूरवाहनारूढमुत्तरे षण्मुखं तथा ॥ ४४॥ महाकालं च चण्डेशं पार्श्वयोर्भीषणाकृतिम् । कालाग्निरुद्रं दूरस्थं ज्वलद्दावाग्निसन्निभम् ॥ ४५॥ त्रिपादं कुटिलाकारं नटद्भृङ्गिरिटिं पुरः । नानाविकारवदनान्कोटिशः प्रमथाधिपान् ॥ ४६॥ नानावाहनसंयुक्तं परितो मातृमण्डलम् । पञ्चाक्षरीजपासक्तान्सिद्धविद्याधरादिकान् ॥ ४७॥ दिव्यरुद्रकगीतानि गायत्किन्नरवृन्दकम् । तत्र त्रैयम्बकं मन्त्रं जपद्द्विजकदम्बकम् ॥ ४८॥ गायन्तं वीणया गीतं नृत्यन्तं नारदं दिवि । नृत्यतो नाट्यनृत्येन रम्भादीनप्सरोगणान् ॥ ४९॥ गायच्चित्ररथादीनां गन्धर्वाणां कदम्बकम् । कम्बलाश्वतरौ शंभुकर्णभूषणतां गतौ ॥ ५०॥ गायन्तौ पन्नगौ गीतं कपालं कम्बलं तथा । एवं देवसभां दृष्ट्वा कृतार्थो रघुनन्दनः ॥ ५१॥ हर्षगद्गदया वाचा स्तुवन्देवं महेश्वरम् । दिव्यनामसहस्रेण प्रणनाम पुनः पुनः ॥ ५२॥ इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे शिवप्रादुर्भावाख्यश्चतुर्थोऽध्यायः ॥ ४ ॥
अथ पञ्हमोऽध्यायः ॥ सूत उवाच ॥ अथ प्रादुरभूत्तत्र हिरण्मयरथो महान् । अनेकदिव्यरत्नांशुकिर्मीरितदिगन्तरः ॥ १॥ नद्युपान्तिकपङ्काढ्यमहाचक्रचतुष्टयः । मुक्तातोरणसंयुक्तः श्वेतच्छत्रशतावृतः ॥ २॥ शुद्धहेमखलीनाढ्यतुरङ्गगणसंयुतः । शुक्तावितानविलसदूर्ध्वदिव्यवृषध्वजः ॥ ३॥ मत्तवारणिकायुक्तः पट्टतल्पोपशोभितः । पारिजाततरूद्भूतपुष्पमालाभिरञ्चितः ॥ ४॥ मृगनाभिसमुद्भूतकस्तूरिमदपङ्किलः । कर्पूरागधूपोत्थगन्धाकृष्टमधुव्रतः ॥ ५॥ संवर्तघनघोषाढ्यो नानावाद्यसमन्वितः । वीणावेणुस्वनासक्तकिन्नरीगणसंकुलः ॥ ६॥ एवं दृष्ट्वा रथश्रेष्ठं वृषादुत्तीर्य शंकरः । अम्बया सहितस्तत्र पट्टतल्पेऽविशत्तदा ॥ ७॥ नीराजनैः सुरस्त्रीणां श्वेतचामरचालनैः । दिव्यव्यजनपातैश्च प्रहृष्टो नीललोहितः ॥ ८॥ क्वणत्कङ्कणनिध्वानैर्मंजुमञ्जीरसिञ्जितैः । वीणावेणुस्वनैर्गीतैः पूर्णमासीज्जगत्त्रयम् ॥ ९॥ शुककेकिकुलारावैः श्वेतपारावतस्वनैः । उन्निद्रभूषाफणिनां दर्शनादेव बर्हिणः ॥ १०॥ ननृतुर्दर्शयन्तः सर्वांश्चन्द्रकान्कोटिसंख्यया । प्रणमन्तं ततो राममुत्थाप्य वृषभध्वजः ॥ ११॥ आनिनाय रथं दिव्यं प्रहृष्टेनान्तरात्मना । कमण्डलुजलैः स्वच्छैः स्वयमाचम्य यत्नतः ॥ १२॥ समाचम्याथ पुरतः स्वांके राममुपानयत् । अथ दिव्यं धनुस्तस्मै ददौ तूणीरमक्षयम् ॥ १३॥ महापाशुपतं नाम दिव्यमस्त्रं ददौ ततः । उक्तश्च तेन रामोऽपि सादरं चन्द्रमौलिना ॥ १४॥ जगन्नाशकरं रौद्रमुग्रमस्त्रमिदं नृप । अतो नेदं प्रयोक्तव्यं सामान्यसमरादिके ॥ १५॥ अन्यन्नास्ति प्रतीघातमेतस्य भुवनत्रये । तस्मात्प्राणत्यये राम प्रयोक्तव्यमुपस्थिते ॥ १६॥ अन्यदैत्यत्प्रयुक्तं तु जगत्संक्षयकृद्भवेत् । अथाहूय सुरश्रेष्ठान् लोकपालान्महेश्वरः ॥ १७॥ उअवाच परमप्रीतः स्वं स्वमस्त्रं प्रयच्छत । राघवोऽयं च तैरस्त्रै रावणं निहनिष्यति ॥ १८॥ तस्मै देवैरवध्यत्वमिति दत्तो वरो मया । तस्माद्वानरतामेत्य भवन्तो युद्धदुर्मदाः ॥ १९॥ साहाय्यमस्य कुर्वन्तु तेन सुस्था भविष्यथ । तदाज्ञां शिरसा गृह्य सुराः प्राञ्जलयस्तथा ॥ २०॥ प्रणम्य चरणौ शंभोः स्वं स्वमस्त्रं ददुर्मुदा । नारायणास्त्रं दैत्यारिरैन्द्रमस्त्रं पुरंदरः ॥ २१॥ ब्रह्मापि ब्रह्मदण्डास्त्रमाग्नेयास्त्रं धनंजयः । याम्यं यमोऽपि मोहास्त्रं रक्षोराजस्तथा ददौ ॥ २२॥ वरुणो वारुणं प्रादाद्वायव्यास्त्रं प्रभञ्जनः । कौबेरं च कुबेरोऽपि रौद्रमीशान एव च ॥ २३॥ सौरमस्त्रं ददौ सूर्यः सौम्यं सोमश्च पार्वतम् । विश्वेदेवा ददुस्तस्मै वसवो वासवाभिधम् ॥ २४॥ अथ तुष्टः प्रणम्येशं रामो दशरथात्मजः । प्राञ्जलिः प्रणतो भूत्वा भक्तियुक्तो व्यजिज्ञपत् ॥ २५॥ श्रीराम उवाच ॥ भगवान्मानुषेणैव नोल्लङ्घ्यो लवणाम्बुधिः । तत्र लङ्काभिधं दुर्गं दुर्जयं देवदानवैः ॥ २६॥ अनेककोटयस्तत्र राक्षसा बलवत्तराः । सर्वे स्वाध्यायनिरताः शिवभक्ता जितेन्द्रियाः ॥ २७॥ अनेकमायासंयुक्ता बुद्धिमन्तोऽग्निहोत्रिणः । कथमेकाकिना जेया मया भ्रात्रा च संयुगे ॥ २८॥ श्रीमहादेव उवाच ॥ रावणस्य वधे राम रक्षसामपि मारणे । विचारो न त्वया कार्यस्तस्य कालोऽयमागतः ॥ २९॥ अधर्मे तु प्रवृत्तास्ते देवब्राह्मणपीडने । तस्मादायुःक्षयं यातं तेषां श्रीरपि सुव्रत ॥ ३०॥ राजस्त्रीकामनासक्तं रावणं निहनिष्यसि । पापासक्तो रिपुर्जेतुः सुकरः समराङ्गणे ॥ ३१॥ अधर्मे निरतः शत्रुर्भाग्येनैव हि लभ्यते । अधीतधर्मशास्त्रोऽपि सदा वेदरतोऽपि वा ॥ ३२॥ विनाशकाले सम्प्राप्ते धर्ममार्गाच्च्युतो भवेत् । पीड्यन्ते देवताः सर्वाः सततं येन पापिना ॥ ३३॥ ब्राह्मणा ऋषयश्चैव तस्य नाशः स्वयं स्थितः । किष्किंधानगरे राम देवानामंशसंभवाः ॥ ३४॥ वानरा बहवो जाता दुर्जया बलवत्तराः । साहाय्यं ते करिष्यन्ति तैर्बध्वा च पयोनिधिम् ॥ ३५॥ अनेकशैलसंबद्धे सेतौ यान्तु वलीमुखाः । रावणं सगणं हत्वा तामानय निजां प्रियाम् ॥ ३६॥ शस्त्रैर्युद्धे जयो यत्र तत्रास्त्राणि न योजयेत् । निरस्त्रेष्वल्पशस्त्रेषु पलायनपरेषु च ॥ ३७॥ अस्त्राणि मुञ्चन् दिव्यानि स्वयमेव विनश्यति । अथवा किं बहूक्तेन मयैवोत्पादितं जगत् ॥ ३८॥ मयैव पाल्यते नित्यं मया संह्रियतेऽपि च । अहमेको जगन्मृत्युर्मृत्योरपि महीपते ॥ ३९॥ ग्रसेऽहमेव सकलं जगदेतच्चराचरम् । मम वक्त्रगताः सर्वे राक्षसा युद्धदुर्मदाः ॥ ४०॥ निमित्तमात्रं त्वं भूयाः कीर्तिमाप्स्यसि संगरे ॥ ४१॥ इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे रामाय वरप्रदानं नाम पञ्चमोऽध्यायः ॥ ५ ॥
अथ षष्ठोऽध्यायः ॥ श्रीराम उवाच ॥ भगवन्नत्र मे चित्रं महदेतत्प्रजायते । शुद्धस्फटिकसंकाशस्त्रिनेत्रश्चन्द्रशेखरः ॥ १॥ मूर्तस्त्वं तु परिच्छिन्नाकृतिः पुरुषरूपधृक् । अम्बया सहितोऽत्रैव रमसे प्रमथैः सह ॥ २॥ त्वं कथं पञ्चभूतादि जगदेतच्चराचरम् । तद्ब्रूहि गिरिजाकान्त मयि तेऽनुग्रहो यदि ॥ ३॥ श्रीभगवानुवाच ॥ साधु पृष्टं महाभाग दुर्ज्ञेयममरैरपि। तत्प्रवक्ष्यामि ते भक्त्या ब्रह्मचर्येण सुव्रत ॥ ४॥ पारं यास्यस्यनायासाद्येन संसारनीरधेः । दृश्यन्ते पञ्चभूतानि ये च लोकाश्चतुर्दश ॥ ५॥ समुद्राः सरितो देवा राक्षसा ऋषयस्तथा । दृश्यन्ते यानि चान्यानि स्थावराणि चराणि च ॥ ६॥ गन्धर्वाः प्रमथा नागाः सर्वे ते मद्विभूतयः । पुरा ब्रह्मादयो देवा द्रष्टुकामा ममाकृतिम् ॥ ७॥ मंदरं प्रययुः सर्वे मम प्रियतरं गिरिम् । स्तुत्वा प्राञ्जलयो देवा मां तदा पुरतः स्थिताः ॥ ८॥ तान्दृष्ट्वाथ मया देवान् लीलाकुलितचेतसः । तेषामपहृतं ज्ञानं ब्रह्मादीनां दिवौकसाम् ॥ ९॥ अथ तेऽपहृतज्ञाना मामाहुः को भवानिति । अथाब्रुवमहं देवानहमेव पुरातनः ॥ १०॥ आसं प्रथममेवाहं वर्तामि च सुरेश्वराः । भविष्यामि च लोकेऽस्मिन्मत्तो नान्यस्ति कश्चन ॥ ११॥ व्यतिरिक्तं च मत्तोऽस्ति नान्यत्किञ्चित्सुरेश्वराः । नित्योऽनित्योऽहमनघो ब्रह्मणां ब्रह्मणस्पतिः ॥ १२॥ दक्षिणाञ्च उदञ्चोऽहं प्राञ्चः प्रत्यञ्च एव च । अधश्चोर्ध्वं च विदिशो दिशश्चाहं सुरेश्वराः ॥ १३॥ सावित्री चापि गायत्री स्त्री पुमानपुमानपि । त्रिष्टुब्जगत्यनुष्टुप् च पंक्तिश्छन्दस्त्रयीमयः ॥ १४॥ सत्योऽहं सर्वगः शान्तस्त्रेताग्निर्गौर्यहं गुरुः । गौर्यहं गह्वरं चाहं द्यौरहं जगतां विभुः ॥ १५॥ ज्येष्ठः सर्वसुरश्रेष्ठो वरिष्ठोऽहमपांपतिः । आर्योऽहं भगवानीशस्तेजोऽहं चादिरप्यहम् ॥ १६॥ ऋग्वेदोऽहं यजुर्वेदः सामवेदोऽहमात्मभूः । अथर्वणश्च मन्त्रोऽहं तथा चाङ्गिरसो वरः ॥ १७॥ इतिहासपुराणानि कल्पोऽहं कल्पवानहम् । नाराशंसी च गाथाहं विद्योपनिषदोऽस्म्यहम् ॥ १८॥ श्लोकाः सूत्राणि चैवाहमनुव्याख्यानमेव च । व्याख्यानानि परा विद्या इष्टं हुतमथाहुतिः ॥ १९॥ दत्तादत्तमयं लोकः परलोकऽहमक्षरः । क्षरः सर्वाणि भूतानि दान्तिः शान्तिरहं खगः ॥ २०॥ गुह्योऽहं सर्ववेदेषु आरण्योहमजोऽप्यहम् । पुष्करं च पवित्रं च मध्यं चाहमतः परम् ॥ २१॥ बहिश्चाहं तथा चान्तः पुरस्तादहमव्ययः । ज्योतिश्चाहं तमश्चाहं तन्मात्राणीन्द्रियाण्यहम् ॥ २२॥ बुद्धिश्चाहमहंकारो विषयाण्यहमेव हि । ब्रह्मा विष्णुर्महेशोहमुमा स्कन्दो विनायकः ॥ २३॥ इन्द्रोऽग्निश्च यमश्चाहं निरृतिर्वरुणोऽनिलः । कुबेरोऽहं तथेशानो भूर्भुवः स्वर्महर्जनः ॥ २४॥ तपः सत्यं च पृथिवी चापस्तेजोऽनिलोऽप्यहम् । आकाशोऽहं रविः सोमो नक्षत्राणि ग्रहास्तथा ॥ २५॥ प्राणः कालस्तथा मृत्युरमृतं भूतमप्यहम् । भव्यं भविष्यत्कृत्स्नं च विश्वं सर्वात्मकोऽप्यहम् ॥ २६॥ ओमादौ च तथा मध्ये भूर्भुवः स्वस्तथैव च । ततोऽहं विश्वरूपोऽस्मि शीर्षं च जपतां सदा ॥ २७॥ अशितं पायितं चाहं कृतं चाकृतमप्यहम् । परं चैवापरं चाहमहं सर्वपरायणः ॥ २८॥ अहं जगद्धितं दिव्यमक्षरं सूक्ष्ममव्ययम् । प्राजापत्यं पवित्रं च सौम्यमग्राह्यमग्रियम् ॥ २९॥ अहमेवोपसंहर्ता महाग्रासौजसां निधिः । हृदि यो देवतात्वेन प्राणत्वेन प्रतिष्ठितः ॥ ३०॥ शिरश्चोत्तरतो यस्य पादौ दक्षिणतस्तथा । यश्च सर्वोत्तरः साक्षादोङ्कारोऽहं त्रिमात्रकः ॥ ३१॥ ऊर्ध्वं चोन्नामहे यस्मादधश्चापनयाम्यहम् । तस्मादोङ्कार एवाहमेको नित्यः सनातनः ॥ ३२॥ ऋचो यजूंषि सामानि यो ब्रह्मा यज्ञकर्मणि । प्रणामहे ब्राह्मणेभ्यस्तेनाहं प्रणवो मतः ॥ ३३॥ स्नेहो यथा मांसपिण्डं व्याप्नोति व्याप्ययत्यपि । सर्वान् लोकानहं तद्वत्सर्वव्यापी ततोऽस्म्यहम् ॥ ३४॥ ब्रह्मा हरिश्च भगवानाद्यन्तं नोपलब्धवान् । ततोऽन्ये च सुरा यस्मादनन्तोऽहमितीरितः ॥ ३५॥ गर्भजन्मजरामृत्युसंसारभवसागरात् । तारयामि यतो भक्तं तस्मात्तारोऽहमीरितः ॥ ३६॥ चतुर्विधेषु देहेषु जीवत्वेन वसाम्यहम् । सूक्ष्मो भूत्वा च हृद्देशे यत्तत्सूक्ष्मं प्रकीर्तितः ॥ ३७॥ महातमसि मग्नेभ्यो भक्तेभ्यो यत्प्रकाशये । विद्युद्वदतुलं रूपं तस्माद्विद्युतमस्म्यहम् ॥ ३८॥ एक एव यतो लोकान् विसृजामि सृजामि च । विवासयामि गृह्णामि तस्मादेकोऽहमीश्वरः ॥ ३९॥ न द्वितीयो यतस्तस्थे तुरीयं ब्रह्म यत्स्वयम् । भूतान्यात्मनि संहृत्य चैको रुद्रो वसाम्यहम् ॥ ४०॥ सर्वांल्लोकान्यदीशेहमीशिनीभिश्च शक्तिभिः । ईशानमस्य जगतः स्वर्दृशं चक्षुरीश्वरम् ॥ ४१॥ ईशानश्चास्मि जगतां सर्वेषामपि सर्वदा । ईशानः सर्वविद्यानां यदीशानस्ततोऽस्म्यहम् ॥ ४२॥ सर्वभावान्निरीक्षेऽहमात्मज्ञानं निरीक्षये । योगं च गमये तस्माद्भगवान्महतो मतः ॥ ४३॥ अजस्रं यच्च गृह्णामि विसृजामि सृजामि च । सर्वांल्लोकान्वासयामि तेनाहं वै महेश्वरः ॥ ४४॥ महत्यात्मज्ञानयोगैश्वर्ये यस्तु महीयते । सर्वान् भावान् परित्यज्य महादेवश्च सोऽस्म्यहम् ॥ ४५॥ एषोऽस्मि देवः प्रदिशो नु सर्वाः पूर्वो हि जातोस्म्यहमेव गर्भे । अहं हि जातश्च जनिष्यमाणः प्रत्यग्जनस्तिष्ठति सर्वतोमुखः ॥ ४६॥ विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् । संवाहुभ्यां धमति सम्पतत्रै- र्द्यावाभूमी जनयन्देव एकः ॥ ४७॥ वालाग्रमात्रं हृदयस्य मध्ये विश्वं देवं जातवेदं वरेण्यम् । मामात्मस्थं येऽनुपश्यन्ति धीरा- स्तेषां शान्तिः शाश्वती नेतरेषाम् ॥ ४८॥ अहं योनिमधितिष्ठामि चैको मयेदं पूर्णं पञ्चविधं च सर्वम् । मामीशानं पुरुषं देवमीड्यं विदित्वा निचाय्येमां शान्तिमत्यन्तमेति ॥ ४९॥ प्राणेष्वन्तर्मनसो लिङ्गमाहु- रस्मिन्क्रोधोउआ च तृष्णा क्षमा च । तृष्णां हित्वा हेतुजालस्य मूलं बुद्ध्या चित्तं स्थापयित्वा मयीह । एवं ये मां ध्यायमाना भजंते तेषां शान्तिः शाश्वती नेतरेषाम् ॥ ५०॥ यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । आनन्दं ब्रह्म मां ज्ञात्वा न बिभेति कुतश्चन ॥ ५१॥ श्रुत्वेति देवा मद्वाक्यं कैवल्यज्ञानमुत्तमम् । जपन्तो मम नामानि मम ध्यानपरायणाः ॥ ५२॥ सर्वे ते स्वस्वदेहान्ते मत्सायुज्यं गताः पुरा । ततोऽग्रे परिदृश्यन्ते पदार्था मद्विभूतयः ॥ ५३॥ मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् । मयि सर्वं लयं याति तद्ब्रह्माद्वयमस्म्यहम् ॥ ५४॥ अणोरणीयानहमेव तद्व- न्महानहं विश्वमहं विशुद्धः । पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं शिवरूपमस्मि ॥ ५५॥ अपाणिपादोऽहमचिन्त्यशक्तिः पश्याम्यचक्षुः स शृणोम्यकर्णः । अहं विजानामि विविक्तरूपो न चास्ति वेत्ता मम चित्सदाहम् ॥ ५६॥ वेदैरशेषैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् । न पुण्यपापे मम नास्ति नाशो न जन्म देहेन्द्रियबुद्धिरस्ति ॥ ५७॥ न भूमिरापो न च वह्निरस्ति न चानिलो मेऽस्ति न मे नभश्च । एवं विदित्वा एवं मां तत्त्वतो वेत्ति यस्तु राम महाम्ते परमात्मरूपं गुहाशयं निष्कलमद्वितीयम्॥ ५८॥ समस्तसाक्षिं सदसद्विहीनः प्रयाति शुद्धं पर्मात्मरूपम् ॥ ५९॥ एवं मां तत्त्वतो वेत्ति यस्तु राम महामते । स एव नान्य लोकेषु कैवल्यफलमश्नुते ॥ ६०॥ इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे विभूतियोगो नाम षष्ठोऽध्यायः ॥ ६ ॥
अथ सप्तमोऽध्यायः ॥ श्रीराम उवाच ॥ भगवन्यन्मया पृष्टं तत्तथैव स्थितं विभो । अत्रोत्तरं मया लब्धं त्वत्तो नैव महेश्वर ॥ १॥ परिच्छिन्नपरीमाणे देहे भगवतस्तव । उत्पत्तिः पञ्चभूतानां स्थितिर्वा विलयः कथम् ॥ २॥ स्वस्वाधिकारसंबद्धाः कथं नाम स्थिताः सुराः । ते सर्वे कथं देव भुवनानि चतुर्दश ॥ ३॥ त्वत्तः श्रुत्वापि देवात्र संशयो मे महानभूत् । अप्रत्यायितचित्तस्य संशयं छेत्तुमर्हसि ॥ ४॥ श्रीभगवानुवाच ॥ वटबीजेऽतिसूक्ष्मेऽपि महावटतरुर्यथा । सर्वदास्तेऽन्यथा वृक्षः कुत आयाति तद्वद ॥ ५॥ तद्वन्मम तनौ राम भूतानामागतिर्लयः । महासैन्धवपिण्डोऽपि जले क्षिप्तो विलीयते ॥ ६॥ न दृश्यते पुनः पाकात्कुत आयाति पूर्ववत् । प्रातःप्रातर्यथाऽऽलोको जायते सूर्यमण्डलात् ॥ ७॥ एवं मत्तो जगत्सर्वं जायतेऽस्ति विलीयते । मय्येव सकलं राम तद्वज्जानीहि सुव्रत ॥ ८॥ श्रीराम उवाच ॥ कथितेऽपि महाभाग दिग्जडस्य यथा दिशि । निवर्तते भ्रमो नैव तद्वन्मम करोमि किम् ॥ ९॥ श्रीभगवानुवाच ॥ मयि सर्वं यथा राम जगदेतच्चराचरम् । वर्तते तद्दर्शयामि न द्रष्टुं क्षमते भवान् ॥ १०॥ दिव्यं चक्षुः प्रदास्यामि तुभ्यं दशरथात्मज । तेन पश्य भयं त्यक्त्वा मत्तेजोमण्डलं ध्रुवम् ॥ ११॥ न चर्मचक्षुषा द्रष्टुं शक्यते मामकं महः । नरेण वा सुरेणापि तन्ममानुग्रहं विना ॥ १२॥ सूत उवाच ॥ इत्युक्त्वा प्रददौ तस्मै दिव्यं चक्षुर्महेश्वरः । अथादर्शयदेतस्मै वक्त्रं पातालसंनिभम् ॥ १३॥ विद्युत्कोटिप्रभं दीप्तमतिभीमं भयावहम् । तद्दृष्ट्वैव भयाद्रामो जानुभ्यामवनिं गतः ॥ १४॥ प्रणम्य दण्डवद्भूमौ तुष्टाव च पुनः पुनः । अथोत्थाय महावीरो यावदेव प्रपश्यति ॥ १५॥ वक्त्रं पुरभिदस्तत्र अन्तर्ब्रह्माण्डकोटयः । चटका इव लक्ष्यन्ते ज्वालामालासमाकुलाः ॥ १६॥ मेरुमन्दरविन्ध्याद्या गिरयः सप्तसागराः । दृश्यन्ते चन्द्रसूर्याद्याः पञ्च भूतानि ते सुराः ॥ १७॥ अरण्यानि महानागा भुवनानि चतुर्दश । प्रतिब्रह्माण्डमेवं तद्दृष्ट्वा दशरथात्मजः ॥ १८॥ सुरासुराणां संग्रामस्तत्र पूर्वापरानपि । विष्णोर्दशावतारांश्च तत्तत्कर्माण्यपि द्विजाः ॥ १९॥ पराभवांश्च देवानां पुरदाहं महेशितुः । उत्पद्यमानानुत्पन्नान्सर्वानपि विनश्यतः ॥ २०॥ दृष्ट्वा रामो भयाविष्टः प्रणनाम पुनः पुनः । उत्पन्नतत्त्वज्ञानोऽपि बभूव रघुनन्दनः ॥ २१॥ अथोपनिषदां सारैरर्थैस्तुष्टाव शंकरम् ॥ २२॥ श्रीराम उवाच ॥ देव प्रपन्नार्तिहर प्रसीद प्रसीद विश्वेश्वर विश्ववन्द्य । प्रसीद गङ्गाधर चन्द्रमौले मां त्राहि संसारभयादनाथम् ॥ २३॥ त्वत्तो हि जातं जगदेतदीश त्वय्येव भूतानि वसन्ति नित्यम् । त्वय्येव शंभो विलयं प्रयान्ति भूमौ यथा वृक्षलतादयोऽपि ॥ २४॥ ब्रह्मेन्द्र रुद्राश्च मरुद्गणाश्च गन्धर्वयक्षाऽसुरसिद्धसङ्घाः । गङ्गादि नद्यो वरुणालयाश्च वसन्ति शूलिंस्तव वक्त्रयंत्रे ॥ २५॥ त्वन्मायया कल्पितमिन्दुमौले त्वय्येव दृश्यत्वमुपैति विश्वम् । भ्रान्त्या जनः पश्यति सर्वमेत- च्छुक्तौ यथा रौप्यमहिं च रज्जौ ॥ २६॥ तेजोभिरापूर्य जगत्समस्तं प्रकाशमानः कुरुषे प्रकाशम् । विना प्रकाशं तव देवदेव न दृश्यते विश्वमिदं क्षणेन ॥ २७॥ अल्पाश्रयो नैव बृहन्तमर्थं धत्तेऽणुरेको न हि विन्ध्यशैलम् । त्वद्वक्त्रमात्रे जगदेतदस्ति त्वन्माययैवेति विनिश्चिनोमि ॥ २८॥ रज्जौ भुजङ्गो भयदो यथैव न जायते नास्ति न चैति नाशम् । त्वन्मायया केवलमात्ररूपं तथैव विश्वं त्वयि नीलकण्ठ ॥ २९॥ विचार्यमाणे तव यच्छरीर- माधारभावं जगतामुपैति । तदप्ययश्यं मदविद्ययैव पूर्णश्चिदानदमयो यतस्त्वम् ॥ ३०॥ पूजेष्टपूर्तादिवरक्रियाणां भोक्तुः फलं यच्छसि विश्वमेव । मृषैतदेवं वचनं पुरारे त्वत्तोऽस्ति भिन्नं न च किञ्चिदेव ॥ ३१॥ अज्ञानमूढा मुनयो वदन्ति पूजोपचारादिबहिःक्रियाभिः । तोषं गिरीशो भजतीति मिथ्या कुतस्त्वमूर्तस्य तु भोगलिप्सा ॥ ३२॥ किञ्चिद्दलं वा चुलकोदकं वा यस्त्वं महेश प्रतिगृह्य दत्से । त्रैलोक्यलक्ष्मीमपि यज्जनेभ्यः सर्वं त्वविद्याकृतमेव मन्ये ॥ ३३॥ व्याप्नोषि सर्वा विदिशो दिशश्च त्वं विश्वमेकः पुरुषः पुराणः । नष्टेऽपि तस्मिंस्तव नास्ति हानि- र्घटे विनष्टे नभसो यथैव ॥ ३४॥ यथैकमाकाशगमर्कबिम्बं क्षुद्रेषु पात्रेषु जलान्वितेषु । भजत्यनेकप्रतिबिम्बभावं तथा त्वमन्तःकरणेषु देव ॥ ३५॥ संसर्जने वाऽप्यवने विनाशे विश्वस्य किञ्चित्तव नास्ति कार्यम् । अनादिभिः प्राणभृतामदृष्टै- स्तथापि तत्स्वप्नवदातनोषि ॥ ३६॥ स्थूलस्य सूक्ष्मस्य जडस्य भोगो देहस्य शंभो न चिदं विनास्ति । अतस्त्वदारोपणमातनोति श्रुतिः पुरारे सुखदुःखयोः सदा ॥ ३७॥ नमः सच्चिदाम्भोधिहंसाय तुभ्यं नमः कालकालाय कालात्मकाय । नमस्ते समस्ताघसंहारकर्त्रे नमस्ते मृषाचित्तवृत्त्यैकभोक्त्रे ॥ ३८॥ सूत उवाच ॥ एवं प्रणम्य विश्वेशं पुरतः प्राञ्जलिः स्थितः । विस्मितः परमेशानं जगाद रघुनन्दनः ॥ ३९॥ श्रीराम उवाच ॥ उपसंहर विश्वात्मन्विश्वरूपमिदं तव । प्रतीतं जगदैकात्म्यं शंभो भवदनुग्रहात् ॥ ४०॥ श्रीभगवानुवाच ॥ पश्य राम महाबाहो मत्तो नान्योऽस्ति कश्चन ॥ ४१॥ सूत उवाच ॥ उत्युक्त्वैवोपसंजह्रे स्वदेहे देवतादिकान् । मीलिताक्षः पुनर्हर्षाद्यावद्रामः प्रपश्यति ॥ ४२॥ तावदेव गिरेः शृङ्गे व्याघ्रचर्मोपरि स्थितम् । ददर्श पञ्चवदनं नीलकण्ठं त्रिलोचनम् ॥ ४३॥ व्याघ्रचर्माम्बरधरं भूतिभूषितविग्रहम् । फणिकङ्कणभूषाढ्यं नागयज्ञोपवीतिनम् ॥ ४४॥ व्याघ्रचर्मोत्तरीयं च विद्युत्पिङ्गजटाधरम् । एकाकिनं चन्द्रमौलिं वरेण्यमभयप्रदम् ॥ ४५॥ चतुर्भुजं खण्डपरशुं मृगहस्तं जगत्पतिम् । अथाज्ञया पुरस्तस्य प्रणम्योपविवेश सः ॥ ४६॥ अथाह रामं देवेशो यद्यत्प्रष्टुमभीच्छसि । तत्सर्वं पृच्छ राम त्वं मत्तो नान्योऽस्ति ते गुरुः ॥ ४७॥ इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे विश्वरूपदर्शनं नाम सप्तमोऽध्यायः ॥ ७ ॥
अथ अष्टमोऽध्यायः ॥ श्रीराम उवाच ॥ पाञ्चभौतिकदेहस्य चोत्पत्तिर्विलयः स्थितिः । स्वरूपं च कथं देव भगवन्वक्तुमर्हसि ॥ १॥ श्रीराम उवाच ॥ पाञ्चभौतिकदेहस्य चोत्पत्तिर्विलयः स्थितिः । स्वरूपं च कथं देव भगवन्वक्तुमर्हसि ॥ १॥ श्रीभगवानुवाच ॥ पञ्चभूतैः समारब्धो देहोऽयं पाञ्चभौतिकः । तत्र प्रदानं पृथिवी शेषाणां सहकारिता ॥ २॥ जरायुजोऽण्डजश्चैव स्वेदजश्चोद्भिजस्तथा । एवं चतुर्विधः प्रोक्तो देहोऽयं पाञ्चभौतिकः ॥ ३॥ मानसस्तु परः प्रोक्तो देवानामेव संस्मृतः । तत्र वक्ष्ये प्रथमतः प्रधानत्वाज्जरायुजम् ॥ ४॥ शुक्रशोणितसंभूता वृत्तिरेव जरायुजः । स्त्रीणां गर्भाशये शुक्रमृतुकाले विशेद्यदा ॥ ५॥ योषितो रजसा युक्तं तदेव स्याज्जरायुजम् । बाहुल्याद्रजसा स्त्री स्याच्छुक्राधिक्ये पुमान्भवेत् ॥ ६॥ शुक्रशोणितयोः साम्ये जायते च नपुंसकः । ऋतुस्नाता भवेन्नारी चतुर्थे दिवसे ततः ॥ ७॥ ऋतुकालस्तु निर्दिष्ट आषोडशदिनावधि । तत्रायुग्मदिने स्त्री स्यात्पुमान्युग्मदिने भवेत् ॥ ८॥ षोडशे दिवसे गर्भो जायते यदि सुभ्रुवः । चक्रवर्ती भवेद्राजा जायते नात्र संशयः ॥ ९॥ ऋतुस्नाता यस्य पुंसः साकाङ्क्षं मुखमीक्षते । तदाकृतिर्भवेदर्भस्तत्पश्येत्स्वामिनो मुखम् ॥ १०॥ याऽस्ति चर्मावृतिः सूक्ष्मा जरायुः सा निगद्यते । शुक्रशोणितयोर्योगस्तस्मिन्नेव भवेद्यतः । तत्र गर्भो भवेद्यस्मात्तेन प्रोक्तो जरायुजः ॥ ११॥ अण्डजाः पक्षिसर्पाद्याः स्वेदजा मशकादयः । उद्भिज्जास्तृणगुल्माद्या मानसाश्च सुरर्षयः॥ १२॥ जन्मकर्मवशादेव निषिक्तं स्मरमन्दिरे । शुक्रं रजःसमायुक्तं प्रथमे मासि तद्द्रवम् ॥ १३॥ बुद्बुदं कललं तस्मात्ततः पेशी भवेदिदम् । पेशीघनं द्वितीये तु मासि पिण्डः प्रजायते ।१४॥ कराङ्घ्रिशीर्षकादीनि तृतीये संभवन्ति हि । अभिव्यक्तिश्च जीवस्य चतुर्थे मासि जायते ॥ १५॥ ततश्चलति गर्भोऽपि जनन्या जठरे स्वतः । पुत्रश्चेद्दक्षिणे पार्श्वे कन्या वामे च तिष्ठति ॥ १६॥ नपुंसकस्तूदरस्य भागे तिष्ठति मध्यतः । अतो दक्षिणपार्श्वे तु शेते माता पुमान्यदि ॥ १७॥ अङ्गप्रत्यङ्गभागाश्च सूक्ष्माः स्युर्युगपत्तदा । विहाय श्मश्रुदन्तादीञ्जन्मानन्तरसंभवान् ॥ १८॥ चतुर्थे व्यक्तता तेषां भावानामपि जायते । पुंसां स्थैर्यादयो भावा भीरुत्वाद्यास्तु योषिताम् ॥ १९॥ नपुंसके च ते मिश्रा भवन्ति रघुनन्दन । मातृजं चास्य हृदयं विषयानभिकाङ्क्षति ॥ २०॥ ततो मातुर्मनोऽभीष्टं कुर्याद्गर्भविवृद्धये । तां च द्विहृदयां नारीमाहुर्दौहृदिनीं ततः ॥ २१॥ अदानाद्दौहृदानां स्युर्गर्भस्य व्यङ्गतादयः । मातुर्यद्विषये लोभस्तदार्तो जायते सुतः ॥ २२॥ प्रबुद्धं पञ्चमे चित्तं मांसशोणितपुष्टता । षष्ठेऽस्थिस्नायुनखरकेशलोमविविक्तता ॥ २३॥ बलवर्णौ चोपचितौ सप्तमे त्वङ्गपूर्णता । पादान्तरितहस्ताभ्यां श्रोत्ररन्ध्रे पिधाय सः ॥ २४॥ उद्विग्नो गर्भसंवासादस्ति गर्भलयान्वितः ॥ २५॥ आविर्भूतप्रबोधोऽसौ गर्भदुःखादिसंयुतः । हा कष्टमिति निर्विण्णः स्वात्मानं शोशुचीत्यथ ॥ २६॥ अनुभूता महासह्याः पुरा मर्मच्छिदोऽसकृत् । करंभवालुकास्तप्ताश्चादह्यन्तासुखाशयाः ॥ २७॥ जठरानलसंतप्तपित्ताख्यरसविप्लुषः । गर्भाशये निमग्नं तु दहन्त्यतिभृशं तु माम् ॥ २८॥ उदर्यकृमिवक्त्राणि कूटशाल्मलिकण्टकैः । तुल्यानि च तुदन्त्यार्तं पार्श्वास्थिक्रकचार्दितम् ॥ २९॥ गर्भे दुर्गन्धभूयिष्ठे जठराग्निप्रदीपिते । दुःखं मयाप्तं यत्तस्मात्कनीयः कुम्भपाकजम् ॥ ३०॥ पूयासृक्श्लेष्मपायित्वं वाग्ताशित्वं च यद्भवेत् । अशुचौ कृमिभावश्च तत्प्राप्तं गर्भशायिना ॥ ३१॥ गर्भशय्यां समारुह्य दुःखं यादृङ् मयापि तत् । नातिशेते महादुःखं निःशेषनरकेषु तत् ॥ ३२॥ एवं स्मरन्पुरा प्राप्ता नानाजातीश्च यातनाः । मोक्षोपायमभिध्यायन्वर्ततेऽभ्यासतत्परः ॥ ३३॥ अष्टमे त्वक्सृती स्यातामोजस्तेजश्च हृद्भवम् । शुभ्रमापीतरक्तं च निमित्तं जीवितं मतम् ॥ ३४॥ मातरं च पुनर्गर्भं चञ्चलं तत्प्रधावति । ततो जातोऽष्टमे गर्भो न जीवत्योजसोज्झितः ॥ ३५॥ किंचित्कालमवस्थानं संस्कारात्पीडिताङ्गवत् । समयः प्रसवस्य स्यान्मासेषु नवमादिषु ॥ ३६॥ मातुरस्रवहां नाडीमाश्रित्यान्ववतारिता । नाभिस्थनाडी गर्भस्य मात्राहाररसावह । तेन जीवति गर्भोऽपि मात्राहारेण पोषितः ॥ ३७॥ अस्थियन्त्रविनिष्पिष्टः पतितः कुक्षिवर्त्मना । मेदोऽसृग्दिग्धसर्वाङ्गो जरायुपुटसंवृतः ॥ ३८॥ निष्क्रामन्भृशदुःखार्तो रुदन्नुच्चैरधोमुखः । यन्त्रादेव विनिर्मुक्तः पतत्त्युत्तानशाय्युत ॥ ३९॥ अकिंचित्कस्तथा बालो मांसपेशीसमास्थितः । श्वमार्जारादिदंष्ट्रिभ्यो रक्ष्यते दण्डपाणिभिः ॥ ४०॥ पितृवद्राक्षसं वेत्ति मातृवड्डाकिनीमपि । पूयं पयोवदज्ञानाद्दीर्घकष्टं तु शैशवम् ॥ ४१॥ श्लेष्मणा पिहिता नाडी सुषुम्ना यावदेव हि । व्यक्तवर्णं च वचनं तावद्वक्तुं न शक्यते ॥ ४२॥ अत एव च गर्भेऽपि रोदितुं नैव शक्यते ॥ ४३॥ दृप्तोऽथ यौवनं प्राप्य मन्मथज्वरविह्वलः । गायत्यकस्मादुच्चैस्तु तथा कस्माच्च वल्गति ॥ ४४॥ आरोहति तरून्वेगाच्छान्तानुद्वेजयत्यपि । कामक्रोधमदान्धः सन्न कांश्चिदपि वीक्षते ॥ ४५॥ अस्थिमांसशिरालाया वामाया मन्मथालये । उत्तानपूतिमण्डूकपाटितोदरसन्निभे । आसक्तः स्मरबाणार्त आत्मना दह्यते भृशम् ॥ ४६॥ अस्थिमांसशिरात्वग्भ्यः किमन्यद्वर्तते वपुः । वामानां मायया मूढो न किंचिद्वीक्षते जगत् ॥ ४७॥ निर्गते प्राणपवने देहो हंत मृगीदृशः । यथाहि जायते नैव वीक्ष्यते पञ्चषैर्दिनैः ॥ ४८॥ महापरिभवस्थानं जरां प्राप्यातिदुःखितः । श्लेष्मणा पिहितोरस्को जग्धमन्नं न जीर्यति ॥ ४९॥ सन्नदन्तो मन्ददृष्टिः कटुतिक्तकषायभुक् । वातभुग्नकटिग्रीवकरोरुचरणोऽबलः ॥ ५०॥ गदायुतसमाविष्टः परित्यक्तः स्वबन्धुभिः । निःशौचो मलदिग्धाङ्ग आलिङ्गितवरोषितः ॥ ५१॥ ध्यायन्नसुलभान्भोगान्केवलं वर्तते चलः । सर्वेन्द्रियक्रियालोपाद्धस्यते बालकैरपि ॥ ५२॥ ततो मृतिजदुःखस्य दृष्टान्तो नोपलभ्यते । यस्माद्बिभ्यति भूतानि प्राप्तान्यपि परां रुजम् ॥ ५३॥ नीयते मृत्युना जन्तुः परिष्वक्तोऽपि बन्धुभिः । सागरान्तर्जलगतो गरुडेनेव पन्नगः ॥ ५४॥ हा कान्ते हा धनं पुत्राः क्रन्दमानः सुदारुणम् । मण्डूक इव सर्पेण मृत्युना नीयते नरः ॥ ५५॥ मर्मसून्मथ्यमानेषु मुच्यमानेषु संधिषु । यद्दुःखं म्रियमाणस्य स्मर्यतां तन्मुमुक्षुभिः ॥ ५६॥ दृष्टावाक्षिप्यमाणायां संज्ञया ह्रियमाणया । मृत्युपाशेन बद्धस्य त्राता नैवोपलभ्यते ॥ ५७॥ संरुध्यमानस्तमसा मच्चित्तमिवाविशन् । उपाहूतस्तदा ज्ञातीनीक्षते दीनचक्षुषा ॥ ५८॥ अयः पाशेन कालेन स्नेहपाशेन बन्धुभिः । आत्मानं कृष्यमाणं तं वीक्षते परितस्तथा ॥ ५९॥ हिक्कया बाध्यमानस्य श्वासेन परिशुष्यतः । मृत्युनाकृष्यमाणस्य न खल्वस्ति परायणम् ॥ ६०॥ संसारयन्त्रमारूढो यमदूतैरधिष्ठितः । क्व यास्यामीति दुःखार्तः कालपाशेन योजितः ॥ ६१॥ किं करोमि क्व गच्छामि किं गृह्णामि त्यजामि किम् । इति कर्तव्यतामूढः कृच्छ्राद्देहात्त्यजत्यसून् ॥ ६२॥ यातनादेहसंबद्धो यमदूतैरधिष्ठिताः । इतो गत्वानुभवति या यास्ता यमयातनाः । तासु यल्लभते दुःखं तद्वक्तुं क्षमते कुतः ॥ ६३॥ कर्पूरचन्दनाद्यैस्तु लिप्यते सततं हि यत् । भूषणैर्भूष्यते चित्रैः सुवस्त्रैः परिवार्यते ॥ ६४॥ अस्पृश्यं जायतेऽप्रेक्ष्यं जीवत्यक्तं सदा वपुः । निष्कासयन्ति निलयात्क्षणं न स्थापयन्त्यपि ॥ ६५॥ दह्यते च ततः काष्ठैस्तद्भस्म क्रियते क्षणात् । भक्ष्यते वा सृगालैश्च गृध्रकुक्करवायसैः । पुनर्न दृश्यते सोऽथ जन्मकोटिशतैरपि ॥ ६६॥ माता पिता गुरुजनः स्वजनो ममेति मायोपमे जगति कस्य भवेत्प्रतिज्ञा । एको यतो व्रजतो कर्मपुरःसरोऽयं विश्रामवृक्षसदृशः खलु जीवलोकः ॥ ६७॥ सायं सायं वासवृक्षं समेताः प्रातः प्रातस्तेन तेन प्रयान्ति । त्यक्त्वान्योन्यं तं च वृक्षं विहङ्गा यद्वत्तद्वज्ज्ञातयोऽज्ञातयश्च ॥ ६८॥ मृतिबीजं भवेज्जन्म जन्मबीजं भवेन्मृतिः । घटयन्त्रवदश्रान्तो बम्भ्रमीत्यनिशं नरः ॥ ६९॥ गर्भे पुंसः शुक्रपाताद्यदुक्तं मरणावधि । तदेतस्य महाव्याधेर्मत्तो नान्योऽस्ति भेषजम् ॥ ७०॥ इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे पिण्डोत्पत्तिकथनं नामाष्टमोऽध्यायः ॥ ८ ॥
अथ नवमोऽध्यायः ॥ श्रीभगवानुवाच ॥ देहस्वरूपं वक्ष्यामि श्रुणुष्वावहितो नृप । मत्तो हि जायते विश्वं मयैवैतत्प्रधार्यते । मय्येवेदमधिष्ठाने लीयते शुक्तिरौप्यवत् ॥ १॥ अहं तु निर्मलः पूर्णः सच्चिदानन्दविग्रहः । असंगो निरहंकारः शुद्धं ब्रह्म सनातनम् ॥ २॥ अनाद्यविद्यायुक्तः सन् जगत्कारणतां व्रजे ॥ ३॥ अनिर्वाच्या महाविद्या त्रिगुणा परिणामिनी । रजः सत्त्वं तमश्चेति त्रिगुणाः परिकीर्तिताः ॥ ४॥ सत्त्वं शुक्लं समादिष्टं सुखज्ञानास्पदं नृणाम् । दुःखास्पदं रक्तवर्णं चञ्चलं च रजो मतम् ॥ ५॥ तमः कृष्णं जडं प्रोक्तमुदासीनं सुखादिषु ॥ ६॥ अतो मम समायोगाच्छक्तिः सा त्रिगुणात्मिका । अधिष्ठाने तु मय्येव भजते विश्वरूपताम् । शुक्तौ रजतवद्रज्जौ भुजङ्गो यद्वदेव तु ॥ ७॥ आकाशादीनि जायन्ते मत्तो भूतानि मायया । तैरारब्धमिदं विश्वं देहोऽयं पाञ्चभौतिकः ॥ ८॥ पितृभ्यामशितादन्नात्षट्कोशं जायते वपुः । स्नायवोऽस्थीनि मज्जा च जायन्ते पितृतस्तथा ॥ ९॥ त्वङ्मांशोणितमिति मातृतश्च भवन्ति हि । भावाः स्युः षड्विधास्तस्य मातृजाः पितृजास्तथा । रसजा आत्मजाः सत्त्वसंभूताः स्वात्मजास्तथा ॥ १०॥ मृदवः शोणितं मेदो मज्जा प्लीहा यकृद्गुदम् । हृन्नाभीत्येवमाद्यास्तु भावा मातृभवा मताः ॥ ११॥ श्मश्रुलोमकचस्नायुशिराधमनयो नखाः । दशनाः शुक्रमित्याद्याः स्थिराः पितृसमुद्भवाः ॥ १२॥ शरीरोपचितिर्वर्णो वृद्धिस्तृप्तिर्बलं स्थितिः । अलोलुपत्वमुत्साह इत्यादि रसजं विदुः ॥ १३॥ इच्छा द्वेषः सुखं दुःखं धर्माधर्मौ च भावना । प्रयत्नो ज्ञानमायुश्चेन्द्रियाणीत्येवमात्मजाः ॥ १४॥ ज्ञानेन्द्रियाणि श्रवणं स्पर्शनं दर्शनं तथा । रसनं घ्राणमित्याहुः पञ्च तेषां तु गोचराः ॥ १५॥ शब्दः स्पर्शस्तथा रूपं रसो गन्ध इति क्रमात् । वाक्कराङ्घ्रिगुदोपस्थान्याहुः कर्मेन्द्रियाणि हि ॥ १६॥ वचनादानगमनविसर्गरतयः क्रमात् । कर्मेन्द्रियाणां जानीयान्मनश्चैवोभयात्मकम् ॥ १७॥ क्रियास्तेषां मनोबुद्धिरहंकारस्ततः परम् । अन्तःकरणमित्याहुश्चित्तं चेति चतुष्टयम् ॥ १८॥ सुखं दुःखं च विषयौ विज्ञेयौ मनसः क्रियाः । स्मृतिभीतिविकल्पाद्या बुद्धिः स्यान्निश्चयात्मिका । अहं ममेत्यहंकारश्चित्तं चेतयते यतः ॥ १९॥ सत्त्वाख्यमन्तःकरणं गुणभेदास्त्रिधा मतम् । सत्त्वं रजस्तम इति गुणाः सत्त्वात्तु सात्त्विकाः ॥ २०॥ आस्तिक्यशुद्धिधर्मैकमतिप्रभृतयो मताः । रजसो राजसा भावाः कामक्रोधमदादयः ॥ २१॥ निद्रालस्यप्रमादादि वञ्चनाद्यास्तु तामसाः । प्रसन्नेन्द्रियतारोग्यानालस्याद्यास्तु सत्त्वजाः ॥ २२॥ देहो मात्रात्मकस्तस्मादादत्ते तद्गुणानिमान् । शब्दः श्रोत्रं मुखरता वैचित्र्यं सूक्ष्मता धृतिः ॥ २३॥ बलं च गगनाद्वायोः स्पर्शश्च स्पर्शनेन्द्रियम् । उत्क्षेपणमपक्षेपाकुञ्चने गमनं तथा ॥ २४॥ प्रसारणमितीमानि पञ्च कर्माणि रूक्षता । प्राणापानौ तथा व्यानसमानोदानसंज्ञकान् ॥ २५॥ नागः कूर्मश्च कृकलो देवदत्तो धनञ्जयः । दशैता वायुविकृतीस्तथा गृह्णाति लाघवम् ॥ २६॥ तेषां मुख्यतरः प्राणो नाभेः कण्ठादवस्थितः । चरत्यसौ नासिकयोर्नाभौ हृदयपङ्कजे ॥ २७॥ शब्दोच्चारणनिश्वासोच्छ्वासादेरपि कारणम् ॥ २८॥ अपानस्तु गुदे मेढ्रे कटिजङ्घोदरेष्वपि । नाभिकण्ठे वंक्षणयोरूरुजानुषु तिष्ठति । तस्य मूत्रपुरीषादिविसर्गः कर्म कीर्तितम् ॥ २९॥ व्यानोऽक्षिश्रोत्रगुल्फेषु जिह्वाघ्राणेषु तिष्ठति । प्राणायामधृतित्यागग्रहणाद्यस्य कर्म च ॥ ३०॥ समानो व्याप्य निखिलं शरीरं वह्निना सह । द्विसप्ततिसहस्रेषु नाडीरन्ध्रेषु संचरन् ॥ ३१॥ भुक्तपीतरसान्सम्यगानयन्देहपुष्टिकृत् । उदानः पादयोरास्ते हस्तयोरङ्गसंधिषु ॥ ३२॥ कर्मास्य देहोन्नयनोत्क्रमणादि प्रकीर्तितम् । त्वगादिधातूनाश्रित्य पञ्च नागादयः स्थिताः ॥ ३३॥ उद्गारादि निमेषादि क्षुत्पिपासादिकं क्रमात् । तन्द्रीप्रभृति शोकादि तेषां कर्म प्रकीर्तितम् ॥ ३४॥ अग्नेस्तु रोचकं रूपं दीप्तं पाकं प्रकाशताम् । अमर्षतीक्ष्णसूक्ष्माणामोजस्तेजश्च शूरताम् ॥ ३५॥ मेधावितां तथाऽऽदत्ते जलात्तु रसनं रसम् । शैत्यं स्नेहं द्रवं स्वेदं गात्रादिमृदुतामपि ॥ ३६॥ भूमेर्घ्राणेन्द्रियं गन्धं स्थैर्यं धैर्यं च गौरवम् । त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः ॥ ३७॥ अन्नं पुंसाशितं त्रेधा जायते जठराग्निना । मलः स्थविष्ठो भागः स्यान्मध्यमो मांसतां व्रजेत् । मनः कनिष्ठो भागः स्यात्तस्मादन्नमयं मनः ॥ ३८॥ अपां स्थविष्ठो मूत्रं स्यान्मध्यमो रुधिरं भवेत् । प्राणः कनिष्ठो भागः स्यात्तस्मात्प्राणो जलात्मकः ॥ ३९॥ तेजसोऽस्थि स्थविष्ठः स्यान्मज्जा मध्यम संभवः । कनिष्ठा वाङ्मता तस्मात्तेजोऽवन्नात्मकं जगत् ॥ ४०॥ लोहिताज्जायते मांसं मेदो मांससमुद्भवम् । मेदसोऽस्थीनि जायन्ते मज्जा चास्थिसमुद्भवा ॥ ४१॥ नाड्योपि मांससंघाताच्छुक्रं मज्जासमुद्भवम् ॥ ४२॥ वातपित्तकफाश्चात्र धातवः परिकीर्तिताः । दशाञ्जलि जलं ज्ञेयं रसस्याञ्जलयो नव ॥ ४३॥ रक्तस्याष्टौ पुरीषस्य सप्त स्युः श्लेष्मणश्च षट्। पित्तस्य पञ्च चत्वारो मूत्रस्याञ्जलयस्त्रयः ॥ ४४॥ वसाया मेदसो द्वौ तु मज्जा त्वञ्जलिसंमिता । अर्धाञ्जलि तथा शुक्रं तदेव बलमुच्यते ॥ ४५॥ अस्थ्नां शरीरे संख्या स्यात्षष्टियुक्तं शतत्रयम् । जलजानि कपालानि रुचकास्तरणानि च । नलकानीति तान्याहुः पञ्चधास्थीनि सूरयः ॥ ४६॥ द्वे शते त्वस्थिसंधीनां स्यातां तत्र दशोत्तरे । रौरवाः प्रसराः स्कन्दसेचनाः स्युरुलूखलाः ॥ ४७॥ समुद्गा मण्डलाः शंखावर्ता वामनकुण्डलाः । इत्यष्टधा समुद्दिष्टाः शरीरेष्वस्थिसंधयः ॥ ४८॥ सार्धकोटित्रयं रोम्णां श्मश्रुकेशास्त्रिलक्षकाः । देहस्वरूपमेवं ते प्रोक्तं दशरथात्मज ॥ ४९॥ यस्मादसारो नास्त्येव पदार्थो भुवनत्रये । देहेऽस्मिन्नभिमानेन न महोपायबुद्धयः ॥ ५०॥ अहंकारेण पापेन क्रियन्ते हंत सांप्रतम् । तस्मादेतत्स्वरूपं तु विबोद्धव्यं मुमुक्षिभिः ॥ ५१॥ इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे देहस्वरूपनिर्णयो नाम नवमोऽध्यायः ॥ ९ ॥
अथ दशमोऽध्यायः ॥ श्रीराम उवाच ॥ भगवन्नत्र जीवोऽसौ जन्तोर्देहेऽवतिष्ठते । जायते वा कुतो जीवः स्वरूपं चास्य किं वद ॥ १॥ देहान्ते कुत्र वा याति गत्वा वा कुत्र तिष्ठति । कथमायाति वा देहं पुनर्नायाति वा वद ॥ २॥ श्रीभगवानुवाच ॥ साधु पृष्टं महाभाग गुह्याद्गुह्यतरं हि यत् । देवैरपि सुदुर्ज्ञेयमिन्द्राद्यैर्वा महर्षिभिः ॥ ३॥ अन्यस्मै नैव वक्तव्यं मयापि रघुनन्दन । त्वद्भक्त्याहं परं प्रीतो वक्ष्याम्यवहितः श्रुणु ॥ ४॥ सत्यज्ञानात्मकोऽनन्तः परमानन्दविग्रहः । परमात्मा परंज्योतिरव्यक्तो व्यक्तकारणम् ॥ ५॥ नित्यो विशुद्धः सर्वात्मा निर्लेपोऽहं निरञ्जनः । सर्वधर्मविहीनश्च न ग्राह्यो मनसापि च ॥ ६॥ नाहं सर्वेन्द्रियग्राह्यः सर्वेषां ग्राहको ह्यहम् । ज्ञाताहं सर्वलोकस्य मम ज्ञाता न विद्यते ॥ ७॥ दूरः सर्वविकाराणां परिणामादिकस्य च ॥ ८॥ यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । आनन्दं ब्रह्म मां ज्ञात्वा न बिभेति कुतश्चन ॥ ९॥ यस्तु सर्वाणि भूतानि मय्येवेति प्रपश्यति । मां च सर्वेषु भूतेषु ततो न विजुगुप्सते ॥ १०॥ यस्य सर्वाणि भूतानि ह्यात्मैवाभूद्विजानतः । को मोहस्तत्र कः शोक एकत्वमनुपश्यतः ॥ ११॥ एष सर्वेषु भूतेषु गूढात्मा न प्रकाशते । दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ १२॥ अनाद्यविद्यया युक्तस्तथाप्येकोऽहमव्ययः । अव्याकृतब्रह्मरूपो जगत्कर्ताहमीश्वरः ॥ १३॥ ज्ञानमात्रे यथा दृश्यमिदं स्वप्ने जगत्त्रयम् । तद्वन्मयि जगत्सर्वं दृश्यतेऽस्ति विलीयते ॥ १४॥ नानाविद्यासमायुक्तो जीवत्वेन वसाम्यहम् । पञ्च कर्मेन्द्रियाण्येव पञ्च ज्ञानेन्द्रियाणि च ॥ १५॥ मनो बुद्धिरहंकारश्चित्तं चेति चतुष्टयम् । वायवः पञ्चमिलिता यान्ति लिङ्गशरीरताम् ॥ १६ तत्राविद्यासमायुक्तं चैतन्यं प्रतिबिम्बितम् । व्यावहारिकजीवस्तु क्षेत्रज्ञः पुरुषोऽपि च ॥ १७॥ स एव जगतां भोक्तानाद्ययोः पुण्यपापयोः । इहामुत्र गती तस्य जाग्रत्स्वप्नादिभोक्तृता ॥ १८॥ यथा दर्पणकालिम्ना मलिनं दृश्यते मुखम् । तद्वदन्तःकरणगैर्दोषैरात्मापि दृश्यते ॥ १९॥ परस्पराध्यासवशात्स्यादन्तःकरणात्मनोः ॥ एकीभावाभिमानेन परात्मा दुःखभागिव॥ २०॥ मरुभूमौ जलत्वेन मध्याह्नार्कमरीचिकाः । दृश्यन्ते मूढचित्तस्य न ह्यार्द्रास्तापकारकाः ॥ २१॥ तद्वदात्मापि निर्लेपो दृश्यते मूढचेतसाम् । स्वाविद्यात्मात्मदोषेण कर्तृत्वाधिकधर्मवान् ॥ २२॥ तत्र चान्नमये पिण्डे हृदि जीवोऽवतिष्ठते । आनखाग्रं व्याप्य देहं तद्ब्रुवेऽवहितः श्रुणु । सोऽयं तदभिधानेन मांसपिण्डो विराजते ॥ २३॥ नाभेरूर्ध्वमधः कण्ठाद्व्याप्य तिष्ठति यः सदा । तस्य मध्येऽस्ति हृदयं सनालं पद्मकोशवत् ॥ २४॥ अधोमुखं च तत्रास्ति सूक्ष्मं सुषिरमुत्तमम् । दहराकाशमित्युक्तं तत्र जीवोऽवतिष्ठते ॥ २५॥ वालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ॥ २६॥ कदम्बकुसुमोद्बद्धकेसरा इव सर्वतः । प्रसृता हृदयान्नाड्यो याभिर्व्याप्तं शरीरकम् ॥ २७॥ हितं बलं प्रयच्छन्ति तस्मात्तेन हिताः स्मृताः । द्वासप्ततिसहस्रैस्ताः संख्याता योगवित्तमैः ॥ २८॥ हृदयात्तास्तु निष्क्रान्ता यथार्काद्रश्मयस्तथा । एकोत्तरशतं तासु मुख्या विष्वग्विनिर्गतः ॥ २९॥ प्रतीन्द्रियं दश दश निर्गता विषयोन्मुखाः । नाड्यः शर्मादिहेतुत्वात् स्वप्नादिफलभुक्तये ॥ ३०॥ वहन्त्यम्भो यथा नद्यो नाड्यः कर्मफलं तथा । अनन्तैकोर्ध्वगा नाडी मूर्धपर्यन्तमञ्जसा ॥ ३१॥ सुषुम्नेति मादिष्टा तया गच्छन्विमुच्यते । तयोपचितचैतन्यं जीवात्मानं विदुर्बुधाः ॥ ३२॥ यथा राहुरदृश्योऽपि दृश्यते चन्द्रमण्डले । तद्वत्सर्वगतोऽप्यात्मा लिङ्गदेहे हि दृश्यते ॥ ३३॥ दृश्यमाने यथा कुंभे घटाकाशोऽपि दृश्यते । तद्वत्सर्वगतोऽप्यात्मा लिङ्गदेहे हि दृश्यते ॥ ३४॥ निश्चलः परिपूर्णोऽपि गच्छतीत्युपचर्यते । जाग्रत्काले यथाज्ञेयमभिव्यक्तविशेषधीः ॥ ३५॥ व्याप्नोति निष्क्रियः सर्वान् भानुर्दश दिशो यथा । नाडीभिर्वृत्तयो यान्ति लिङ्गदेहसमुद्भवाः ॥ ३६॥ तत्तत्कर्मानुसारेण जाग्रद्भोगोपलब्धये । इदं लिङ्गशरीराख्यमामोक्षं न विनश्यति ॥ ३७॥ आत्मज्ञानेन नष्टेऽस्मिन्साविद्ये स्वशरीरके । आत्मस्वरूपावस्थानं मुक्तिरित्यभिधीयते ॥ ३८॥ उत्पादिते घटे यद्वद्घटाकाशत्वमृच्छति । घटे नष्टे यथाकाशः स्वरूपेणावतिष्ठते ॥ ३९॥ जाग्रत्कर्मक्षयवशात्स्वप्नभोग उपस्थिते । बोधावस्थां तिरोधाय देहाद्याश्रयलक्षणाम् ॥ ४०॥ कर्मोद्भावितसंस्कारस्तत्र स्वप्नरिरंसया । अवस्थां च प्रयात्यन्यां मायावी चात्ममायया ॥ ४१॥ घटादिविषयान्सर्वान्बुद्ध्यादिकरणानि च । भूतानि कर्मवशतो वासनामात्रसंस्थितान् ॥ ४२॥ एतान् पश्यन् स्वयंज्योतिः साक्ष्यात्मा व्यवतिष्ठते ॥ ४३॥ अत्रान्तःकरणादीनां वासनाद्वासनात्मता । वासनामात्रसाक्षित्वं तेन तच्च परात्मनः ॥ ४४॥ वासनाभिः प्रपञ्चोऽत्र दृश्यते कर्मचोदितः । जाग्रद्भूमौ यथा तद्वत्कर्तृकर्मक्रियात्मकः ॥ ४५॥ निःशेषबुद्धिसाक्ष्यात्मा स्वयमेव प्रकाशते । वासनामात्रसाक्षित्वं साक्षिणः स्वाप उच्यते ॥ ४६॥ भूतजन्मनि यद्भूतं कर्म तद्वासनावशात् । नेदीयस्त्वाद्वयस्याद्ये स्वप्नं प्रायः प्रपश्यति ॥ ४७॥ मध्ये वयसि कार्कश्यात्करणानामिहार्जितः । वीक्षते प्रायशः स्वप्नं वासनाकर्मणोर्वशात् ॥ ४८॥ इयासुः परलोकं तु कर्मविद्यादिसंभृतम् । भाविनो जन्मनो रूपं स्वप्न आत्मा प्रपश्यति ॥ ४९॥ यद्वत्प्रपतनाच्छ्येनः श्रान्तो गगनमण्डले । आकुञ्च्य पक्षौ यतते नीडे निलयनायनीः ॥ ५०॥ एवं जाग्रत्स्वप्नभूमौ श्रान्त आत्माभिसंचरन् । आपीतकरणग्रामः कारणेनैति चैकताम् ॥ ५१॥ नाडीमार्गैरिन्द्रियाणामाकृष्यादाय वासनाः । सर्वं ग्रसित्वा कार्यं च विज्ञानात्मा विलीयते ॥ ५२॥ ईश्वाराख्येऽव्याकृतेऽथ यथा सुखमयो भवेत् । कृत्स्नप्रपञ्चविलयस्तथा भवति चात्मनः ॥ ५३॥ योषितः काम्यमानायाः संभोगान्ते यथा सुखम् । स आनन्दमयोऽबाह्यो नान्तरः केवलस्तथा ॥ ५४॥ प्राज्ञात्मानं समासाद्य विज्ञानात्मा तथैव सः । विज्ञानात्मा कारणात्मा तथा तिष्ठंस्तथापि सः ॥ ५५॥ अविद्यासूक्ष्मवृत्त्यानुभवत्येव सुखं यथा । तथाहं सुखमस्वाप्सं नैव किञ्चिदवेदिषम्।५६॥ अज्ञानमपि साक्ष्यादि वृत्तिभिश्चानुभूयते । इत्येवं प्रत्यभिज्ञापि पश्चात्तस्योपजायते ॥ ५७॥ जाग्रत्स्वप्नसुषुप्त्याख्यमेवेहामुत्र लोकयोः । पश्चात्कर्मवशादेव विस्फुलिङ्गा यथानलात् । जायन्ते कारणादेव मनोबुद्ध्यादिकानि तु ॥ ५८॥ पयःपूर्णो घटो यद्वन्निमग्नः सलिलाशये । तैरेविद्धत आयाति विज्ञानात्मा तथैत्यजात् ॥ ५९॥ विज्ञानात्मा कारणात्मा तथा तिष्ठंस्तथापि सः । दृश्यते सत्सु तेष्वेव नष्टेष्वायात्यदृश्यताम् ॥ ६०॥ एकाकारोऽर्यमा तत्तत्कार्येष्विव परः पुमान् । कूटस्थो दृश्यते तद्वद्गच्छत्यागच्छतीव सः॥ ६१॥ मोहमात्रान्तरायत्वात्सर्वं तस्योपपद्यते । देहाद्यतीत आत्मापि स्वयंज्योतिः स्वभावतः ॥ ६२॥ एवं जीवस्वरूपं ते प्रोक्तं दशरथात्मज ॥ ६३॥ इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे जीवस्वरूपकथनं नाम दशमोऽध्यायः ॥ १० ॥
अथ एकादशोऽध्यायः ॥ श्रीभगवानुवाच ॥ देहान्तरगतिं तस्य परलोकगतिं तथा । वक्ष्यामि नृपशार्दूल मत्तः शृणु समाहितः ॥ १॥ भुक्तं पीतं यदस्त्यत्र तद्रसादामबन्धनम् । स्थूलदेहस्य लिङ्गस्य तेन जीवनधारणम् ॥ २॥ व्याधिना जरया वापि पीड्यते जाठरोऽनलः । श्लेष्मणा तेन भुक्तान्नं पीतं वा न पचत्यलम् ॥ ३॥ भुक्तपीतरसाभावादाशु शुष्यन्ति धातवः । भुक्तपीतरसेनैव देहं लिम्पन्ति वायवः ॥ ४॥ समीकरोति यस्मात्तत्समानो वायुरुच्यते । तदानीं तद्रसाभावादामबन्धनहानितः ॥ ५॥ परिपक्वरसत्वेन यथा गौरवतः फलम् । स्वयमेव पतत्याशु तथा लिङ्गं तनोर्व्रजेत् ॥ ६॥ तत्तत्स्थानादपाकृष्य हृषीकाणां च वासनाः । आध्यात्मिकाधिभूतानि हृत्पद्मे चैकतां गतः ॥ ७॥ तदोर्ध्वगः प्राणवायुः संयुक्तो नववायुभिः । ऊर्ध्वोच्छ्वासी भवत्येष तथा तेनैकतं गतः ॥ ८॥ चक्षुषो वाथ मूर्ध्नो वा नाडीमार्गं समाश्रितः । विद्याकर्मसमायुक्तो वासनाभिश्च संयुतः। प्राज्ञात्मानं समाश्रित्य विज्ञानात्मोपसर्पति ॥ ९॥ यथा कुम्भो नीयमानो देशाद्देशान्तरं प्रति । खपूर्ण एव सर्वत्र स साकाशोऽपि तत्र तु ॥ १०॥ घटाकाशाख्यतां याति तद्वल्लिङ्गं परात्मनः ॥ ११॥ पुनर्देहान्तरं याति यथा कर्मानुसारतः । आमोक्षात्संचरेत्येवं मत्स्यः कूलद्वयं यथा ॥ १२॥ पापभोगाय चेद्गच्छेद्यमदूतैरधिष्ठितः । यातनादेहमाश्रित्य नरकानेव केवलम् ॥ १३॥ इष्टापूर्तादिकर्माणि योऽनुतिष्ठति सर्वदा । पितृलोकं व्रजत्येष धूममाश्रित्य बर्हिषः ॥ १४॥ धूमाद्रात्रिं ततः कृष्णपक्षं तस्माच्च दक्षिणम् । अयनं च ततो लोकं पितॄणां च ततः परम् । चन्द्रलोके दिव्यदेहं प्राप्य भुङ्क्ते परां श्रियम् ॥ १५॥ तत्र चन्द्रमसा सोऽसौ यावत्कर्मफलं वसेत् । तथैव कर्मशेषेण यथेतं पुनराव्रजेत् ॥ १६॥ वपुर्विहाय जीवत्वमासाद्याकाशमेति सः । आकाशाद्वायुमागत्य वायोरम्भो व्रजत्यथ ॥ १७॥ अद्भ्यो मेघं समासाद्य ततो वृष्टिर्भवेदसौ । ततो धान्यानि भक्ष्याणि जायते कर्मचोदितः ॥ १८॥ योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । मुक्तिमन्येऽनुसंयान्ति यथाकर्म यथाश्रुतम् ॥ १९॥ ततोऽन्नत्वं समासाद्य पितृभ्यां भुज्यते परम् । ततः शुक्रं रजश्चैव भूत्वा गर्भोऽभिजायते ॥ २०॥ ततः कर्मानुसारेण भवेत्स्त्रीपुंनपुंसकः । एवं जीवगतिः प्रोक्ता मुक्तिं तस्य वदामि ते ॥ २१॥ यस्तु शान्त्यादियुक्तः सन्सदा विद्यारतो भवेत् । स याति देवयानेन ब्रह्मलोकावधिं नरः ॥ २२॥ अर्चिर्भूत्वा दिनं प्राप्य शुक्लपक्षमथो व्रजेत् । उत्तरायणमासाद्य संवत्सरमथो व्रजेत् ॥ २३॥ आदित्यचन्द्रलोकौ तु विद्युल्लोकमतः परम् । अथ दिव्यः पुमान्कश्चिद्ब्रह्मलोकादिहैति सः ॥ २४॥ दिव्ये वपुषि संधाय जीवमेवं नयत्यसौ ॥ २५॥ ब्रह्मलोके दिव्यदेहे भुक्त्वा भोगान्यथेप्सितान् । तत्रोषित्वा चिरं कालं ब्रह्मणा सह मुच्यते ॥ २६॥ शुद्धब्रह्मरतो यस्तु न स यात्येव कुत्रचित् । तस्य प्राणा विलीयन्ते जले सैन्धवखिल्यवत् ॥ २७॥ स्वप्नदृष्टा यथा स्ऱिष्टिः प्रबुद्धस्य विलीयते । ब्रह्मज्ञानवतस्तद्वद्विलीयन्ते तदैव ते । विद्याकर्मविहीनो यस्तृतीयं स्थानमेति सः ॥ २८। भुक्त्वा च नरकान्घोरान्महारौरवरौरवान् । पश्चात्प्राक्तनशेषेण क्षुद्रजन्तुर्भवेदसौ ॥ २९॥ यूकामशकदंशादि जन्मासौ लभते भुवि । एवं जीवगतिः प्रोक्ता किमन्यच्छ्रोतुमिच्छसि ॥ ३०॥ श्रीराम उवाच ॥ भगवन्यत्त्वया प्रोक्तं फलं तज्ज्ञानकर्मणोः । ब्रह्मलोके चंद्रलोके भुङ्क्ते भोगानिति प्रभो ॥ ३१॥ गन्धर्वादिषु लोकेषु कथं भोगः समीरितः । देवत्वं प्राप्नुयात्कश्चित्कश्चिदिन्द्रत्वमेति च ॥ ३२॥ एतत्कर्मफलं वास्तु विद्याफलमथापि वा । तद्ब्रूहि गिरिजाकान्त तत्र मे संशयो महान् ॥ ३३॥ श्रीभगवानुवाच ॥ तद्विद्याकर्मणोरेवानुसारेण फलं भवेत् । युवा च सुन्दरः शूरो नीरोगो बलवान् भवेत् ॥ ३४॥ सप्तद्वीपां वसुमतीं भुङ्क्ते निष्कण्टकं यदि । स प्रोक्तो मानुषानन्दस्तस्माच्छतगुणो मतः ॥ ३५॥ मनुष्यस्तपसा युक्तो गन्धर्वो जायतेऽस्य तु । तस्माच्छतगुणो देवगन्धर्वाणां न संशयः ॥ ३६॥ एवं शतगुणानन्द उत्तरोत्तरतो भवेत् । पितॄणां चिरलोकानामाजानसुरसम्पदाम् ॥ ३७॥ देवतानामथेन्द्रस्य गुरोस्तद्वत्प्रजापतेः । ब्रह्मणश्चैवमानन्दः पुरस्तादुत्तरोत्तरः ॥ ३८॥ ज्ञानाधिक्यात्सुखाधिक्यं नान्यदस्ति सुरालये । श्रोत्रियोऽवृजिनोऽकामहतो यश्च द्विजो भवेत् ॥ ३९॥ तस्याप्येवं समाख्याता आनन्दाश्चोत्तरोत्तरम् । आत्मज्ञानात्परं नास्ति तस्माद्दशरथात्मज ॥ ४०॥ ब्राह्मणः कर्मभिर्नैव वर्धते नैव हीयते । न लिप्यते पातकेन कर्मणा ज्ञानवान्यदि ॥ ४१॥ तस्मात्सर्वाधिको विभो ज्ञानवानेव जायते । ज्ञात्वा यः कुरुते कर्म तस्याक्षय्यफलं लभेत् ॥ ४२॥ यत्फलं लभते मर्त्यः कोटिब्राह्मणभोजनैः । तत्फलं समवाप्नोति ज्ञानिनं यस्तु भोजयेत् ॥ ४३॥ ज्ञानवन्तं द्विजं यस्तु द्विषते च नराधमः । स शुष्यमाणो म्रियते यस्मादीश्वर एव सः ॥ ४४॥ उपासको न यात्येव यस्मात्पुनरधोगतिम् । उपासनरतो भूत्वा तस्मादास्स्व सुखी नृप ॥ ४५॥ इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे जीवगत्यादिनिरूपणं नामैकादशोऽध्यायः ॥ ११ ॥
अथ द्वादशोऽध्यायः ॥ श्रीराम उवाच ॥ भगवन्देवदेवेश नमस्तेऽस्तु महेश्वर । उपासनविधिं ब्रूहि देशं कालं च तस्य तु ॥ १॥ अङ्गानि नियमांश्चैव मयि तेऽनुग्रहो यदि ॥ ईश्वर उवाच ॥ शृणु राम प्रवक्ष्यामि देशं कालमुपासने ॥ २॥ सर्वाकारोऽहमेवैकः सच्चिदानन्दविग्रहः । मदंशेन परिच्छिन्ना देहाः सर्वदिवौकसाम् ॥ ३॥ ये त्वन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः । तेऽपि मामेव राजेन्द्र यजन्त्यविधिपूर्वकम् ॥ ४॥ यस्मात्सर्वमिदं विश्वं मत्तो न व्यतिरिच्यते । सर्वक्रियाणां भोक्ताहं सर्वस्याहं फलप्रदः ॥ ५॥ येनाकारेण ये मर्त्या मामेवैकमुपासते । तेनाकारेण तेभ्योऽहं प्रसन्नो वाञ्छितं ददे ॥ ६॥ विधिनाऽविधिना वापि भक्त्या ये मामुपासते । तेभ्यः फलं प्रयच्छामि प्रसन्नोऽहं न संशयः ॥ ७॥ अपि चेत्सुदुराचारो भजते मामनन्यभाक् । साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ ८॥ स्वजीवत्वेन यो वेत्ति मामेवैकमनन्यधीः । तं न स्पृशन्ति पापानि ब्रह्महत्यादिकान्यपि ॥ ९॥ उपासाविधयस्तत्र चत्वारः परिकीर्तिताः । सम्पदारोपसंवर्गाध्यासा इति मनीषिभिः ॥ १०॥ अल्पस्य चाधिकत्वेन गुणयोगाद्विचिन्तनम् । अनन्तं वै मन इति सम्पद्विधिरुदीरितः ॥ ११॥ विधावारोप्य योपासा सारोपः परिकीर्तितः । यद्वदोङ्कारमुद्गीथमुपासीतेत्युदाहृतः ॥ १२॥ आरोपो बुद्धिपूर्वेण य उपासाविधिश्च सः । योषित्यग्निमतिर्यत्तदध्यासः स उदाहृतः ॥ १३॥ क्रियायोगेन चोपासाविधिः संवर्ग उच्यते । संवर्तवायुः प्रलये भूतान्येकोऽवसीदति ॥ १४॥ उपसंगम्य बुद्ध्या यदासनं देवतात्मना । तदुपासनमन्तः स्यात्तद्बहिः सम्पदादयः ॥ १५॥ ज्ञानान्तरानन्तरितसजातिज्ञानसंहतेः । सम्पन्नदेवतात्मत्वमुपासनमुदीरितम् ॥ १६॥ सम्पदादिषु बाह्येषु दृढबुद्धिरुपासनम् । कर्मकाले तदङ्गेषु दृष्टिमात्रमुपासनम् । उपासनमिति प्रोक्तं तदङ्गानि ब्रुवे शृणु ॥ १७॥ तीर्थक्षेत्रादिगमनं श्रद्धां तत्र परित्यजेत् । स्वचित्तैकाग्रता यत्र तत्रासीत सुखं द्विजः ॥ १८॥ कम्बले मृदुतल्पे वा व्याघ्रचर्मणि वास्थितः । विविक्तदेशे नियतः समग्रीवशिरस्तनुः ॥ १९॥ अत्याश्रमस्थः सकलानीन्द्रियाणि निरुध्य च । भक्त्याथ स्वगुरुं नत्वा योगं विद्वान्प्रयोजयेत् ॥ २०॥ यस्त्वविज्ञानवान्भवत्ययुक्तमनसा सदा । तस्येन्द्रियाण्यवश्यानि दुष्टाश्वाइव सारथेः ॥ २१॥ विज्ञानी यस्तु भवति युक्तेन मनसा सदा । तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥ २२॥ यस्त्वविज्ञानवान् भवत्यमनस्कः सदाऽशुचिः । न स तत्पदमाप्नोति संसारमधिगच्छति ॥ २३॥ विज्ञानी यस्तु भवति समनस्कः सदा शुचिः । स तत्पदमवाप्नोति यस्माद्भूयो न जायते ॥ २४॥ विज्ञानसारथिर्यस्तु मनः प्रग्रह एव च । सोऽध्वनः पारमाप्नोति ममैव परमं पदम् ॥ २५॥ हृत्पुण्डरीकं विरजं विशुद्धं विशदं तथा । विशोकं च विचिन्त्यात्र ध्यायेन्मां परमेश्वरम् ॥ २६॥ अचिन्त्यरूपमव्यक्तमनन्तममृतं शिवम् । आदिमध्यान्तरहितं प्रशान्तं ब्रह्म कारणम् ॥ २७॥ एकं विभुं चिदानन्दमरूपमजमद्भुतम् । शुद्धस्फटिकसंकाशमुमादेहार्धधारिणम् ॥ २८॥ व्याघ्रचर्माम्बरधरं नीलकण्ठं त्रिलोचनम् । जटाधरं चन्द्रमौलिं नागयज्ञोपवीतिनम् ॥ २९॥ व्याघ्रचर्मोत्तरीयं च वरेण्यमभयप्रदम् । पराभ्यामूर्ध्वहस्ताभ्यां बिभ्राणं परशुं मृगम् ॥ ३०॥ कोटिमध्याह्नसूर्याभं चन्द्रकोटिसुशीतलम् । चन्द्रसूर्याग्निनयनं स्मेरवक्त्रसरोरुहम् ॥ ३१॥ भूतिभूषितसर्वाङ्गं सर्वाभरणभूषितम् । एवमात्मारणिं कृत्वा प्रणवं चोत्तरारणिम् । ध्याननिर्मथनाभ्यासात्साक्षात्पश्यति मां जनः ॥ ३२॥ वेदवाक्यैरलभ्योऽहं न शास्त्रैर्नापि चेतसा । ध्यानेन वृणुते यो मां सर्वदाहं वृणोमि तम् ॥ ३३॥ नाविरतो दुश्चरितान्नाशान्तो नासमाहितः । नाशान्तमानसो वापि प्रज्ञानेन लभेत माम् ॥ ३४॥ जाग्रत्स्वप्नसुषुप्त्यादिप्रपञ्चो यः प्रकाशते । तद्ब्रह्माहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते ॥ ३५॥ त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्च यद्भवेत् । तज्ज्योतिर्लक्षणः साक्षी चिन्मात्रोऽहं सदाशिवः ॥ ३६॥ एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । सर्वाध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च ॥ ३७ एको वशी सर्वभूतान्तरात्मा- प्येकं बीजं नित्यदा यः करोति । तं मां नित्यं येऽनुपश्यन्ति धीरा- स्तेषां शान्तिः शाश्वती नेतरेषाम् ॥ ३८॥ अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव । एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः ॥ ३९॥ वेदेह यो मां पुरुषं महान्त- मादित्यवर्णं तमसः परस्तात् । स एव विद्वानमृतोऽत्र भूया- न्नान्यस्तु पन्था अयनाय विद्यते ॥ ४०॥ हिरण्यगर्भं विदधामि पूर्वं वेदांश्च तस्मै प्रहिणोमि योऽहम् । तं देवमीड्यं पुरुषं पुराणं निश्चित्य मां मृत्युमुखात्प्रमुच्यते ॥ ४१॥ एवं शान्त्यादियुक्तः सन् वेत्ति मां तत्त्वतस्तु यः । निर्मुक्तदुःखसंतानः सोऽन्ते मय्येव लीयते ॥ ४२॥ इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे उपासनाज्ञानफलं नाम द्वादशोऽध्यायः ॥ १२ ॥
अथ त्रयोदशोऽध्यायः । सूत उवाच ॥ एवं श्रुत्वा कौसलेयस्तुष्टो मतिमतां वरः । पप्रच्छ गिरिजाकान्तं सुभगं मुक्तिलक्षणम् ॥ १॥ श्रीराम उवाच ॥ भगवन्करुणाविष्टहृदय त्वं प्रसीद मे । स्वरूपलक्षणं मुक्तेः प्रब्रूहि परमेश्वर ॥ २॥ श्रीभगवानुवाच ॥ सालोक्यमपि सारूप्यं सार्ष्ट्यं सायुज्यमेव च । कैवल्यं चेति तां विद्धि मुक्तिं राघव पञ्चधा ॥ ३॥ मां पूजयति निष्कामः सर्वदा ज्ञानवर्जितः । स मे लोकं समासाद्य भुङ्क्ते भोगान्यथेप्सितान् ॥ ४॥ ज्ञात्वा मां पूजयेद्यस्तु सर्वकामविवर्जितः । मया समानरूपः सन्मम लोके महीयते ॥ ५॥ इष्टापूर्तादि कर्माणि मत्प्रीत्यै कुरुते तु यः । यत्करोति यदश्नाति यज्जुहोति ददाति यत् ॥ ६॥ यत्तपस्यति तत्सर्वं यः करोति मदर्पणम् । मल्लोके स श्रियं भुङ्क्ते मत्तुल्यं प्राभवं भजेत् ॥ ७॥ यस्तु शान्त्यादियुक्तः सन्मामात्मत्वेन पश्यति । स जायते परं ज्योतिरद्वैतं ब्रह्म केवलम् । आत्मस्वरूपावस्थानं मुक्तिरित्यभिधीयते ॥ ८॥ सत्यं ज्ञानमनन्तं सदानन्दं ब्रह्मकेवलम् । सर्वधर्मविहीनं च मनोवाचामगोचरम् ॥ ९॥ सजातीयविजातीयपदार्थानामसंभवात् । अतस्तद्व्यतिरिक्तानामद्वैतमिति संज्ञितम् ॥ १०॥ मत्वा रूपमिदं राम शुद्धं यदभिधीयते । मय्येव दृश्यते सर्वं जगत्स्थावरजङ्गमम् ॥ ११॥ व्योम्नि गन्धर्वनगरं यथा दृष्टं न दृश्यते । अनाद्यविद्यया विश्वं सर्वं मय्येव कल्प्यते ॥ १२॥ मम स्वरूपज्ञानेन यदाऽविद्या प्रणश्यति । तदैक एव वर्त्तेऽहं मनोवाचामगोचरः ॥ १३॥ सदैव परमानन्दः स्वप्रकाशश्चिदात्मकः। न कालः पञ्चभूतानि न दिशो विदिशश्च न ॥ १४॥ मदन्यन्नास्ति यत्किञ्चित्तदा वर्त्तेऽहमेकलः ॥ १५॥ न संदृशे तिष्ठति मे स्वरूपं न चक्षुषा पश्यति मां तु कश्चित् । हृदा मनीषा मनसाभिक्लृप्तं ये मां विदुस्ते ह्यमृता भवन्ति ॥ १६॥ श्रीराम उवाच ॥ कथं भगवतो ज्ञानं शुद्धं मर्त्यस्य जायते । तत्रोपायं हर ब्रूहि मयि तेऽनुग्रहो यदि ॥ १७॥ श्रीभगवानुवाच ॥ विरज्य सर्वभूयेभ्य आविरिंचिपदादपि । घृणां वितत्य सर्वत्र पुत्रमित्रादिकेष्वपि ॥ १८॥ श्रद्धालुर्भक्तिमार्गेषु वेदान्तज्ञानलिप्सया । उपायनकरो भूत्वा गुरुं ब्रह्मविदं व्रजेत् ॥ १९॥ सेवाभिः परितोष्यैनं चिरकालं समाहितः । सर्ववेदान्तवाक्यार्थं शृणुयात्सुसमाहितः ॥ २०॥ सर्ववेदान्तवाक्यानां मयि तात्पर्यनिश्चयम् । श्रवणं नाम तत्प्राहुः सर्वे ते ब्रह्मवादिनः ॥ २१॥ लोहमण्यादिदृष्टान्तयुक्तिभिर्यद्विचिन्तनम् । तदेव मननं प्राहुर्वाक्यार्थस्योपबृंहणम् ॥ २२॥ निर्ममो निरहंकारः समः संगवर्जितः। सदा शान्त्यादियुक्तः सन्नात्मन्यात्मानमीक्षते ॥ २३॥ यत्सदा ध्यानयोगेन तन्निदिध्यासनं स्मृतम् ॥ २४॥ सर्वकर्मक्षयवशात्साक्षात्कारोऽपि चात्मनः । कस्यचिज्जायते शीघ्रं चिरकालेन कस्यचित् ॥ २५॥ कूटस्थानीह कर्माणि कोटिजन्मार्जितान्यपि । ज्ञानेनैव विनश्यन्ति न तु कर्मायुतैरपि ॥ २६॥ ज्ञानादूर्ध्वं तु यत्किञ्चित्पुण्यं वा पापमेव वा । क्रियते बहु वाल्पं वा न तेनायं विलिप्यते ॥ २७॥ शरीरारम्भकं यत्तु प्रारब्धं कर्म जन्मिनः । तद्भोगेनैव नष्टं स्यान्न तु ज्ञानेन नश्यति ॥ २८॥ निर्मोहो निरहंकारो निर्लेपः संगवर्जितः । सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । यः पश्यन्संचरत्येष जीवन्मुक्तोऽभिधीयते ॥ २९॥ अहिनिर्ल्वयनी यद्वद्द्रष्टुः पूर्वं भयप्रदा । ततोऽस्य न भयं किंचित्तद्वद्द्रष्टुरयं जनः ॥ ३०॥ यदा सर्वे प्रमुच्यन्ते कामा येऽस्य वशं गताः । अथ मर्त्योऽमृतो भवत्येतावदनुशासनम् ॥ ३१॥ मोक्षस्य न हि वासोऽस्ति न ग्रामान्तरमेव वा । अज्ञानहृदयग्रन्थिनाशो मोक्ष इति स्मृतः ॥ ३२॥ वृक्षाग्रच्युतपादो यः स तदैव पतत्यधः । तद्वज्ज्ञानवतो मुक्तिर्जायते निश्चितापि तु ॥ ३३॥ तीर्थं चाण्डालगेहे वा यदि वा नष्टचेतनः । पएरित्यजन्देहमिमं ज्ञानादेव विमुच्यते ॥ ३४॥ संवीतो येन केनाश्नन्भक्ष्यं वाभक्ष्यमेव वा । शयानो यत्र कुत्रापि सर्वात्मा मुच्यतेऽत्र सः ॥ ३५॥ क्षीरादुद्धृतमाज्यं तत्क्षिप्तं पयसि तत्पुनः । न तेनैवैकतां याति संसारे ज्ञानवांस्तथा ॥ ३६॥ नित्यं पठति योऽध्यायमिमं राम शृणोति वा । स मुच्यते देहबन्धादनायासेन राघव ॥ ३७॥ अतः संयतचित्तस्त्वं नित्यं पठ महीपते । अनायासेन तेनैव सर्वथा मोक्षमाप्स्यसि ॥ ३८॥ इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे मोक्षयोगो नाम त्रयोदशोऽध्यायः ॥ १३ ॥
अथ चतुर्दशोऽध्यायः ॥ श्रीराम उवाच ॥ भगवन्यदि ते रूपं सच्चिदानन्दविग्रहम् । निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् ॥ १॥ सर्वधर्मविहीनं च मनोवाचामगोचरम् । सर्वव्यापितयात्मानमीक्षते सर्वतः स्थितम् ॥ २॥ आत्मविद्यातपोमूलं तद्ब्रह्मोपनिषत्परम् । अमूर्तं सर्वभूतात्माकारं कारणकारणम् ॥ ३॥ यत्तददृश्यमग्राह्यं तद्ग्राह्यं वा कथं भवेत् । अत्रोपायमजानानस्तेन खिन्नोऽस्मि शंकर ॥ ४॥ श्रीभगवानुवाच ॥ शृणु राजन्प्रवक्ष्यामि तत्रोपायं महाभुज । सगुणोपासनाभिस्तु चित्तैकाग्र्यं विधाय च ॥ ५॥ स्थूलसौरांभिकान्यायात्तत्र चित्तं प्रवर्तयेत् । तस्मिन्नन्नमये पिण्डे स्थूलदेहे तनूभृताम् ॥ ६॥ जन्मव्याधिजरामृत्युनिलये वर्तते दृढा ॥ ७॥ आत्मबुद्धिरहंमानात्कदाचिन्नैव हीयते । आत्मा न जायते नित्यो म्रियते वा कथंचन ॥ ८॥ संजायतेऽस्ति विपरिणमते वर्धते तथा । क्षीयते नश्यतीत्येते षड्भावा वपुषः स्मृताः ॥ ९॥ आत्मनो न विकारित्वं घटस्थनभसो यथा । एवमात्मावपुस्तस्मादिति संचिन्तयेद्बुधः ॥ १०॥ मूषानिक्षिप्तहेमाभः कोशः प्राणमयोऽत्र तु । वर्ततेऽन्तरतो देहे बद्धः प्राणादिवायुभिः ॥ ११॥ कर्मेन्द्रियैः समायुक्तश्चलनादिक्रियात्मकः । क्षुत्पिपासापराभूतो नायमात्मा जडो यतः ॥ १२॥ चिद्रूप आत्मा येनैव स्वदेहमभिपश्यति । आत्मैव हि परं ब्रह्म निर्लेपः सुखनीरधिः ॥ १३॥ न तदश्नाति किंचैतत्तदश्नाति न कश्चन ॥ १४॥ ततः प्राणमये कोशे कोशोऽस्त्येव मनोमयः । स संकल्पविकल्पात्मा बुद्धीन्द्रियसमायुतः ॥ १५॥ कामः क्रोधस्तथा लोभो मोहो मात्सर्यमेव च । मदश्चेत्यरिषड्वर्गो ममतेच्छादयोऽपि च । मनोमयस्य कोशस्य धर्मा एतस्य तत्र तु ॥ १६॥ या कर्मविषया बुद्धिर्वेदशास्त्रार्थनिश्चिता । सा तु ज्ञानेन्द्रियैः सार्धं विज्ञानमयकोशतः ॥ १७॥ इह कर्तृत्वाभिमानी स एव तु न संशयः । इहामुत्र गतिस्तस्य स जीवो व्यावहारिकः ॥ १८॥ व्योमादिसात्त्विकांशेभ्यो जायन्ते धीन्द्रियाणि तु । व्योम्नः श्रोत्रं भुवो घ्राणं जलाज्जिह्वाथ तेजसः ॥ १९। चक्षुर्वायोस्त्वगुत्पन्ना तेषां भौतिकता ततः ॥ २०॥ व्योमादीनां समस्तानां सात्त्विकांशेभ्य एव तु । जायन्ते बुद्धिमनसी बुद्धिः स्यान्निश्चयात्मिका ॥ २१॥ वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाणि तु । व्योमादीनां रजोंऽशेभ्यो व्यस्तेभ्यस्तान्यनुक्रमात् ॥ २२॥ समस्तेभ्यो रजोंऽशेभ्यः पञ्च प्राणादिवायवः । जायन्ते सप्तदशकमेवं लिङ्गशरीरकम् ॥ २३॥ एतल्लिङ्गशरीरं तु तप्तायःपिण्डवद्यतः । परस्पराध्यासयोगात्साक्षिचैतन्यसंयुतम् ॥ २४॥ तदानन्दमयः कोशो भोक्तृत्वं प्रतिपद्यते । विद्याकर्मफलादीनां भोक्तेहामुत्र स स्मृतः ॥ २५॥ यदाध्यासं विहायैष स्वस्वरूपेण तिष्ठति । अविद्यामात्रसंयुक्तः साक्ष्यात्मा जायते तदा ॥ २६॥ द्रष्टान्तःकरणादीनामनुभूतेः स्मृतेरपि । अतोऽन्तःकरणाध्यासादध्यासित्वेन चात्मनः । भोक्तृत्वं साक्षिता चेति द्वैधं तस्योपपद्यते ॥ २७॥ आतपश्चापि तच्छाया तत्प्रकाशे विराजते । एको भोजयिता तत्र भुङ्क्तेऽन्यः कर्मणः फलम् ॥ २८॥ क्षेत्रज्ञं रथिनं विद्धि शरीरं रथमेव तु । बुद्धिं तु सारथिं विद्धि प्रग्रहं तु मनस्तथा ॥ २९॥ इन्द्रियाणि हयान्विद्धि विषयांस्तेषु गोचरान् । इन्द्रियैर्मनसा युक्तं भोक्तारं विद्धि पूरुषम् ॥ ३०॥ एवं शान्त्यादियुक्तः सन्नुपास्ते यः सदा द्विजः। उद्घाट्योद्घाट्यैकमेकं यथैव कदलीतरोः ॥ ३१॥ वल्कलानि ततः पश्चाल्लभते सारमुत्तमम् । तथैव पञ्चकोशेषु मनः संक्रामयन्क्रमात् । तेषां मध्ये ततः सारमात्मानमपि विन्दति ॥ ३२॥ एवं मनः समाधाय संयतो मनसि द्विजः । अथ प्रवर्तयेच्चित्तं निराकारे परात्मनि ॥ ३३॥ ततो मनः प्रगृह्णाति परमात्मानमव्ययम् । यत्तदद्रेश्यमग्राह्यमस्थूलाद्युक्तिगोचरम् ॥ ३४॥ श्रीराम उवाच ॥ भगवञ्छ्रवणे नैव प्रवर्तन्ते जनाः कथम् । वेदशास्त्रार्थसम्पन्ना यज्वानः सत्यवादिनः ॥ ३५॥ शृण्वन्तोऽपि तथात्मानं जानते नैव केचन । ज्ञात्वापि मन्वते मिथ्या किमेतत्तव मायया ॥ ३६॥ श्रीभगवानुवाच ॥ एवमेव महाबाहो नात्र कार्या विचारणा । दैवी ह्येषा गुणमयी मम माया दुरत्यया ॥ ३७॥ मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते । अभक्ता ये महाबाहो मम श्रद्धा विवर्जिताः ॥ ३८॥ फलं कामयमानास्ते चैहिकामुष्मिकादिकम् । क्षयिष्ण्वल्पं सातिशयं यतः कर्मफलं मतम् ॥ ३९॥ तदविज्ञाय कर्माणि ये कुर्वन्ति नराधमाः । मातुः पतन्ति ते गर्भे मृत्योर्वक्त्रे पुनः पुनः ॥ ४०॥ एवं शान्त्यादियुक्तः सन्नुपास्ते यः सदा द्विजः। उद्घाट्योद्घाट्यैकमेकं यथैव कदलीतरोः ॥ ३१॥ वल्कलानि ततः पश्चाल्लभते सारमुत्तमम् । तथैव पञ्चकोशेषु मनः संक्रामयन्क्रमात् । तेषां मध्ये ततः सारमात्मानमपि विन्दति ॥ ३२॥ एवं मनः समाधाय संयतो मनसि द्विजः । अथ प्रवर्तयेच्चित्तं निराकारे परात्मनि ॥ ३३॥ ततो मनः प्रगृह्णाति परमात्मानमव्ययम् । यत्तदद्रेश्यमग्राह्यमस्थूलाद्युक्तिगोचरम् ॥ ३४॥ श्रीराम उवाच ॥ भगवञ्छ्रवणे नैव प्रवर्तन्ते जनाः कथम् । वेदशास्त्रार्थसम्पन्ना यज्वानः सत्यवादिनः ॥ ३५॥ शृण्वन्तोऽपि तथात्मानं जानते नैव केचन । ज्ञात्वापि मन्वते मिथ्या किमेतत्तव मायया ॥ ३६॥ श्रीभगवानुवाच ॥ एवमेव महाबाहो नात्र कार्या विचारणा । दैवी ह्येषा गुणमयी मम माया दुरत्यया ॥ ३७॥ मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते । अभक्ता ये महाबाहो मम श्रद्धा विवर्जिताः ॥ ३८॥ फलं कामयमानास्ते चैहिकामुष्मिकादिकम् । क्षयिष्ण्वल्पं सातिशयं यतः कर्मफलं मतम् ॥ ३९॥ तदविज्ञाय कर्माणि ये कुर्वन्ति नराधमाः । मातुः पतन्ति ते गर्भे मृत्योर्वक्त्रे पुनः पुनः ॥ ४०॥ नानायोनिषु जातस्य देहिनो यस्यकस्यचित् । कोटिजन्मार्जितैः पुण्यैर्मयि भक्तिः प्रजायते ॥ ४१॥ स एव लभते ज्ञानं मद्भक्तः श्रद्धयान्वितः । नान्यकर्माणि कुर्वाणो जन्मकोटिशतैरपि ॥ ४२॥ ततः सर्वं परित्यज्य मद्भक्तिं समुदाहर । सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ॥ ४३॥ अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः । यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ॥ ४४॥ यत्तपस्यसि राम त्वं तत्कुरुष्व मदर्पणम् । ततः परतरा नास्ति भक्तिर्मयि रघूत्तम ॥ ४५॥ इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे पञ्चकोशोपपादनं नाम चतुर्दशोऽध्यायः ॥ १४ ॥
अथ पञ्चदशोऽध्यायः ॥ श्रीराम उवाच ॥ भक्तिस्ते कीदृशी देव जायते वा कथंचन । यया निर्वाणरूपं तु लभते मोक्षमुत्तमम् । तद् ब्रूहि गिरिजाकान्त मयि तेऽनुग्रहो यदि ॥ १॥ श्रीभगवानुवाच ॥ यो वेदाध्ययनं यज्ञं दानानि विविधानि च । मदर्पणधिया कुर्यात्स मे भक्तः स मे प्रियः ॥ २॥ नर्यभस्म समादाय विशुद्धं श्रोत्रियालयात् । अग्निरित्यादिभिर्मन्त्रैरभिमन्त्र्य यथाविधि ॥ ३॥ उद्धूलयति गात्राणि तेन चार्चति मामपि । तस्मात्परतरा भक्तिर्मम राम न विद्यते ॥ ४॥ सर्वदा शिरसा कण्ठे रुद्राक्षान्धारयेत्तु यः । पञ्चाक्षरीजपरतः स मे भक्तः स मे प्रियः ॥ ५॥ भस्मच्छन्नो भस्मशायी सर्वदा विजितेन्द्रियः । यस्तु रुद्रं जपेन्नित्यं चिन्तयेन्मामनन्यधीः ॥ ६॥ स तेनैव च देहेन शिवः संजायते स्वयम् । जपेद्यो रुद्रसूक्तानि तथाथर्वशिरः परम् ॥ ७॥ कैवल्योपनिषत्सूक्तं श्वेताश्वतरमेव च । ततः परतरो भक्तो मम लोके न विद्यते ॥ ८॥ अन्यत्र धर्मादन्यस्मादन्यत्रास्मात्कृताकृतात् । अन्यत्र भूताद्भव्याच्च यत्प्रवक्ष्यामि तच्छृणु ॥ ९॥ वदन्ति यत्पदं वेदाः शास्त्राणि विविधानि च । सर्वोपनिषदां सारं दध्नो घृतमिवोद्धृतम् ॥ १०॥ यदिच्छन्तो ब्रह्मचर्यं चरन्ति मुनयः सदा । तत्ते पदं संग्रहेण ब्रवीम्योमिति यत्पदम् ॥ ११॥ एतदेवाक्षरं ब्रह्म एतदेवाक्षरं परम् । एतदेवाक्षरं ज्ञात्वा ब्रह्मलोके महीयते ॥ १२॥ छन्दसां यस्तु धेनूनामृषभत्वेन चोदितः । इदमेव पतिः सेतुरमृतस्य च धारणात् ॥ १३॥ मेधसा पिहिते कोशे ब्रह्म यत्परमोमिति ॥ १४॥ चतस्रस्तस्य मात्राः स्युरकारोकारकौ तथा । मकारश्चावसानेऽर्धमात्रेति परिकीर्तिता ॥ १५॥ पूर्वत्र भूश्च ऋग्वेदो ब्रह्माष्टवसवस्तथा । गार्हपत्यश्च गायत्री गङ्गा प्रातःसवस्तथा ॥ १६॥ द्वितीया च भुवो विष्णू रुद्रोऽनुष्टुब्यजुस्तथा । यमुना दक्षिणाग्निश्च माध्यन्दिनसवस्तथा ॥ १७॥ तृतीया च सुवः सामान्यादित्यश्च महेश्वरः । अग्निराहवनीयश्च जगती च सरस्वती ॥ १८॥ तृतीयं सवनं प्रोक्तमथर्वत्वेन यन्मतम् । चतुर्थी यावसानेऽर्धमात्रा सा सोमलोकगा ॥ १९॥ अथर्वाङ्गिरसः संवर्तकोऽग्निश्च महस्तथा । विराट् सभ्यावसथ्यौ च शुतुद्रिर्यज्ञपुच्छकः॥ २०॥ प्रथमा रक्तवर्णा स्याद् द्वितीया भास्वरा मता । तृतीया विद्युदाभा स्याच्चतुर्थी शुक्लवर्णिनी ॥ २१॥ सर्वं जातं जायमानं तदोङ्कारे प्रतिष्ठितम् । विश्वं भूतं च भुवनं विचित्रं बहुधा तथा ॥ २२॥ जातं च जायमानं यत्तत्सर्वं रुद्र उच्यते । तस्मिन्नेव पुनः प्राणाः सर्वमोङ्कार उच्यते ॥ २३॥ प्रविलीनं तदोङ्कारे परं ब्रह्म सनातनम् । तस्मादोङ्कारजापी यः स मुक्तो नात्र संशयः ॥ २४॥ त्रेताग्नेः स्मार्तवह्नेर्वा शैवाग्नेर्वा समाहृतम् । भस्माभिमन्त्र्य यो मां तु प्रणवेन प्रपूजयेत् ॥ २५॥ तस्मात्परतरो भक्तो मम लोके न विद्यते ॥ २६॥ शालाग्नेर्दाववह्नेर्वा भस्मादायाभिमन्त्रितम् । यो विलिम्पति गात्राणि स शूद्रोऽपि विमुच्यते ॥ २७॥ कुशपुष्पैर्बिल्वदलैः पुष्पैर्वा गिरिसंभवैः । यो मामर्चयते नित्यं प्रणवेन प्रियो हि सः ॥ २८॥ पुष्पं फलं समूलं वा पत्रं सलिलमेव वा । यो दद्यात्प्रणवैर्मह्यं तत्कोटिगुणितं भवेत् ॥ २९॥ अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः । यस्यास्त्यध्ययनं नित्यं स मे भक्तः स मे प्रियः ॥ ३०॥ प्रदोषे यो मम स्थानं गत्वा पूजयते तु माम् । स परं श्रियमाप्नोति पश्चान्मयि विलीयते ॥ ३१॥ अष्टम्यां च चतुर्दश्यां पर्वणोरुभयोरपि । भूतिभूषितसर्वांगो यः पूजयति मां निशि ॥ ३२॥ कृष्णपक्षे विशेषेण स मे भक्तः स मे प्रियः ॥ ३३॥ एकादश्यामुपोष्यैव यः पूजयति मां निशि । सोमवारे विशेषेण स मे भक्तो न नश्यति ॥ ३४॥ पञ्चामृतैः स्नापयेद्यः पञ्चगव्येन वा पुनः । पुष्पोदकैः कुशजलैस्तस्मान्नन्यः प्रियो मम ॥ ३५॥ पयसा सर्पिषा वापि मधुनेक्षुरसेन वा । पक्वाम्रफलजेनापि नारिकेरजलेन वा ॥ ३६॥ गन्धोदकेन वा मां यो रुद्रमन्त्रं समुच्चरन् । अभिषिञ्चेत्ततो नान्यः कश्चित्प्रियतरो मम ॥ ३७॥ आदित्याभिमुखो भूत्वा ऊर्ध्वबाहुर्जले स्थितः । मां ध्यायन् रविबिम्बस्थमथर्वांगिरस जपेत् ॥ ३८॥ प्रविशेन्मे शरीरेऽसौ गृहं गृहपतिर्यथा । बृहद्रथन्तरं वामदेव्यं देवव्रतानि च ॥ ३९॥ तद्योगयाज्यदोहांश्च यो गायति ममाग्रतः । इह श्रियं परां भुक्त्वा मम सायुज्यमाप्नुयात् ॥ ४०॥ ईशावास्यादि मन्त्रान् यो जपेन्नित्यं ममाग्रतः । मत्सायुज्यमवाप्नोति मम लोके महीयते ॥ ४१॥ भक्तियोगो मया प्रोक्त एवं रघुकुलोद्भव । सर्वकामप्रदो मत्तः किमन्यच्छ्रोतुमिच्छसि ॥ ४२॥ इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे भक्तियोगो नाम पञ्चदशोऽध्यायः ॥ १५ ॥
अथ षोडशोऽध्यायः ॥ श्रीराम उवाच ॥ भगवन्मोक्षमार्गो यस्त्वया सम्यगुदाहृतः । तत्राधिकारिणं ब्रूहि तत्र मे संशयो महान् ॥ १॥ श्रीभगवानुवाच ॥ ब्रह्मक्षत्रविशः शूद्राः स्त्रियश्चात्राधिकारिणः । ब्रह्मचारी गृहस्थो वा।आनुपनीतोऽथवा द्विजः ॥ २॥ वनस्थो वाऽवनस्थो वा यतिः पाशुपतव्रती । बहुनात्र किमुक्तेन यस्य भक्तिः शिवार्चने ॥ ३॥ स एवात्राधिकारी स्यान्नान्यचित्तः कथंचन । जडोऽन्धो बधिरो मूको निःशौचः कर्मवर्जितः ॥ ४॥ अज्ञोपहासकाभक्ता भूतिरुद्राक्षधारिणः । लिंगिनो यश्च वा द्वेष्टि ते नैवात्राधिकारिणः ॥ ५॥ यो मां गुरुं पाशुपतं व्रतं द्वेष्टि धराधिप । विष्णुं वा न स मुच्येत जन्मकोटिशतैरपि ॥ ६॥ अनेककर्मसक्तोऽपि शिवज्ञानविवर्जितः । शिवभक्तिविहीनश्च संसारान्नैव मुच्यते ॥ ७॥ आसक्ताः फलरागेण ये त्ववैदिककर्मणि । दृष्टमात्रफलास्ते तु न मुक्तावधिकारिणः ॥ ८॥ अविमुक्ते द्वारकायां श्रीशैले पुण्डरीकके । देहान्ते तारकं ब्रह्म लभते मदनुग्रहात् ॥ ९॥ यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् । विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥ १०॥ विप्रस्यानुपनीतस्य विधिरेवमुदाहृतः । नाभिव्याहारयेद्ब्रह्म स्वधानिनयनादृते ॥ ११॥ स शूद्रेण समस्तावद्यावद्वेदान्न जायते । नामसंकीर्तने ध्याने सर्व एवाधिकारिणः ॥ १२॥ संसारान्मुच्यते जन्तुः शिवतादात्म्यभावनात् । तथा दानं तपो वेदाध्ययनं चान्यकर्म वा । सहस्रांशं तु नार्हन्ति सर्वदा ध्यानकर्मणः ॥ १३॥ जातिमाश्रममङ्गानि देशं कालमथापि वा । आसनादीनि कर्माणि ध्यानं नापेक्षते क्वचित् ॥ १४॥ गच्छंस्तिष्ठन् जपन्वापि शयानो वान्यकर्मणि । पातकेनापि वा युक्तो ध्यानादेव विमुच्यते ॥ १५॥ नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते । स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ १६॥ आश्चर्ये वा भये शोके क्षुते वा मम नाम यः । व्याजेनापि स्मरेद्यस्तु स याति परमां गतिम् ॥ १७॥ महापापैरपि स्पृष्टो देहान्ते यस्तु मां स्मरेत् । पञ्चाक्षरीं वोच्चरति स मुक्तो नात्र संशयः ॥ १८॥ विश्वं शिवमयं यस्तु पश्यत्यात्मानमात्मना । तस्य क्षेत्रेषु तीर्थेषु किं कार्यं वान्यकर्मसु ॥ १९॥ सर्वेण सर्वदा कार्यं भूतिरुद्राक्षधारणम् । युक्तेनाथाप्ययुक्तेन शिवभक्तिमभीप्सता ॥ २०॥ नर्यभस्मसमायुक्तो रुद्राक्षान्यस्तु धारयेत् । महापापैरपि स्पृष्टो मुच्यते नात्र संशयः ॥ २१॥ अन्यानि शैवकर्माणि करोतु न करोतु वा । शिवनाम जपेद्यस्तु सर्वदा मुच्यते तु सः ॥ २२॥ अन्तकाले तु रुद्राक्षान्विभूतिं धारयेत्तु यः । महापापोपपापोघैरपि स्पृष्टो नराधमः ॥ २३॥ सर्वथा नोपसर्पन्ति तं जनं यमकिंकराः ॥ २४॥ बिल्वमूलमृदा यस्तु शरीरमुपलिम्पति । अन्तकालेऽन्तकजनैः स दूरीक्तियते नरः ॥ २५॥ श्रीराम उवाच ॥ भगवन्पूजितः कुत्र कुत्र वा त्वं प्रसीदसि । तद्ब्रूहि मम जिज्ञासा वर्तते महती विभो ॥ २६॥ श्रीभगवानुवाच ॥ मृदा वा गोमयेनापि भस्मना चन्दनेन वा । सिकताभिर्दारुणा वा पाषाणेनापि निर्मिता ॥ २७॥ लोहेन वाथ रङ्गेण कांस्यखर्परपित्तलैः । ताम्ररौप्यसुवर्णैर्वा रत्नैर्नानाविधैरपि ॥ २८॥ अथवा पारदेनैव कर्पूरेणाथवा कृता । प्रतिमा शिवलिङ्गं वा द्रव्यैरेतैः कृतं तु यत् ॥ २९॥ तत्र मां पूजयेत्तेषु फलं कोटिगुणोत्तरम् ॥ ३०॥ मृद्दारुकांस्यलोहैश्च पाषाणेनापि निर्मिता । गृहिणा प्रतिमा कार्या शिवं शश्वदभीप्सता । आयुः श्रियं कुलं धर्मं पुत्रानाप्नोति तैः क्रमात् ॥ ३१॥ बिल्ववृक्षे तत्फले वा यो मां पूजयते नरः । परां श्रियमिह प्राप्य मम लोके महीयते ॥ ३२॥ बिल्ववृक्षं समाश्रित्य यो मन्त्रान्विधिना जपेत् । एकेन दिवसेनैव तत्पुरश्चरणं भवेत् ॥ ३३॥ यस्तु बिल्ववने नित्यं कुटीं कृत्वा वसेन्नरः । सर्वे मन्त्राः प्रसिद्ध्यन्ति जपमात्रेण केवलम् ॥ ३४॥ पर्वताग्रे नदीतीरे बिल्वमूले शिवालये । अग्निहोत्रे केशवस्य संनिधौ वा जपेत्तु यः ॥ ३५॥ नैवास्य विघ्नं कुर्वन्ति दानवा यक्षराक्षसः । तं न स्पृशन्ति पापानि शिवसायुज्यमृच्छति ॥ ३६॥ स्थण्डिले वा जले वह्नौ वायावाकाश एव वा । गिरौ स्वात्मनि वा यो मां पूजयेत्प्रयतो नरः ॥ ३७॥ स कृत्स्नं फलमाप्नोति लवमात्रेण राघव । आत्मपूजासमा नास्ति पूजा रघुकुलोद्भव ॥ ३८॥ मत्सायुज्यमवाप्नोति चण्डालोऽप्यात्मपूजया । सर्वान्कामानवाप्नोति मनुष्यः कम्बलासने ॥ ३९॥ कृष्णाजिने भवेन्मुक्तिर्मोक्षश्रीर्व्याघ्रचर्मणि । कुशासने भवेज्ज्ञानमारोग्यं पत्रनिर्मिते ॥ ४०॥ पाषाणे दुःखमाप्नोति काष्ठे नानाविधान् गदान् । वस्त्रेण श्रियमाप्नोति भूमौ मन्त्रो न सिद्ध्यति । प्राङ्मुखोदङ्मुखो वापि जपं पूजां समाचरेत् ॥ ४१॥ अक्षमालाविधिं वक्ष्ये शृणुष्वावहितो नृप ॥ ४२॥ साम्राज्यं स्फाटिके स्यात्तु पुत्रजीवे परां श्रियम् । आत्मज्ञानं कुशग्रन्थौ रुद्राक्षः सर्वकामदः ॥ ४३॥ प्रवालैश्च कृता माला सर्वलोकवशप्रदा । मोक्षप्रदा च माला स्यादामलक्याः फलैः कृता ॥ ४४॥ मुक्ताफलैः कृता माला सर्वविद्याप्रदायिनी । माणिक्यरचिता माला त्रैलोकस्य वशंकरी ॥ ४५॥ नीलैर्मरकतैर्वापि कृता शत्रुभयप्रदा । सुवर्णरचिता माला दद्याद्वै महतीं श्रियम् ॥ ४६॥ तथा रौप्यमयी माला कन्यां यच्छति कामिताम् । उक्तानां सर्वकामानां दायिनी पारदैः कृता ॥ ४७॥ अष्टोत्तरशता माला तत्र स्यादुत्तमोत्तमा । शतसंख्योत्तमा माला पञ्चाशन्मध्यमा मता ॥ ४८॥ चतुः पञ्चशती यद्वा अधमा सप्तविंशतिः । अधमा पञ्चविंशत्या यदि स्याच्छतनिर्मिता ॥ ४९॥ पञ्चाशदक्षराण्यत्रानुलोमप्रतिलोमतः । इत्येवं स्थापयेत्स्पष्टं न कस्मैचित्प्रदर्शयेत् ॥ ५०॥ वर्णैर्विन्यस्तया यस्तु क्रियते मालया जपः । एकवारेण तस्यैव पुरश्चर्या कृता भवेत्॥ ५१॥ सव्यपार्ष्णिं गुदे स्थाप्य दक्षिणं च ध्वजोपरि । योनिमुद्राबन्ध एष भवेदासनमुत्तमम् ॥ ५२॥ योनिमुद्रासने स्थित्वा प्रजपेद्यः समाहितः । यं कंचिदपि वा मन्त्रं तस्य स्युः सर्वसिद्धयः ॥ ५३॥ छिन्ना रुद्धाः स्तम्भिताश्च मिलिता मूर्छितास्तथा । सुप्ता मत्ता हीनवीर्या दग्धास्त्रस्तारिपक्षगाः ॥ ५४॥ बाला यौवनमत्तश्च वृद्धा मन्त्राश्च ये मताः । योनिमुद्रासने स्थित्वा मन्त्रानेवंविधान् जपेत् ॥ ५५॥ तत्र सिद्ध्यन्ति ते मन्त्रा नान्यस्य तु कथंचन । ब्राह्मं मुहूर्तमारभ्यामध्याह्नं प्रजपेन्मनुम् ॥ ५६॥ अत ऊर्ध्वं कृते जाप्ये विनाशाय भवेद्ध्रुवम् । पुरश्चर्याविधावेवं सर्वकाम्यफलेष्वपि ॥ ५७॥ नित्ये नैमित्तिके वापि तपश्चर्यासु वा पुनः । सर्वदैव जपः कार्यो न दोषस्तत्र कश्चन ॥ ५८॥ यस्तु रुद्रं जपेन्नित्यं ध्यायमानो ममाकृतिम् । षडक्षरं वा प्रणवं निष्कामो विजितेन्द्रियः ॥ ५९॥ तथाथर्वशिरोमन्त्रं कैवल्यं वा रघूत्तम । स तेनैव च देहेन शिवः संजायते स्वयम् ॥ ६०॥ अधीते शिवगीतां यो नित्यमेतां जितेन्द्रियः । शृणुयाद्वा स मुक्तः स्यात्संसारान्नात्र संशयः ॥ ६१॥ सूत उवाच ॥ एवमुक्त्वा महादेवस्तत्रैवान्तरधीयत । रामः कृतार्थमात्मानममन्यत तथैव सः ॥ ६२॥ एवं मया समासेन शिवगीता समीरिता । एतां यः प्रजपेन्नित्यं शृणुयाद्वा समाहितः ॥ ६३॥ एकाग्रचित्तोयो मर्त्यस्तस्य मुक्तिः करे स्थिता । अतः शृणुध्वं मुनयो नित्यमेतां स्माहिताः ॥ ६४॥ अनायासेन वो मुक्तिर्भविता नात्र संशयः । कायक्लेशो मनःक्षोभो धनहानिर्न चात्मनः ॥ ६५॥ पीडास्ति श्रवणादेव यस्मात्कैवल्यमाप्नुयात् । शिवगीतामतो नित्यं शृणुध्वमृषिसत्तमाः ॥ ६६॥ ऋषय ऊचुः ॥ अद्यप्रभृति नः सूत त्वमाचार्यः पिता गुरुः । अविद्यायाः परं पारं यस्मात्तारयितासि नः ॥ ६७॥ उत्पादकब्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता । तस्मात्सूतात्मज त्वत्तः सत्यं नान्योऽस्ति नो गुरुः ॥ ६८॥ व्यास उवाच ॥ इत्युक्त्वा प्रययुः सर्वे सायंसंध्यामुपासितुम् । स्तुवन्तः सूतपुत्रं ते संतुष्टा गोमतीतटम् ॥ ६९॥ इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे गीताधिकारिनिरूपणं नाम षोडशोऽध्यायः ॥ १६॥ ॥ इति श्रीमच्छिवगीता समाप्ता ॥ Encoded and proofread by Sunder Hatangadi sunderh at hotmail.com

% Text title            : Shiva Gita
% File name             : shivagiitaa.itx
% itxtitle              : shivagItA
% engtitle              : Shiva Gita
% Category              : gItA
% Location              : doc_giitaa
% Sublocation           : giitaa
% Author                : Traditional (Vyasa)
% Language              : Sanskrit
% Subject               : philosophy/hinduism
% Transliterated by     : Sunder Hattangadi (sunderh at hotmail.com)
% Proofread by          : Sunder Hattangadi (sunderh at hotmail.com)
% Description-comments  : From Padma Purana
% Indexextra            : scanned
% Latest update         : Dec. 18, 2009
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP